प्रमुखा विकल्पसूचिः उद्घाट्यताम्

स्रोतः - पराङ्कुशाचार्यजालक्षेत्रम्। अत्र पठने सौकर्याय सङ्गृहीतम्।

अन्तर्विषयाः

प्रस्तावःसम्पाद्यताम्

अथ श्रीहरदत्तमिश्रविरचित-मन्त्रप्रपाठकव्याख्याप्रारम्भः।

प्रणिपत्य महादेवं हरदत्तेन धीमता ।
एकाग्निकाण्डमन्त्राणां व्याख्या सम्यग्विधीयते ॥

1.1 तमः खण्डःसम्पाद्यताम्

मन्त्रःसम्पाद्यताम्

अदि॒तेऽनु॑ मन्यस्व। अनु॑म॒तेऽनु॑ मन्यस्व। सर॑स्-वतेऽनु॑ मन्यस्व। देव सवितः॒ प्रसु॑व।

टीकासम्पाद्यताम्

तत्राचार्या आदितो वैश्वदेवमन्त्रानधीयते । तत्र चोक्तं उभयतः परिषेचनं - यथा पुरस्तादिति । तत्परिषेचनमान्त्राः पूर्वं व्याख्येयाः ।

मन्त्रःसम्पाद्यताम्

अदि॒तेऽनु॑ मन्यस्व।

टीकासम्पाद्यताम्

अदितिर्नाम देवमाता । हे अदिते अनुमन्यस्व । मया क्रियमाणं कर्म अनुजानीहि ।

मन्त्रःसम्पाद्यताम्

अनु॑म॒तेऽनु॑ मन्यस्व।

टीकासम्पाद्यताम्

अनुमतिः अनुमन्त्री ऊनचन्द्रा पूर्णमासी । हे अनुमते अनुमन्यस्व ।

मन्त्रःसम्पाद्यताम्

सर॑स्-वतेऽनु॑ मन्यस्व।

टीकासम्पाद्यताम्

सरस्वती वाग्देवता, तस्यास्सम्बुद्धिः । हे सरस्वते अनुमन्यस्व । सरस्वते इति छान्दसो गुणः ।

मन्त्रःसम्पाद्यताम्

देव सवितः॒ प्रसु॑व।

टीकासम्पाद्यताम्

हे देव सवितः । सर्वस्यानुज्ञाता । अस्मानपि प्रसुव अनुजानीहि ॥

प्रस्तावःसम्पाद्यताम्

अथ वैश्वदेवमन्त्राः । तेषां मन्त्राणामुपयोगे द्वादशाहमधश्शय्या । इत्यादि । उपयोगः नियमपूर्वकं विद्याग्रहणम् । कर्तुरेव व्रतम् । पत्न्या अपि केचिदिच्छन्ति ।

मन्त्रःसम्पाद्यताम्

ओम् अ॒ग्नये॒ स्वाहा॑।

टीकासम्पाद्यताम्

ओम् अग्नये स्वाहा । यथा ओम्- इत्यनुज्ञाक्षरं, तथा स्वाहाकारो हविःप्रदानार्थः ।

मन्त्रःसम्पाद्यताम्

सोमा॑य॒ स्वाहा॑।

टीकासम्पाद्यताम्

सोमाय स्वाहेति । इमं मन्त्रं केचिन्नाधीयते ।

मन्त्रःसम्पाद्यताम्

विश्वे॑भ्यो दे॒वेभ्य॒स् स्वाहा॑।

टीकासम्पाद्यताम्

विश्वेभ्यो देवेभ्यः । सर्वेभ्यो देवेभ्यः ।

मन्त्रःसम्पाद्यताम्

ध्रु॒वाय॑ भू॒माय॑ स्वाहा॑।

टीकासम्पाद्यताम्

ध्रुवाय एकरूपाय वृद्धिक्षयरहिताय । भूमाय भूम्ने ब्रह्मणे । भूमा त्वेव विजिज्ञासितव्यः इति छान्दोग्यम् ।

मन्त्रःसम्पाद्यताम्

ध्रु॒व॒क्षित॑ये॒ स्वाहा॑।

टीकासम्पाद्यताम्

ध्रुवा निश्चला क्षितिः गतिः व्याप्तिर्यस्य कार्यवर्गं प्रति, तस्मै ध्रुवक्षितये ब्रह्मणे ।

मन्त्रःसम्पाद्यताम्

अ॒च्यु॒त॒क्षित॑ये॒ स्वाहा॑।

टीकासम्पाद्यताम्

एवं अच्युतक्षितये ।

मन्त्रःसम्पाद्यताम्

अ॒ग्नये॑ स्विष्ट॒कृते॑ स्वाहा॑।

टीकासम्पाद्यताम्

एवमग्नये स्विष्टकृते । रुद्रोऽग्निस्स्विष्टकृत् । स्विष्टं सुहुतं करोतीति स्विष्टकृत् तस्मै ॥

मन्त्रःसम्पाद्यताम्

अदि॒तेऽन्व॑मँस्थाः। अनु॑म॒तेऽन्व॑मँस्थाः। सर॑स्-व॒तेऽन्व॑मँस्थाः। देव॑ सवितः॒ प्रासा॑वीः।

टीकासम्पाद्यताम्

पूर्ववत्परिषेचनम् । अन्वमंस्थाः । अनुज्ञातवती । प्रासावीः अनुज्ञातवान् ॥

प्रस्तावःसम्पाद्यताम्

अथ बलिहरणमन्त्राः ।

मन्त्रःसम्पाद्यताम्

धर्मा॑य स्वाहा॑ । अध॑र्माय स्वाहा॑।
अ॒द्भ्यस् स्वाहा॑ ।

टीकासम्पाद्यताम्

धर्माधर्मौ प्रसिद्धौ, आपश्च । एवमोषधिवनस्पतयञ्च । अत्र तत्तदधिष्ठात्र्यो देवता गृह्यन्ते ।

मन्त्रःसम्पाद्यताम्

ओ॒ष॒धि॒व॒न॒स्प॒तिभ्य॒स् स्वाहा॑। र॒क्षो॒दे॒व॒ज॒नेभ्य॒स् स्वाहा॑ ।

टीकासम्पाद्यताम्

रक्षोदेवजनेभ्यः । रक्षसां देवानां च ये जनाः परिचारकाः तेभ्यः ।

मन्त्रःसम्पाद्यताम्

गृह्य॑भ्य॒स् स्वाहा॑। अ॒व॒साने॑भ्यस् स्वाहा॑ । अ॒व॒सान॑पतिभ्य॒स् स्वाहा॑ । स॒र्व॒भू॒तेभ्य॒स् स्वाहा॑ ।

टीकासम्पाद्यताम्

गृह्याभ्यः गृहे भवाः गृहाः देवताः, वास्तुविद्याप्रसिद्धाः, ताभ्यः । अवसानेभ्यः अवसानं गृहम्, अवयवापेक्षं बहुवचनम् । तत्तदधिष्ठानेभ्यो देवताभ्यः । अवसानपतिभ्यः अवसानरक्षितृभ्यः । सर्वभूतेभ्यस्स्वाहा । सर्वाणि च तानि भूतानि च तेभ्यः ।

मन्त्रःसम्पाद्यताम्

काम॑य॒ स्वाहा॑ ।
अ॒न्तरि॑क्षाय॒ स्वाहा॑ ।

टीकासम्पाद्यताम्

कामाय । कामः प्रसिद्धः । एवमन्तरिक्षमपि ।

मन्त्रःसम्पाद्यताम्

यदेज॑ति जग॑ति यच्च॒ चेष्ट॑ति नाम्नो॑ भा॒गोऽयं नाम्ने॒ स्वाहा॑।

टीकासम्पाद्यताम्

यदेजति येनापिधीयते द्वारं तदुच्यते । यद्वा यत् अपिधानकाले कम्पते जगति लोके यच्च चेष्टति चेष्टते, तस्य नाम्नो नमनशीलस्य भागोऽयं तस्मै नाम्ने स्वाहा ।

मन्त्रःसम्पाद्यताम्

पृ॒थि॒व्यै स्वाहा॑। अ॒न्तरि॑क्षाय॒ स्वाहा॑। दि॒वे स्वाहा॑ । सूर्या॑य॒ स्वाहा॑ । च॒न्द्रम॑से॒ स्वाहा॑ । नक्ष॑त्रेभ्य॒स् स्वाहा॑ । इन्द्रा॑य॒ स्वाहा॑ । बृह॒स्पत॑ये॒ स्वाहा॑ । प्र॒जाप॑तये॒ स्वाहा॑ । ब्रह्म॑णे॒ स्वाहा॑।

