ऋग्वेदाङ्गज्योतिषं सुधाकरभाष्यसहितम्
श्रीरामं सीतया सार्धं रत्नसिंहासनस्थितम्।
नत्वा कुरु मनः कार्यं सफलं सकलं किल॥
निर्विघ्नार्थमादौ मङ्गलमाचरति
पञ्चसंवत्सरमय-युगाध्यक्षं प्रजापतिम्।
दिनर्त्त्वयनमासाङ्गं प्रणम्य शिरसा शुचिः॥1॥
अस्य भाष्यं याजुषज्यौतिषप्रथमश्लोकवदिति स्फुटम्॥1॥
प्रणम्य शिरसा कालमभिवाद्य सरस्वतीम्।
कालज्ञानं प्रवक्ष्यामि लगधस्य महात्मनः॥2॥
शिरसा कालं कालपुरुषं रविं प्रणम्य सरस्वतीमभिवाद्य अभिवन्द्य लगधस्य महात्मनो महर्षिः कालज्ञानमहं शुचिः प्रवक्ष्यामि वच्मीति। लगधः कश्चित् प्राचीनो महर्षिस्तेन पञ्चवर्षात्मके युगे यथा कालानां रविचन्द्रसावनदिनादीनां ज्ञानं कृतं तथा तदानयनमहं शुचिर्वच्मीत्यर्थः॥2॥
इदानीं किं ब्रवीमीत्याह।
ज्योतिषामयनं कृत्स्नं प्रवक्ष्याम्यनुपूर्वशः।
विप्राणां सम्मतं लोके यज्ञकालार्थसिद्धये॥3॥
ज्योतिषां सूर्यचन्द्रनक्षत्राणामयनं चलनं कृत्स्नं सकलं विप्राणां ज्योतिर्विदां सम्मतं स्वीकृतमनुपूर्वशो यथाक्रमं लोके संसारे यज्ञकालार्थसिद्धये वक्ष्यामीति स्फुटम्। याजुषात् किञ्चित् पाठभेदः॥3॥
इदानीं पर्वगणानयनमाह।
निरेकं द्वादशाभ्यस्त द्विगुणं गतसंयुतम्।
षष्ट्या षष्ट्या युतं द्वाभ्यां पर्वणां राशिरुच्यते॥4॥
याजुषत्रयोदशश्लोकोऽयमतस्तदेव भाष्यादिकं स्फुटम्॥4॥
इदानीं युगादिमाह।
स्वराक्रमेते सोमार्कौ यदा साकं सवासवौ।
स्यात् तदादियुगं माघस्तपः शुल्कोऽयनं ह्युदक्॥5॥
याजुषस्य षष्ठश्लोकोऽयमतस्तद्भाष्यमेव द्रष्टव्यम्॥5॥
इदानीमयनयोरादिमाह।
प्रपद्येते श्रविष्ठादौ सूर्याचन्द्रमसावुदक्।
सार्पार्धे दक्षिणाऽर्कस्य माघश्रावणयोः सदा॥6॥
याजुषसप्तमश्लोकेन सर्वं स्फुटमिति॥6॥
इदानीं दिनरात्रिमानमाह।
घर्मवृद्धिरपां प्रस्थः क्षपा हास उदग्गतौ।
दक्षिणेतौ विपर्यासः षण्मुहूर्त्त्ययनेन तु॥7॥
याजुषाष्टमश्लोकेन भाष्यादिकं स्फुटम्॥7॥
इदानीमयनाद्यमाह।
प्रथमं सप्तमं चाहुरयनाद्यं त्रयोदशम्।
चतुर्थं दशमं चैव द्विर्युग्मं बहुलेऽप्यृतौ॥8॥
याजुषनवमश्लोकभाष्यादिना स्फुटम्॥8॥
इदानीमयनादिनक्षत्रदेवता ऋतुभानयनं चाह।
वसुस्त्वष्टा भवोऽजश्च मित्रः सर्पोऽश्विनौ जलम्।
अर्यमा कोऽयनाद्याः स्युरर्धपञ्चमभस्त्वृतुः॥9॥
याजुषदशमश्लोकभाष्यादिना सर्वं स्फुटम्॥9॥
इदानीमभीष्टपर्वणि चन्द्रभांशानयनमाह।
भांशाः स्युरिष्टकाः कार्याः पक्षा द्वादशकोद्गताः।
एकादशगुणाश्चेन्दोः शुक्लेऽर्धं चैन्दवा यदि॥10॥
याजुषपञ्चदशश्लोकभाष्यादिना सर्वं स्फुटम्॥10॥
इदानीं पर्वणि भांशकलानयनमाह।
कार्या भांशाष्टकास्थाने कला एकान्नविंशतिः।
ऊनस्थाने द्विसप्ततिमावपेदिनसंयुताम्॥11॥
याजुषैकोनविंशश्लोकभाष्यादिना सर्वं स्फुटम्॥11॥
इदानीं नक्षत्रसंबन्धिभूदिनान्याह।
त्र्यंशो भशेषो दिवसस्य भाग-
श्चतुर्दशस्याप्यपनीय भिन्नम्।
भार्धेऽधिके वाऽल्पगते परोऽशो
द्यावुक्तमेतन्नवकैर्भवेद्यः॥12॥
याजुषसप्तविंशश्लोकभाष्यदिना सर्वं स्फुटम्॥12॥
इदानीं तिथिनक्षत्रे संस्कारविशेषमाह।
पक्षात् पञ्चदशाच्चोर्ध्वं तद्भुक्तमिति निर्दिशेत्।
नवभिस्तूदगतोऽशः स्याद्युक्तांशो द्व्यद्रिकेन तु॥13॥
पक्षात् पञ्चदशात् पञ्चदशतिथ्यात्मकादूर्ध्वं शुक्लपक्षावसाने इत्यर्थः। याजुषविंशश्लोकप्रकारेण योऽशस्तिथिभांशः समागतः स नवभिरंशैरुद्गतो वर्धनीयस्तदा युक्तांशो वास्तवभांशः स्यात्। तद्भांशमानं च भुक्तमिति निर्दिशेत् कथयेद्गणक इति शेषः। यदि नक्षत्रवशेन सावनदिनमपेक्षितं तदा तु द्व्यद्रिकेन द्युना एकेन कुदिनेन तथाऽद्रिकेन सप्तकलामितेन प्रतिनक्षत्रसंबन्धिकुदिनं ज्ञेयमिति। अत्र याजुषविंशश्लोकत्रुटिर्वा प्रसिद्धत्वादत्र स श्लोक उपेक्षित आचार्येण।
अत्रोपपत्तिः ससप्तैकमिति याजुषैकोनचत्वारिंशश्लोकोपपत्त्या तथा "नवकैरुद्गतोऽशः स्याद्युक्तः सप्तगुणो भवेत्"- इति याजुषषोडशश्लोकभाष्यादिना स्फुटेति॥13॥
इदानीं लाघवेन नक्षत्रनामान्याह।
जौ द्रा गः खे श्वे ही रो षा -
श्चिन्मूषक्ण्यः सू मा धा णः।
रो मृ (म्रे) घाः स्वापो जः कृ ष्यो
ह ज्येष्ठा इत्यृक्षा लिङ्गैः॥14॥
याजुषाष्टादशश्लोकभाष्यादिना सर्वं स्फुटम्॥14॥
इदानीं भांशतो नक्षत्रानयनं पर्वणि विशेषं चाह।
जावाद्यंशैः समं विद्यात् पूर्वार्धे पर्व तूत्तरे।
भादानं स्याच्चतुर्दश्यां द्विभागेभ्योऽधिके यदि॥15॥
याजुषसप्तदशश्लोकभाष्यादिना स्फुटम्॥15॥
इदानीं नाडिकादिपरिभाषा आह।
कला दश च विंशा स्याद् द्वे मुहूर्त्तस्य नाडिके।
