ऋग्वेदः खिलसूक्तानि/अध्यायः १
अथ खिलानि
ओम् नमो विष्णवे । अथ खिलेषु सूक्त प्रतीकाद्युक्तम् प्रयोजनम् शतर्च्य् आदीनाम् अधिदैवता लक्षणानि च । ( )
कृतिः प्रकृतिर् आकृतिर् विकृतिस् संकृतिर् अभिकृतिर् उत्कृतिर् इत्य् अशीत्य् अक्षरादीनि चतुर् उत्तराण्य् एव यजूंषि संख्यानुवर्तनादि तुल्यम् ऋषीणाम् च तुल्यानाम् गोत्रम् अनादेशे खिलान्य् अन्तरम् मन्त्रोक्ताअन्य् एव संख्यादीनि सम्भवेत् ॥ ( खिल ई ईन्त्रोद् )
< सम् > तृचम् < शश्वत् > षळूना तार्क्ष्यस् सुपर्णाश्विनम् वै तत् सप्तम्य् आग्नेयी परा ऐन्द्री एकादशी वा नवमी लिङ्गोक्ता देवताष्टम्य् आदि विराड् रूपास् चतस्रो जगत्त्य उरो बृहती < प्र > सप्त ब्राह्म्यो निषद् उपनिषदौ द्वितीया जगती षष्ठी विराट् स्थाना < ज्योतिष्मन्तम् > दश भारद्वाजो ज्योतिष्माम् षष्ठ्य् आद्या लिङ्गोक्त देवताम् आनुष्टुम् नवम्य् अन्त्ये च < कृश > एकादशाश्विनः कृशाद्याष् षड् लिङ्गोक्त देवतानुष्टुभम् < इमानि > सप्तापुनर् दोषाइन्द्र्
आवरुणम् जागतम् < अयम् > षड् रेतागङ्ग्यो < यदा > तृचम् यामुनिः प्रणेता । < यम् > यज्ञ वत्सो < यम् > चतुष्कम् गौरीवीतिर् < इदम् > अष्टौ चक्षुषी < आश्विना > अपदोषष् षष्ठी जगत्य् अत्रानुक्त गोत्रास् सौपर्णाः ॥ ( प् ५३ )
१,१ १ समैक्षिष्योर्ध्व महसादित्येन सहियसा ।
१,१ १ अहम् यशस्विनाम् यशो विश्वा रूपाण्य् आददे ।
१,१ २ उद्यन्न् अद्य वि नो भज पिता पुत्रेभ्यो यथा ।
१,१ २ दीर्घायुत्वस्य हेशिषे तस्य नो धेहि सूर्य ।
१,१ ३ उद्यन्तम् त्वा मित्रमहारोहन्तम् विचक्षण ।
१,१ ३ पश्येम शरदश् शतम् जीवेम शरदश् शतम् ।
१,१ ४ अभि त्यम् मेशम् पुरु हूतम् ऋग्मियम् ।१
१,२ १ शश्वन् नासत्या युवयोर् महित्वम् गावो अर्चन्ति सदम् इत् पुरुक्षू ।
१,२ १ यद् ऊहथुर् अश्विना भुज्युम् अस्तम् अनारम्भणेऽध्वनि तौग्र्यम् अस्तम् ।
१,२ २ यद् अश्वम् श्वेतम् दधतो अभिघ्नन् नासत्या भुज्यू सुमताय पेरवे ।
१,२ २ तम् व्याम् रतिम् विदथेषु विप्रा रेभन्तो दस्राव् अगमन् मनस्युम् ।
१,२ ३ आ नो विपन्यू सवनम् जुषेथाम् आ वाम् हंसास् सुयुजो वहन्तु ।
१,२ ३ युवाम् स्तोमासो जनयो न मर्योशन्तो दस्रा वृषणा सचन्ते । ( प् ५४ )
