उमासहस्रनामस्तोत्रम्/सप्तमशतकम्/पञ्चविंशस्तबकः

क्षेत्रमाला (इन्द्रवज्रावृत्तम्)

कन्याकुमारी सुतरां वदान्या
मान्या समस्तैः प्रकृतेरनन्या ।
आक्षेपकं सागरबुद्बुदानां
हासं विधत्तां जगतः सुखाय ॥ २५.१॥

रक्ष स्वचेतो मदमत्सरादेर्-
भिक्षस्व काले तनुरक्षणाय ।
वीक्षस्व रामेशवधूपदाब्जं
मोक्षस्वलाभे यदि तेभिऽलाषः ॥ २५.२॥

लोकस्व दूरीकृतभक्तशोकं
हालास्यनाथेक्षणपुण्यपाकम् ।
भीतिः सखे चेद्भवतः पवित्रं
ज्योतिर्विशेषं जलचारिनेत्रम् ॥ २५.३॥

यो लोकते तामखिलाण्डराज्ञी-
मज्ञानविध्वंसविधानविज्ञाम् ।
अम्बां परां जीवनलिङ्गशक्तिं
भूयः स कायं न भवे लभेत ॥ २५.४॥

बिभ्रत्सहस्रं च मुखानि शक्तो
वक्तुं गुणान् कः कमलालयस्य ।
जन्मापि यत्र प्रभवेज्जनानां
मुक्त्यै मुनीनामपि दुर्लभायै ॥ २५.५॥

व्याघ्राङ्घ्रिवाताशनपूजितस्य
नाट्यस्थलीनायिकया शिवस्य ।
नेत्राध्वभाजा शिवकामया वो
मित्राणि कामाः फलिनो भवन्तु ॥ २५.६॥

आलोकतेऽपीतकुचामयि त्वा-
मालोलचित्तामरुणाचले यः ।
निर्वेदवान् पर्वसुधांशुवक्त्रे
सर्वे वशे तस्य भवन्ति कामाः ॥ २५.७॥

यः कुण्डलीपट्टणराजधानी-
मालोकते कामपि कृत्तमस्ताम् ।
निस्सारमानन्दकथाविहीनं
संसारमेतं स जहाति बुद्ध्या ॥ २५.८॥

दृष्ट्वा वधूमादिपुरीश्वरस्य
यो लोचनारोचकमाधुनोति ।
तस्यान्तरङ्गं धुतसर्वसङ्गं
भूयो भवारोचकमावृणोति ॥ २५.९॥

काञ्ची रमण्याः कुरुतां गृहस्थे
क्वाणैर्मुदं कामपि किङ्किणीनाम् ।
काञ्ची भुवः पुण्यपुरी यतीन्द्र
त्वामम्बिकानामरवैर्धिनोतु ॥ २५.१०॥

श्रीकालहस्तिस्थलदर्शनस्य
कैलासवीक्षां पुनरुक्तिमाहुः ।
ज्ञानं प्रदातुं चरणाश्रितेभ्यो
ज्ञानाम्बिका यत्र निबद्धदीक्षा ॥ २५.११॥

श्रीशैलशृङ्गस्य विलोकनेन
सङ्गेन हीनो भविता मनुष्यः ।
धामास्ति यत्र भ्रमरालकायाः
शान्तभ्रमं तद्भ्रमराम्बिकायाः ॥ २५.१२॥

तीरे विपश्चिद्वर पश्चिमाब्धेर्-
गोकर्णगां लोकय भद्रकर्णीम् ।
बुद्धिं शिवां सर्वमनोरथानां
सिद्धिं च यद्यस्ति मनोऽधिगन्तुम् ॥ २५.१३॥

धाम्नि प्रसिद्धे करवीरनाम्नि
पुण्याभिधानां कृतसन्निधानाम् ।
देवीं परां पश्यति यो विरक्तो
मुक्तेः स पाणिग्रहणाय शक्तः ॥ २५.१४॥

ज्ञाने दृढा ते यदि कापि काङ्क्षा
नानेहसं मित्र मुधा क्षिपेमम् ।
सेवस्व देवीं तुलजापुरस्थां
नैव स्वरूपादितरा किलेयम् ॥ २५.१५॥

गोपालिनीवेषभृतं भजस्व
लीलासखीं तां भुवनेश्वरस्य ।
इष्टं हृदिस्थं तव हस्तगं स्यात्
कष्टं च संसारभवं न भूयः ॥ २५.१६॥

आराध्यते वैतरणीतटस्था
येनेयमम्बा विरजोऽभिधाना ।
आराधितं तेन समस्तमन्यत्
सारो धरायामयमार्यगीतः ॥ २५.१७॥

सङ्गीयमानं स्थलमार्यबृन्दैर्-
बृन्दारकाणां सरितस्तटेऽस्ति ।
यः कालिकां पश्यति कालकेशीं
तत्रास्य कालादपि नैव भीतिः ॥ २५.१८॥

नीलाचलं सिद्धसमूहसेव्यं
लीलानिकेतं प्रवदन्ति यस्याः ।
भद्रा परा काचन गुह्यमुद्रा
कामेश्वरी सा भुवनस्य मूलम् ॥ २५.१९॥

माङ्गल्यगौरीपददर्शनस्य
कर्ता तु भूत्वा सुकृतस्य भर्ता ।
आचारपूतैरधिगम्यमग्र्यं
स्थानं प्रपद्येत यतो न पातः ॥ २५.२०॥

वाराणसी शुभ्रगिरेरनूनं
क्षेत्रं पवित्रं भुवनत्रयेऽपि ।
अर्थे प्रजानां विधृतान्नपात्रा
गौरी स्वयं यत्र विशालनेत्रा ॥ २५.२१॥

बृन्दारकाराधितपादपद्मां
नन्दामिमामिन्दुसमानवक्त्राम् ।
आलोक्य विन्ध्याचलवासिनीं ना
नालोचयेत्संसृतितो भयानि ॥ २५.२२॥

आनन्ददेहामिह मुक्तिसञ्ज्ञां
नारीं परीरब्धुमना मनुष्यः ।
दूतीं वृणोतु प्रमथेश्वरस्य
कान्तामवन्तीपुरनायिकां ताम् ॥ २५.२३॥

यत्राचलच्छिद्रकृता सहाहं
भ्रात्रा मुहुः खेलितवान् वनेषु ।
तं सिद्धदेवर्षिनुतं स्मरामि
कैलासमावासगिरिं जनन्याः ॥ २५.२४॥

पूर्णाऽम्बरे शीतकरेऽधिकारं
बिभ्रत्यगेन्द्रे धवले सलीला ।
क्षेत्रेषु काश्यादिषु गुप्तशक्तिर्-
गौरीन्द्रवज्रासु च सन्निधत्ताम् ॥ २५.२५॥