ऋग्वेदप्रातिशाख्य

सम्पाद्यताम्

अथ ऋग्वेदप्रातिशाख्यम्

प्रथमं पटलम्

सम्पाद्यताम्

अथ प्रथमं पटलम्

अष्टौ समानाक्षराण्यादितस्ततश्चत्वारि सन्ध्यक्षराण्युत्तराणि।
एते स्वरा इपरो दीर्घवत्प्लुतोऽनुस्वारो व्यञ्जनं वा स्वरो वा॥१॥

अष्टौ समानाक्षराणि आदितः॥१.१॥
ततः चत्वारि सन्ध्यक्षराणि उत्तराणि॥१.२॥
एते स्वराः॥१.३॥
इपरः दीर्घवत् प्लुतः॥१.४॥
अनुस्वारः व्यञ्जनम् वा स्वरः वा॥१.५॥

सर्वः शेषो व्यञ्जनान्येव तेषामाद्या स्पर्शाः पञ्च ते पञ्चवर्गाः।
चतस्रोऽन्तस्थास्तत उत्तरेऽष्टा ऊष्माणोऽन्त्याः सप्त तेषामघोषाः॥२॥

सर्वः शेषः व्यञ्जनानि एव॥२.१॥
तेषाम् आद्याः स्पर्शाः॥२.२॥
पञ्च ते पञ्चवर्गाः॥२.३॥
चतस्रः अन्तस्थाः ततः॥२.४॥
उत्तरेऽष्टा ऊष्माणः॥२.५॥
अन्त्याः सप्त तेषाम् अघोषाः॥२.६॥

वर्गे वर्गे च प्रथमावघोषौ युग्मौ सोष्माणावनुनासिकोऽन्त्यः।
तस्मादन्यमवसाने तृतीयं गार्ग्य स्पर्शं प्रथमं शाकटायनः॥३॥

वर्गे वर्गे च प्रथमौ अघोषौ॥३.१॥
युग्मौ सोष्माणौ॥३.२॥
अनुनासिकः अन्त्यः॥३.३॥
तस्मात् अन्यम् अवसाने तृतीयम् गार्ग्यः स्पर्शम्॥३.४॥
प्रथमम् शाकटायनः॥३.५॥

ओजा ह्रस्वाः सप्तमान्ता स्वराणाम् अन्ये दीर्घाः उभये त्वक्षराणि।
गुरूणि दीर्घाणि तथेतरेषां संयोगानुस्वारपराणि यानि॥४॥

ओजाः ह्रस्वाः सप्तमान्ताः स्वराणाम्॥४.१॥
अन्ये दीर्घाः॥४.२॥
उभये तु अक्षराणि॥४.३॥
गुरूणि दीर्घाणि॥४.४॥
तथा इतरेषाम् संयोगानुस्वारपराणि यानि॥४.५॥

अनुस्वारो व्यञ्जनं चाक्षराङ्गं स्वरान्तरे व्यञ्जनान्युत्तरस्य।
पूर्वस्यानुस्वारविसर्जनीयौ संयोगादिर्वा च परक्रमे द्वे॥५॥

अनुस्वारः व्यञ्जनम् च अक्षर अङ्गम्॥५.१॥
स्वरान्तरे व्यञ्जनानि उत्तरस्य॥५.२॥
पूर्वस्य अनुस्वार विसर्जनीयौ॥५.३॥
संयोगादिः वा॥५.४॥
च परक्रमे द्वे॥५.५॥

मात्रा ह्रस्वस्तावदवग्रहान्तरं द्वे दीर्घस्तिस्रः प्लुत उच्यते स्वरः ।
अधः स्विदासी३दुपरि स्विदासी३दर्थे प्लुतिर्भीरिव विन्दती ३ त्रिः॥६॥

मात्रा ह्रस्वः॥६.१॥
तावत् अवग्रहान्तरम्॥६.२॥
द्वे दीर्घः॥६.३॥
तिस्रः प्लुत उच्यते स्वरः॥६.४॥
अधः स्विदासी३दुपरि स्विदासी३दर्थे प्लुतिर्भीरिव विन्दती३ त्रिः॥६.५॥

