ऋतुसंहारम् (चन्द्रिकाव्याख्यासमेतम्)/तृतीयः सर्गः(शरद्वर्णनम्)
← द्वितीयः सर्गः(प्रावृड्वर्णनम्) | ऋतुसंहारम् (चन्द्रिकाव्याख्यासमेतम्) तृतीयः सर्गः(शरद्वर्णनम्) कालिदासः |
चतुर्थः सर्गः(हेमन्तवर्णनम्) → |
तृतीयः सर्गः।
अथ क्रमप्राप्तं शरत्कालं वर्णयति-
काशांशुका विकचपद्ममनोज्ञवक्रा
सोन्मादहंस5रवनू पुरनादरम्या।
१ 'योषिताम्'.२ 'एषाम्'. ३ 'प्राणिनः'.४ 'प्राणहेतुः'.५. 'रुत'.
आपक्वशालि1रुचिरा 2तनुगात्रयष्टिः
प्राप्ता शरन्नववधूरिव 3रुपरम्या ॥१॥
काशांशुकेति ॥ काशमेव काशकुसुममेवांशुकं वस्त्रं यस्याः सा तथोक्ता । पक्षे काशमिवांशुकं वस्त्रं यस्याः सेति । विकचं विकसितं यत्पद्मं तदेव मनोज्ञं सुन्दरं वक्रं मुखं यस्याः सा तथोक्ता । पक्षे विकचं विकसितं यत्पद्मं तदिव मनोज्ञं सुन्दरं वत्क्रं मुखं यस्याः सेति । 'प्रफुल्लोत्फुल्लसंफुल्लव्याकोशविकचस्फुटाः । फुल्लश्चैते विकसिते' इत्यमरः । 'वक्त्रास्ये वदनं तुण्डमाननं लपनं मुखम्' इत्यमरः । सोन्मादानामुन्मादसहितानां हंसानां रवः शब्द एव नूपुरनादो मञ्जीरध्वनिस्तेन रम्या रमणीया । पक्षे सोन्मादहंसरव इव नृपुरनादस्तेन रम्या। 'शब्दे निनाद निनदध्वनिध्वानरवस्वनाः' इत्यमरः । 'मञ्जीरो नूपुरोऽस्त्रियाम्' इत्यमरः। आ समन्तात्पक्वा परिणता शालिरेव रुचिरा सुन्दरा तन्वी गात्रयष्टिः शरीरलता यस्याः । पक्ष आपक्वशालिरिव रुचिरा तनुर्गात्रयष्टिर्वपुःसंहननं यस्याः। 'शरीरं वर्ष्म विग्रहः' इत्यमरः रूपरम्या शरन्नववधूरिव प्राप्तागतेत्यर्थः । वसन्ततिलका वृत्तम् ।।
काशैर्मही शिशिरदीधितिना रजन्यो
हंसैर्जलानि सरितां कुमुदैः सरांसि ।
सप्तच्छदैः कुसुमभारनतैर्वनान्ताः
शुक्लीकृतान्युपवनानि च मालतीभिः ॥२॥
काशैरिति ॥ काशैः काशपुष्पैर्मही पृथ्वी । शिशिर- १ 'ललिता'. २. 'नत'. ३. 'हरिरूपा; 'रम्यरूपा'. दीधितिना चन्द्रेण रजन्यो रात्रयः । हंसैः सरितां नदीनां जलानि । कुमुदैः कैरवैः । 'सिते कुमुदकैरवे' इत्यमरः । सरांसि कासाराः । 'कासारः सरसी सरः' इत्यमरः । कुसुमभारेण पुष्पभारेण नता नम्रास्तैस्तथोक्तैः सप्तच्छदैः सप्तपर्णैर्वृक्षविशेषैर्वनान्ता अरण्यप्रान्ताः । मालतीभिर्जातीभिश्च । 'सुमना मालती जातिः' इत्यमरः । उपवनान्यारामाः । 'आरामः स्यादुपवनं कृत्रिमं वनमेव यत्' इत्यमरः । शुक्लीकृतानीति लिङ्गवचनविपरिणामेनान्वयः ॥
चञ्चन्मनोज्ञशफरीरसनाकलापाः
पर्यन्तसंस्थितसिताण्डजप1ङ्क्तिहाराः।
नद्यो विशाल2पुलिनान्तनितम्बबिम्बा