तत्त्रिंशद् द्यु कलानां तु षट्शती त्र्यधिका भवेत्॥16॥
दशकला विंशा च एककलाविंशतिभागाधिका इत्यर्थः। शेषं याजुषाष्टत्रिंशश्लोकभाष्येण स्फुटम्॥16॥
पुनः परिभाषान्तरमाह।
नाडिके द्वे मुहूर्त्तस्तु पञ्चाशत्पलमाढकम्।
आढकात् कुम्भिका द्रोणः कुडवैर्वर्धते त्रिभिः॥17॥
द्वे नाडिके एको मुहूर्त्तो भवति। आढकं तु पञ्चाशत्पलं भवति। आढकात् प्रसिद्धप्राचीनपरिभाषया कुम्भिका घटिका ज्ञेया। द्रोणश्च कुम्भिकातस्त्रिभिः कुडवैर्वर्धतेऽर्थात् कुम्भिकाप्रमाणात् त्रिभिः कुडवैरधिकं द्रोणप्रमाणं भवति। अतो द्रोणस्त्रिभिः कुडवैर्हीनो घटिका वा नाडिका भवतीति याजुषैकोनचत्वारिंशश्लोकभाष्येण सर्वं स्फुटम्॥17॥
इदानीं चन्द्रसूर्यैकनक्षत्रे भूदिनान्याह।
ससप्तैकं भयुक् सोमः सूर्यो द्यूनि त्रयोदश।
नवमानि च पञ्चाह्नः काष्ठा पञ्चाक्षरा स्मृता॥18॥
याजुषैकोनचत्वारिंशश्लोकभाष्यादिना स्फुटम्॥18॥
इदानीं लग्नानयनं चन्द्रर्त्तुसाधनं चाह।
श्रविष्ठाभ्यो गणाभ्यस्तान् प्रागविलग्नान् विनिर्दिशेत्।
स्वार्क्षान्मासान् षडभ्यस्तान् विद्याच्चान्द्रमसानृतून्॥19॥
गणो भगणः सप्तविंशतिस्तेन श्रविष्ठोदयतो ये इष्टकालभगास्तेऽभ्यस्ता गुणनीयास्तान् भांशान् श्रविष्ठाभ्यो धनिष्ठाभ्यो गणयित्वा प्राक् प्राग्दिशि विलग्नान् भांशान् विनिर्दिशेत् कथयेद्गणक इति शेषः। स्वार्क्षान् स्वानाक्षत्रान् मासानेव षडभ्यस्तान् षड्गुणितान् चान्द्रमसान् चन्द्रसम्बन्धिनो गणकऋतून् विद्याज्जानीयादिति।
अत्रोपपत्तिः। अत्रैकस्य नक्षत्रस्य चतुर्विंशत्यधिकशतभागाः कृतास्तेऽशा नक्षत्रांशा वा भांशा उच्यन्ते। एवं भदिनस्यापि चतर्विंशत्यधिकशतमिताभागास्ते भदिनभागांशाः कथ्यन्ते। श्रविष्ठातो नाक्षत्रा ये इष्टकालभवा अंशा भागास्त एवेष्टकालांशा ज्ञेयाः। एकस्मिन् भदिने वा चतुर्विंशत्यधिकशतसमेषु भदिनभागेषु भचक्रैकभ्रमणेन प्राग्दिशि सर्वेषां नक्षत्राणां वा 27×124 भांशानामुदयोऽयोऽनुपातो यदि 124 भदिनभागेषु 27×124 नक्षत्रभागानामुदयास्तदेष्टभदिनभागेषु किं लब्धाः श्रविष्ठातो भांशाइभदिभां= 27×इभदिभां। अत उपपन्नं लग्नानयनम्। अत्र बार्हस्पत्यादीनां व्याख्यानं न साधु। कुत्रापि-अभ्यस्तपदेन योगो न गृह्यत इति। चन्द्रैकभगणकालो हि नक्षत्रमास इति याजुषैकत्रिंशश्लोकेन स्फुटम्। एकस्मिन् चन्द्रभगणकाले च तत्षड्ऋतवोऽतो नक्षत्रमासाः षड्गुणास्तदृतवो भवन्तीति सर्वं निरवद्यम्॥19॥
इदानीं तिथिमानमाह।
अतीतपर्वभागेभ्यः शोधयेद्द्विगुणां तिथिम्।
तेषु मण्डलभागेषु तिथिमिष्टां गतो रविः॥20॥
याजुषद्वाविंशश्लोकभाष्यादिना स्फुटम्॥20॥
इदानीमिष्टतिथिसमे नक्षत्रे भकला आनयति।
याः पर्वभादानकलास्तासु सप्तगुणां तिथिम्।
प्रक्षिपेत् तत्समूहं तु विद्याद्भादानिकाः कलाः॥21॥
याजुषैकविंशश्लोकभाष्यादिना सर्वं स्फुटम्। अत्र किञ्चित्पाठभेदो नार्थान्तरकर इति॥21॥
इदानीं दिनमानमाह।
यदुत्तरस्यायनतो गतं स्या -
च्छेषं तु यद्दक्षिणतोऽयनस्य।
तदेकषष्ट्या द्विगुणं विभक्तं
सद्वादशं स्याद्दिवसप्रमाणम्॥22॥
याजुषचत्वारिंशश्लोकभाष्यादिना सर्वं स्फुटम्॥22॥
इदानीमृतुशेषमधिशेषं वाऽऽह।
यदर्धं दिनभागानां सदा पर्वणि पर्वणि।
ऋतुशेषं तु तद्विद्यात् संख्यया सह पर्वणाम्॥23॥
याजुषैकच्त्वारिंशश्लोकभाष्यादिना सर्वं स्फुटम्॥23॥
इदानीं बेधोपायमाह।
इत्युपायसमुद्देशो भूयोऽप्येवं प्रकल्पयेत्।
ज्ञेयराशिं गताभ्यस्तं विभजेज्ज्ञानराशिना॥24॥
याजुषद्विचत्वारिंशश्लोकभाष्यादिना सर्वं स्फुटम्॥24॥
इदानीं नक्षत्रदेवता आह।
अग्निः प्रजापतिः सोमो रुद्रोऽदितिबृहस्पती।
सर्पाश्च पितरश्चैव भगश्चैवार्यमाऽपि च॥25॥
सविता त्वष्ठाऽथ वायुश्चेन्द्राग्नी मित्र एव च।
इन्द्रो निऋतिरापो वै विश्वेदेवास्तथैव च॥26॥
विष्णुर्वसवो वरुणोऽज एकपात् तथैव च।
अहिर्बुध्न्यस्तथा पूषा अश्विनौ यम एव च॥27॥
नक्षत्रदेवता एता एताभिर्यज्ञकर्मणि।
यजमानस्य शास्त्रज्ञैर्नाम नक्षत्रजं स्मृतम्॥28॥
याजुषस्य 32-34 श्लोकभाष्येण सर्वं स्फुटम् ॥25-28॥
इदानीमुपसंहारमाह।
इत्येतन्मासवर्षाणां मुहूर्त्तोदयपर्वणाम्।
दिनर्त्त्वयनमासानां व्याख्यानं लगधोऽब्रवीत्॥29॥
याजुषोपन्तिमश्लोकभाष्येण स्फुटम्॥29॥
इदानीं फलस्तुतिमाह।
सोमसूर्यस्तृचरितं लोकं लोके च सन्ततिम्।
सोमसूर्यस्तृचरितं विद्वान वेद विदश्नुते॥30॥
याजुषत्रिचत्वारिंशश्लोकभाष्येण स्फुटम्। अत्र पूर्वात्तरार्धयोर्वैपरीत्यं लेखकदोषत इति स्पष्टम्॥30॥