स्वरभक्तिः पूर्वभागक्षराङ्गं द्राघीयसी सार्धमात्रेतरे च ।
अर्धोनान्या रक्तसंज्ञोऽनुनासिकः संयोगस्तु व्यञ्जनसंनिपातः॥७॥

स्वरभक्तिः पूर्वभाक् अक्षर अङ्गम्॥७.१॥
द्राघीयसी सार्धमात्रा॥७.२॥
इतरे च॥७.३॥
अर्धोनान्या॥३५॥
रक्तसंज्ञाः अनुनासिकः॥७.४॥
संयोगः तु व्यञ्जनसंनिपातः॥७.५॥

कण्ठ्योऽकारः प्रथमपञ्चमौ च द्वा ऊष्मणाम् केचिदेता उरस्यौ ।
ऋकारल्कारावथ षष्ठूष्मा जिह्वामूलीयाः प्रथमश्च वर्गः॥८॥

कण्ठ्यः अकारः॥८.१॥
प्रथमपञ्चमौ च द्वौ ऊष्मणाम्॥८.२॥
केचित् एतौ उरस्यौ॥८.३॥
ऋकारल्कारै अथ षष्ठूष्मा जिह्वामूलीयाः प्रथमः च वर्गः॥८.४॥

तालव्यावेकारचकारवर्गाविकारैकारौ यकारः शकारः ।
मूर्धन्यौ षकारटकारवर्गौ दन्तमूलीयस्तु तकारवर्गः॥९॥

तालव्यौ एकारचकारवर्गौ इकार एकारै यकारः शकारः॥९.१॥
मूर्धन्यौ षकारटकारवर्गौ॥९.२॥
दन्तमूलीयः तु तकारवर्गः॥९.३॥

सकाररेफलकाराश्च रेफंबर्स्व्यमेके शेष ओष्ठयोऽपवाद्य ।
नासिक्यान्नासिक्ययमानुस्वारान् इति स्थानान्यत्र यमोपदेशः॥१०॥

सकार-रेफ-लकाराः च॥१०.१॥
रेफम् बर्स्व्यम् एके॥१०.२॥
शेषः ओष्ठयः अपवाद्य नासिक्यान्॥१०.३॥
नासिक्य-यम-अनुस्वारान्॥१०.४॥
इति स्थानानि॥१०.५॥
अत्र यम-उपदेशः॥१०.६॥

जिह्वामूलं तालु चाचार्य आह स्थानं डकारस्य तु वेदमित्रः ।
द्वयोश्चास्य स्वरयोर्मध्यमेत्य संपद्यते स डकारो ळकारः॥११॥

जिह्वामूलम् तालु च आचार्यः आह स्थानम् डकारस्य तु वेदमित्रः ।
द्वयोः च अस्य स्वरयोः मध्यम् एत्य संपद्यते सः डकारः ळकारः॥११॥

ळ्हकारतामेति स एव चास्य ढकारः सन्नूष्मणा संप्रयुक्तः।
इळा साळ्हा चात्र निदर्शनानि विड्वङ्ग इत्येतदवग्रहेण॥१२॥

ळ्हकारताम् एति सः एव च अस्य ढकारः सन् ऊष्मणा संप्रयुक्तः।
इळा साळ्हा च अत्र निदर्शनानि विडउ-अङ्गः इति एतत् अवग्रहेण॥१२॥

न्यायैर्मिश्रानपवादान्प्रतीयात् सर्वशास्त्रार्थं प्रतिकण्ठमुक्तम् ।
स्थानप्रश्लेषोपदेशे स्वराणां ह्रस्वादेशे ह्रस्वदीर्घौ सवर्णौ॥१३॥

न्यायैः मिश्रान् अपवादान् प्रतीयात्॥१३.१॥
सर्व-शास्त्र-अर्थम् प्रतिकण्ठम् उक्तम्॥१३.२॥
स्थान-प्रश्लेष-उपदेशे स्वराणाम् ह्रस्वादेशे ह्रस्वदीर्घौ सवर्णौ॥१३.३॥

