प्रमुखा विकल्पसूचिः उद्घाट्यताम्
एकश्लोकिरामायणम्
रामस्तोत्राणि
[[लेखकः :|]]

आदौ रामतपोवनादिगमनं हत्वा मृगं कांचनं
वैदेहीहरणं जटायुमरणं सुग्रीवसंभाषणम् ।
वालीनिर्दलनं समुद्रतरणं लंकापुरीदाहनं
पश्चाद्रावणकुंभकर्णहननमेतद्धि रामायणम् ॥

॥ एकश्लोकि रामायणं संपूर्णम् ॥

"https://sa.wikisource.org/w/index.php?title=एकश्लोकिरामायणम्&oldid=91924" इत्यस्माद् पुनः प्राप्तिः