ऋषभगीता ३
१२६
[भ्]
ततस्तेषां समस्तानामृषीणामृषिसत्तमः।
ऋषभो नाम विप्रर्षिः स्मयन्निव ततोऽब्रवीत्॥१॥
पुराहं राजशार्दूल तीर्थान्यनुचरन्प्रभो।
समासादितवान्दिव्यं नरनारायणाश्रमम्॥२॥
यत्र सा बदरी रम्या ह्रदो वैहायसस्तथा।
यत्र चाश्वशिरा राजन्वेदान्पठति शाश्वतान्॥३॥
तस्मिन्सरसि कृत्वाहं विधिवत्तर्पणं पुरा।
पितॄणां देवतानां च ततोऽऽश्रममियां तदा॥४॥
रेमाते यत्र तौ नित्यं नरनारायणावृषी।
अदूरादाश्रमं कं चिद्वासार्थमगमं ततः॥५॥
ततश्चीराजिनधरं कृशमुच्चमतीव च।
अद्राक्षमृषिमायान्तं तनुं नाम तपो निधिम्॥६॥
अन्यैर्नरैर्महाबाहो वपुषाष्ट गुणान्वितम्।
कृशता चापि राजर्षे न दृष्टा तादृशी क्व चित्॥७॥
शरीरमपि राजेन्द्र तस्य कानिष्ठिका समम्।
ग्रीवा बाहू तथा पादौ केशाश्चाद्भुतदर्शनाः॥८॥
शिरः कायानुरूपं च कर्णौ नेते तथैव च।
तस्य वाक्चैव चेष्टा च सामान्ये राजसत्तम॥९॥
दृष्ट्वाहं तं कृशं विप्रं भीतः परमदुर्मनाः।
पादौ तस्याभिवाद्याथ स्थितः प्राञ्जलिरग्रतः॥१०॥
निवेद्य नामगोत्रं च पितरं च नरर्षभ।
प्रदिष्टे चासने तेन शनैरहमुपाविशम्॥११॥
ततः स कथयामास कथा धर्मार्थसंहिताः।
ऋषिमध्ये महाराज तत्र धर्मभृतां वरः॥१२॥
तस्मिंस्तु कथयत्येव राजा राजीवलोचनः।
उपायाज्जवनैरश्वैः सबलः सावरोधनः॥१३॥
स्मरन्पुत्रमरण्ये वै नष्टं परमदुर्मनाः।
भूरिद्युम्न पिता धीमान्रघुश्रेष्ठो महायशाः॥१४॥
इह द्रक्ष्यामि तं पुत्रं द्रक्ष्यामीहेति पार्थिवः।
एवमाशाकृतो राजंश्चरन्वनमिदं पुरा॥१५॥
दुर्लभः स मया द्रष्टुं नूनं परमधार्मिकः।
एकः पुत्रो महारण्ये नष्ट इत्यसकृत्तदा॥१६॥
दुर्लभः स मया द्रष्टुमाशा च महती मम।
तया परीतगात्रोऽहं मुमूर्षुर्नात्र संशयः॥१७॥
एतच्छ्रुत्वा स भगवांस्तनुर्मुनिवरोत्तमः।
अवाक्षिरा ध्यानपरो मुहूर्तमिव तस्थिवान्॥१८॥
तमनुध्यान्तमालक्ष्य राजा परमदुर्मनाः।
उवाच वाक्यं दीनात्मा मन्दं मन्दमिवासकृत्॥१९॥
दुर्लभं किं नु विप्रर्षे आशायाश्चैव किं भवेत्।
ब्रवीतु भगवानेतद्यदि गुह्यं न तन्मयि॥२०॥
महर्षिर्भगवांस्तेन पूर्वमासीद्विमानितः।
बालिशां बुद्धिमास्थाय मन्दभाग्यतयात्मनः॥२१॥
अर्थयन्कलशं राजन्काञ्चनं वल्कलानि च।
निर्विण्णः स तु विप्रर्षिर्निराशः समपद्यत॥२२॥
एवमुक्त्वाभिवाद्याथ तमृषिं लोकपूजितम्।
श्रान्तो न्यषीदद्धर्मात्मा यथा त्वं नरसत्तम॥२३॥
अर्घ्यं ततः समानीय पाद्यं चैव महानृषिः।
आरण्यकेन विधिना राज्ञे सर्वं न्यवेदयत्॥२४॥
ततस्ते मुनयः सर्वे परिवार्य नरर्षभम्।
उपाविशन्पुरस्कृत्य सप्तर्षय इव ध्रुवम्॥२५॥
अपृच्छंश्चैव ते तत्र राजानमपराजितम्।
प्रयोजनमिदं सर्वमाश्रमस्य प्रवेशनम्॥२६॥
[राजा]
वीर द्युम्न इति ख्यातो राजाहं दिक्षु विश्रुतः।
भूरि द्युम्नं सुतं नष्टमन्वेष्टुं वनमागतः॥२७॥