असावमुमिति तद्भावमुक्तं यथान्तरं पादवच्चैव प्रैषान् ।
प्राक्चानार्षादितिकरणात्पदान्तास्तद्युक्तानां तेन येऽसंहितानाम्॥१४॥

असौ अमुम् इति तत्-भावम् उक्तम् यथा-अन्तरम्॥१४.१॥
पाद-वत् च एव प्रैषान्॥१४.२॥
प्राक् च अनार्षात् इतिकरणात् पद-अन्तान् सत्-युक्तानाम्॥१४.३॥
तेन ये अ-संहितानाम्॥१४.४॥

सामवशा इति चैवापवादान्। कुर्वन्ति ये संपदं पादवृत्तयोः ।
अप्रत्याम्नाये पदवच्च पद्यान् ऋते नतोपाचरितक्रमस्वरान्॥१५॥

साम-वशाः इति च एव अपवादान्। कुर्वन्ति ये संपदम् पाद-वृत्तयोः॥१५.१॥
अ-प्रति-आम्नाये पद-वत् च पद्यान्॥१५.२॥
ऋते नत-उप-आचरित-क्रम-स्वरान्॥१५.३॥

अष्टावाद्यानवसानेऽप्रगृह्या नाचार्या आहुरनुनासिकान्स्वरान् ।
तत्त्रिमात्रे शाकला दर्शयन्त्याचार्यशास्त्रापरिलोपहेतवः॥१६॥

अष्टौ आद्यान् अवसाने अप्रगृह्याः न आचार्या आहुः अनुनासिकान् स्वरान् ।
तत्-त्रि-मात्रे शाकलाः दर्शयन्ति आचार्यशास्त्र-अपरिलोपहेतवः॥१६॥

ऋकारादयो दश नाभिनः स्वराः पूर्वो नन्ता नतिषु नम्यमुत्तरम् ।
सहोपधोऽरिफित एकवर्णवद्विसर्जनीयः स्वरघोषवत्परः॥१७॥

ऋकार-आदयः दश नाभिनः स्वराः॥१७.१॥
पूर्वः नन्ता नतिषु नम्यम् उत्तरम्॥१७.२॥
सह-उपधः अ-रिफितः एकवर्णवत् विसर्जनीयः स्वर-घोष-वत् परः॥१७.३॥

ओकार आमन्त्रितजः प्रगृह्यः पदं चान्योऽपूर्वपदान्तगश्च ।
षष्ठादयश्च द्विवचोऽन्तभाजस्त्रयो दीर्घाः साप्तमिकौ च पूर्वौ॥१८॥

ओकारः आ-मन्त्रित-जः प्र-गृह्यः॥१८.१॥
पदम् च अन्यः॥१८.२॥
अ-पूर्व-पद-अन्त-गः च॥१८.३॥
षष्ठ आदयः च द्वि-वचः अन्त-भाजः त्रयः दीर्घाः॥१८.४॥
साप्तमिकौ च पूर्वौ॥१८.५॥

अस्मे युष्मे त्वे अमि च प्रगृहया उपोत्तमं नानुदात्तं न पद्यम् ।
उकारश्चेतिकरणेन युक्तो रक्तोऽपृक्तो द्राघितः शाकलेन॥१९॥

अस्मे युष्मे त्वे अमि च प्रगृहयाः॥१९.१॥
उप-उत्तमम् न-अनुदात्तम् न पद्यम्॥१९.२॥
उकारः च इति-करणेन युक्तः रक्तः अ-पृक्तः द्राघितः शाकलेन॥१९.३॥

ऊष्मा रेफी पञ्चमो नाभिपूर्वो महोऽपोवर्जमितरो यथोक्तम् ।
अन्तोदात्तमन्तरक्षार्विपर्यये स्पर्शे चोषः प्रत्यये पूर्वपद्यः॥२०॥