इदानीमिष्टविषुवति तिथ्यानयनमाह।
विषुवत् तद्गुणं द्वाभ्यां रूपहीनं तु षड्गुणम्।
यल्लब्धं तानि पर्वाणि तदर्धं सा तिथिर्भवेत्॥31॥
याजुषत्रयोविंशश्लोकभाष्यादिना सर्वं स्फुटम्। अत्र किञ्चित्पाठभेदस्तदर्थस्यैव दातेति न दोषाय॥31॥
इदानीं कस्य युगस्य कालज्ञानमित्यशङ्क्याह।
माघशुक्लप्रवृत्तस्य पौषकृष्णसमापिनः।
युगस्य पञ्चवर्षस्य कालज्ञानं प्रचक्षते॥32॥
याजुषपञ्चमश्लोकभाष्येण स्फुटम्। अत्र किञ्चित्पाठभेदो न दोषायेति॥32॥
इदानीं दशसु विषुवत्सु तिथीनाह।
तृतीयायां नवम्यां च पौर्णमास्यां त्रिकद्विके।
द्वादश्यां विषुवान् प्रोक्तो द्वादश्यां दशमं भवेत्॥33॥
31 श्लोकोक्तक्रियाया उदाहरणरूपोऽयं श्लोकः। यथा यदि विषुवत्=1। तदा तदुक्तप्रकारेण सपर्वतिथिमानम्।
=6(2×1-1) प+(2×1-1) ति=6 पर्वाणि+3 तिथयः। पर्वणां प्रयोजनभावात् तृतीया तिथिरेव पठिता। एवमन्यास्तिथयः समायान्ति। अतस्तृतीयायां प्रथमो नवम्यां द्वितीयः पौर्णामास्यां तृतीयस्त्रिकद्विके षष्ठयां चतुर्थो द्वादश्यां पञ्चमश्च विषुवान् प्रोक्तआचार्यैरिति शेषः। एवं पुनस्तृतीयादावन्यानि विषुवन्ति भूत्वा द्वादश्यां तिथौ दशमं विषुवद्भवेदिति। अत्र बार्हस्पत्यादिव्याख्यानं न रूचिकरं तथात्र "तृतीयां नवमीं चैव पौर्णमासीं त्रयोदशीम्"-इत्यादिपाठोऽपि न साधुरिति॥33॥
इदानीं कदा चतुर्दश्यां यज्ञार्थमुपवासः कार्य इति कथयति।
चतुर्दशीमुपवसथस्तथा भवे -
द्यथोदितो दिवसमुपैति चन्द्रमाः।
यथोदितश्चन्द्रमाश्चतुर्दशीं दिवसमुपैति तथोपवसथो भवति। अत्रैतदुक्तं भवति। यथा शुक्लद्वितीयादेः क्रमेणोदितश्चन्द्रश्चतुर्दशदिनं प्राप्नोति तथा सा चतुर्दशी यज्ञार्थं वेदोक्तविधिनोपवसथो यागपूर्वदिवसो भवति। अत्र मन्मते श्लोकोत्तरार्धस्य त्रुटिः। अत्र परम्परात उत्तरार्धस्यानुष्टुप्छन्दोऽर्धेन पूर्त्तिरिति न युक्तं छन्दसोर्भेदादिति सुज्ञैर्भृशं विचिन्त्यमिति।
इदानीं द्वितीयवर्षप्रवेशकालमाह।
माघशुक्लाह्निको भुङ्क्ते श्रविष्ठायां च वार्षिकीम्॥34॥
माघशुक्लाह्निको द्वितीयमाघशुक्लप्रतिपत्तिथावाह्निकः कर्मकर्त्ता श्रविष्ठायां धनिष्ठायां सर्वां वार्षिकीमेकवर्षसंबन्धिना यज्ञक्रियां भुङ्क्तेऽश्नुते। तस्माद्दिनादन्यवर्षारम्भोऽतो द्वितीयवर्षाह्निकक्रियारम्भो भवतीत्यर्थः। अत्रापि मन्मते पूर्वार्धश्लोकस्य त्रुटिरिति वैदिकैर्भृशं विचिन्त्यमिति॥34॥
इदानीं गणितप्रशंसामाह।
यथा शिखा मयूराणां नागानां मणयो यथा।
तद्वद्वेदाङ्गशास्त्राणां ज्यौतिषं मूर्धनि स्थितम्॥35॥
याजुषचतुर्थश्लोकभाष्येण स्फुटम्। अत्र 'गणितं' स्थाने 'ज्योतिषम्' इति पाठो न विशेषार्थप्रद इति॥35॥
इदानीं ज्यौतिषस्य वेदाङ्गत्वे सद्युक्तिमाह।
वेदा हि यज्ञार्थमभिप्रवृत्ताः
कालानुपूर्वा विहिताश्च यज्ञाः।
तस्मादिदं कालविधानशास्त्रं
यो ज्यौतिषं वेद स वेद यज्ञान्॥36॥
याजुषतृतीयश्लोकभाष्येण सर्वं स्फुटम्॥36॥
गुणरसाङ्कधरामितवत्सरेऽकृत निरीक्ष्य मतान्तरसंग्रहम्।
असिततपौषदलाद्यसिते वरं रघुवरस्य बलेन सुधाकरः॥
इति सुधाकरभाष्यसहितमार्चज्यौतिषं समाप्तम्।
श्रीमत् सुधाकरभाष्ये झोपाख्यश्रीमुरलीधरविरचितं लघुविवरणम्
सम्पाद्यताम्
॥श्रीगणेशाय नमः॥
श्रीमिथिलायै नमः
श्रीमद्गुरुरचित-याजुषार्चज्यौतिशवेदाङ्ग-भाष्योपरि लधुविवरणम्।
श्रीमद्द्विवेदिगुरुवर्यपदारविन्दसच्चिन्तनस्फुरितबोधलवः करोति।
झोपाख्य-चानन-सुतो मुरलीधरोऽस्य भाष्यस्य तद्विवरणं लघु-संशयघ्नम्॥1॥
अस्तीहास्मिन् सत्पथारूढे विमूढगूढे 'सुधाकर-भाष्ये' प्राचीनरीति वमुखानां ज्यौतिषसिद्धान्तगहनगोलगणितवञ्चितानां जनानां प्रायोवृथा संशयावसर इति सप्ताधिकैकोनविंशति-1907तमख्रीष्टाब्दस्य 'मार्च'-मासीय-'हिन्दुस्तान-रिव्यू'नाम्नो मासिकपत्रस्य कस्यचिदङ्गल भाषामयस्य क्रोडीकृत-बार्हस्पत्य-लेखाडम्बरस्यावलोकनतो व्यर्थगुरुनिन्दां सोढुमदक्षैरस्मद्देशीयमैथिलवृन्दैः प्रकाशितायाश्चिकित्साया निश्चित्य तल्लघुभाष्यविवरणनिर्माणमावश्यकमतो ममोद्यमः स्तोकोऽपि सहृदयानां तद्भाष्यरसिकानां मनोमोदकायैवातः प्रथमं ताव्दयाजुषे सुधाकरभाष्ये तदाह।
(1) श्लोके 'पञ्चसंवत्सरमयम्'-इति पाठे सोमाकरेण रक्षिते व्याख्यातेऽपि तत्पदस्य युगे सम्बन्धात् तद्युगाध्यक्षं प्रजापतिं प्रणम्येति विशेषणं वरीयोऽतो गुरुशोधितः पाठ एव शोभनः। अनेके ऋषयस्तत्र शुचि-नामा कश्चिद्ऋषिरिह का नाम शङ्का। मन्मते शुचिभ्रयस्यैव लघुनाम शुचिरिति। द्रष्टव्यं गोत्रप्रवरनिबन्धकदम्बकम्।