टीकासम्पाद्यताम्

पृथिव्यादयः प्रसिद्धाः ।

मन्त्रःसम्पाद्यताम्

स्व॒धा पि॒तृभ्य॒स् स्वाहा॑।

टीकासम्पाद्यताम्

यथा देवेभ्यस्स्वाहाकारः, एवं पितृभ्यः स्वधाकारः ।

मन्त्रःसम्पाद्यताम्

नमो॑ रु॒द्राय॑ पशु॒पत॑ये॒ स्वाहा॑।

टीकासम्पाद्यताम्

नमो रुद्राय पशुपतये । पशवो द्विपादश्चतुष्पादश्च, तेषां पत्ये ।

मन्त्रःसम्पाद्यताम्

ये भू॒ताः प्र॒चर॑न्ति दिवा॒ नक्तं॒ बलि॑मि॒च्छन्तो॑ वि॒तुद॑स्य॒ प्रेष्याः॑ । तेभ्यो॑ ब॒लिं पु॑ष्टि॒कामो॑ हरामि॒ मयि॒ पुष्टिं॒ पुष्टि॑पतिर् दधातु॒ स्वाहा॑॥

टीकासम्पाद्यताम्

ये भूताः प्रचरन्ति । यानि भूतानि प्रचरन्ति इतस्ततः चरन्ति, दिवा नक्तं बलिमिच्छन्तः, वितुदस्य कुबेरपुत्रस्य । वितुदये कौबेराय इति मन्त्रान्तरे दर्शनात् । तस्य कुबेरपुत्रस्य, ये प्रेष्याः, तेभ्यः बलिं पुष्टिकामः हरामि । स पुष्टिपतिः वितुदः मयि पुष्टिं दधातु । अनेन नक्तमेव बलेः नक्तमेवोत्तमेन वैहायसम् इति दर्शनात्, नक्तं बलिमिच्छन्तः इति लिङ्गाच्च ।
अन्ये तु- नक्तमुत्तमेनैवेति भिन्नक्रम- मेवकारस्याचक्षते, तेषां बल्यन्तराणां रात्रौ निवृत्तिः । केचिद्दिवा बलिमिच्छन्तः, इत्यूहेन दिवा बलिं हरन्ति । दिवाचारिभ्य इति दिवा, नक्तञ्चारिभ्य इति नक्तम् - इत्याश्वलायने दर्शनात् ॥

प्रस्तावःसम्पाद्यताम्

अथ विवाहमन्त्राः - प्रसुग्मन्ता वरान् प्रहिताननुमन्त्रयते - प्रसुग्मन्ता इति ॥

मन्त्रः 1सम्पाद्यताम्

प्र॒सु॒ग्मन्ता॑ धि॒यसा॒नस्य॑ स॒क्षणि॑ व॒रेभि॑र्व॒राꣳ अ॒भि षु॒ प्रसी॑दत ।
अ॒स्माक॒मिन्द्र॑ उ॒भयं॑ जुजोषति॒ यत्सौ॒म्यस्यान्ध॑सो॒ बुबो॑धति ।

टीकासम्पाद्यताम्

प्रसुग्मन्ता - प्रकर्षेण सुष्ठु गन्तारः, धियसानस्य ध्यायमानस्य, सक्षणि समाने क्षणे, ध्यानानन्तरमेव, वरेभिः वरैः श्रेष्ठैः पथिभिः, वरान् वरयितव्यान् कन्यायाः पित्रादीन्, अभि प्रति, सु प्रसीदत सुष्ठु प्रकर्षेण गच्छत, हे सुहृदः । इन्द्रोऽप्यत्र सहाय इत्याह- अस्माकमुभयम् । अस्मदो द्वयोश्च इति द्वयोर्बहुवचनम् । मम च कन्यायाश्च आवयोर्योगं युगळं इन्द्रो जुजोषति सेवते । तस्याप्येतदनुमतमित्यर्थः । कस्मात्? यत् यस्मात्कारणात्, सौम्यस्यान्धसः अन्नस्य । द्वितीयार्थे षष्ठी । सोमरसात्मकमन्नं आवाभ्यां दास्यमानं बुबोधति, एतौ सङ्गतौ मां यक्ष्येते इति बुध्यते ॥

मन्त्रः 2सम्पाद्यताम्

अ॒नृ॒क्ष॒रा ऋ॒जव॑स्सन्तु॒ पन्था॒ येभि॒स्सखा॑यो॒ यन्ति॑ नो वरे॒यम् ।
सम॑र्य॒मा सं भगो॑ नो निनीया॒त्सञ्जा॑स्प॒त्यꣳ सु॒यम॑मस्तु देवाः ।

टीकासम्पाद्यताम्

अनृक्षरा ऋजव अनृक्षरा इति ॥ कन्यागृहं गच्छताम्, एतेषां पन्थाः पन्थानः, अनृक्षराः कंटकशर्करादिरहिताः, ऋजवश्च सन्तु, येभिः यैः पथिभिः, नः अस्माकं, सखायः सुहृदः, इमे यन्ति गच्छन्ति, वरेयं वरणीयं कन्यायाः पित्रादिकं प्रति । नः आवां च, अर्यमा भगश्च, सम् निनीयात् सन्नयतु सङ्गमयतु । आवयोश्च जास्पत्यं जायापतिभावः सम्यक् सुयममस्तु सुसम्बद्धमस्तु, हे देवाः ॥

मन्त्रः 3सम्पाद्यताम्

अभ्रा॑तृघ्नीं॒ वरु॒णाप॑तिघ्नीं बृहस्पते । इन्द्रापु॑त्रघ्नीं ल॒क्ष्म्य॑न्ताम॒स्यै स॑वितस्सुव ।

टीकासम्पाद्यताम्

स्वयं दृष्ट्वा तृतीयां जपेत् - अभ्रातृघ्नीमिति । हे वरुण । त्वं अस्यै वध्वै, या अभ्रातृघ्नी लक्ष्मीः, तां लक्ष्म्यम् । वा छन्दसि इति पूर्वसवर्णाभावे यणादेशः । लक्ष्मीं सुव देहि । हे बृहस्पते । त्वं च या अपतिघ्नी लक्ष्मीः, तां लक्ष्म्यं सुव देहि । हे इन्द्र । त्वं या अपुत्रघ्नी लक्ष्मीः तां सुव देहि । हे सवितः । त्वं च सर्वात्मिकां लक्ष्म्यं सुव देहि । यथेयं भ्रात्रादिमरणं न प्राप्नोति तथा कुरुतेत्यर्थः ॥

मन्त्रः 4सम्पाद्यताम्

अघो॑रचक्षु॒रप॑तिघ्न्येधि शि॒वा प॒तिभ्य॑स्सु॒मना॑स्सु॒वर्चाः॑ ।
जी॒व॒सूर्दे॒वका॑मा स्यो॒ना शन्नो॑ भव द्वि॒पदे॒ शञ्चतु॑ष्पदे ।

टीकासम्पाद्यताम्

चतुर्थ्या समीक्षेत- अघोरेति ॥ अवयवशो निरूपणं समीक्षणम् । हे वधु । त्वं अघोरचक्षुः अपतिघ्नी च एधि भव । शिवा पतिभ्यः, देवराद्यपेक्षं बहुवचनम् । मह्यं पत्ये देवरादिभ्यश्च शिवा भव । सुमनाः सुवर्चाश्च भव । या जीवत एव सूते सा जीवसूः । देवान् यष्टव्यत्वेन या कामयते सा देवकामा । स्योना प्रशस्ता । सर्वत्र भवेति संबध्यते । नः अस्माकं सम्बन्धिने द्विपदे शं भव । चतुष्पदे च शं सुखकरी भव ॥

मन्त्रः 5सम्पाद्यताम्

इ॒दम॒हय्याँ त्वयि॑ पति॒घ्न्य॑ल॒क्ष्मिस्तां निर्दि॑शामि ।

टीकासम्पाद्यताम्

वध्वाः भ्रुवोरन्तरं संमृज्य प्रतीचीनं निरस्येत् - इदमहमिति ॥ हे वधु । या त्वयि पतिघ्नी पतिहन्त्री अलक्ष्मिः अलक्ष्मीः । छान्दसो ह्रस्वः । तां अहं निर्दिशामि संमृज्य निरस्यामीति । यत् दर्भेण सम्मार्जनम् तदिदमलक्ष्म्या एव निरसनमिति इदं शब्दस्यार्थः, अलक्ष्मीः निरस्यते तथा इदं क्रियते इति ॥