मन्दं प्रयान्ति समदाः प्रमदा इवाद्य ॥३॥
चञ्चदिति ॥ चञ्चती चञ्चला मनोज्ञा सुन्दरा शफर्येव प्रोष्ठ्येव रसनाकलापः काञ्चीगुणो यासां तास्तथोक्ताः । पक्षे चञ्चन्मनोज्ञशफरीव रसनाकलापो यासां ताः । 'प्रोष्ठी तु शफरी द्वयोः' इत्यमरः । पर्यन्ते प्रान्तभागे संस्थितोपविष्टा या सिताण्डजानां धवलमरालादीनां पङ्क्तिः श्रेणी सैव हारो यासां तास्तथोक्ताः । 'पङ्क्तिः श्रेणी लेखास्तु राजयः' इत्यमरः । पक्षे पर्यन्तसंस्थितसिताण्डजपङ्क्तिरिव हारो यासां ताः । विशालो विस्तीर्णो यः पुलिनान्तस्तीरप्रान्तः स एव नितम्बबिम्बं कटिपश्चाद्भागो यासां तास्तथोक्तानद्यः सरितः। 'अथ नदी सरित्' इत्यमरः। समदा यौवनमदगर्विताः प्रमदाः १ 'भक्ति.' २ 'पुलिनोरु.' स्त्रिय इव मन्दं मन्थरं यथा भवति तथाद्य प्रयान्ति गच्छन्तीत्यर्थः ॥
व्योम क्वचिद्रजतशङ्खमृणालगौरै-
स्त्य1क्ताम्बुभिर्लघुतया शतशः प्रयातैः।
सं2लक्ष्यते पवनवेगचलैः पयोदै
राजेव चा3मरवरैरु4पवीज्यमानः॥४॥
व्योमेति ॥ त्यक्तं निवृत्तमम्बु यैस्तथोक्तैरतएव रजतं च शङ्खश्च मृणालं च रजतशङ्खमृणालानि तानीव गौरा गौरवर्णास्तैस्तथोक्तैः । लघुतया शतशः प्रयातैः पवनस्य वायोर्वेगेन चलाश्चञ्चलास्तैस्तथोक्तैः पयोदैर्व्योमाकाशं क्वचित्कुत्रचिद्भागे चामरवरैश्चामर श्रेष्ठैरुपवीज्यमानो राजेव संलक्ष्यते दृश्यत इत्यर्थः ॥
भिन्नाञ्जनप्रचयकान्ति नभो मनोज्ञं
बन्धूकपुष्पर5चितारुणता च भूमिः ।
वप्राश्च चा6रुकमलावृतभूमिभागाः
प्रोत्क7ण्ठयन्ति न मनो भुवि कस्य यूनः ॥५॥
भिन्नेति ॥ भिन्नो विभिन्नो योऽञ्जनप्रचयः कज्जलसमूहस्तद्वत्कान्तिर्यस्य तत्तथोक्तं मनोज्ञं सुन्दरं नभ आकाशम् । बन्धूकानां जीवबन्धूकानां पुष्पैः कुसुमै रचिता कृतारुणता यस्याः सा तथोक्ता । 'बन्धूको बन्धुजीवकः' इत्यमरः । भूमिश्च । चारूणि सुन्दराणि यानि कमलानि तैरावृता आ- १ 'वीताम्बुभिः.' २ 'उत्प्रेक्षते.' ३ 'चामरशतैः.' ४ 'अपि वीज्यमानः; 'अभिवीज्यमानः.' ५ 'रजसारुणिता.' ६ 'पक्वकलमा.' ७ 'उत्कण्ठयन्ति. च्छादिता भूमिभागा येषां ते तथोक्ता वप्राः प्राकाराश्च ।। 'स्याच्चयो वप्रमस्त्रियाम् । प्राकारो वरणः शालः' इत्यमरः। भुवि कस्य यूनो मनो न प्रोत्कण्ठयन्ति प्रोत्कर्षणेन नोत्कण्ठयन्ति । अपि तु सर्वस्यापीति विभक्तिविपरिणामेनान्वयः॥
मन्दानिलाकुलितचा1रुतराग्रशाखः
पुष्पोद्गमप्रचयकोमलपल्लवाग्रः ।
मत्तद्विरेफपरिपीतमधुप्रसेक-
श्चित्तं विदारयति कस्य न कोविदारः॥६॥
