उमासहस्रनामस्तोत्रम्/सप्तमशतकम्/षड्विंशस्तबकः
अपीतकुचाम्बा (दोधकवृत्तम्)
आगमविन्मतिकैरविणीनां
बोधमजस्रमसौ विदधानः ।
पातु महेशवधूवदनांशो
हासशशी सकलानि कुलानि ॥ २६.१॥
आयतलोचनचुम्बितकर्णा
दानयशोजिततोयदकर्णा ।
शोणनगेशमनः प्रियवर्णा
नाशयताज्जगदार्तिमपर्णा ॥ २६.२॥
वेदतुरङ्गविलोचनभाग्यं
वेदशिरोनिचयैरपि मृग्यम् ।
शोकविदारिसुधाकिरणास्यं
शोणगिरौ समलोकि रहस्यम् ॥ २६.३॥
मुञ्च समस्तमनोरथलाभे
संशयमद्य करामलकाभे ।
दृक्पथमाप नगेन्द्रतनूजा
सोऽहमितः परमन्तरराजा ॥ २६.४॥
शिल्पविदः प्रतिमां प्रविशन्ती
स्वल्पविदां तरणाय चकास्ति ।
शोणधराभृति सम्प्रति लब्धा
हन्त चिरादियमेव ममाम्बा ॥ २६.५॥
भारतभूवलयेऽत्र विशाले
सन्त्वनघानि बहूनि गृहाणि ।
आस्यविगीतसुधाकरबिम्बा
शोणगिरौ रमतेऽत्र मदम्बा ॥ २६.६॥
वारितसंश्रितपातकजाला
वारिधिवीचिनिरङ्कुशलीला ।
वारिजपत्रविडम्बननेत्रा
वारणराजमुखेन सपुत्रा ॥ २६.७॥
आयतवक्रघनासितकेशी
तोयजबाणरिपोर्हृदयेशी ।
काशसुमाच्छयशाः परमैषा
पाशभिदस्तु तवेन्दुविभूषा ॥ २६.८॥
पङ्कजसम्भवपूजितपादा
पङ्कविनाशनपावननामा ।
किङ्करकल्पलता परमेयं
शङ्करनेत्रसुधा शरणं नः ॥ २६.९॥
चञ्चलदृग्विनतामरवल्ली
पञ्चपृषत्कशरासनझिल्ली ।
काञ्चनगर्भमुखप्रणुतेयं
पञ्चमुखप्रमदा शरणं नः ॥ २६.१०॥
अम्ब विधूय भटान्मदनादीन्
नूपुरनादबिभीषिकयैषः ।
हन्त जहार बलेन मनो मे
शोणनगाङ्घ्रिनिवासिनि तेऽङ्घ्रिः ॥ २६.११॥
कर्णपुटे कुरु मुग्ध ममोक्तिं
मुञ्च धनादिषु मानससक्तिम् ।
शोणगिरीन्द्रवधूपदभक्तिं
शीलय शीलय यास्यसि मुक्तिम् ॥ २६.१२॥
जीर्णतरे जरयाऽखिलदेहे
बुद्धिबलं च विलुम्पति मोहे ।
हन्त सवित्रि तपन्मतिरन्ते
सेवितुमिच्छति ना चरणं ते ॥ २६.१३॥
तन्त्रविदो नवयोनि तु चक्रं
शोणधराधररूपमुशन्ति ।
अर्धममुष्य वपुर्मदनारे-
रर्धमगेन्द्रसुते तव गात्रम् ॥ २६.१४॥
अस्तु नगेश्वरनन्दिनि लिङ्गं
तैजसमेतदिहापि तवांशः ।
वीतगुणस्य विना तव योगं
देवि शिवस्य कुतः खलु तेजः ॥ २६.१५॥
स्थापितमूर्तिरियं तव नम्या
पूजयितुं जगदीश्वरि रम्या ।
शोणनगार्धमिदं तव रूपं
कीर्तयितुं नगजे धुतपापम् ॥ २६.१६॥
शोणनगार्धतनोऽनिशमङ्के
धारयसेऽयि गुहं रमणाख्यम् ।
आगतमप्ययि हा मुहुरम्बो-
च्चाटयसे गणपं ननु कस्मात् ॥ २६.१७॥
अङ्कजुषे रमणाय नु दातुं
मानववेषधराय गुहाय ।
शोणनगार्धतनो बहु दुग्धं
मातरपीतकुचेह विभासि ॥ २६.१८॥
पूर्णसमाधिवशात् स्वपिषि त्वं
पीतमपीतकुचेऽम्ब न वेत्सि ।
अङ्कजुषा रमणेन सुतेन
प्रेक्ष्य यथेष्टमुरोरुहदुग्धम् ॥ २६.१९॥
ज्ञानरसाह्वयमम्ब निपीय
स्तन्यमसौ रमणो मुनिराट् ते ।
ज्ञानमयोऽभवदीश्वरि सर्वः
पुष्यति येन तनुं हि तदात्मा ॥ २६.२०॥
प्रीतिपदाय पयोधरकुम्भात्
पार्वति धीमयदुग्धमपीतात् ।
अस्तु गुहाय शिवे बहु दत्तं
किञ्चिदिवेश्वरि धारय मह्यम् ॥ २६.२१॥
प्रौढमिमं यदि वेत्सि तनूजं
शैलसुते मदवारि दधानम् ।
मास्तुपयो वितरानघमन्नं
येन दधानि महेश्वरि शक्तिम् ॥ २६.२२॥
स्वार्जितमेव मया यदि भोज्यं
सम्मद एव ममाखिलमातः ।
आशिषमग्र्यतमामयि दत्त्वा
प्रेषय यानि जयानि धरित्रीम् ॥ २६.२३॥
विद्युति विद्युति वीक्ष्यविलासा
वीक्षितकर्मणि लक्ष्यरहस्या ।
पार्वणचन्द्रमुखी ललिताङ्गी
तैजसलिङ्गसखी शरणं नः ॥ २६.२४॥
मातरपीतकुचेऽरुणशैला-
धीश्वरभामिनि भामहनीये ।
साधु विधाय समर्पयते ते
दोधकमाल्यमिदं गणनाथः ॥ २६.२५॥