(4) श्लोकानन्तरं 'ये बृहस्पतिना' इत्यादि पद्येन पञ्चसंवत्सरात्मके युगे संवत्सरानयनं यत् कृतमिह बृहस्पतिरिदानीं कं राशिमाश्रित्य वर्त्तत इत्यवगमाय ज्यौतिषवेदाङ्गे न कश्चित् प्रकारोऽस्त्यत 'इदं पद्यं क्षेपक' मित्यत्र प्रायो न कस्यापि संशयः।
(6) श्लोके 'य एव माघः स एव तपः' इत्यत्र तप इति युगपदानुरोधतो नपुंसकम्। तस्य माघमासज्ञापनं सोमाकरभाष्यानुकूलम्। "तपा माघेऽथ फाल्गुने" इति लिङ्गानुशासनमप्यनुशास्ति।
तत्र बिम्बीयसूर्यचन्द्रधनिष्ठायुतितो ज्यौतिषवेदाङ्गसमयकल्पनं वस्तुतो जल्पनमिव। क्रान्तिवृत्तस्य समानसप्तविंशतिभागानां नक्षत्रकल्पनादिहेति।
(7) श्लोकोपपत्तौ ये भगणादयो गृहीतास्ते तु पञ्चसिद्धान्तिकाप्रकाशिकायां गुरुवरैर्लिखिता एव। अतोऽन्यत् सर्वं ज्योतिर्विदां सुस्पष्टमिह मूढकाठिन्यमास्ताम्।
(8) श्लोके 'तन्नाडिकायास्तु भवेत प्रमाणम्' इति ज्यौतिषवेदाङ्गोक्तवचनमाश्रित्यैव स्वभाष्ये दिनरात्रिमानयोर्युक्तिः प्रदर्शिता। यथा उत्तरायणतो यदि किल गतदिवसाः=25 तदोत्तरायणारम्भदिनान्तरं पञ्चविंशे दिवसे तदारम्भदिनमानात् 25 प्रस्थमितं दिनप्रमाणमधिकम्। तदारम्भे चेद् दिनमानम् 24 घटिकास्तदा तद्दिने दिनमानम् 24घ+25प्र
=घ=घ=घ= मुहू इदमेव प्रमाणं 'यदुत्तरस्यायनतो गतं स्यात्' इत्यादियाजुष 50 श्लोकतोऽपि तदैव यदि 'यदेव षष्टया' इह 'तदेकषष्टया' अयं पाठो भवेत। अतोऽनुमीयते श्रीपतिप्रभृतयः प्राचीना अप्येवमेव व्यवहृतिं मनसि निधाय पयसां षष्टिपलैः पूर्णा जलघटी इत्यादितः समयविभागाः स्वस्वग्रन्थेषु लिलिखुः। न ह्येतेन तुलामापनविभागा बुद्धिमद्भिर्विभावनीया इति। सर्वत्रैव ज्यौतिषसिद्धान्ते चतुर्विंशत्यंशा एव परमक्रान्तिभागाः स्वीकृताः। ततः साक्षदेशे चाराद्यानयनं सुस्पष्टमेव। अहोरात्रहासवृद्धितः सम्प्रति प्रचरितां युक्तिमवलम्ब्य ज्यौतिषवेदाङ्गनिर्माणदेशाक्षांशोहा गुरुवराणां निःसन्दिग्धाऽपि वृथाऽभिमानिनां मोहायैव।
(9) श्लोके परम्परातो लेखकाद्यनभिज्ञतया 'द्विर्युग्माद्यम्' इति भ्रष्टपाठं संशोध्य 'द्विर्युग्मम्' इति सयुक्तिकः पाठः सर्वथैवार्षः। 'गणितस्कन्धे उपपत्तिमानेवागमः प्रमाणम्' इत्यादृत्यैव ज्यौतिषसिद्धान्तप्रचारोऽन्यथाऽनर्थापत्तेः।
सर्वत्रैव ऋतुशब्दतोऽत्र षट्संख्या गृहीतेह केषां मन्दानामशङ्का। गुरुवरवासनातः 'प्रथमं सप्तमम्' इत्यादिपाठादपि षडन्तरिते तिथावयनाद्या भवन्त्यत ऋतुशब्देन षट्संख्याग्रहणे 'द्विर्युग्मम्' इति पाठे च ज्यौतिषवेदाङ्गनिर्मातृमर्म सुरक्षितम्। अन्यथा
"ग्रन्थोऽन्यथाऽन्यथार्थं करणं यच्चान्यथा करोत्यबुधः।
स पितामहमुपगम्य स्तौति नरो वैशिकेनार्याम्॥"
इति वराहोक्तिः कुत्र संघटते।
(10) श्लोके 'धाता क' इत्यत्र धाता क इति पदद्वयमेकार्थबोधकमवगम्य तत्र 'अर्यमा' इति पाठः समुचित एव। सोमाकरोऽपि निजभाष्ये सन्देहापनोदनायैव 'धाताऽर्यमेति मन्त्रवर्णात्' इत्युक्तवान्। अथात्र 27 सौरनक्षत्रैर्यादि 366 एते रविसावनदिवसा लभ्यन्ते तदा सौरनक्षत्रैः क इति लब्धा एकर्त्तौ रविसावनाहाः । एवमेकस्मिन्नृतौ चन्द्रदिवसा द्वाषष्टिः। एतेन 19,51,56 पृष्ठेषु 'द्विलवक्षयसम्भूतम्' इत्यादि गर्गोक्तमप्युपपद्यते।
(11) श्लोकस्य पूर्वार्धे साम्यान्यतोऽखण्डदिनानयनाय गुरुवरभाष्यत एव वेदाङ्गकथनं सङ्गच्छते। तत्र सैकनिरेककरणं सिद्धान्तविदां सुस्पष्टमेव। अस्योत्तरार्धे न कश्चिद्विशेषः किन्तु वृथैव गणितानभिज्ञानां सोमाकरादीनां वागाडम्बरमिति।
(12) श्लोकेऽपि न कश्चिद्विशेषः। द्विवेदिभाष्यतः सर्वं स्पष्टमेव। तत्र धूलिप्रक्षेपणमिव वाङमात्रवर्षणं कस्य हास्याय न भवेदिति।
(13) श्लोकस्य यागपरं सोमाकरव्याख्यानमास्ताम्। किन्त्विह स्फुटार्थमेव 'आप' एतत्स्थले 'गत' इति पाठो गुरुवरैरपि स्वीकृतः। अथात्र चन्द्रपर्वग्रणानयनेऽधिमासशेषत्यागो ज्यौतिषसिद्धान्तऽतिप्रसिद्ध इति। अथात्र भाष्ये 'शङ्करबालकृष्णदीक्षितशोधितानुरूपं समीचीनम्' इत्यस्यायमभिप्रायो यथा दीक्षितव्याख्याने त्रुटिस्तथैव बार्हस्पत्यव्याख्यानेऽपीति।
"This total should be farther increased by two for every sixty of the total" (see his Jyotisha Vedanga p. 41)
अत्र This total should be fartherincreased by whole number of the quotient obatained by multiplying by two and dividing by sixty the total.