मन्देति ॥ मन्देन मन्थरेणानिलेन पवनेनाकुलिताश्चारुतरा अतिसुन्दरा अग्रशाखा यस्य तथोक्तः । पुष्पोद्गमस्य कुसुमप्रादुर्भावस्य प्रचयेनाधिक्येन कोमलानि मृदूनि पल्लवाग्राणि यस्य स तथोक्तः । मत्तद्विरेफैरुन्मत्तभ्रमरैः परिपीतो मधुप्रसेको मकरन्दप्रस्रवो यस्य स तथोक्तः कोविदारश्चमरिकवृक्षः। 'कोविदारे चमरिकः कुद्दालो युगपत्रकः ।' इत्यमरः । कस्य चित्तं न विदारयति । अपि तु सर्वस्यापि विदीर्णं करोतीत्यर्थः ॥
तारागणप्रवरभूषणमुद्वहन्ती
मेधावरोधपरिमुक्तशशाङ्कवक्त्रा।
ज्योत्स्नादुकूलममलं रजनी दधाना
वृद्धिं प्रयात्यनुदिनं प्रमदेव बाला ॥७॥
तारागणेति ॥ ताराणां नक्षत्राणां गणः समुदाय एव प्रवरमुत्तमं भूषणम् । पक्षे तारागण इव प्रवरं भूषणम् । १'चारुमनोज्ञ, 'चारुविशाल.' २ 'मेघोपरोध.' 'नक्षत्रमृक्षं भं तारा' इत्यमरः । उद्वहन्ती दधती । मेधैः कृत्वा योऽवरोधो व्यवधानं तस्मात्परिमुक्तो यः शशाङ्कश्चन्द्रः स एव वक्रं वदनं यस्याः सा । पक्षे मेघ इव योऽवरोधो वधूटिवयोऽवलम्बनीयो मुखवसनाच्छादनव्यवहारस्ततः परिमुक्तं तन्नियमानधीनं शशाङ्कमिव चन्द्रमिव वक्त्रं मुखं यस्याः सा । अमलं निर्मलं ज्योत्स्नैव दुकूलं वसनं दधाना परिधानं कृतवती सा । पक्षे ज्योत्स्नेवामलं दुकूलं दधाना सेति । 'चन्द्रिका कौमुदी ज्योत्स्ना' इत्यमरः । रजनी यामिनी । 'रजनी यामिनी तमी' इत्यमरः । प्रमदा बाला चानुदिनं प्रतिदिनं वृद्धिं प्रयाति गच्छतीत्यर्थः ॥
कारण्डवाननविघट्टितवीचिमालाः
कादम्बसारसच1याकुलतीरदेशाः ।
कुर्वन्ति हंसविरुतैः परितो जनस्य
प्रीतिं स2रोरुहरजोरुणितास्तटिन्यः॥८॥
कारण्डवेति ॥ कारण्डवानां पक्षिविशेषाणामाननैर्वदनैर्विघट्टिता वीचिमालास्तरङ्गपङ्क्तयो यासु तास्तथोक्ताः । 'भङ्गस्तरङ्ग ऊर्मिर्वा स्त्रियां वीचिः' इत्यमरः । कादम्बानां कलहंसानां सारसानां पुष्कराह्वानां चयेन समुदायेनाकुलो व्याकुलस्तीरदेशो यासां तास्तथोक्ताः । 'कादम्बः कलहंसः स्यात्' इत्यमरः । 'पुष्कराह्वस्तु सारसः' इत्यमरः । सरोरुहाणां कमलानां रजोभी रेणुभिररुणिता आरक्ताः । 'परागः सुमनोरजः' इत्यमरः । तटिन्यस्तरङ्गिण्यः । 'तरङ्गिणी शैव- १ 'कुलाकुल.'२ 'सरोरुहरजोरुणिताश्च नद्यः 'परां कमलरेणुवृतास्तटिन्यः.. लिनी तटिनी हादिनी धुनी' इत्यमरः । परितः समन्ततो हंसानां मरालानां विरुतैः शब्दैः । 'तिरश्चां वाशितं रुतम्' इत्यमरः । जनस्य लोकस्य प्रीतिं कुर्वन्ति जनयन्तीत्यर्थः।।