मन्त्रः 6सम्पाद्यताम्

जी॒वाꣳ रु॑दन्ति॒ विम॑यन्ते अद्ध्व॒रे दी॒र्घामनु॒ प्रसि॑तिं दीधियु॒र्नरः॑ ।
वा॒मं पि॒तृभ्यो॒ य इ॒दꣳ स॑मेरि॒रे मयः॒ पति॑भ्यो॒ जन॑यः परि॒ष्वजे॑ ।

टीकासम्पाद्यताम्

कन्यावियोगकाले बन्धुजनस्य रोदने जपः - जीवां रुदन्तीति ॥ कन्याया एव रोदन इत्याश्वलायनः । यथाह - जीवां रुदन्तीति रुदत्याम् इति । जीवन्तीमेवैतां कन्यामुद्दिश्य रुदन्ति अध्वरे, ध्वरतिर्हिंसाकर्म । हिंसारहिते काले तदिदं विमयन्ते व्यत्ययं कुर्वते हर्षस्थाने शोचन्ति । त इमे दीर्घां दीर्घकालानुवर्तिनीं प्रसितिं प्रक्रुष्टं भावबन्धं आवयोः अनुदीधियुः अनुध्यायन्तु, नरः कन्याबन्धुमनुष्याः । ये इदं विवाहकर्म समेरिरे प्रेरिरे प्रवर्तयन्ति स्म । कीदृशं? पितृभ्यो वामं पितृणां वननीयं, मयः पतिभ्यः पत्युर्मम सुखरूपं जनयः । षष्ठ्येकवचनस्थाने प्रथमाबहुवचनम् । जन्याः अस्याः वध्वाः परिष्वजे परिष्वङ्गाय पर्याप्तं, एवम्भूतं विवाहकर्म प्रवर्तितवन्तः ते कव्याबन्धुमनुष्याः, आवयोः भाविनं दीर्घं भावबन्धमालोच्य मा रुदन्त्वित्यर्थः ॥

मन्त्रः 7सम्पाद्यताम्

व्यु॑क्षत् क्रू॒रमुद॑च॒न्त्वाप॒ आऽस्यै ब्रा॑ह्म॒णास्स्नप॑नꣳ हरन्तु ।
अवी॑रघ्नी॒रुद॑च॒न्त्वापः॑ ।

टीकासम्पाद्यताम्

मन्त्रवतोऽद्ध्यः प्रहिणुयात् - व्युक्षदिति । व्युक्षदिति, उक्षतिः सेचनकर्मान्यत्र, इह तु अपगमे द्रष्टव्यः पञ्चमश्च लकारः । यदपां क्रूरं तदपगच्छतात् । आपः उदचन्तु उद्गच्छन्तु । किमर्थमेवं प्रार्थ्यते? अस्यै अस्याः वध्वाः, स्नपनं उदकं आहरन्तु ब्राह्मणाः । अवीरघ्नीः जसि वा छन्दसि इति पूर्वसवर्णः । वीराः पुरुषाः तद्धननस्वभावाः वीरघ्न्यः ततोऽन्याः अवीरघ्न्यः उदचन्त्वापः । अवीरघ्नीरिति विशेषण विवक्षया पुनरिदमुक्तम् ॥

मन्त्रः 8सम्पाद्यताम्

अ॒र्य॒म्णो अ॒ग्निं परि॑यन्तु क्षि॒प्रं प्रती॑क्षन्ता॒ꣳ॒ श्वश्र्वो॑ दे॒वरा॑श्च ।

टीकासम्पाद्यताम्

वध्वाः शिरसि दर्भेण्वनिधानम् - अर्यम्ण इति ॥ अर्यमा आदित्यः, तस्य प्रसादात् अग्निं इमं विवाहाग्निं परियन्तु क्षिप्रं परिवेष्ट्य मण्डलीभूताः तिष्ठन्तु, यथेदमिण्वं मण्डलीभूतम्, परीत्य च प्रतीक्षन्तां पश्यन्तु । के? श्वश्र्वः वध्वा मम च मातरः, देवराश्च वध्वा मम च भ्रातरः ॥

मन्त्रः 9सम्पाद्यताम्

खेऽनसः॒ खे रथः॒ खे युग॑स्य शचीपते ।
अ॒पा॒लामि॑न्द्र॒ त्रिः पू॒र्त्व्य॑कर॒त्सूर्य॑वर्चसम् ।

टीकासम्पाद्यताम्

तस्मिन्निण्वे दक्षिणं युगच्छिद्रं प्रतिष्ठापयति - खेऽनस इति ॥ अत्रेतिहासमाचक्षते - अपाला नाम काचित् कन्या श्वित्रिणी । तां न कश्चिदुपयेमे । तस्याश्च मनसि कामः सदा बभूव, कथमहं इन्द्रं यजे इति । सा कदाचित् स्नानार्थं नद्यामवतीर्णा स्रोतसा ह्रियमाणा, तमेव कामं मनसि दधाना, स्रोतसाऽपनीतं सोममपश्यत् । तं दन्तैः पिष्ट्वा तद्रसं इन्द्राय उपाहरत् । तमिन्द्रः पीत्वा रथस्यानसो युगस्येति त्रयाणां छिद्रेषु अपो निस्सार्य, ताभिः तां त्रिः पूर्त्वा सूर्यवर्चसमकरोत् । तदेतत् “कन्या वारवायती” (ऋग्वेदे) इत्यस्मिन् वर्गे द्रष्टव्यम् । रथ इति षष्ठ्यर्थे प्रथमा । रथादीनां खेषु छिद्रेषु, अपो निस्सार्य त्रिः पूर्त्वी । छान्दसो रेफोपजनः । पूत्वा शोधयित्वा हे शचीपते हे इन्द्र । त्वं अपालां नाम कन्यां सूर्यवर्चसं अकरत् अकरोः । पुरुषव्यत्ययश्छान्दसः । तथैव एनामपि कुर्वित्यर्थः ॥

शन्ते॒ हिर॑ण्य॒ꣳ॒ शमु॑ स॒न्त्वाप॒श्शन्ते॑ मे॒धी भ॑वतु॒ शय्युँ॒गस्य॒ तृद्म॑ ।
शन्त॒ आप॑श्श॒तप॑वित्रा भव॒न्त्वथा॒ पत्या॑ त॒न्वꣳ॑ सꣳसृ॑जस्व ।। (1)

टीकासम्पाद्यताम्

10 छिद्रे सुवर्णनिधानमन्त्रः - शन्त इति ॥ छिद्रे निधीयमानं हिरण्यं, ते शं भवतु शमु सन्तु । (ल इत्यनर्थकः पादपूरणः ।??) आपश्च तत्र निषिच्यमानाः, ते शं सुखं सन्तु भवन्तु । अप्रसिद्धपाठस्तु शमुशे त्वाप इति । तत्राप्यर्थः स एव । सकारशकारयोर्व्यत्ययः । मेथी खलेवाली, अत्र तु युगस्य अभिधानमेतत् । मेथ्यपि ते शं भवतु । युगस्य तृद्म छिद्रमपि तथा शं भवतु । शतपवित्राः बहूनां शोधयित्र्यः आपश्च ते शं भवन्तु । विशेषणविवक्षया पुनर्वचनम् । अथ अनन्तरं पत्या मया, तन्वं तनुं संसृजस्व संयोजय संभोगकाले ॥ इति श्रीहरदत्तविरचितायां एकाग्निकाण्डव्याख्यायां प्रथमः खण्डः

1.2 तमः खण्डःसम्पाद्यताम्

मन्त्रः 1सम्पाद्यताम्

हिर॑ण्यवर्णा॒श्शुच॑यः पाव॒काः प्रच॑क्रमुर्‌हि॒त्वाऽव॒द्यमापः॑ ।
श॒तं प॒वित्रा॒ वित॑ता॒ ह्या॑सु॒ ताभि॑ष्ट्वा दे॒वस्स॑वि॒ता पु॑नातु ।