१,२ ४ आ नो यातम् तृवृता ( त्रिवृता ) सोम पेयम् रथेन द्युक्षा सवनम् मदाय ।
१,२ ४ स्तीर्णम् वाम् बह्रिस् सुषुता मधूनि युक्ता होतारो रथिनास् सुहस्ताः ।
१,२ ५ वासात्यौ चित्रौ जगतो निधानौ द्यावा भूमी शृणुतम् रोदसी मे ।
१,२ ५ ताव् अश्विना रासभाश्वा हवम् मे शुभस्पत्यागतम् सूर्यया सह ।२
१,२ ६ पेर्षस् सन्तु मधुनो घृतस्य तीव्रम् सोमम् हि वपन्तु शुष्मिणः ।
१,२ ६ एवम् तथा युवत्य् अश्विनौ बाहूर्जम् दुहतु मधुना घृतेन ।
१,२ ७ अग्ने मदन्तु यातयस् स्तोमाः प्र णु त्यम् दिवम् यान्ति घर्मम् ।
१,२ ७ चतुर्दशम् त्रिदिवम् युवानम् ओजो मिमातु द्रविणम् सुमेके ।
१,२ ८ हरिम् हिनोमि दयमानो अंशु पुरु मीढर्षभम् जयान् ।
१,२ ८ हर्यश्वम् हरितस् सप्ताश्वम् युक्ता नेमिम् त्रिनाभिम् वरुणम् प्रगाथस् स्वस्तये ।
१,२ ९ सोमो वैष्णवम् महिमानम् ओजस् सप्तर्षयस् सुवीरा नराः प्रीणयन्ति ।
१,२ ९ सौधन्वनासस् सुहस्तास् शमीभिस् त्वष्टम् आङ्गिरसम् ऋभवम् स्वस्तये ।
१,२ १० इहैह ( इहैह ) वो मघवन् निदधामि ध्रुवम् तीव्रम् च तम् हृदियन्तम् बृहस्पतिम् ।
१,२ १० सते दधामि द्रविणम् हविष्मते घर्मश् चित् तप्तः प्रवृजे वहन्ति ।३
१,२ ११ शश्वत् सौपर्णौ विषित स्तुकम् वायसम् विश्व भुजः पथिरक्षी नृ चक्षसौ ।
१,२ ११ इयम् हित्वा दयमानम् पृचद्भिर् माम् वायसो दोषाद् दयमानो अबुबुधत् ।
१,२ १२ तम् एक नेमिम् त्रिवृतम् षोडशारम् शतावारम् विंशति प्रत्यराभिः ।
१,२ १२ अष्टकैष् षड्भिर् विश्व रूपैक पाशम् त्रिमार्ग भेदम् द्वि निमित्तैक मोहम् ।
१,२ १३ सदम् सदम् एकमकम् तस्थुषः पञ्च त्रिंशाद् दश परम् ।
१,२ १३ त्रिंशतम् शिवम् नव गुह्यम् यज्ञम् अष्ट षष्ठम् विदत् ।
१,२ १४ अतिष्ठद् वज्रम् वृषणम् सुवीरम् दधन्वम् देवाम् हरिम् इन्द्र केशम् ।
१,२ १४ आयम् इन्द्रष् षोडशी शर्म यच्छन्तु षड् वर्मिणम् एकम् ध्रुवन् ति साकम् ॥४ ( प् ५५ )
१,३ १ प्र धारा यन्तु मधुनो घृतस्य यद् आविन्दतम् सूर्युस्रियायाम् ।
१,३ १ मित्रा वरुणौ भुवनस्य कारू ता मेऽश्विना जुषताम् सवना ।
१,३ २ सुखम् रथम् शत यावानम् आशुम् प्रातर् यावानम् सुषदम् हिरण्ययम् ।
१,३ २ आतिष्ठद् यत्र दुहिता विवस्वतस् तम् एवार्वाञ्चम् अवसे करामहे ।