एवमुचितम्।
अत्र ज्यौतिषमर्मवञ्चितस्याधिपर्वग्रहणं राहुरिवेत्यत्रोदाहरणम्।
कल्प्यते तृतीययुगे द्वितायपर्वणि पर्वगणानयनमभीष्टम्। तदा बार्हस्पत्यव्याख्यातः 3-1=2। इदं द्वादशगुणम=2×12=24। इदं द्विगुणम् =24×2=48। इदं गतपर्वद्वयेन युतम्=50। इदं षष्टितोऽल्पमतः पर्वगणः =50।
अथ बार्हस्पत्यगणितेन
पर्वगणः= [(य-1)×12×2+र] ×
= [(3-1)×12×2+2]×
= [(48+2) =50+=51+।
एतद्द्वयमसाधु। यतस्तदगणितेनाधिपर्वसहितः पर्वगण आयाति तत्त्यागेन वास्तवः पर्वगणः51, सोंऽयं द्विवेदिव्याख्यानेन तदुपपत्त्या च सिद्ध्यतीति प्रत्यक्षबाधो हि महादूषणमिति विलोकयन्तु गणितरसिका ज्योतिर्विदः।
(14) श्लोके पारिभाषिके न कश्चिद्विशेषस्तथापि द्विवेदिपा एव श्रेयानिति।
(15) श्लोके पूर्वापरप्रसङ्गेन भांशानयनमेवोचितमतो गुरुवरशोधितः पाठ एव समुचितः। इह द्वादशपक्षसम्बन्धिनो भांशा अनुपयुक्ता अपि कैश्चित् साध्यन्ते वृथा तत्परिश्रमस्तेभ्य एव रोचते। न कोऽप्यस्य 19 श्लोके सम्बन्धो यस्तैर्दत्त इति।
अत्रानुवादे 'एकादशगुणः' एतेन 'एकादशयुतः' इत्यर्थः कस्मात् तथा "द्वादशकोद्गताः" इत्यनेन द्वादशभक्ता इति च कस्मा अन्यस्मै गणितज्ञाय रोचेत?। अथैतद्व्याख्याने या रीतिः प्रदर्शिता सा च श्लोकार्थतः कथमपि न सिद्ध्यतीत्यन्यदभुक्तमन्यद्वान्तमिव। अथात्र तत्कल्पितशङ्कासमाधाने अपि तामेव दशामालम्बेते (see 48-49 pages of his JyotishavedÁnga)
अथ यदि पक्षाः=14। तदा तदव्याख्यानतो भांशाः=8×1+73×2=8 +146=154। नक्षत्रभांशतष्टतो भांशाः=30 गौरवेण सिद्ध्यन्ति। गुरुवररक्षितपाठतश्च भांशाः=14×11=154 नक्षत्रभांशतष्टतो भांशाः=30। एते लाघवेन श्लोकार्थतस्तद्वासनया च सिद्ध्यन्ति। एवं यदि पक्षाः=15, तदा तद्व्याख्यानतो भांशाः
8×1+3×73=8+219=227 नक्षत्रभांशतष्टतो भांशाः=83।
गुरुवरशोधितपाठतश्च भांशाः11×15+62=165+62=227 नक्षत्रभांशतस्तष्टास्ते 83 लाघवेन सिद्ध्यन्तीति निरवद्यम्।
(16) श्लोके 'स्यादूनः' इत्यत्र 'स्याद्युतः' इति गुरुवरशोधितपाठेनैव सूक्ष्मगणनाऽन्यथा स्थूलगणनैव हस्तगता। अथ ज्यौतिषवेदाङ्गे श्लोकपाठानां क्रमभङ्गो वैदिकानां कण्ठेन पाठकरणादिति सर्वेषामेकमतम्। अतो विंशश्लोकानन्तरं गुरुवरैर्यथार्थतिथिनक्षत्रानयनार्थमेव स्वभाष्येऽयं शोधितः श्लोको निवेशितः। तद्याख्या च सूक्ष्मनक्षत्रार्थं साध्वी। तत्र हि सोमाकरवदन्यथा व्याख्यानेन वेदाङ्गे स्थूलप्रकारप्रकाशनेन दोष एवेति। एवमेवार्चस्य त्रयोदशश्लोकश्च तदर्थप्रतिपादको द्विवेदिशोधित एव समुचितः। तत्र तिथिनक्षत्रानयनश्लोकत्रुटिर्लेखकभ्रान्त्या पाठकभ्रान्त्या वा प्रसिद्धत्वादिति गुरुवरोक्तं ज्यौतिषसिद्धान्तविदां किमुत न मान्यं वेदाङ्गस्य सूक्ष्मत्वसिद्धेरिति दिक्।
(17) श्लोके यदि यागकालपरं सोमाकरभाष्यवदन्येषां व्याख्यानं गणितयुक्तिरहितं वस्तुतः श्रुतिविरुद्धमपि श्रुतिसम्मतं तत्रालमस्माकमाग्रहेण। यत्किञ्चिन्मात्रादिपरिवर्त्तनेनैव लेखकादिदोषजनिताऽशुद्धिर्गुरुवरमाश्रित्य शोधिता स्फुटार्थप्रदाऽपि चलच्चितं वञ्चयतीव। अत्र द्विवेदिभाष्ये भांशतो नक्षत्रानयनोपपत्तिः प्राचीनकुट्टकरीतितः सर्वमान्यैव। 'नक्षत्रक्रमाणि' अत्र चरणवाचकक्रमलिङ्गभ्रान्तिवारणाय बार्हस्पत्यो वाचस्पत्यकोशं किमु न पश्यति।
(18) श्लोके 'मृ' यदि ह्रस्व एव स्यात् तर्हि छन्दोभङ्गदोषदानेन ज्यौतिषवेदाङ्गकारस्यापकार एव बार्हस्पत्येन विहितः। तथैव वेदाङ्गकारसम्मत-'चित्-स्थाने' 'चि' करणेन तेनैव बार्हस्पत्येन सुधास्थाने हालाहलं न प्रक्षिप्तं किमु येन वेदाङ्गच्छन्दसो वृथैव मृतिरजायत। अथात्र वस्तुतः प्राचीनज्यौतिषशास्त्रापरिचितेन तेनानियतसमीकरणस्य (Indeterminare equation) गौरवक्रियैवालेखि। अत्र गुरुवरलिखिता प्राचीनरीतिः 17 श्लोकोपपत्तौ प्रकटितैव। अत्र सोमाकरभाष्यं हि दर्शनार्हम्। (द्र. अस्य पुस्तकस्य पृ. 30-32)
(19) अहो ! येऽष्टकास्वेव विभ्रमन्ति ते कथं परःशतं वैदिकसिद्धान्तसङ्केतकाठिन्यमवगच्छन्ति। वेदे ऋतु-शब्दः षट्संख्याबोधकः कुत्रचित् पञ्चबोधकोऽस्त्यपि सर्वत्र श्रुतौ चतस्र एवाष्टकाः। पञ्चदशश्लोकेऽस्य सम्बन्धाभावेऽपि गणितोपपत्तियुक्तं गुरुवरशोधितं पाठमपहाय यथेच्छकपोलकल्पितो बार्हस्पत्यपाठो दुराग्रहमेव प्रकाशयति। इनाः सूर्या इत्यादिभानुवाचिनः सर्वे ज्यौतिषशास्त्रे द्वादशसंख्याबोधकाः। अत्र ब्रह्म वा एष इनस्तपतीति सोमाकरभाष्यं विलोक्यम् (अस्य पुस्तकस्य पृ.46, पं.3) इनो राजन्नरतिः समिद्धो रौद्रो दक्षाय सुषुमा अदर्शि (ऋ.सं., अष्टक 7, अध्या. 5, वर्ग 31)