टीकासम्पाद्यताम्

उत्तरे पञ्च स्नानमन्त्राः - “हिरण्यवर्णा” इति ॥ हिरण्यवर्णाः हिरण्यस्येव वर्णो यासां ताः शुद्धवर्णाः शुचयः शुद्धाः पावकाः शोधयित्र्यः प्रचक्रमुः प्रवर्तन्ते हित्वावद्यं पापं त्यक्त्वा आपः । आसु? हि शतं पवित्राः बहूनि पवित्राणि तीर्थानि वितताः विस्तृतानि । ताभिः अद्भिः त्वा देवः सविता पुनातु ॥

मन्त्रः 2सम्पाद्यताम्

हिर॑ण्यवर्णा॒श्शुच॑यः पाव॒का यासु॑ जा॒तः क॒श्यपो॒ यास्व॒ग्निः ।
या अ॒ग्निं गर्भं॑ दधि॒रे सु॒वर्णा॒स्तास्त॒ आप॒श्श२ꣳ स्यो॒ना भ॑वन्तु ।

टीकासम्पाद्यताम्

द्वितीयमन्त्रे कश्यप इत्यादित्यस्याभिधानं - पश्यति सर्वमिति पश्यः पश्य एव पश्यकः तत्राद्यन्तविपर्यासेन कश्यपो भवति । दृश्यते चारण्यके – “कश्यपः पश्यको भवति । यत्सर्वं परिपश्यति” इति । स चाद्भ्यः प्रातरुद्यन् तासु जात इत्युच्यते । अग्नेश्च वैद्युतस्य अप्सु जन्म, धारणं च तस्यैव । सुवर्णाः शोभनवर्णाः ताः आपः ते शं स्योना सुखकराः भवन्तु । स्योनमित्यपि सुखनाम, ऐहिकपारलौकिकसुखस्य भेदादपौनरुक्त्यम् ॥

मन्त्रः 3सम्पाद्यताम्

यासा॒ꣳ॒ राजा॒ वरु॑णो॒ याति॒ मद्ध्ये॑ सत्यानृ॒ते अ॑व॒पश्य॒ञ्जना॑नाम् ।
या अ॒ग्निं गर्भं॑ दधि॒रे सु॒वर्णा॒स्तास्त॒ आप॒श्श२ꣳ स्यो॒ना भ॑वन्तु ।

टीकासम्पाद्यताम्

तृतीयः- यासां राजेति ॥ । स्षष्टोऽर्थः ।

मन्त्रः 4सम्पाद्यताम्

यासां॑ दे॒वा दि॒वि कृ॒ण्वन्ति॑ भ॒क्षं या अ॒न्तरि॑क्षे बहु॒धा निवि॑ष्टाः ।
या अ॒ग्निं गर्भं॑ दधि॒रे सु॒वर्णा॒स्तास्त॒ आप॒श्श२ꣳ स्यो॒ना भ॑वन्तु ।

टीकासम्पाद्यताम्

चतुर्थः - यासां देवा इति ॥ यासां अपां भक्षं भोजनं दिवि द्युस्थाने देवाः कृण्वन्ति कुर्वन्ति । या अन्तरिक्षे बहुधा निविष्टाः मेघेषु । या अग्निं गर्भे दधिरे बडबानलरूपं धृतवत्यः । ता इत्यादि । गतम् ॥

मन्त्रः 5सम्पाद्यताम्

शि॒वेन॑ त्वा॒ चक्षु॑षा पश्यन्त्वापश्शि॒वया॑ त॒न्वोप॑स्पृशन्तु॒ त्वच॑न्ते ।
घृ॒त॒श्चुत॒श्शुच॑यो॒ याः पा॑व॒कास्तास्त॒ आप॒श्श२ꣳ स्यो॒ना भ॑वन्तु ।

टीकासम्पाद्यताम्

शिवेन त्वेति ॥ हे वधु ।आपः त्वां शिवेन चक्षुषा पश्न्तु शिवया च तन्वा ते त्वचं उपस्पृशन्तु घृतश्चुतः घृतस्सं दुहानाः । शुचयः इत्यादि । गतम् ॥

मन्त्रः 6सम्पाद्यताम्

परि॑ त्वा गिर्वणो॒ गिर॑ इ॒मा भ॑वन्तु वि॒श्वतः॑ ।
वृ॒द्धायु॒मनु॒ वृद्ध॑यो॒ जुष्टा॑ भवन्तु॒ जुष्ट॑यः ।

टीकासम्पाद्यताम्

“अहतस्य वाससः परिधानम् परि त्वा गिर्वण” इति ॥ हे हन्द्र । त्वं गिर्वणः, वनषणसम्भक्तौ, स्तुतिलक्षणाभिर्गीर्भिः सम्भ जनीषः स्तुतीनां वा सम्भक्तः इमा मदीया गिरः त्वा त्वां परिभवन्तु, परिपूर्वे भवतिः परिग्रहे वर्तते, परिग्रहन्तु विश्वतः सर्वतो यथा इमामिदं वासः परितो भवतीत्यभिप्रायः । कीदृशं त्वां? वृद्धायुं वृद्धान् गुरून् प्रर्ति गन्तारं, कीदृश्यो गिरः? अनुवृद्धयः अनुरनर्थकः, वृद्धयः प्रवृद्धास्ताश्च जुष्टाः सेविता भवन्तु त्वया जुष्टयः सेवितव्याः ॥

मन्त्रः 7सम्पाद्यताम्

आ॒शासा॒नेत्ये॒षा ।

टीकासम्पाद्यताम्

योक्त्रबन्धनम् - आशासानेति ॥ सौमनसं सौमनस्यं प्रजां सौभाग्यं तनूं आशासाना अग्नेनुव्रता भूत्वा वधूरियं तिष्ठति, तामिमां योक्त्रेण संनह्ये बध्नामि सुकृताय विवाहाख्याय पुण्याय कर्मणे । कमित्यनर्थकम् । सुखं यथा भवति तथा बध्नामीति वा ॥

मन्त्रः 8सम्पाद्यताम्

पू॒षा त्वे॒तो न॑यतु॒ हस्त॒गृह्या॒श्विनौ॑ त्वा॒ प्रव॑हता॒ꣳ॒ रथे॑न ।
गृ॒हान्ग॑च्छ गृ॒हप॑त्नी॒ यथाऽसो॑ व॒शिनी॒ त्वं वि॒दथ॒माव॑दासि ।। (2)

टीकासम्पाद्यताम्

अथैनामाग्निमभ्यानयति- पूषा त्वेति ॥ पूषा आदित्यः त्वा इतः प्रदेशादग्निसमीपं नयतु हस्तगृह्य हस्ते गृहीत्वा । इतो नीतां कृतहोमां रथादिना प्रोह्यमाणां त्वां अश्विनौ प्रवहतां प्रवहस्त अनुमन्येतां, इदमेवैतयोः प्रवहणं यदियमनुमतिः । ततश्च त्वं गृहान् गच्छ मदीयान् यथा गता गृहपत्नी गृहस्य पतिरीश्वरा असि स्याः तथा गच्छ । गत्वा च वशिनी स्वामिनी भूत्वा विदथं यज्ञं तद्विषयं यद्वक्तव्यं? आवदासि आभिमुख्येन वद ॥ इति द्वितीयः खण्डः

1.3 तमः खण्डःसम्पाद्यताम्

मन्त्रः 1सम्पाद्यताम्

सोमः॑ प्रथ॒मो वि॑विदे गन्ध॒र्वो वि॑विद॒ उत्त॑रः ।
तृ॒तीयो॑ अ॒ग्निष्टे॒ पति॑स्तु॒रीय॑स्ते मनुष्य॒जाः ।

टीकासम्पाद्यताम्

आज्यभागान्ते उत्तराभ्यामभिमन्त्रणम् - सोमः प्रथम इति ॥ सोमः प्रथमः त्वां विविदे लब्धवान् । तत उत्तरो गन्धर्वः विश्वावसुः विविदे । तृतीयस्त्वग्निस्ते तव पतिः । मनुष्यजाः मनुष्यजातस्त्वहं ते तुरीयः चतुर्थः पतिः ॥

मन्त्रः 2सम्पाद्यताम्

सोमो॑ऽददद्गन्ध॒र्वाय॑ गन्ध॒र्वोऽद॑दद॒ग्नये॑ ।
र॒यिञ्च॑ पु॒त्राꣳश्चा॑दाद॒ग्निर्मह्य॒मथो॑ इ॒माम् ।