१,३ ३ ये वाम् अश्वासो रथिरा विपश्चितो वात ध्राजिषस् सुयुजो घृत श्चुतः ।
१,३ ३ येभिर् यथोप सूर्याम् वरेयम् तेभिर् नो दस्रा वर्धतम् समत्सु ।
१,३ ४ यद् वाम् रेतो अश्विना पोषयित्नु यद् रासभो वध्रिमत्यैस् सुदानू ।
१,३ ४ यस्माज् जज्ञे देव कामस् सुदक्षस् तद् अस्यै दत्तम् भिषजाव् अभिद्यु ।
१,३ ५ यन् नासत्या भेषजम् चित्र भानू येनावथुस् तोक कामाम् उ नु घोषाम् ।
१,३ ५ तद् अस्यै दत्तम् त्रिषु पुंसु वध्वै येनाविन्दतु नयम् सा सुहस्त्यम् ।
१,३ ६ वषड् वाम् दस्राव् अस्मिन् सुते नासत्या होता कृणोतु वेधाः ।
१,३ ६ सिस्रतान् नार्य् ऋत प्रजाता वि पर्वाणि जिहताम् सूतवो ।
१,३ ७ एवा निषच् चोपनिषच् च विप्रा युवाम् रेभत्यौ सयुजा सुपर्ण्यौ ।
१,३ ७ ब्रह्माण्य क्रतुर् विदथेषु शक्रा धत्तम् तयोस् तनयन् तोकम् अग्र्यम् ॥५ ( प् ५७ )
१,४ १ ज्योतिष्मन्तम् केतुमन्तम् त्रिचक्रम् सुखम् रथम् सुषदम् भूरि मायम् ।
१,४ १ चित्रामघा यस्य योगे धि जज्ञे तम् वाम् हुवेऽतिरिक्तम् ( अति रिक्तम् ) पिबध्यै ।
१,४ २ युवम् देवा क्रतुना पूर्व्येण युक्ता रथेन तविषम् यजत्रा ।
१,४ २ आगच्छतम् नासत्या शचीभिर् इदम् तृतीयम् शवनम् पिबाथः ।
१,४ ३ युवाम् देवास् त्रयैकादशासस् सत्या सत्यस्य दधिरे पुरस्तात् ।
१,४ ३ अस्माकम् यज्ञम् सवनम् जुषाणा पातम् सोमम् अश्विना दीद्यग्नी ।
१,४ ४ पनायम् तद् अश्विनाकृतम् वाम् वृषभो दिवो रजसः पृथ्व्याः ।
१,४ ४ सहस्रम् शंसोत ये गविष्ठौ सर्वाम् इत् ताम् उप यातम् पिबध्यै ।
१,४ ५ अयम् वाम् भागो निहितो यजत्रेमा गिरो नासत्योप यातम् ।
१,४ ५ पिबन्तम् सोमम् मधुमन्तम् अश्विना प्र दाश्वांसम् अवतम् शचीभिह् ॥६
१,४ ६ ज्योतिष्मन्तम् सुप्रतीकम् अजस्रेण भानुना दीद्यग्नी ।
१,४ ६ शिवम् प्रजानाम् कृणुष्व मा हिंसीः पुरुषम् जगत् ।
१,४ ७ धाता रातिस् सवितेदम् जुषन्ताम् त्वष्टा यद् दूतो अभवद् विवस्वतः ।
१,४ ७ सम् वाम् अश्विभ्याम् उषसा सजूस् तम् ऊर्वम् गव्यम् महि गृणानेन्द्र ।
१,४ ८ भरद्वाजस्य सुन्वतो यविष्ठा याह्य् अग्ने मधुमत्तमस् सुतः । ( प् ५८ )
१,४ ८ सोमस्य मा तवसो दीध्यानाच्छा कोशम् जनयित्वावतो भुवत् ।
१,४ ९ अग्निः पृथुर् ब्रह्मणस्पतिस् सोमो देवेष्व् आयमत् ।