ऊष्मा रेफी पञ्चमः नाभिपूर्वः॥२०.१॥
महः अपः-वर्जम- इतरः यथा-उक्तम्॥२०.२॥
अन्त-उदात्तम् अन्तः॥२०.३॥
अक्षाः विपर्यये॥२०.४॥
स्पर्शे च ऊषः प्रत्यये पूर्व-पद्यः॥२०.५॥

प्रातर्देवं भार्वधराद्युदात्तं करनुदात्तम् अबिभस्तदादः ।
स्तः प्रागाथमेतशे कर्दिवे करपस्करत्सारविपूर्वमस्तः॥२१॥

प्रातः॥२१.१॥
देवम् भाः॥२१.२॥
वधः आदि-उदात्तम्॥२१.३॥
कः अनुदात्तम्॥२१.४॥
अ-बिभः॥२१.५॥
तत्? आदः॥२१.६॥
स्तः प्र-आ-गाथम्॥२१.७॥
एतशे कः॥२१.८॥
दिवे कः॥२१.९॥
अपः कः॥२१.१०॥
अत साः॥२१.११॥
अ-वि-पूर्वम् अस्तः॥२१.१२॥

स्वः स्वरितं न समासाङ्गमुत्तरं स्वरादेशोऽपूर्वपदेष्ववर्महः ।
अनर्धर्चान्ते स्वरघोषवत्परमूधर् न रेफेऽरुषासोऽतृणन्मही॥२२॥

स्वः स्वरितम्॥२२.१॥
न समास-अङ्गम् उत्-तरम्॥२२.२॥
स्वर-आदेशः अ-पूर्व-पदेषु॥२२.३॥
अवः महः॥२२.४॥
अनर्धर्च-अन्ते स्वर-घोषवत् परम् ऊधः॥२२.५॥
न रेफे अरुषासः अतृणत् मही॥२२.६॥

वरवरावरिति चैकपादे व्यपपूर्वाण्यसमासाङ्गयोगे ।
पथ्या मघोनी दिवि चक्षसा मदे पूर्वोऽर्चिषातीतृषामोत्तरेषु न॥२३॥

वः अवः आवः इति च एकपादे वि-अपपूर्वाणि असमास-अङ्गयोगे ।
पथ्या मघोनी दिवि चक्षसा मदे पूर्वः अर्चिषातीतृषाम् उत्तरेषु न॥२३॥

होतः सनितः पोतः नेष्टः सोतः सवितः नेतः त्वष्टः ।
मातः जनितः भ्रातः त्रातः स्थातः जरितः धातः धर्तः॥२४॥

जामातः दुहितः दर्तः प्रशास्तः अवितः पितः ।
दोषावस्तः अवः-पर्तः प्रयत्नः च इङ्ग्यम् उत्तमम्॥२५॥

दीधः अभाः अवः इवः अदः दर्दर्दः अदर्धः अजागः अजीगः ।
वाः अपुनः पुनः अस्प अकः स्पः सस्वः अहः सनुतः सबः अस्वाः॥२६॥

॥इति ऋग्वेदप्रातिशाख्ये प्रथमं पटलम्॥

द्वितीयं पटलम्

सम्पाद्यताम्

अथ द्वितीयं पटलम्

संहिता पदप्रकृतिः पदान्तान्पदादिभिः संदधदेति यत्सा ।
कालाव्यवायेन स्वरान्तरं तु विवृत्तिः सा वा स्वरभक्ति काला॥१॥

संहिता पदप्रकृतिः॥१.१॥
पदान्तान्पदादिभिः संदधदेति यत्सा कालाव्यवायेन॥१.२॥
स्वरान्तरं तु विवृत्तिः॥१.३॥
सा वा स्वरभक्ति काला॥१.४॥

पदान्तादिष्वेव विकारशास्त्रं पदे दृष्टेषु वचनात्प्रतीयात् ।
पदं पदान्तादिवदेकवर्णं प्रश्लिष्टमप्यानुपूर्व्येण संधीन्॥२॥

पदान्तादिष्वेव विकारशास्त्रं पदे दृष्टेषु वचनात्प्रतीयात्॥२.१॥
पदं पदान्तादिवदेकवर्णं प्रश्लिष्टमपि॥२.२॥
आनुपूर्व्येण संधीन्॥२.३॥