टीकासम्पाद्यताम्

एष एवार्थः किञ्चिद्विशेषेणोच्यते - सोमोs दददिति ॥ सोमो ददत् अदात् दद्याद्वा (रयिं धनम्) ॥ गन्धर्वाय । गन्धर्वः अग्नये । अग्निः रयिं धनं पुत्रांश्व इमां त्वां च मह्यमदात् ॥

मन्त्रः 3सम्पाद्यताम्

गृ॒भ्णामि॑ ते सुप्रजा॒स्त्वाय॒ हस्तं॒ मया॒ पत्या॑ ज॒रद॑ष्टि॒र्यथाऽसः॑ ।
भगो॑ अर्य॒मा स॑वि॒ता पुर॑न्धि॒र्मह्य॑न्त्वाऽदु॒र्गार्‌ह॑पत्याय देवाः ।

टीकासम्पाद्यताम्

यद्योगाद्विवाहे पाणिग्रहणशब्दः तत्र मन्त्राश्चत्वारः - गृभ्णामि त इति ॥ ते तव हस्तं अहं गृभ्णामि गृह्णामि । किमर्थं? सुप्रजास्त्वाय शोभनाः प्रजाः यस्यास्सा सुप्रजाः तस्या भावः सुप्रजासत्वं, छान्दसो दीर्धः, तस्मै । किञ्च - मया पत्या सह यथा त्वं जरदष्टिः अ सः स्याः तथा गृह्णामि । जरावस्थायाः प्राप्तिः (तस्याः प्रकाशनं वा) यस्यास्सा जरदष्टिः । पुरन्धिः पुरुधीः बहुप्रज्ञा वहुकर्मा वा, भगादीनां चैतत्प्रत्येकं विशेषणम् । अन्ये तु - इन्द्रस्याभिधानं मन्यन्ते । भगादयो देवाः मह्यं त्वा अदुः दत्तवन्तः किमर्थं? मम गार्हपत्याय गार्हस्थ्याय ॥

मन्त्रः 4सम्पाद्यताम्

ते ह॒ पूर्वे॒ जना॑सो॒ यत्र॑ पूर्व॒वहो॑ हि॒ताः ।
मू॒र्द्ध॒न्वान् यत्र॑ सौभ्र॒वः पूर्वो॑ दे॒वेभ्य॒ आऽत॑पत् ।

टीकासम्पाद्यताम्

ते हेति ॥ हशब्दो निरर्थकः । ते भगादयः पूर्वे जनासः पूर्वे जनाः पूर्ववहः आदिकाले विवाहस्य कर्तारः यत्र गार्हस्थ्ये हिताः स्थिताः ।यत्र च सौभ्रवो मूर्धन्वान् स्थितः पूर्वे देवेभ्यः देवानां प्रथमः आsतपत् आ समन्तात् अतपत् । सुभ्रूः अदितिः शोभने भ्रुवौ यस्यास्सा सुभ्रूः तस्याः अपत्यं सौभ्रवः आदित्यः । मूर्धा शिरः तेन प्राधान्यं लक्ष्यते मूर्धन्वान् प्राधान्यवान् । अग्निर्वा सौभ्रवः स च मूर्धन्वान् अग्निर्मूर्धा इत्यस्यामृचि स्तुतः । तथा चाश्वलायनः - अग्निर्मूर्धन्वान्विराजौ संयाज्ये इति । पूर्वो देवेभ्य इति च सुसङ्गतम् । अग्निर्मुखं प्रथमो देवतानाम् इति मन्त्रान्तरे दर्शनात् । ते भगादयः यत्र स्थिताः तस्मै गार्हपत्याय मह्यं त्वामदुः तस्मात्ते इस्तं गृह्णामीति योज्यम् ॥

मन्त्रः 5सम्पाद्यताम्

सर॑स्वति॒ प्रेदम॑व॒ सुभ॑गे॒ वाजि॑नीवति ।
तां त्वा॒ विश्व॑स्य भू॒तस्य॑ प्र॒गाया॑मस्यग्र॒तः ।

टीकासम्पाद्यताम्

सरस्वतीति ॥ हे सरस्वति । त्वं च इदं पाणिग्रहणं प्रेध प्रकर्षेण रक्ष । हे सुभगे । वाजिनीवति ।? वाजोsन्नं तद्वत्क्रियावति । (स्तुतिर्वा वाजिनी तद्वति हविर्भिस्स्तुतिभिश्च तद्वति) । तां त्वा वयं विश्वस्य भूतस्य सर्वेषामेव अग्रतः प्रगायामसि प्रगायामः प्रकर्षेण स्तुमः “इदन्तो मसि” ॥

मन्त्रः 6सम्पाद्यताम्

य एति॑ प्र॒दिश॒स्सर्वा॒ दिशोऽनु॒ पव॑मानः ।
हिर॑ण्यहस्त ऐर॒म्मस्स त्वा॒ मन्म॑नसं कृणोतु ।

टीकासम्पाद्यताम्

यएतीति ॥ एष एवमानः सर्वा दिशः प्रदिशश्चान्वेति अनुक्रमेणैति हिरण्यहस्तः भक्तेभ्यो देयं हिरण्यं हस्ते यस्य सः हिरण्यहस्तः ऐरंमः इराअन्नं तां मिमीते करोतीतीरंमः अग्निः तस्यायं सखा । ऐरंमः वायुसखा इति ह्यग्निमुपचरन्ति, य एवंभूतो वायुः सः त्वा त्वां मन्मनसं मयि मनो यस्यास्सा मन्मनाः तादृशीं कुणोतु करोतु ॥

मन्त्रः 7 -13सम्पाद्यताम्

एक॑मि॒षे विष्णु॒स्त्वाऽन्वे॑तु ।
द्वे ऊ॒र्जे विष्णु॒स्त्वाऽन्वे॑तु ।
त्रीणि॑ व्र॒ताय॒ विष्णु॒स्त्वाऽन्वे॑तु ।
च॒त्वारि॒ मायो॑भवाय॒ विष्णु॒स्त्वाऽन्वे॑तु ।
पञ्च॑ प॒शुभ्यो॒ विष्णु॒स्त्वाऽन्वे॑तु ।
षड्रा॒यस्पोषा॑य॒ विष्णु॒स्त्वाऽन्वे॑तु ।
स॒प्त स॒प्तभ्यो॒ होत्रा॑भ्यो॒ विष्णु॒स्त्वाऽन्वे॑तु ।
सखा॑यस्स॒प्तप॑दा अभूम ।
स॒ख्यन्ते॑ गमेयम् ।

टीकासम्पाद्यताम्

अथैनां सप्तपदान्यभिप्रक्रमयति - एकमिष इति? ॥ इटू अन्नं, एकं पदं विष्णुः त्वाsन्वेतु इषे तवान्नं यथा स्यादिति ॥ ऊर्क् बलम् व्रतं कर्म? मयः सुखं तद्भवाय भवतीति मयोभूः तस्या भावो मायोभवं तस्मै, “मायो भव्याय” । इत्याश्वलायनः पच्च पशुभ्यः । षडृतुभ्यः । सप्त सप्तभ्यः । सर्वत्र विष्णुस्त्वान्वेत्वित्यनुषङ्गः । होता प्रशास्ता ब्राह्मणाच्छंसी पोता नेष्टाच्छावाक आग्नीध्र इत्येतास्सप्त होत्राः । तथा च ब्राह्मणं तस्मात्सौम्यस्याध्वरस्या यज्ञक्रतोः । सप्तहोत्राः “प्राचीवषट्कुर्वन्ति” इति । ताभ्यः ताः यज्ञकर्मणि तव यथास्युरित्येमर्थं विष्णुस्त्वाsन्वेतु ॥

मन्त्रः 14सम्पाद्यताम्

सखा॑ स॒प्तप॑दा भव॒ सखा॑यौ स॒प्तप॑दा बभूव स॒ख्यन्ते॑ गमेयꣳ स॒ख्यात्ते॒ मा यो॑षꣳ स॒ख्यान्मे॒ मा यो॑ष्ठा॒स्सम॑याव॒ सङ्क॑ल्पावहै॒ सं प्रि॑यौ रोचि॒ष्णू सु॑मन॒स्यमा॑नौ ।
इष॒मूर्ज॑म॒भि सं॒वसा॑नौ॒ सन्नौ॒ मनाꣳ॑सि॒ सं व्र॒ता समु॑ चि॒त्तान्याक॑रम् । सा त्वम॒स्यमू॒हममू॒हम॑स्मि॒ सा त्वं द्यौर॒हं पृ॑थि॒वी त्वꣳ रेतो॒ऽहꣳ रे॑तो॒भृत्त्वं मनो॒ऽहम॑स्मि॒ वाक्त्वꣳ सामा॒हम॒स्म्यृ॑क्त्व॒ꣳ॒ सा मामनु॑व्रता भव पु॒ꣳ॒से पु॒त्राय॒ वेत्त॑वै श्रि॒यै पु॒त्राय॒ वेत्त॑वा॒ एहि॑ सूनृते ।। (3)