१,४ ९ इन्द्रस्याधिपत्य मे बृहस्पते हवींसि ते ।
१,४ १० रुचम् ब्राह्म्यम् जनयन्तो देवाग्रे यद् अब्रुवन् ।
१,४ १० यस् त्वेदम् ब्राह्मणो विद्यात् तस्य देवासन् वशे ॥७
१,५ १ कृशस् त्वम् भुवनस् पते पाति देवानाम् अद्भुतः ।
१,५ १ अश्विना पातम् अस्मयू नासत्या तिरो अह्न्यम् ।
१,५ २ त्वम् तम् सुपर्णा भर दिवस् पुत्रा निषेदिरे ।
१,५ २ अग्निः प्रजानाम् अभवज् जातवेदो विचर्षणे ।
१,५ ३ अग्निर् होता विभू वसुर् देवानाम् उत्तमम् यशः ॥
१,५ ३ पुनर् अग्निः प्रजापतिर् वैश्वानरो हिरण्ययः । ( प् ५९ )
१,५ ४ अग्निस् त्राता शिवो भवद् वरूथ्यो विश्वदेव्योः ।
१,५ ४ द्रविणम् पाहि विश्वातस् सोमपाभयम् करः ।
१,५ ५ अग्ने नि जहि मर्माण्य् अरातीनाम् च मर्मणाम् ।
१,५ ५ दीर्घायुत्वस्य हेशिषे तस्य नो धेहि सूर्य ।
१,५ ६ उद्यन्तम् त्वा मित्रमहारोहन्तम् विचक्षण ।
१,५ ६ पश्येम शरदश् शतम् जीवेम शरदश् शतम् ॥८
१,५ ७ कृशम् च्यवानम् ऋषिम् अन्धम् अश्विना जुजुर्वांसम् कृणुथः कर्वरेभिः ।
१,५ ७ अक्षण्वन्तम् स्थूल वपुष्कम् उग्रा पुनर् युवानम् पतिम् इत् कनीनाम् ।
१,५ ८ यो वाम् सोमैर् हविषा यो घृतेन वेदेन यो मनसा वाश शक्रा ।
१,५ ८ स धत्ते रत्नम् द्युमद् इन्द्रवन्तम् पुरु स्पृहम् पृतनाज्यम् सुवीरम् ।
१,५ ९ प्र वाम् नरा सप्तवध्रिर् मनीषा गिरम् हिन्वत् प्रतिवाभ्याम् इदानीम् ।
१,५ ९ वृक्षा समुद्धम् उशना युवानम् अथ तम् कृणुत मा विरप्सिनम् ।
१,५ १० अजोहवीत् सप्तवध्रिस् सुहस्त द्रुणि बद्धो अर्य समानः ककुद्मान् ।
१,५ १० अरूरुजतम् युवम् अस्य वृक्षम् अद्रिम् न वज्री सुवृषायमानः ।
१,५ ११ एका कृशश् चकमानम् अना स्सुहवा राति सूरः ।
१,५ ११ ब्रह्म चक्रे युवयोर् वर्धनानि धत्तम् तस्मै सदम् अराति दब्धिम् ॥९ ( प् ६० )
१,६ १ इमानि वाम् भाग धेयानि सिस्रतेन्द्रा वरुणा प्र महे सुतेषु वाम् ।
१,६ १ यज्ञे यज्ञे हि सवना भुरण्यथो यत् सुन्वते यजमानाय शिक्षथः ।
१,६ २ निष्षिध्वरीर् ओषधीर् आपाभ्याम् इन्द्रा वरुणा महिमानम् आशत ।
१,६ २ या तस्थतू रजसस् पारेऽध्वनो ययोश् शत्रुर् नकिर् आदेवौहते ।
१,६ ३ सत्यम् तद् इन्द्रा वरुणा घृत श्चुतम् मध्वोर्मिम् दुहते सप्त वाणीः ।