(20) श्लोके 25 श्लोकोक्त-'वर्त्तमानार्कभ'मितिवत् 'तिथि नक्षत्रमादिशेत्' इति स्पष्टमवलोक्यापि बार्हस्पत्येन सर्वमन्यथैव व्यधायि। (See his Jyotish-vedanga p.58-59). तदशुद्धिप्रकाशनाय तदनुसारेण तिथिनक्षत्रानयनार्थं कल्प्यते पर्वभंशः=1। अत्र 'जावाद्यंशैः समम्' - इत्यादिना 'जौ द्रा ग' - इत्यादिना चाश्विनी। अथ पर्वानन्तरं द्वितीयायां तिथौ नक्षत्रानयनार्थं तदगणितम् -
11ति=11×2=22। इदं पर्वभांशसमन्वितं जातम्=22+1=23। इदं भसमूहेन सप्तविंशत्या विभज्य लब्धं शून्यमतः पर्वभाद् गणनया द्वितीयायामश्विनी। सा च बार्हस्पत्येन तदनुयायिभिश्चैव मान्या। आश्चर्यं खलु। पर्वभमश्विनी तदग्रे द्वितीयायां चाश्विनी इति कः स्वीकुर्यात्। एवं तद्व्याख्यानरसिका अशुद्धिरसं प्रकामं लिहन्तु। अथात्र गुरुवरसंशोधितपाठव्याख्यानुसारं गणितम्-120ति=120×2=240। इदं पर्वभांशसमन्वितं जातम्=240+1=241। इदं भसमूहेन भांशसमूहेन विभज्य लब्धमेकमतः पर्वभगणनयाऽश्विनी गता द्वितीयायां भरणी समायातासा च युक्तैव। एवमिह सोमाकरव्याख्यानवदबार्ह स्पत्यव्याख्यानकल्पनं बालजल्पनमिव गणितविदां विनोदायैव।
'तिथिमेकादशाभ्यस्ताम्' इत्यशुद्धिविवरणम्। ज्यौतिषवेदाङ्गेकिल शुद्धः पाठः 'तिथिमर्कदशाभ्यस्ताम्' इत्येवासीत्। लेखकादिदोषतोऽथान्यबृहज्ज्यौतिष-सिद्धान्तग्रन्थप्रचारात् तदशुद्धिशोधकजनदृष्ट्युपेक्षातोऽपि ककारोर्ध्वगतरेफो विकृत्य मकारमस्पृशत् तेन 'तिथिमेकदशाभ्यस्ताम्' इति। ततस्तमशुद्धपाठं कश्चिद्गणितानभिज्ञः 'तिथिमेकादशाभ्यस्ताम्'-इति परमामशुद्धिमकरोत्। इयमशुद्धिः सोमाकरभाष्यरचनातः पूर्वमेवासीदिति ज्यौतिषमर्मज्ञा इष्टतिथौ नक्षत्रानयनतः स्पष्टं विलोक्य तमशुद्धिप्रियमवलिप्यन्तु। अथैवं सर्वथा शुद्धस्य तत्पाठस्यायमर्थः। तिथिं प्रसिद्धाम्। अर्कदशाभ्यस्ताम्। अर्कैर्द्वादशभिर्दशभिश्चाभ्यस्तां गुणिताम्। वाऽर्काणां द्वादशानां दश विंशत्यधिकशतमग्रे पूर्ववत्। इत्याद्यङ्कव्यवहारो गणिते प्राचीनसमयतोऽतिपरिचितोऽस्ति न ह्यत्र गणितविदां केषां चनाङ्कानां वामतो गतिरिति सामान्यरीतिमवलम्ब्यानर्थमर्थकरणं युक्तमित्यलम्।
(21) श्लोके गुरुवरभाष्येणैवोपपत्तिमद्वेदाङ्गकथनं भवतीति पुनः पुनः सज्जना असज्जना अपि गणितविदोऽवलोकयन्तु।
(22-23) श्लोकयोर्यदि गोलगणितयुक्तिरहिते सोमाकरव्याख्याने एव मान्ये तत्र नास्माकमाग्रहः।
(24) श्लोके सर्वाणि प्रमाणानि कालसाधनरूपाणीति सोमाकरभाष्येण सङ्गच्छतेऽपि द्विवेदिभाष्यं ज्यौतिषशास्त्रकलुषितानां धान्यप्रमाणशङ्का युक्तैव।
(25) श्लोके 'इदं शङ्करबालकृष्णदीक्षितव्याख्यानं समीचीनम्' अत्र समीचीनपदेन यथार्थम्। बार्हस्पत्येन तु स्वज्यौतिषवेदाङ्गव्याख्याने दीक्षितव्याख्यानमुत्तमतरं लिखित्वा धूलिप्रक्षेपेण धूसरायिते स्वव्याख्याने मालिन्येऽमालिन्येऽपि विकृतिर्न स्व्यकारि यथा -"I am glad to find that Mr. Dikshit's translation of य (25) is better than mine" (See his Jyotisha-vadÁnga's preface p.ii)
अत्र सर्वजनविशवाकार्थमुदाहरणम् - कल्प्यन्ते युगादितो गतपर्वाणि=9 तत्पर्वतो गतास्तिथयश्च 10। तदा प्रथमं पर्वणि सूर्यनक्षत्रानयनं तद्गणितेन -
(124 न + भा ) / 1809
11प=11×9=99 इदमेव तन्मते पर्वणि नक्षत्रमसम्भवम्। अत्र नक्षत्रस्याशा एव 99 तदा तदंशमानप्रयोजनं किम्। भांशज्ञानतश्चन्द्रनक्षत्रानयनवत् (17-18 श्लो.) सूर्यनक्षत्रानयनं कुत्रापि ज्यौतिषवेदाङ्गे नास्तेयेवातस्तदनुवादः सर्वथा हेयः। (See his Jyotisha-vadÁnga's preface p.44) एवं दशमीतिथावपि तदसङ्गतानुवादतो नक्षत्रम् =90 महाऽसम्भवम्। अत्र गुरुवरभकष्यानुसारतः (द्रष्टव्यमस्यैव ग्रन्थस्य पृ. 41) रविन.= =9+
नक्षत्राणि गतानि 11 नक्षत्रस्य 65 अंशा गताः। श्रविष्ठादिगणनया दशमीतिथौ सूर्यनक्षत्रमार्द्रा यदंशाः 65 गता इति। अत्र यूरोपीयगणितज्ञसुखावगमायास्यनुवादः 'Multiply the number of Parvans by eleven and the number of Tithi by nine. Divide (the sum of two products) by Yuga (124) and add the number of Parvans to the quotient, the result is Sun's Nakahatra on the tithi counting from Sravistha'.