एष स्य स च स्वराश्च पूर्वे भवन्ति व्यञ्जनमुत्तरं यदैभ्यः ।
तेऽन्वक्षरसंधयोऽनुलोमाः प्रतिलोमास्तु विपर्यये त एव॥३॥

एष स्य स च स्वराश्च पूर्वे भवन्ति व्यञ्जनमुत्तरं यदैभ्यः ।
तेऽन्वक्षरसंधयोऽनुलोमाः॥३.१॥
प्रतिलोमास्तु विपर्यये त एव॥३.२॥

तत्र प्रथमास्तृतीयभावं प्रतिलोमेषु नियन्ति अथेतरेषु ।
ऊष्मा परिलुप्यते त्रयाणां स्वरवर्जं न तु यत्र तानि पद्याः॥४॥

तत्र प्रथमास्तृतीयभावं प्रतिलोमेषु नियन्ति॥४.१॥
अथेतरेषु। ऊष्मा परिलुप्यते त्रयाणां स्वरवर्जम्॥४.२॥
न तु यत्र तानि पद्याः॥४.३॥

पुरएता तितउना प्रउगं नमउक्तिभिः ।
अन्तःपदं विवृत्तयो ऋतोऽन्याः पदसंधिषु॥५॥

पुरएता तितउना प्रउगं नमउक्तिभिः। अन्तःपदं विवृत्तयः॥५.१॥
अतोऽन्याः पदसंधिषु॥५,२॥

समानाक्षरे सस्थाने दीर्घमेकमुभे स्वरम् ।
इकारोदय एकारमकारः सोदयस्तथा॥६॥

समानाक्षरे सस्थाने दीर्घमेकमुभे स्वरम्॥६,१॥
इकारोदय एकारमकारः सोदयः॥६,२॥
तथा॥६,३॥

उकारोदय ओकारं परेष्वैकारमोजयोः ।
ओकारं युग्मयोरेते प्रश्लिष्टा नाम संधयः॥७॥

उकारोदय ओकारम्॥७,१॥
परेष्वैकारमोजयोः॥७,२॥
ओकारं युग्मयोः॥७,३॥
एते प्रश्लिष्टा नाम संधयः॥७,४॥

समानाक्षरमन्तस्थां स्वामकण्ठ्यं स्वरोदयम् ।
न समानाक्षरे स्वे स्वे ते क्षैप्राः प्राकृतोदयाः॥८॥

समानाक्षरमन्तस्थां स्वामकण्ठ्यं स्वरोदयम्॥८,१॥
न समानाक्षरे स्वे स्वे॥८,२॥
ते क्षैप्राः प्राकृतोदयाः॥८,३॥

विसर्जनीयोऽरिफितो दीर्घपूर्वः स्वरोदयः ।
आकारमुत्तमौ च द्वौ स्वरौ ताः पदवृत्तयः॥९॥

विसर्जनीयोऽरिफितो दीर्घपूर्वः स्वरोदयः । आकारम्॥९,१॥
उत्तमौ च द्वौ स्वरौ॥९,२॥
ताः पदवृत्तयः॥९,३॥

ह्रस्वपूर्वस्तु सोऽकारं पूर्वौ चोपोत्तमात्स्वरौ ।
त उद्ग्राहा दीर्घपरा उद्ग्राहपदवृत्तयः॥१०॥

ह्रस्वपूर्वस्तु सोऽकारम्॥१०,१॥
पूर्वौ चोपोत्तमात्स्वरौ॥१०,२॥
त उद्ग्राहाः॥१०,३॥
दीर्घपरा उद्ग्राहपदवृत्तयः॥१०,४॥

ओष्ठ्ययोन्योर्भुग्नमनोष्ठ्ये वकारोऽन्त्रान्तरागमः ।
ऋकार उदये कण्ठ्यावकारं तदुद्ग्राहवत्॥११॥