टीकासम्पाद्यताम्

सप्त पदानि यया क्रान्तानि सा सप्तपदा एवंभूता त्वं सखा भव । सप्तपदा सप्तपदौ । द्विवचनस्याकारः । सप्तपदौ त्वं च अहं च सखायौ बभूव बभूविव । छान्दसो विशब्दस्यलोपः । आदरार्थं पुनर्वचनम् । सख्यं ते गमेयं गम्यासं सख्याते मा योषं वियुक्तः पृथकृतो मा भूवं, त्वं च सख्यान्मे मा योष्ठाः । समयाव । संपूर्वस्य इणो लोटि रूपम् । सङ्गतौ स्याव । सङ्कल्पावहै इदमिदं च कर्तव्यमिति । सम्प्रियौ परस्परं सम्प्रीयमाणौ रोचिष्णू सदृशसम्बन्धत्वात् परस्पराश्रयेण दीप्यमानौ सुमनस्यमानौ सुमनायमानौ । भृशादिरयं छान्दसस्सलोपाभावः । इषमूर्जमभिसंवसानौ सहानुभवन्तौ समयावेति सम्बन्धः । नौ आवयोः मनांसि व्यापारबहुत्वान्मनोबहुत्वं समाकरं सङ्गतानि करोमि । तथा व्रता व्रतानि कर्माणि समाकरं (यस्त्वया धर्मचरितव्यः सोनया सहेति) । तथा समुचितानि उ इत्यनर्थकः, मनस उक्तत्वाद्बाह्येन्द्रियाण्यत्र चित्तानि तान्यपिप्त समाकरणम् ॥ सा त्वं सेति ऋचोभिधानम्, अम इति साम्नः । सैव नाम ऋगासीदमो नाम साम इति बह्णृचब्राह्मणदर्शनात् । त्वं सासि ऋगसि अमोsहम् । संहिताकराले ओकारस्य ऊकारः । बह्वृचानां तु अमोहम् इति एव पाठः । एतदेवादरार्थं पुनरुच्यते । अमूहमस्मि अमः अहमस्मि सा त्वं ऋक्त्वं यथा ऋक्सामे परस्परं सम्बन्धे एवमावामपीत्यर्थः । द्यौरहं पृथिवी त्वं औत्तराधर्यमात्रं विवक्षितम् । रेतोऽहं कार्यकारणयोरभेदोपचारः । रेतोभृत्त्वं मया निषिक्तस्य रेतसो भर्त्री त्वम् । मनो हमस्मि वाक्त्वं यथा मनसा चिन्तितं वाग्ब्रूते एवमावयोरानुकूल्यमित्यर्थः । सामाहमस्म्यृक्त्वं एवंभूता सा त्वं मां प्रति अनुव्रता अनुकूला भव । किमर्थं? पुंसे पुत्राय वेत्तवै पुमांसं पुत्रं लब्धुं श्रियै पुत्राय वेत्तवे श्रियश्च पुत्रस्य च लाभार्थम् । पुत्रस्य पुनर्वचनमादरार्थम् । एहि आगच्छ प्रिया वाक् सूनृतं तद्योगात् सूनृते । इत्यामन्त्रणम् ॥

इति श्रीहरदत्तविरचिते एकाग्निकाण्डमन्त्रव्यास्याने तृतीयः खण्डः.

1.4 तमः खण्डःसम्पाद्यताम्

मन्त्रः 1 -3सम्पाद्यताम्

सोमा॑य जनि॒विदे॒ स्वाहा॑ ।
ग॒न्ध॒र्वाय॑ जनि॒विदे॒ स्वाहा॑ ।
अ॒ग्नये॑ जनि॒विदे॒ स्वाहा॑ ।

टीकासम्पाद्यताम्

उत्तरे षोडश प्रधानाहुतिमन्त्राः-सोमाय जनिविदे वधूं लब्धवते । गन्धर्वाय जनिविदे । अग्नये ॥

मन्त्रः 4सम्पाद्यताम्

क॒न्य॒ला पि॒तृभ्यो॑ य॒तीप॑ति लो॒कमव॑ दी॒क्षाम॑दास्थ॒ स्वाहा॑ ।

टीकासम्पाद्यताम्

कन्यालेति ॥ कन्यैव कन्यला लशब्दः उपजनः । पितृभ्यः पितृकुलात् पतिलोकं पतिकुलं यती गच्छन्ती दीक्षां कन्यकाव्रतं अवादास्थ दीङ् क्षये इस्यस्यान्तर्भावितव्यर्थस्य लुङि प्रथमपुरुषैकवचने रूपं, तकारस्य थकारः छान्दसः, अवक्षपितवती त्यक्तवतीत्यर्थः ॥

मन्त्रः 5सम्पाद्यताम्

प्रेतो मु॒ञ्चाति॒ नामुत॑स्सुब॒द्धाम॒मुत॑स्करत् ।
यथे॒यमि॑न्द्र मीढ्वस्सुपु॒त्रा सु॒भगाऽस॑ति ।

टीकासम्पाद्यताम्

प्रेत इति । इन्द्रः प्रार्थ्यते “इन्द्र मीढ्वः” इत्यामन्त्रितयोगात् । पुरुषव्यत्ययः । हे इन्द्र । मीढ्वः । वर्षेण शेक्तः । इमां वधूं इतः पितृकुलात् प्रमुञ्चाति प्रमुञ्च नामुतः न पतिकुलात्, किन्तु सुबद्धाममुतस्करत् अमुष्मिन् पतिकुले सुबद्धां सुष्ठु बद्धां करत् कुरु । यथेयं सुबद्धा सती सुपुत्रा सुभगा च असति स्यात् ॥

मन्त्रः 6सम्पाद्यताम्

इ॒मान्त्वमि॑न्द्र मीढ्वस्सुपु॒त्राꣳ सु॒भगां॑ कुरु । दशा॑स्यां पु॒त्राना धे॑हि॒ पति॑मेकाद॒शं कृ॑धि ।

टीकासम्पाद्यताम्

इमामिति ॥ त्वमिन्द्र । मीढ्वः । इमां वधूं सुपुत्रां सुभगां च कृणु कुरु । अस्यां दश पुत्रानाधेहि स्थापय पति मां एकादशं कृधि कुरु ॥

मन्त्रः 7सम्पाद्यताम्

अ॒ग्निरै॑तु प्रथ॒मो दे॒वता॑ना॒ꣳ॒ सो॑ऽस्यै प्र॒जां मु॑ञ्चतु मृत्युपा॒शात् ।
तद॒यꣳ राजा॒ वरु॒णोनु॑मन्यतां॒ यथे॒य२ꣳ स्त्री पौत्र॑म॒घन्न रोदा॑त् ।

टीकासम्पाद्यताम्

अग्निरिति ॥ अग्निरैतु अग्निरागच्छतु । कीदृशः? देवतानां प्रथमः । आगत्य च सः अस्यै अस्याः प्रजां मृत्युपाशान्मुञ्चतु । अयं च वरुणो राजा तत् अग्निना क्रियमाणं अनुमन्यताम् । यथा मोचने सति इयं स्री पौत्रं पुत्रनिमित्तं अघं व्यसनमुद्दिश्य न रोदात् न रुध्यात् ॥

मन्त्रः 8सम्पाद्यताम्

इ॒माम॒ग्निस्त्रा॑यतां॒ गार्‌ह॑पत्यः प्र॒जाम॑स्यै नयतु दी॒र्घमायुः॑ ।
अशू॑न्योपस्था॒ जीव॑तामस्तु मा॒ता पौत्र॑मान॒न्दम॒भि प्रबु॑द्ध्यतामि॒यम् ।