(26) श्लोके बार्हस्पत्यानुवादे 'शेष'-शब्दो निरर्थकः। अतो ज्यौतिषवेदाङ्गे 'निरेकं द्वादशाभ्यस्तम्'- इत्यादौ सर्वत्राध्याहारवदिहापि गुरुवरैरध्याहारेणैव शेषः सार्थको विहित उपपत्त्या पाठश्चापि शोधितः। तत्र बार्हस्पत्यव्याख्यानं नतकाल (Hour-angle) प्रदर्शकं निष्प्रयोजनमेवात्र नतकालचर्चाभावात्।
(27) श्लोके वास्तवमानमवगम्यापि ज्यौतिषवेदाङ्गकारो भिन्नसंख्यात्यागेन कथं स्वाभिप्रायमसङ्गतं व्यधास्यदिति कतिपयसमयपर्यन्तं मृतमिव ज्यौतिषवेदाङ्ग गुरुवररचितसुधाकरभाष्यं प्राप्य सजीवमिव स्वस्यानुवादतस्तत्पूर्वावस्थामेव लभमानं विलोकयताऽपि बार्हस्पत्येनदुराग्रहाछन्नलोचनेन सुधा मुधा कथं न मन्येत (See his Jyotisha vedanga p.46-47) वस्तुतस्तु गुरुवररक्षितपाठो ग्रन्थकर्त्तुः पाण्डित्यमेवैधपतीति 'बुद्धेः फलमनाग्रहः' इति शिष्टवचनप्रामाण्यात् सर्वथा स्वीकरणीयः। 'ससप्तैकं भयुक्'-इत्यादिना रविनक्षत्रभोगकालः प्रदर्शित एव। पाण्डित्यप्रकाशनमेव स्वाभिमतं चेत् तर्हि ज्यौतिषवेदाङ्गकर्त्तुस्तत् कथं नेति तूष्णीं स्थातव्यम्।
(28) श्लोके महर्षेर्लगधस्य संस्कृतज्ञातृत्वस्य रक्षणायैव 'सौराः युगे' इति पाठौ समुचितौ। न हि 'यस्य क्वापि गतिर्नास्ति तस्य वाराणसीगति'रितिवदार्षकल्पनामेव शिथिलां गतिमाश्रित्य ज्ञानलवदुर्विदग्धजनमनः सन्तोषार्थमेव मुखव्यादानमात्रसामर्थ्यप्रकाशनमुचितम्।
(29) श्लोके 'द्विषष्ट्या' गुरुवरशोधितपाठेन च्छन्दोभङ्गस्तर्हि तच्छन्दोभङ्गदोषसङ्गिनो बार्हस्पत्यस्य 'स्वराक्रमेते सोमार्कौ' इति 6श्लोके तथा 'पक्षा यदर्धं पक्षाणाम्'-इति 23 श्लोके च का गतिरिति। सर्वत्र स्फुटार्थप्रतिपादनार्थमेवेति सर्वजनमानये वाग्रयचना मूढतोषप्रदैव।
(30) श्लोके सोमाकरभाष्ये सर्वमुल्लिखितमपि द्विवेदिवर्यैः स्फुटार्थमेव व्याख्यातमुपपादितं च।
(31) श्लोके 'तच्च पञ्चसिद्धान्तिकायां पैतामहसिद्धान्ते लिखितसमतिति' पञ्चसिद्धान्तिकाटीकायां श्रीमद्द्विवेदिभिः सर्वे प्रायोजनिकाः पदार्था निदर्शिताः। तेभ्योऽन्ये सुखेनैवावगम्यन्ते। यथा योज्ययोजकयोर्बोधाद्योगस्य तथा वियोज्यवियोजकतो वियोगफलस्य ज्ञानं सम्प्रति व्यक्तगणिताध्यायिनामपि सुकरं चेत् किमिह बार्हस्पत्यो व्यर्थं संशयमुत्पाद्य स्वपरिचितिं प्रथयति। आहोस्वित् !। 'भभ्रमास्तु भगणैर्विवर्जिता यस्य तस्य कुदिनानि तानि वा' इत्यादिज्यौतिषसिद्धान्तपरिभाषा बालैरप्यवबुद्ध्यते। एवमिह पाठश्चापि सूक्तः। न हि कुत्रापि द्विशब्देन दिनग्रहणम्।
(32-34) श्लोकेषु 'दितिबृहस्पती' इति पाठे निःसन्दिग्धेऽपि कुतः सन्देहाहिसंशयिता दुर्बोधान्धकारे ज्यौतिषशास्त्रमार्गे विचरितुं साहसं विदधते। 'अजवृषभमृगाङ्गनाकुलीरा झषवणिजौ च दिवाकरादि तुङ्गा' इत्यादिवराहोक्तपारिभाषिकं सम्प्रति दृष्ट्वाऽपि स्वीयभ्रमस्तैर्दूरयितव्यः। वस्तुत इह परम्परया त्रुटिर्याऽऽसीत् तत्पूरणयैव महतां गुरुवराणां दृष्टिक्षेपः। 'प्रोष्ठपदयोर्विपर्ययः पाठदोषो वा' इति सोमाकरोऽपि स्वभाष्ये व्यलपदिति बार्हस्पत्योऽधुना विलोकयतु। तत्र च गुरुवरभाष्ये 'अत्र पूर्वभद्रपदाया अजो वैकपादादिति देवताद्वयं वा एक देवताया नामद्वयम्' इमं सुलेखमपि तदैव स चान्येऽपि ज्यौतिषशास्त्रज्ञाः पश्यन्तु। आदौ सर्वा ज्यौतिषशास्त्रसम्बन्धिनी गणना धनिष्ठातः। अत्र हि कृत्तिकातोऽतो लगधेन वाऽन्येन केनापि स्वस्वसमयस्थितिवशेन तत्तद्हन्थेषूक्ताः सर्वा गणनास्तत्पूर्वसमयजाः संगृह्य लोकोपकाराय स्वसमये 'ज्यौतिषवेदाङ्ग'-नाम्नाऽयं निबन्धो व्यधायीति स्फुटम्।
(35) श्लोके एकैकस्य नक्षत्रस्य चत्वारश्चत्वारः पादा नरपतिजयचर्यादि-स्वरग्रन्थेषु 'चु, चे, चो, ला' इत्यादिकाः शतपदादौ प्रसिद्धाः।
(36) श्लोके ज्यौतिषवेदाङ्गे या स्थितिरासीत् तस्या भिन्ना सम्प्रतीति ज्ञापनायैव गुरुवरै रामदैवज्ञवाक्यानि विलिख्य पश्चात् 'तथैतद्गणे ज्यौतिषवेदाङ्गोक्तेभ्यो बहूनि भिन्नानि पठितानि'-इति व्यलेखि तत्राशङ्का ज्यौतिषशास्त्रानभिज्ञतैव।
(37) श्लोके चान्द्रपर्वगणात् सौरपर्वगणसाधनं 'द्यूनं द्विषष्टिभागेन' स्फुटमतः परम्परातो विकृतः पाठो गुरुवरैर्गणितयुक्त्या शोधितः सन्नेव स्वाकृतिमलभत। एवं शुद्धपाठं 'यत्कृतावुपजायेते' ज्ञात्वाऽपि कोऽन्यथोन्मत्त इव प्रलपति। 'तच्च द्विषष्टिभागेन द्यूनं कार्यम्' इति सर्वं 'षष्ट्या षष्ट्या युतं द्वाभ्याम्' इति 13श्लोकवत् स्पष्टमेव।