नेत्रोत्सवो हृदयहारिमरीचिमाल:
प्रल्हादकः शिशिरसीकरवारिवषीं ।
पत्युर्वियोगविषदिग्धशरक्षतानां
चन्द्रो दहत्य1तितरां तनुमङ्गनानाम् ॥ ९ ॥
नेत्रोत्सव इति ॥ नेत्राणां लोचनानामुत्सवोहर्षजनकः । 'लोचनं नयनं नेत्रम्' इत्यमरः । हृदयहारिणी मरीचिमाला किरणपङ्क्तिर्यस्य स तथोक्तः । प्रकर्षेण ह्लादको हर्षजनकः । शिशिरं शीतलं सीकराणां वारि वारिकणं वर्षति स तथोक्तश्चंद्रः सुधाकरः पत्युः प्रियस्य वियोगो विरह एव विषदिग्धशरो बाणस्तेन क्षता व्रणितास्तासां तथोक्तानामङ्गनानां विरहिणीनां तनुं शरीरमतितरामत्यन्तं दहति संतापयतीत्यर्थः॥
आकम्पयन्फलभरानतशालिजाला-
नानर्तयं2स्तरुवरान्कुसुमावनम्रान् ।
उ3त्फुल्लपङ्कजवनां नलिनीं विधुन्व-
न्यूनां म4नश्चलयति प्रसभं नभस्वान् ॥१०॥
आकम्पयन्निति ॥ फलानां भरेण भारेणानता नम्रा ये शालिजालाः शालिसमूहास्तानाकम्पयन् । कुसुमावनम्रांस्तरुवरान्वृक्षश्रेष्ठानानर्तयन् । एतेन पवने मान्द्यमावेदितम् । १ 'अनुदिनम्।' २ 'तरुवरान्', 'कुरुबकान्.' ३ 'प्रोत्फुल्ल.' ४ 'स्खलयति'; 'मदयति.' उत्फुल्लानि विकसितानि पङ्कजानि कमलानि यस्मिंस्तादृशं वनं जलं यस्यां तां तथोक्ताम् । 'जलम् । पयः कीलालममृतं जीवनं भुवनं वनम्' इत्यमरः । नलिनीं कमलिनीं विधुन्वन्विकम्पयन् । एतेन तस्मिन्सौगन्ध्यं शैत्यं चावेदितम् । नभस्वान्वायुर्यूनां तरुणानां मनः प्रसभमत्यन्तं चलयति चञ्चलयतीत्यर्थः ।।
सोन्मादहंसमिथुनैरुपशोभितानि
स्व1च्छप्रफुल्लकमलोत्पलभूषितानि ।
म2न्दप्रभातप3वनोद्गतवीचिमाला-
न्युत्कण्ठयन्ति सह4सा हृदयं सरांसि ॥१॥
सोन्मादेति ।। सोन्मादानामुन्मादसहितानां हंसानां मरालानां मिथुनैर्द्वंद्वैरुपशोभितानि भूषितानि । अपि च स्वच्छानि निर्मलानि प्रफुल्लानि च यानि कमलानि पद्मान्युत्पलानि नीलेन्दीवराणि च तैर्भूषितानि शोभितानि । मन्देन मन्थरेण प्रभातपवनेनोषःकालीनेन वायुनोद्गता उत्पन्ना वीचिमालास्तरङ्गपङ्क्तयो येषु तानि तथोक्तानि सरांसि सरोवराणि । जनानामिति शेषः। हृदयं सहसोत्कण्ठयन्त्युत्कण्ठायुक्तं कुर्वन्तीत्यर्थः।।
नष्टं धनुर्बलभिदो जलदोदरेषु
सौदामिनी स्फुरति नाद्य5 वियत्पताका ।
धुन्वन्ति पक्षपवनैर्न नभो बलाकाः
पश्यन्ति नोन्नतमुखा गगनं मयूराः॥१२॥