टीकासम्पाद्यताम्

इमामिति । इमां वधूं अग्निस्रायतां रक्षतु गार्हपत्यः गृहपतिसंयुक्तौ वैवाहिकोग्निः । न केवलमिमामेव त्रायतां, अस्यै अस्याः प्रजां च दीर्घमायुर्नयतु । किं बहुना? अशून्योपस्था पुत्रमण्डितोत्सङ्ग जीवतां च पुत्राणां मातास्तु पौत्रं पुत्रनिमितं च आनन्दं अभिप्रबुध्यतां स्वापात्प्रबुध्यमाना पौत्रमानन्दं प्रति बुध्यतां इयं वधूः ॥

मन्त्रः 9सम्पाद्यताम्

मा ते॑ गृ॒हे नि॒शि घोष॒ उत्था॑द॒न्यत्र॒ त्वद्रु॑द॒त्य॑स्सव्विँ॑शन्तु ।
मा त्वं वि॑के॒श्युर॒ आवधि॑ष्ठा जी॒वप॑त्नी पतिलो॒के विरा॑ज॒ पश्य॑न्ती प्र॒जाꣳ सु॑मन॒स्यमा॑नाम् ।

टीकासम्पाद्यताम्

मा ते गृहे इति ॥ हे वधु । त्वदीथे गृहे निशि घोषः आर्त प्रलापः मोत्थात् मा प्रादुर्भूत् । रुदत्यः सर्वाः त्वत्तः अन्यत्र संविशन्तु । त्वं च विकेशी विशीर्णकेशा भूत्वा उरो मा वधिष्ठाः उरस्ताडनं मा कार्शषिः तन्निमित्तं ते मा भूत् । तदाह - जीवपत्नी जीवः पतिर्यस्यास्सा जीवपत्नी पतिलोके पतिगृहे विराज दीप्यस्व प्रजां च सुमनस्यमानां पश्यन्ती । पतिवियोगः पुत्रवियोगो वा रोदननिमित्तं, तदुभयं ते मा भूदित्यर्थः ॥

मन्त्रः 10सम्पाद्यताम्

द्यौस्ते॑ पृ॒ष्ठꣳ र॑क्षतु वा॒युरू॒रू अ॒श्विनौ॑ च॒ स्तन॒न्धय॑न्तꣳ सवि॒ताऽभि र॑क्षतु ।
आ वास॑सः परि॒धाना॒द्बृह॒स्पति॒र्विश्वे॑ दे॒वा अ॒भिर॑क्षन्तु प॒श्चात् ।

टीकासम्पाद्यताम्

द्यौस्ते पृष्ठं इति ॥ तव पृष्ठं पृष्ठभागं द्यौः रक्षतु । वायुरूरू रक्षतु । अश्विनौ च स्तनं स्तनौ रक्षताम् । धयन्तं पुत्रं सविताभिरक्षतु । त्वां च आ वाससः परिधानात् यत्तद्वाससः परिधानं “परित्वा गिर्वणो गिरः” इति आ तस्मात् बृहस्पती रक्षतु । पश्चात्तु विश्वे देवा अभिरक्षन्तु ॥

मन्त्रः 11सम्पाद्यताम्

अ॒प्र॒ज॒स्तां पौ॑त्र मृ॒त्युं पा॒प्मान॑मु॒त वा॒ऽघम् ।
शी॒र्ष्णस्स्रज॑मिवो॒न्मुच्य॑ द्वि॒षद्भ्यः॒ प्रति॑मुञ्चामि॒ पाश॑म् ।

टीकासम्पाद्यताम्

अप्रजस्तां इति ॥ न विद्यते प्रजा यस्यास्सा अप्रजाः तस्या भावः अप्रजस्ता तां पौत्रमृत्युं पुत्रसम्बन्धि मरणं पाप्मानं पापं उत वा आय वा अघं पपानिमित्तं व्यसनं एतत्सर्वं च त्वत्तः स उन्मुच्य ते द्विषद्भयः पाशं प्रतिमुञ्चामि यथा शीर्ष्णस्स्रजं उन्मुच्य वृक्षादिषु प्रतिमुञ्चन्ति तद्वत् ॥

मन्त्रः 12सम्पाद्यताम्

इ॒मं मे॑ वरुण श्रुधी॒
हव॑म्अ॒द्या च॑ मृळय।
त्वाम॑व॒स्युरा च॑के॥

टीकासम्पाद्यताम्

इमं मे वरुण इति ॥ हे वरुण । इमं मे हवं आह्वानं श्रुधि शृणु । श्रुत्वा च अद्या च अद्यैव मृडय सुखय यस्मात् त्वां अहं अवस्युः पालनकाम आचके आगायामि स्तुवे ॥

मन्त्रः 13सम्पाद्यताम्

तत्त्वा॑ यामि॒ ब्रह्म॑णा॒ वन्द॑मान॒स्
तदा शा॑स्ते॒ यज॑मानो ह॒विर्भिः॑ ।
अहे॑ळमानो वरुणे॒ह बो॒ध्युरु॑शंस॒
मा न॒ आयु॒ः प्र मो॑षीः ॥

टीकासम्पाद्यताम्

तत्त्वा इति ॥ हे वरुण । उरुशंस । बहूनां शंसनीय । स्तुत्य । नः अस्माकं आयुः जीवन मन्नंवा मा प्रमोषीः । अहेडमानः अक्रुद्भ्यंश्च भूत्वा इह कर्मणि मयोच्यमानं बोधि बुध्यस्व तत्त्वा यामि तत् अनन्तरोक्तमर्थजातं त्वा त्वां यामि याचामि ब्रह्मणा? मन्त्रेण वन्दमानः स्तुवन् हविर्भिर्यजमानः सर्वोऽपि तदेवाशास्ते । एवमियमृक् अर्थानुगुण्यात् व्युत्क्रमेण योजिता ॥

मन्त्रः 14सम्पाद्यताम्

त्वन्नो॑ अग्ने॒ वरु॑णस्य वि॒द्वान्दे॒वस्य॒ हेडोऽव॑ यासिसीष्ठाः ।
यजि॑ष्ठो॒ वह्नि॑तम॒श्शोशु॑चानो॒ विश्वा॒ द्वेषाँ॑सि॒ प्र मु॑मुग्ध्य॒स्मत् ।

टीकासम्पाद्यताम्

त्वं नो अग्ने इति ॥ हे अग्ने । विद्वान् सर्वस्य वेदिता त्वं नः अस्माकमुपरि देवस्य वरुणस्य यत् हेडः क्रोधः तत् अवयासिसीष्ठाः यातेर्यसेर्पजतेर्वा आशिषि लिङि रुपमेतच्छान्दसम् । अर्थस्तावदयं अवयक्षीष्ठाः अवाचीनं यथा भवति तथा यक्षीष्ठाः इति । यजिष्ठः अतिशयेन यष्टा बह्वितमः अतिशयेन वोढा हविषां शोशुचानः देदीप्यमानः विश्वा विश्वानि अस्माद्विषयाणि शत्रूणां द्वेषांसि द्वेषविषयाणि फलानि वधबन्धनादीनि प्रमुमुग्धि प्रमुञ्च अस्मत् अस्मतः ॥

मन्त्रः 15सम्पाद्यताम्

स त्वन्नो॑ अग्नेऽव॒मो भ॑वो॒ती नेदि॑ष्ठो अ॒स्या उ॒षसो॒ व्यु॑ष्टौ ।
अव॑ यक्ष्व नो॒ वरु॑णम् ररा॑णो वी॒हि मृ॑डी॒कँ सु॒हवो॑ न एधि ।

टीकासम्पाद्यताम्

सत्वं इति ॥ हे अग्ने । यः एवमुक्तगुणः सत्वं अवमो मूलभूतो देवानां “अग्निरवमो देवतानां विष्णुः परमः” इति ब्राह्मणम् । नः अस्माकं ऊती ऊत्या पालनेन अवमा भव नेदिष्ठः अन्तिकतमो भव । कदा? अस्या उषसो व्युष्टौ । व्युच्छतेः क्तिन् । अस्यामुषसि व्युष्टायाम् । उपलक्षणं चैतत् सर्वदेत्यर्थः । अवयक्ष्व अवाचीनो यथा भवति तथा यक्ष्व । कं? वरुणं अस्मासु पाशान् मुमुक्षुं, नः अस्मभ्यं रराणः इष्टानि ददत् वीहि खाद मृडीकं सुखयितारं पुरोडाशादिकं अस्माभिर्दत्तम् । नः अस्माकं सुहवः सुष्ठु हवः आह्वानं यस्य सः सुहवः एधि भव । नः अस्मान् एधि वर्धय ॥