एकपुत्रः स विप्राग्र्य बाल एव च सोऽनघ।
न दृश्यते वने चास्मिंस्तमन्वेष्टुं चराम्यहम्॥२८॥
[र्सभ]
एवमुक्ते तु वचने राज्ञा मुनिरधोमुखः।
तूष्णीमेवाभवत्तत्र न च प्रत्युक्तवान्नृपम्॥२९॥
स हि तेन पुरा विप्रो राज्ञा नात्यर्थ मानितः।
आशा कृशं च राजेन्द्र तपो दीर्घं समास्थितः॥३०॥
प्रतिग्रहमहं राज्ञां न करिष्ये कथं चन।
अन्येषां चैव वर्णानामिति कृत्वा धियं तदा॥३१॥
आशा हि पुरुषं बालं लालापयति तस्थुषी।
तामहं व्यपनेष्यामि इति कृत्वा व्यवस्थितः॥३२॥
[र्]
आशायाः किं कृशत्वं च किं चेह भुवि दुर्लभम्।
ब्रवीतु भगवानेतत्त्वं हि धर्मार्थदर्शिवान्॥३३॥
[र्सभ]
ततः संस्मृत्य तत्सर्वं स्मारयिष्यन्निवाब्रवीत्।
राजानं भगवान्विप्रस्ततः कृश तनुस्तनुः॥३४॥
कृशत्वे न समं राजन्नाशाया विद्यते नृप।
तस्या वै दुर्लभत्वात्तु प्रार्थिताः पार्थिवा मया॥३५॥
[र्]
कृशाकृशे मया ब्रह्मन्गृहीते वचनात्तव।
दुर्लभत्वं च तस्यैव वेद वाक्यमिव द्विज॥३६॥
संशयस्तु महाप्राज्ञ सञ्जातो हृदये मम।
तन्मे सत्तम तत्त्वेन वक्तुमर्हसि पृच्छतः॥३७॥
त्वत्तः कृशतरं किं नु ब्रवीतु भगवानिदम्।
यदि गुह्यं न ते विप्र लोकेऽस्मिन्किं नु दुर्लभम्॥३८॥
[क्र्ज़ातनु]
दुर्लभोऽप्यथ वा नास्ति योऽर्थी धृतिमिवाप्नुयात्।
सुदुर्लभतरस्तात योऽर्थिनं नावमन्यते॥३९॥
संश्रुत्य नोपक्रियते परं शक्त्या यथार्हतः।
सक्ता या सर्वभूतेषु साशा कृशतरी मया॥४०॥
एकपुत्रः पिता पुत्रे नष्टे वा प्रोषिते तथा।
प्रवृत्तिं यो न जानाति साशा कृशतरी मया॥४१॥
प्रसवे चैव नारीणां वृद्धानां पुत्र कारिता।
तथा नरेन्द्र धनिनामाशा कृशतरी मया॥४२॥
[र्सभ]
एतच्छ्रुत्वा ततो राजन्स राजा सावरोधनः।
संस्पृश्य पादौ शिरसा निपपात द्विजर्षभे॥४३॥
[राजा]
प्रसादये त्वा भगवन्पुत्रेणेच्छामि सङ्गतिम्।
वृणीष्व च वरं विप्र यमिच्छसि यथाविधि॥४४॥
[र्सभ]
अब्रवीच्च हि तं वाक्यं राजा राजीवलोचनः।
सत्यमेतद्यथा विप्र त्वयोक्तं नास्त्यतो मृषा॥४५॥
ततः प्रहस्य भगवांस्तनुर्धर्मभृतां वरः।
पुत्रमस्यानयत्क्षिप्रं तपसा च श्रुतेन च॥४६॥
तं समानाय्य पुत्रं तु तदोपालभ्य पार्थिवम्।
आत्मानं दर्शयामास धर्मं धर्मभृतां वरः॥४७॥
सन्दर्शयित्वा चात्मानं दिव्यमद्भुतदर्शनम्।
विपाप्मा विगतक्रोधश्चचार वनमन्तिकात्॥४८॥
एतद्दृष्टं मया राजंस्ततश्च वचनं श्रुतम्।
आशामपनयस्वाशु ततः कृशतरीमिमाम्॥४९॥
[भ्]
स तत्रोक्तो महाराज ऋषभेण महात्मना।
सुमित्रोऽपनयत्क्षिप्रमाशां कृशतरीं तदा॥५०॥
एवं त्वमपि कौन्तेय श्रुत्वा वाणीमिमां मम।
स्थिरो भव यथा राजन्हिमवानचलोत्तमः॥५१॥
त्वं हि द्रष्टा च श्रोता च कृच्छ्रेष्वर्थकृतेष्विह।
श्रुत्वा मम महाराज न सन्तप्तुमिहार्हसि॥५२॥
॥इति ऋषभगीता समाप्ता॥