उद्ग्राहाणां पूर्वरूपाण्यकारे प्रकृत्या द्वे ओ भवत्येकमाद्यम्।
प्राच्यपञ्जालपदवृत्तयस्ताः पञ्जालानामोष्ठ्यपूर्वा भवन्ति॥१२॥

अथाभिनिहितः संधिरेतैः प्राकृतवैकृतैः ।
एकीभवति पादादिरकारस्तेऽत्र संधिजाः॥१३॥

अन्तःपादमकाराच्चेत्संहितायां लघोर्लघु ।
यकाराद्यक्षरं परं वकाराद्यपि वा भवेत्॥१४॥

अन्याद्यपि तथायुक्तभावोऽन्तोपहितात्सतः ।
अयेऽयोऽवेऽव इत्यन्तैरकारः सर्वथा भवन्॥१५॥

व इत्येतेन चा न प्र क्व चित्रः सवितैव कः ।
पदैरुपहितेनैतेः सर्वैरेवोदयाः परे॥१६॥

व इत्येतेन चा न प्र क्व चित्रः सवितैव कः। पदैरुपहितेनैतेः॥१६,१॥
सर्वैरेवोदयाः परे॥१६,२॥

ऋदादवर्त्रोऽजनयन्ताव्यत्या अभेदयोऽपाष्टिरवन्त्ववीरता ।
अमुमुक्तममतयेऽनशामहा अव त्वचोऽवीरतेऽवांस्यवोऽरथा:॥१७॥

वासोवायोऽभिभुवे कवष्यः संक्रन्दनो धीजवनः स्वधावः ।
उत्सादत ऋतावः सगर्भ्यो हिरण्यशृङ्ग इति चोपधाभिः॥१८॥

येऽरा रायोऽध मेऽधायि नोऽहिरग्नेऽभिदासति ।
जायमानोऽभोऽग्नेऽयं नृतोऽपोंऽहोऽतिपिप्रति॥१९॥

जम्भयन्तोऽहिं मरुतोऽनुभर्त्री यवसेऽविष्यन्वयुनेऽजनिष्ट ।
वृत्रहत्येऽवीः समरेऽतमाना मरुतोऽमदन्नभितोऽनवन्त॥२०॥

ब्रुवतेऽध्वस्तवसेऽवाचि मेऽरपद् दधिरेऽग्ना नहुषोऽस्मत्पुरोऽभिनत् ।
उप तेऽधां वहतेऽयं यमोऽदितिर जनुषोऽया सुवितोऽनु श्रियोऽधित॥२१॥

वपुषेऽनु विशोऽयन्त सन्तोऽवद्यानि खेऽनसः ।
भरन्तोऽवस्यवोऽवोऽस्तु बुध्न्योऽजो मायिनोऽधमः॥२२॥

देवोऽनयत्पुरूवसोऽसुरघ्नो भूतोऽभि श्वेतोऽरुषस्तेन नोऽद्य ।
येऽजामयस्तेऽरदन्नोऽधिवक्ता तेऽवर्धन्त तेऽरुणेभिः सदोऽधि॥२३॥

स्वाध्योऽजनयन्धन्वनोऽभिमातीरग्नेऽप दह मनसोऽधि योऽध्वनः ।
योऽह्यस्तेऽविन्दस्तपसोऽधि न योऽधि पादोऽस्य योऽति ब्राह्मणोऽस्य योऽनयत्॥२४॥

सोऽस्माकं यो द्वेषोभ्योऽन्यकृतेभ्यस् तेभ्योऽकरं पयस्वन्तोऽमृताश्च ।
अन्योऽर्वाकेऽथो इति नोदयेषु पुत्रः पराके च परावतश्च॥२५॥

अन्तःपादं च वयो अन्तरिक्षे वयो अस्याश्रथयो हेतयस्त्रयः ।
वो अन्धसः शयवे अश्विनोभये श्रवो अधि सार्ञ्जयो जामयः पयः॥२६॥

प्रकृत्येतिकरणादौ प्रगृह्याः स्वरेषु चार्ष्यां प्रथमो यथोक्तम् ।
सहोदयास्ताः प्रगृहीतपदाः सर्वत्रैव त्र्यक्षरान्तास्तु नेवे॥२७॥