(38) श्लोके 'तत्त्रिंशद्द्यु' इति पाठतो गुरुवरैर्वेदाङ्गं सुरक्षित मन्यथा राहुसुधाकलशनीतिः स्फुटैव। 'गुणहरयोर्दृढत्वात्'-इत्यादिना वेदाङ्गे कलाऽभिधानकरणं सम्यक्। अत्र परम्परात एव यथार्थाभिप्रायदायके 'सविंशा' इति शुद्धे पाठे शोधनं पिष्टप्रेषणवदलम्।
(39) श्लोके यागकालपरं सोमाकरभाष्यं विलोक्य गुरुवरैः शोधितं सोपपत्तिकपाठमनुसन्दधतु सुजनाः।
(40) श्लोके इदं पद्यं 8श्लोके व्याख्यातमेव। तद्वशेनेह 'तदेव षष्ट्या' इत्यत्र 'तदेकषष्ट्या' इति शोधनं समुचितम्। अत्र सोमाकरभाष्यं तत्र गुरुवररक्षिता टिप्पणी च विलोक्या।
(41) श्लोके शोधितः पाठ एव समीचीनः। किन्तु द्विवेदिभाष्ये 'अत्र बार्हस्पत्यव्याख्यानं प्रायः समीचीनमेव' इति यदुल्लेखितमस्ति तत्र प्रायः शब्देनैव त्रुटिमवगच्छन्तु धीराः। अत्र प्रतिपर्व ऋतुशेषं चान्द्रदिनभागानामर्धमिति गुरुवरभाष्योपपत्त्या स्पष्टम्। वस्तुतो बार्हस्पत्यव्याख्यानुवादौ यथार्थाभिप्रायच्युतावेव। इह ऋतुशेषशब्देनाधिपर्वशेषमिति 'सदा पर्वणि पर्वणि' इत्युल्लेखात् स्फुटम्।
(42) श्लोके सोमाकरभाष्ये न का चन त्रुटिः। गुरुवरभाष्यमिहार्थान्तरज्ञापकमिति। कतिपयेषूपलब्धलिखितपुस्तकेषु 'भूयोऽप्येवं प्रकल्पयेत्' इति पाठो द्विवेदिसम्मतः। 'तदेवाहं चोक्तवान्' इति ज्यौतिषवेदाङ्गरचयितुरुक्तिः। एतेनास्य ज्यौतिषवेदाङ्ग्रन्थस्य रचयिता लगधादन्यः कश्चिदिति स्पष्टम्। शिष्येण पृष्टो गुरुः कथयति -
'इत्येतन्मासवर्षाणां मुहूर्त्तोदयपर्वणाम्।
दिनर्त्त्वयनमासानां व्याख्यानं लगधोऽब्रवीत्'॥
एतत् पद्यं शिष्यगुरुसंवादरूपं सोमाकरभाष्ये पाठाभावात् क्षेपकमतो ज्यौतिषवेदाङ्गकर्त्ता लगध एवेति बहूनां सम्मतं युक्तमिव।
(43) श्लोके गुरुवरमतेन 'वेद विदश्नुते' इति पदच्छेदेन 'सोमसूर्यस्तृचरितम्' इत्यस्य पुनरुक्तदोषोऽर्थान्तरेण विनश्यतीति स्पष्टीः क्रियते ज्यौतिषवेदाङ्गकारपाण्डित्यं चेति।
आर्चे -
(1) श्लोके कालं कालपुरुषम्। कालस्य समयस्य प्रधानज्ञापकत्वात् सूर्ये कालपदवाच्यत्वेऽदोषः। प्रातर्मध्याह्नसायमिति त्रिधा कालभेदेन सूर्यस्य त्रिमूर्त्तित्वात् कालरूपं सूर्यम्। "सूर्य आत्मा जगतस्तस्थुषश्च" इति श्रुतिप्रामाण्यात् सर्वात्मकत्वात् कालं कालत्मानमिति यावत्। तथा "कालश्चादित्य उच्यते"। इति सोमाकरभाष्ये गर्गोक्तेश्च (द्रष्टव्यमस्य ग्रन्थस्य पृ.6) अत्र 'लगधस्य' इत्युल्लेखात् याजुषं लगधप्रणीतं केनापि संक्षेपतः सर्वं तत् संगृह्य 'आर्चम्' इति नामान्तरं व्यधायीत्यनुमीयते।
(16) श्लोके परम्परातः समायातः 'च विंशा' इति पाठः साध्वर्थप्रतिपादकः श्रीमद्द्विवेदिभिः परिरक्षित इति स्फुटं वैदिकानाम्।
(17) श्लोके 'घटिका'-इत्यस्य पर्यायः 'कुम्भिका' इति गुरुवरैः सम्यग्रक्षितः।
(19) श्लोके लग्नशब्दार्थानवबोधाज्ज्यौतिषशास्त्रपरिभाषाविधुरेण बार्हस्पत्येन 'गुण'-शब्देन अष्टसंख्या, अभ्यस्तशब्देन योगं मत्वा कृत्तिका गृहीताः पुनरग्रे 'षडभ्यस्तान्' इत्यत्र 'अभ्यस्तपदेन' गुणनमेव गृहीतमित्यादि वैचित्र्यं सुजनैर्विभाव्यम्। सर्वत्रेह वास्तवार्थो गुरुवरैर्भाष्ये प्रदर्शितः। अथ गणितयुक्त्या 'गुण'-स्थाने 'गण' इति पाठश्चातीव युक्तः। उत्तरार्धे च 'सूर्यात्' इत्यत्र 'आर्क्षान्' इत्येव साधुपाठः 'चान्द्रमसान् ऋतून्' इति वशेन गणितयुक्त्या च सङ्गच्छते।
(33) श्लोके परम्परातो लेखकाध्यापकादिदोषतः 'च समम'-इत्यनर्थः श्रीमद्द्विवेदिभिः 'दशमम्' इति यथार्थः पाठो बालैरपि बुध्यते। अथात्र वास्तवार्थबोधनायैव 'तृतीयाम्' इत्यादौ सप्तम्यन्तपाठो निवेशितस्तत्र चेत् केषां तत्पाठस्यैवाग्रहश्चेत् ते तथैव पठन्तु न हीदृशामाग्रहिणां प्रयोजनाय गुरुवराणां यत्न इति।
(34) श्लोके पूर्वोत्तरार्धयोश्छन्दोविभेदाच्छन्दोलक्षणानभिज्ञानां गुरुवरोदितविचारे शङ्का केन निवार्येत। अथापि बुद्धिमतां सन्देहः समयान्तरे विवरणदीपिकयाऽपसरिष्यत इति।
इति श्रीमत् सुधाकरभाष्ये झोपाख्यश्रीमुरलीधरविरचितं लघुविवरणं पूर्त्तिमगात्।