नष्टमिति ॥ अद्येदानीं जलदानां मेघानामुदरेषु गर्भेषु । १ 'स्वच्छानि फुल्ल.' २ 'मन्दं प्रभात'; 'मन्दप्रचार.' ३ 'पवनोद्धत. ४ 'हृदयं प्रसभम्'. ५ 'नापि'. दृश्यमानमिति शेषः । बलनामकं दैत्यं भिनत्ति विदारयति । हन्तीति यावत् । तस्य बलभिदो बलारातेरिन्द्रस्य धनुः कार्मुकं नष्टं गतम् । न दृश्यत इत्यर्थः । वियत आकाशस्य पताका सौदामिनी तडिन्न स्फुरति न दीव्यति । बलाका बिसकण्ठिकाः । 'बलाका बिसकण्ठिका' इत्यमरः । पक्षाणां पत्राणां पवनैर्वातैः । 'गरुत्पक्षच्छदाः पत्रं पतत्रं च तनूरुहम्' इत्यमरः । नमो न धुन्वन्ति न कम्पयन्ति । उन्नतमूर्ध्वं मुखं वदनं मेघदिदृक्षया येषां ते तथोक्ता मयूरा बर्हिणो गगनमाकाशं न पश्यन्ति नावलोकयन्तीत्यर्थः॥
नृत्यप्रयोगरहिताञ्छिखिनो विहाय
हंसानुपैति मदनो मधुरप्रगीतान् ।
मु1क्त्वा कदम्बकुटजार्जुनसर्जनीपा-
न्सप्तच्छदानुपगता कुसुमोद्गमश्रीः ॥ १३ ॥
नृत्येति ॥ मदनः कंदर्पो नृत्यप्रयोगेन नर्तनप्रयोगेन रहिताञ्शिखिनो बर्हिणो विहाय त्यक्त्वा मधुरं प्रगीतं गानं येषां तांस्तथोक्तान्हंसानुपैति प्राप्नोति । कुसुमानां पुष्पाणामुद्गम उत्पत्तिस्तस्य श्रीः शोभा कदम्बो धूलिकदम्बः, कुटजः शक्रनामको वृक्षविशेषः, अर्जुनः ककुभवृक्षः, सर्जः शालवृक्षः, नीपः पूर्वोक्तकदम्बभिन्नकदम्बस्तान् । 'अथ कुटजः शक्रः' इत्यमरः । 'इन्द्रद्रुः ककुभोऽर्जुनः' इत्यमरः । मुक्त्वा त्यक्त्वा सप्तच्छदान्सप्तपर्णवृक्षानुपगता प्राप्तेत्यर्थः ॥
१'त्यक्त्वा'. शेफालिकाकुसुमग1न्धमनोहराणि
स्वस्थस्थिताण्डजकु2लप्रतिनादितानि ।
पर्यन्तसंस्थितमृगीनयनोत्पलानि
प्रोत्कण्ठयन्त्युपवनानि मनांसि पुंसाम् ॥१४॥
शेफालिकेति ॥ शेफालिका सुवहा तस्याः कुसुमानां पुष्पाणां गन्धेन मनोहराणि सुन्दराणि । 'शेफालिका तु सुवहा निर्गुण्डी नीलिका च सा' इत्यमरः। स्वस्थमनुद्वेगं तीव्रतराणि तापदावानलादिदुःखाभावाद्यथा भवति तथा स्थितानामुपविष्टानामण्डजानां पक्षिणां कोकिलादीनां कुलैः समुदायैः प्रतिनादितानि प्रतिध्वनितानि । पर्यन्ते संस्थितानां प्रान्तस्थितानां मृगीणां हरिणीनां नयनानि लोचनान्येवोत्पलानि कुवलयानि येषु तानि तथोक्तान्युपवनान्युद्यानानि पुंसां मनांसि प्रोत्कण्ठयन्ति समुत्कण्ठितानि कुर्वन्तीत्यर्थः ।।
कह्लारपद्मकु3मुदानि मु4हुर्विधुन्वं-
स्तत्संगमादधिकशीतलतामु5पेतः ।
उ6त्कण्ठयत्यतितरां पवनः प्रभाते
पत्रान्तलग्न7तुहिनाम्बुविधूयमानः ॥१५॥