आर्ष्यामेव संध्ययकारपूर्वो विवृत्तेश्च प्रत्ययः सन्नुकारः ।
ऊकारादौ स्विति पूषेत्यकारे न चेत्तदेकाक्षरतत्रपूर्वम्॥२८॥

श्रद्धा सम्राज्ञी सुशमी स्वधोती पृथुज्रयी पृथिवीषा मनीषा ।
अया निद्रा ज्या प्रपेति स्वराणां मुख्ये परे पञ्चमषष्ठयोश्च॥२९॥

स्वरे पादादा उदये सचेति ष्वन्तं जोषं चर्षणीश्चर्षणिभ्य ।
एकारान्तं मित्रयोरस्मदीवन् नमस्युरित्युपधं चेत्यपृक्तम्॥३०॥

एकारौकारपरौ च कण्ठ्यौ लुशादर्वाग् गोतमे चामिनन्त ।
विभ्वा विधर्ता विपन्या कदा या मातेत्यृकारेऽप्यपादादिभाजि॥३१॥

परुच्छेपे भीषा पथेत्यकार एवा अग्निमत्रिषु सा पलुतोपधा ।
सचादयो या विहिता विवृत्तयः पलुतोपधान्ता अनुनासिकोपधाः॥३२॥

सेदु सास्मिन्सेमभि साभिवेगः सेट्टभवः सोपमा सौषधीरनु ।
सास्मा अरं सोत नः सेन्द्र विश्वा सेति सास्माकमनवद्य सासि॥३३॥

सेदग्ने सेदग्निर्वासिष्ठं सास्माकेभिः सेदुग्रः सेमे ।
सैना सैनं सेमं सोदञ्चं सेमां सोषां सेशे सेदीशे॥३४॥

नू इत्था ते सानो अव्ये वो अस्मे वासौ वेद्यस्याम् ।
धिष्ण्येमे नू अन्यत्रा चित् पादादौ नू इन्द्रोत्यर्वाक्॥३५॥

उदू अयान्रजेषितं धनर्चं शतर्चसं दशोणये दशोण्ये ।
यथोहिषे यथोचिषे दशोणिं स्वरोदयं पिबा इमं रथोळ्ह॥३६॥

वीरास एतन तमू अकृण्वस् ततारेव प्रैषयू रोदसीमे ।
धन्वर्णसः सरपसः सचोत प्रधीव वीळू उत सतवाजौ॥३७॥

अश्विनेव पीवोपवसनानां महो आदित्या उषसामिवेतय ।
स्तोतव अम्बयंच सृजा इयध्यै सचेन्द्र सानो अव्यये स्वधामिता॥३८॥

गोओपशागोऋजीकप्रवादौ मनीषा आ त्वा पृथिवी उत द्यौः ।
मनीषावस्यू रणया इहाव बृहतीइवेति च यथागृहीतम्॥३९॥

योनिमारैगगादारैग् आरैग्दुर्योण आवृणक् ।
इन्त्यासद्रुप आरुपितमनायुधास आसता॥४०॥

अस्त्वासतो निराविध्यद् अभ्यादेवं क आसतः ।
नावृणङ्गकिरादेवो न्याविध्यदेनमायुनक्॥४१॥

अहिहन्नारिणक्पथ आयुक्षातामुदावता ।
रिक्थमारैग्य आयुक्त कुरुश्रवणमावृणि॥४२॥

शुनश्चिच्छेपं निदितं नरा वा शंसं पूषणम् ।
नरा च शंसं दैव्यं ता अनानुपूर्व्यसंहिताः॥४३॥

यतो दीर्घस्ततो दीर्घा विवृत्तयो द्विषंधयस्तूभयतःस्वरस्वराः ।
प्राच्यपञ्जाल उपधानिभोदयाः शाकल्यस्य स्थविरस्ये तरा स्थितिः॥४४॥