१,६ ३ ताभिर् दाश्वांसम् अवतम् शुभस्पती यो गाम् अदब्धो अभिपाति चित्तिभिः ।
१,६ ४ घृत प्रुषस् सौम्या जीर धानवस् सप्त स्वसारस् सदनर्तस्य । ( प् ६१ )
१,६ ४ या ह वाम् इन्द्रा वरुणा घृत श्चुता ताभिर् दक्षम् यजमानाय शिक्षतम् ।
१,६ ५ अवोचाम महते सौभगाय सत्यम् त्वेशाभ्याम् ( त्वेशाभ्याम् ) महिमानम् इन्द्रियम् ।
१,६ ५ अस्मान् स्व् इन्द्रा वरुणा घृत श्चुता त्रिभिस् सप्तेभिर् अवतम् शुभस्पती ।
१,६ ६ इन्द्रा वरुणा यद् ऋषिभ्यो मनीषा वाचो मतिम् श्रुतम् अधत्तम् अग्रे ।
१,६ ६ तानि छन्दांस्य् असृजन्त धीरा यज्ञम् तन्वानास् तपसाभ्य् अपश्यन् ।
१,६ ७ इन्द्रा वरुणा सौमनसम् अदृप्तम् रायस् पोषम् यजमानेषु धत्तम् ।
१,६ ७ प्रजाम् पुष्टिम् रयिम् अस्मासु धत्तम् दीर्घायुत्वाय प्रतिरतम् नायुः ॥१०
१,७ १ अयम् सोमस् सुशम्यद्रि बुध्नः परिष्कृतो मतिभिर् उक्थ शस्तः ।
१,७ १ गोभिश् श्रीतो मत्सरस् साम गीतो मक्षू पर्वाते परि वाम् सुशिप्रा ।
१,७ २ अस्य पाजसः पिबतम् सुतस्य वारेष्ठाव्याः परिपूतय वृष्णः ।
१,७ २ ताव् अश्विना जठरम् आपृणेथाम् अथा मनो वसुधेयाय धत्तम् । ( प् ६२ )
१,७ ३ एह यातम् तन्वा शाशदाना मधूनि नश् चकमानो नु मेधा ।
१,७ ३ वि सुआ ( वि स्वा ) मन्द्रा पुरु रेजमाना युवायती हवते वाम् मनीषा ।
१,७ ४ सुखम् नासत्या रथम् अंशुमन्तम् स्योनम् सुवह्निम् अधितिष्ठतम् युवम् ।
१,७ ४ यम् वाम् वहन्ति हरितो वहिष्ठा शतम् अश्वा यदि वा सप्त देवा ।
१,७ ५ यम् वेनन् तागच्छतम् मानवस्य शार्यातस्य सदनम् शस्यमाना ।
१,७ ५ अबीभयुस् सधमादम् चकानश् च्यवनो देवान् युवयोस् सैषः ।
१,७ ६ आ नो अश्विना त्रिवृता रथेनार्वाञ्चम् रयिम् वहतम् सुवीरम् ।
१,७ ६ सृण्वन्ता वाम् अवसे जोहवीमि वृधे च नो भवतम् वाज सातौ ॥११
१,८ १ यदा युञ्जाथे मघवानम् आशुम् पुरु स्पृहम् पृतनाज्यम् सुवीरम् ।
१,८ १ स्वश्स्वम् दस्रा रथम् आ हवेषु तदा युतीर् येति रसन् तनूनाम् ।
१,८ २ भन्दिष्ठेमे कवयश् चरन्ति भरेषु न ग्रथिता तुर्वशासः ।
१,८ २ वाचम् हिन्वानाः पुरु पेशसम् वा हविष्मती सवने मन्दयध्यै । ( प् ६३ )
१,८ ३ श्रुतम् हवम् तर्पयतम् मखस्युम् कामम् एषाम् आ वहथो हवींसि ।
१,८ ३ अध स्तोतॄन् यजमानम् च पातम् ऊतिभिर् नृपती याभीके ॥१२