कह्लारेति ॥ कह्लारपद्मकुमुदानि कह्लारं सौगन्धिकम् , पद्मं नलिनम्, कुमुदं कैरवं तानि । 'सौगन्धिकं तु कह्लारम्' इत्यमरः । 'वा पुंसि पद्मं नलिनम्' इत्यमरः । 'सिते कुमुदकैरवे' इत्यमरः । मुहुर्वारंवारं विधुन्वन् । तेषां संगमा- १ 'राग.' २ 'गण.' ३ 'कुसुमानि.' ४ 'मुदा.' ५ 'उपेत्य.' ६ 'सोत्कां करोति वनिताम्.' ७ 'तुहिनानि हरंस्तरूणाम्.' त्स्पर्शादधिकमत्यन्तं शीतलतामुपेतः प्राप्तः । पत्रान्ते दलप्रान्ते लग्नं यत्तुहिनाम्बु हिमजलं तद्विधूयते स तथोक्तो विधूयमानः पवनो वायुः प्रभाते प्रातःकालेऽतितरामत्यन्तमुत्कण्ठयत्युत्सुकयतीत्यर्थः ॥
संपन्नेति ॥ संपन्नानां जलसिक्तानां शालीनां निचयेन समूहेनावृतानि छादितानि भूतलानि येषां तानि तथोक्तानि । स्वस्थमनुद्वेगं स्थितानां प्रचुराणां बह्वीनां गवां कुलैः समुदायैः शोभितानि भूषितानि । सारसानां पक्षिविशेषाणां कुलैः सहितास्तैस्तथोक्तैर्हंसैः प्रतिनादितानि सीमान्तराणि नृणां जनानां प्रमोदं हर्षं जनयन्त्युत्पादयन्तीत्यर्थः ॥
हंसैरिति ॥ अङ्गनानां पुरंध्रीणां सुललितात्यन्तं रमणीया गतिर्हंसैर्जिता । मुखचन्द्रस्य वदनचन्द्रस्य कान्तिः शोभा विकसितैर्विकचैरम्भोरुहैर्जिता । मदेन कलानि मधुराणि विलोकितान्यवलोकितानि नीलोत्पलैर्जितानि । रुचिराः सु न्दरा भ्रूविभ्रमाश्च तनुभिः सूक्ष्मैस्तरंगैर्वीचिभिर्जिता इति लिङ्गवचनविपरिणामेनान्वयः ॥
श्यामा इति ॥ कुसुमानां पुष्पाणां भारेण नता नम्राः प्रवालाः पल्लवा यासां तास्तथोक्ताः श्यामाहरिद्वर्णास्तत्र मध्ये याश्च लता व्रतत्यः । 'वल्ली तु व्रततिर्लता' इत्यमरः । स्त्रीणां नारीणां धृतानि भूषणानि यैस्तेषां बाहूनां कान्ति शोभां हरन्त्यपनयन्ति । कङ्केलिपुष्परुचिरा नवमालती नूतनमालिका च दन्तानां रदनानामवभासेन प्रभया विशदं निर्मलं स्मितमेव चन्द्रकान्तिम् । 'रदना दशना दन्ताः' इत्यमरः । हरतीति विभक्तिविपरिणामेनान्वयः ॥
केशानिति ॥ वनिता अबला नितान्तमत्यन्तं घनाः संकीर्णा नीलाः कृष्णवर्णा विकुञ्चिताः कुटिला अत एवाग्राः श्रेष्ठास्तांस्तथोक्तान्केशान्कुन्तलान् । 'चिकुरः कुन्तलो वालः कचः केशः शिरोरुहः' इत्यमरः। नवमालतीभिर्नवमालतीकु- सुमैरापूरयन्ति । प्रवराणि श्रेष्ठानि काञ्चनकुड्मलानि स्वर्णताटङ्कादीनि येषु तेषु तथोक्तेषु कर्णेषु श्रवणेषु । 'कर्णशब्दग्रहौ श्रोत्रं श्रुतिः स्त्री श्रवणं श्रवः' इत्यमरः । विविधानि विचित्राणि नीलोत्पलानीन्दीवराणि निवेशयन्ति । स्थापयन्ति । अवलम्बयन्तीत्यर्थः ॥
हारैः सचन्दनरसैः स्तनमण्डलानि
श्रोणीतटं सुविपुलं रसनाकलापैः ।
पादाम्बुजानि क[१७]लनूपुरशेखरैश्च
नार्यः प्रहृष्टमनसोऽद्य विभूषयन्ति ॥२०॥