॥इति ऋग्वेदप्रातिशाख्ये द्वितीयं पटलम्॥

तृतीयं पटलम्

सम्पाद्यताम्

अथ तृतीयं पटलम्

उदात्तश्चानुदात्तश्च स्वरितश्च त्रयः स्वराः।
आयामविश्रम्भाक्षेपैस् त उच्यन्तेऽक्षराश्रयाः॥१॥
एकाक्षरसमावेशे पूर्वौः स्वरितः स्वरः।
तस्योदात्ततरोदात्तादर्धमात्रार्धमेव वा॥२॥
अनुदात्तः परः शेषः स उदात्तश्रुतिर्न चेत्।
उदात्तं धौच्यते किञ्चित् स्वरितं वाक्षरं परम्॥३॥
उदात्तपूर्वं स्वरितमनुदात्तं पदेऽक्षरम्।
अतोऽन्यत्स्वरितं सवारं जात्यमाचक्षते पदे॥४॥
उभाभ्यां तु परं विद्यात् ताभ्यामुदात्तमक्षरम्।
अनेकमप्यनुदात्तं न चेत्पूर्वं तथागतात्॥५॥
उदात्तवत्येकीभावः उदात्तं संध्यमक्षरम्।
अनुदात्तोदये पुनः स्वरितं स्वरितोपधे॥६॥
इकारयोश्च प्रश्लेषे क्षौप्राभिनिहितेषु च।
उदात्तपूर्वरूपेषु शाकल्यस्यैवमाचरेत्॥७॥
माण्डूकेयस्य सर्वेषु प्रश्लिष्टेषु तथा स्मरेत्।
इत्येकीभाविनां धर्माः परैः प्रथमभाविनः॥८॥
उदात्तपूर्वं नियतं विवृत्त्या व्यञ्जनेन वा।
स्वर्यतेऽन्तर्हितं न चेदुदात्तस्वरितोदयम्॥९॥
वैवृत्ततैरोव्यञ्जनौ क्षैप्राभिनिहितौ च तान्।
प्रश्लिष्टं च यथासंधि स्वारानाचक्षते पृथक्॥१०॥
स्वरितादनुदात्तानां परेषां प्रचयः स्वरः।
उदात्तश्रुतितां यानत्येकं द्वे वा बहूनि वा॥११॥
केचित्वेकमनेकं वा नियच्छन्त्यन्ततोऽक्षरम्।
आ वा शेषान्नियुक्तं तूदात्तस्वरितोदयम्॥१२॥
नियमं कारणदेके प्रचयस्वरधर्मवत्।
प्रचयस्वर आचारः शाकल्यान्यतरेययोः॥१३॥
परिग्रहे त्वनार्षान्तात तेन वैकाक्षरीकृतात्।
परेषां न्यासमाचारं व्याळिस्तौ चेत्स्वरौ परौ॥१४॥
यथा संधीयमानानामनेकीभवतां स्वरः।
उपदिष्टस्तथा विद्यादक्षराणामवग्रहे॥१५॥
पद्यादीस्तु द्व्युदात्तानामसंहितवदुत्तरान्।
जात्यवद्वा तथा वान्तौ तनू शचीति पूर्वयोः॥१६॥
त्रिमात्रयोरुत्तरयोरन्त्यापि प्रचयस्वरे।
मात्रा न्यस्ततरैकेषाम् उभे व्याळिः समस्वरे॥१७॥
असंदिग्धान्स्वरान्ब्रूयाद् अविकृष्टानकम्पितान्।
स्वरितं नातिनिर्हण्यात् पूर्वौ नातिविवर्तयेत्॥१८॥
जात्योऽभिनिहितश्चैव क्षौप्रः प्रश्लिष्ट एव च।
एते स्वाराः प्रकम्पन्ते यत्रोच्चस्वरितोदयाः॥१९॥

॥इति ऋग्वेदप्रातिशाख्ये तृतीयं पटलम्॥

संबंधित कड़ियाँ

सम्पाद्यताम्

बाहरी कडियाँ

सम्पाद्यताम्
"https://sa.wikisource.org/w/index.php?title=ऋग्वेदप्रातिशाख्य&oldid=17208" इत्यस्माद् प्रतिप्राप्तम्