१,९ १ यम् गच्छतस् सुतपा देववन्तम् हविष् कृतम् वृषणा रात हव्यम् ।
१,९ १ स पुष्यत्य् अन्नम् शतम् आविर् उक्थ्य मना पिबन् प्रयतम् आदयित्नु ।
१,९ २ य दांसांसि जरिता दुष्टरा वाम् या शंसन्ति जरिताअस् सुतेषु ।
१,९ २ यानीह पुष्यन्तु विधा जनेषु येर् अश्नथो विदथे सोम पेयम् ।
१,९ ३ यद् उशन्ता वृषणा या दधीचे शिरो भिषजा समधत्तम् अर्वाक् ।
१,९ ३ तद् वाम् मती मधुना तम् युवाना वषत् कृतम् भसथो मन्दसाना ।
१,९ ४ मा वोचाथर्वण यद् ब्रवीमि मधु तेऽन्यैर् वीरतरैर् अचित्तम् ।
१,९ ४ यद् अन्व् अशासन् मघवा दधीचम् तद् वाम् अवक्षत् शिरसा हयस्य ।
१,९ ५ यद् आगच्छाद् वीडितो वज्र बाहुर् धत्ते पितृभ्या मधु नो दधीचा ।
१,९ ५ आतिरेयम् दुश्शुते मा वदेति यदा वदत् सा युवयोस् सुकीर्तिः ।
१,९ ६ याभिश् शचीभिर् वृषणा दधीचम् याभिस् तुरम् कावशेयम् मखस्य ।
१,९ ६ याभिर् धियम् जिन्वथाके निपाना ताभिर् नो अवतम् विदथे गभीरा ॥१३ ( प् ६४ )
१,१० १ अयम् सोमो देवया वाम् सुमेधा हृदिस्पृग् याति धिषणाम् मियानः ।
१,१० १ स्वाधिष्ठो हव्यान् मधुनो घृताद् वा नूत्नो वाम् स्तोमो अश्विनाहम् एमि ।
१,१० २ प्र वाम् मही मन्दते देव कामा ययैर् अयासो वयुनानि विश्वा ।
१,१० २ ताव् आश्विना पुरु भुजा सुशस्त्यृषि हिता मन्हतम् विश्वधेनाम् ।
१,१० ३ यो वाम् गोमान् अश्ववान् सूनृतावान् पुरुश्चन्द्र स्पार्हाणि स्पार्हयिष्णुः ।
१,१० ३ यम् जोहवीमि रथिरो गविष्ठौ तम् अह्वे रथम् आ विश्व रूपम् ।
१,१० ४ सुवृद् रथो वाम् वृषणा सुवह्निः पुरु स्पृहो वसुविद् यो वयोधाः ।
१,१० ४ येन वाजान् वहतम् स्पार्हवीरान् उरु श्रियश् शुरुधोश्वांश् च ( शुरुधोश्वांश् च ) माध्वी ॥१४ ( प् ६५ )
१,११ १ इदम् देवा भाग धेयम् पुराणम् यद् आशिरे हृषिता यज्ञियासः ।
१,११ १ एषस्य घर्मः परिपूतर्ग्भिस् तम् बप्सथो रथिरा विद्रवन्ता ।
१,११ २ वृक्णम् शिरो वृषणा यन् मखस्य शिरो भिषजा समधत्तम् अर्वाक् ।
१,११ २ तद् वाम् नरस् सरीरम् चारु चित्रम् सदा गृणन्ति कवयस् सुतेषु ।
१,११ ३ येन देवाघ्नत सम् रपांसि येनासहन्त पृतनादेवीः ।
१,११ ३ येनाभवन्न् अमृतास् सोमधानन् तम् अर्पयतम् शिरसा हयस्य ।
१,११ ४ पुरा विशीर्णा विदथेन देवा नावशिषो अरुन्धत नापि नाकम् ।