हारैरिति ॥ प्रहृष्टमनसः प्रहर्षितचेतसो नार्यः स्त्रियोऽद्य सचन्दनरसैश्चन्दनद्रवसहिततैर्हारैः स्तनमण्डलानि कुचमण्डलानि । रसनाकलापैः काञ्चीगुणैः सुविपुलं महच्छ्रोणीतटं कटिपश्चाद्भागम् । कलनूपुरशेखरैरुत्तममञ्जीरैः पादाम्बुजानि चरणकमलानि च विभूषयन्तीत्यर्थः ॥
स्फुटेति ॥ विगता मेघा यस्मात्तं तथोक्तं चन्द्रश्च तारा नक्षत्राणि च ताभिरवकीर्णं व्याप्तं व्योमाकाशं स्फुटैर्विकसितैः कुमुदैः कैरवैश्चिता व्याप्तास्तेषां तथोक्तानाम् । राजहंसा हंसविशेषाः स्थिता येषु तेषां तथोक्तानाम् । 'राजहंसास्तु ते चञ्चुचरणैर्लोहितैः सिताः' इत्यमरः । मरकतमणेर्भा इव भाः कान्तिर्यस्य तेन तथोक्तेन वारिणा जलेन भूषितानां शोभितानां तोयाशयानां जलाशयानामतिशयरूपामत्यन्तसुन्दरां श्रियं शोभां वहति धत्त इत्यर्थः । मालिनीवृत्तम् । तल्लक्षणं तु पूर्वोक्तम् ॥
शरदीति ॥ शरदि शरत्काले कुमुदस्य कैरवस्य सङ्गात्संसर्गाच्छीताः शीतला वायवः पवना वान्ति वहन्ति । दिग्विभागा आशाप्रान्ताः । 'दिशस्तु ककुभः काष्ठा आशाश्च' इत्यमरः । विगतानि जलदानां मेघानां वृन्दानि समूहा येभ्यस्ते तथोक्ता अत एव मनोज्ञाः सुन्दराः । अम्भो जलं विगतं विनष्टं कलुषं कालुष्यं यस्य
२२-२३ श्लोकयोर्मध्येऽयमंशो दृश्यते-
करकमलमनोज्ञाः कान्तसंसक्तहस्ता
वदनविजितचन्द्राः काश्चिदन्यास्तरुण्यः ।
रचितकुसुमगन्धि प्रायशो यान्ति वेश्म
प्रबलमदनहेतौ सूक्तसङ्गोक्तरम्याः ॥
सुरतरुचिविलासाः सत्सखीभिः समेता
असमशरविनोदं सूचयन्ति प्रकामम् ।
अनुगतमुखराभिः श्रोणिमध्ये विनोदं
शरदि तरुणकान्ताः सूचयन्ति प्रमोदान् ॥
धरणिः क्षोणी ज्या काश्यपी क्षितिः' इत्यमरः । श्यानपङ्का शुष्कपङ्का व्योमाकाशं विमला निर्मलाः किरणा मयूखा यस्य तादृशश्चन्द्रो यत्र तत्तथोक्तम् । 'किरणोस्रमयूखांशु-' इत्यमरः । ताराभिर्नक्षत्रैर्विचित्रं सुन्दरमित्यर्थः । 'नक्षत्रमृक्षंभं तारा तारकाप्युडु वा स्त्रियाम्' इत्यमरः ॥
दिवसेति ॥प्रभाते प्रातःकाले दिवसकरस्य सूर्यस्य मयूखैः किरणैर्बोध्यमानं विकाश्यमानमित्यर्थः । 'स्युः प्रभारुग्रुचिस्त्विड्भाभाश्छविद्युतिदीप्तयः' इत्यमरः । पङ्कजं कमलमद्येदानीं जुभते शोभते । कुमुदं कैरवमपि चन्द्रबिम्बेऽस्तमस्ताचलं गते प्राप्ते सति प्रोषितेषु विदेशगतेषु प्रियेषु कान्तेषु वधूनां रमणीनां हसितमिव लीयते । क्षीणं भवतीत्यर्थः ॥
असितेति ॥ पथिकजनः पान्थजन इदानीं शरत्काले प्रियाणां प्रेयसीनामसितानां कृष्णानां नयनानां नेत्राणां लक्ष्मीं शोभाम् । 'कृष्णे नीलासितश्यामकालश्यामलमेचकाः' इत्यमरः । 'लोचनं नयनं नेत्रम्' इत्यमरः । उत्पलेषु कमलेषु क्वणिता क्वणन्ती या कनककाञ्ची सुवर्णरशना तां मत्तहंसस्वनेषून्मत्तमरालशब्देष्वधरस्योष्ठस्य रुचिरा सुन्दरा या शोभा तां बन्धुजीवे बन्धूककुसुमे लक्षयित्वा दृष्ट्वा भ्रान्तचित्तः सन्रोदिति । रोदनं करोतीत्यर्थः॥
स्त्रीणामिति ॥ सुभगा सुन्दरा या शरदागमस्य श्रीः शोभा। शशाङ्कस्य चन्द्रस्य लक्ष्मीं शोभां स्त्रीणां सुन्दरीणां वदनेषु मुखेषु । कामं रमणीयं हंसवचनं मरालविरुतं च मणिनूपुरेषु मणिखचितमञ्जीरेषु । बन्धूकस्य बन्धूककुसुमस्य कान्तिं च मनोहरेषु सुन्दरेष्वधरेषु विहाय त्यक्त्वा क्वापि कुत्रचिदपि प्रयाति गच्छतीत्यर्थः । एतेन हेमन्तागमः सूचितः । वसन्ततिलकावृत्तम्।।
विकचेति ॥ विकचं विकसितं कमलमेव वक्त्रं मुखंयस्याः सा तथोक्ता । पक्षे विकचं कमलमिव वक्त्रं यस्याः सेति । फुल्लानि प्रफुल्लानि नीलोत्पलानीन्दीवराण्येवाक्षिणी यस्याः सा तथोक्ता । पक्षे फुल्लानि नीलोत्पलानीवाक्षिणी यस्याः सेति । विकसितं विकाशं प्राप्तं नवकाशं नूतनं काशकुसुममेव श्वेतवासः श्वेतवस्त्रम् । पक्षे विकसितनवकाशमिव श्वेतवासो वसाना । कुमुदेन कैरवेण सदृशी रुचिरा कान्तिर्यस्याः सा तथोक्ता । पक्षे कुमुदमिव रुचिरा कान्तिर्यस्याः सेयं शरदुन्मदोत्कटमदा कामिनीव प्रेयसीव वो युष्माकं चेतसश्चित्तस्याग्र्यामुत्तमां प्रीतिं प्रतिदिशतु ददात्वित्यर्थः । मालिनीवृत्तमेतत् ॥
इति भारद्धाजगोत्रोत्पन्नमणिरामविरचितया चन्द्रिकाख्यया व्याख्यया
समेतः कविश्रीकालिदासकविवराग्रणीकृतावृतुसंहारे महाकाव्ये
शरद्वर्णनं नाम तृतीयः सर्गः ।
- ↑ 'सुस्थ'
- ↑ 'च सारस'
- ↑ 'जनप्रमोदम्.
- ↑ 'चलानि.
- ↑ 'विलोचनानि.'
- ↑ 'सरिताम्.'
- ↑ 'भृत.'
- ↑ 'दन्ते विभास.'
- ↑ 'वस्त्रकान्तिम्.
- ↑ 'बन्धूक.'
- ↑ 'रचिता.'
- ↑ 'नवमालिका च'
- ↑ 'प्रचुर'
- ↑ 'कुण्डलेषु'.
- ↑ 'विकचानि.
- ↑ 'निवेशयन्ते.
- ↑ 'वर.
- ↑ 'आश्रितानाम्'.
- ↑ 'आपूरितानाम्.'
- ↑ 'कुसुम'.
- ↑ 'तोयात्.'
- ↑ 'यान्ति.'
- ↑ "विशद.'
- ↑ 'शालिपक्का.'
- ↑ 'म्लायते'
- ↑ 'चन्द्रविम्बम्'
- ↑ 'कान्तिम्'
- ↑ 'हंसी'
- ↑ 'प्रियायाः'
- ↑ 'भ्रान्तचेतः'.
- ↑ ’निनाय'.
- ↑ 'लक्ष्मीः.'
- ↑ 'हास्ये विशुद्धवदने कुमुदाकरश्रीम्'
- ↑ 'कान्तिः'.
- ↑ 'विकसितनवकाशासंकुलालम्बिवस्त्रा'
- ↑ 'हासा'.
- ↑ 'परिदिशतु, उपदिशतु'