१,११ ४ ईजाना बह्वीर् उ समा यदास्य शिरो दत्तम् समधान्वारुहन् स्वः ॥१५
१,११ ५ यद् वाम् मातोपातिष्ठद् उग्रम् सुवृद्रथान् अव्यथेयम् सरण्यूः ।
१,११ ५ तत्र वाम् माध्वी मध्वाहितम् सुनीथम् प्रत्नम् अश्विना मयो भु ।
१,११ ६ युवम् स्त्रिभिश् चितयथो अपि नाकम् युवम् पयांसि शक्वरीषु धत्तम् ।
१,११ ६ युवम् वीरुद्भिस् सृजतम् महीमम् युवम् सर्तवे सृजतम् वि सिन्धून् ।
१,११ ७ युवम् माध्वी मधुभिस् सारघेभिर् युवम् भेषजा स्थो भिषजा सुपाणी ।
१,११ ७ युवम् रथेभी रथिरै स्थोग्रा सुमङ्गलाव् अमीव चातनेभिः ।
१,११ ८ तन् मे दत्तम् चक्षुर् अक्ष्णोर् विचक्षे पश्यामो येन स्वर् इमा दिशश् च ।
१,११ ८ येनाभिख्याय विधवाम शक्रम् दुर्हणाद् वाम् अश्विना शूर सातौ ॥१६ ( प् ६६ )
१,१२ १ आश्विन वहतम् पीवरीस् स्वधाश्वावतीर् दास पत्नीर् ईरवतीः ।
१,१२ १ युवोर् दानासो दिवि नादितेयो युवोः पयांसि रुरुचिरे सुशुक्रा ।
१,१२ २ यद् रेभम् दस्रा विनिगूढम् अप्सु युवायन्तम् वाजयन्तम् ऋबीषात् ।
१,१२ २ उन्निन्यथुर् अश्विना वध्रिम् आशुम् तद् वाम् व्रतम् महयन्त्य् उक्थ शासः ।
१,१२ ३ या वाम् नु शरीरे या पृथिव्याम् या वीरुत्सु ग्रावसु यान्तरिक्षे ।
१,१२ ३ या वीरेषु सूरिषु यापि नाके ताभिर् नश् शर्म यत् शतम् युवाना ।
१,१२ ४ यो वाम् भरित्रा स्तुवतो मघानि प्रयन्त्रीणि द्विषतो बर्हणानि ।
१,१२ ४ त्रात्रीणि शश्वताम् सातपन्ति ताभिर् नश् शर्म यत् शतम् युवाना ॥१७
१,१२ ५ यो वाम् त्रिचक्रस् सुपविस् सुशप्तिस् त्रिवन्धुरः केतुमान् वात रंहाः ।
१,१२ ५ योगे यस्य वितनोत्य् अभीशुम् विभावरीस् सदथो यन् मयो भू । ( प् ६७ )
१,१२ ६ युवम् ऊहथुर् विमदाय जायाम् युवम् वशाम् शयवे धेनुम् अक्रताम् ।
१,१२ ६ युवम् आयुषा तारयतम् प्र बन्धनम् अत्रिम् अमुक्तम् युवम् अंहसो वि ।
१,१२ ७ हवन्तम् मेषान् वृक्ये शिवायै पिता चकारर्षिम् अन्धम् अश्विना ।
१,१२ ७ तस्मिन्न् ऋज्राश्वे चक्षुष्यधत्तम् आविष् कृणुतम् पुनर् अस्य लोकम् ।
१,१२ ८ यद् वाम् चक्षुर् दिवि यत् सुपर्णो येन पश्यथो भुवनान्य् अमर्त्याः ।
१,१२ ८ तन् मे दत्तम् चक्षुषी देव बन्धू नमस्याम् विन्देथ पुरुधा चकानाम् ।ुपप्रयन्तो अध्वरम् ॥१८ ( प् ६८ )