मन्त्रः 16सम्पाद्यताम्

त्वम॑ग्ने अ॒याऽस्य॒या सन्मन॑सा हि॒तः ।
अ॒या सन् ह॒व्यमू॑हिषे॒ऽया नो॑ धेहि भेष॒जम् ।। (4)

टीकासम्पाद्यताम्

त्वमग्ने इति ॥ हे अग्ने । त्वमयासिऽ अया असि । छान्दसस्सवर्णदीर्घः इणोऽसुन्प्रत्ययः । भक्तानामेतव्यः भक्तान्वा प्रत्येता अया सन् अयास्सन् । छान्दसस्सकारलोपः । एवंभूतस्त्वमस्माभिः मनसा हितः प्रणिहितः असीत्यनुषङ्गः, त्वां वयं मनसि प्रणिदध्महे इत्यर्थः । अया सन् अयास्सन् । पूर्ववत्सलोपः । हव्यं अस्माभिर्दत्तं ऊहिषे देवेभ्यो वहस्व स त्वं अयाः नः अस्माकं भेषजं देहि ॥

इति श्रीहरदत्तविरचिते एकाग्निकाण्डमन्त्रव्याख्याने चतुर्थः खण्डः.

1.5 तमः खण्डःसम्पाद्यताम्

मन्त्रः 1सम्पाद्यताम्

आति॑ष्ठे॒ममश्मा॑न॒मश्मे॑व॒ त्व२ꣳ स्थि॒रा भ॑व ।
अ॒भिति॑ष्ठ पृतन्य॒तस्सह॑स्व पृतनाय॒तः ।

टीकासम्पाद्यताम्

अश्मानमास्थापयति - आतिष्ठेति ॥ हे वधु । इममश्मानमातिष्ठ. आतिष्ठन्ती च त्वं यथाऽयं अश्मा स्थिरः तद्वत् स्थिरा भव पृतन्यतः पृतनाकामान् योद्धु कामान् अभितिष्ठ अभिद्रव, अभिद्रुत्य च सहस्व अभिभव पृतनायतः तानेव पृतन्यतः ॥

मन्त्रः 2सम्पाद्यताम्

इ॒यन्ना॒र्युप॑ब्रूते॒ कुल्पा॑न्यावपन्ति॒का ।
दी॒र्घा॒युर॑स्तु मे॒ पति॒र्जीवा॑तु श॒रद॑श्श॒तम् ।

टीकासम्पाद्यताम्

लाजहोमः - इयं नारीति ॥ इयं नारी उपब्रूते उपच्छन्दयन्ती ब्रूते कुल्पानि लाजान् आवपन्तिका आवपन्ती । किमुपब्रूते? दीर्घायुरस्तु मे मम पतिः । कोऽर्थः? जीवातु शरदश्शतं शतं संवत्सराम् जीव्यादिति ॥

मन्त्रः 3सम्पाद्यताम्

तुभ्य॒मग्रे॒ पर्य॑वहन्त्सू॒र्यां व॑ह॒तुना॑ स॒ह ।
पुनः॒ पति॑भ्यो जा॒यां दा अ॑ग्ने प्र॒जया॑ स॒ह ।

टीकासम्पाद्यताम्

प्रदक्षिणमन्त्राः - तुभ्यमग्र इति ॥ हे अग्ने । तुभ्यमग्रे आदि काले सूर्यां वहतुना सह पर्यवहन् दत्तवन्तः । सूर्या नाम सवितुर्दुहिता विवाहस्य अधिष्ठात्री देवता । वहतुरिति पितृकुळलग्धस्य स्त्रीधनस्य नाम । पुनश्शब्दोऽद्यशब्दार्थे वर्तते । अद्य तु पतिभ्यः अस्मदादिभ्यः जायां दाः देहि प्रजया सह ॥

मन्त्रः 4सम्पाद्यताम्

पुनः॒ पत्नी॑म॒ग्निर॑दा॒दायु॑षा स॒ह वर्च॑सा ।
दी॒र्घा॒युर॑स्या॒ यः पति॒स्स ए॑तु श॒रद॑श्श॒तम् ।

टीकासम्पाद्यताम्

पुनरिति ॥ एष एवार्थः पुनः पत्नीमग्निरदात् ददातु आयुषा वर्चसा सह । अस्या वध्वाः यः पतिः स दीर्घायुः भवतु कोऽर्थः? स एतु शरदश्शतं शतसंवत्सरान् प्राप्नोतु ॥

मन्त्रः 5सम्पाद्यताम्

विश्वा॑ उ॒त त्वया॑ व॒यं धारा॑ उद॒न्या॑ इव ।
अति॑गाहेमहि॒ द्विषः॑ ।

टीकासम्पाद्यताम्

विश्वा इति ॥ हे अग्ने । वयं त्वया नाथेन विश्वाः द्विषः द्विङ् जातीः अतिगाहेमहि अतितरेण उदन्याः उदकसम्बन्धिनीः धारा इव यथा वर्षधाराः वृषमादयोऽतितरन्ति तद्वत् ॥

मन्त्रः 6सम्पाद्यताम्

आति॑ष्ठे॒ममश्मा॑नम् ।

टीकासम्पाद्यताम्

अतिष्ठेममिति । गतम् ॥

मन्त्रः 7सम्पाद्यताम्

अ॒र्य॒मण॒न्नु दे॒वं क॒न्या॑ अ॒ग्निम॑यक्षत ।
स इ॒मान्दे॒वो अ॑द्ध्व॒रः प्रेतो मु॒ञ्चाति॒ नामुत॑स्सुब॒द्धाम॒मुत॑स्करत् ।

टीकासम्पाद्यताम्

द्वितीयो लाजहोमः - आर्यमणमिति ॥ नुक्षिप्रं अर्यत इत्यर्यमा अग्निः तं प्रसिद्धमेवार्यमणं वा कन्याः पूर्वं अयक्षत इष्टवत्यः । ताश्च इष्ट्वा पतिमलभत ।? सः इदानीमपि लाजहोमेनेष्टः अध्वरः अहिसितः केनापि देवः अर्यमा इमां प्रेतो मुञ्चाति इत्यादि । गतम् ॥

मन्त्रः 8 -11सम्पाद्यताम्

तुभ्य॒मग्रे॒ पर्य॑वह॒न्पुनः॒ पत्नी॑म॒ग्निर॑दा॒द्विश्वा॑ उ॒त त्वया॑ व॒यमाति॑ष्ठे॒ममश्मा॑नम् ।

टीकासम्पाद्यताम्

तुभ्यमग्र इति ॥ । गतम् ॥

मन्त्रः 12सम्पाद्यताम्

त्वम॑र्य॒मा भ॑वसि॒ यत्क॒नीना॒न्नाम॑ स्व॒धाव॒त्स्व॑र्यं बि॒भर्‌षि॑ ।
अ॒ञ्जन्ति॑ वृ॒क्षꣳ सुधि॑त॒न्न गोभि॒र्यद्दम्प॑ती॒ सम॑नसा कृ॒णोषि॑ ।

टीकासम्पाद्यताम्

तृतीयो लाजहोमः- त्वमर्यमेति ॥ त्वमर्यमा दाता यः खलु वै ददाति सोऽर्यमा इति श्रुतेः । हे अग्ने । त्वमेव दाता भवसि । यत् यस्मात् कनीनां कन्यकानां नाम प्रापणं स्वधावत् अन्नयुक्तं स्वर्यं स्वर्गस्य निमित्तं विभर्षि पुष्णासि कन्यका अन्नं स्वर्गश्च त्वदायत्ताः पुरुषान् प्रत्युपनमन्ति यस्मात्तस्मात्त्वमेवार्यमा भवसीत्यर्थः । त्वामेव च अञ्जन्ति सिञ्चन्ति । केन? गोभिः विकारेऽयं प्रकृतिशब्दः गोमिश्श्रीणीत मत्सरम् । इति यथा । गोविकारैराज्यादिभिः वृक्षं सुश्चितं न, नञयं पुरस्तादुपचारः प्रतिषेधार्थीयः उपरिष्टादुपचार उपमार्थीयः, यथा सुधितं सुष्ठु निहितं स्थापितं वृक्षं जलेन सिञ्चंति तद्वत् । यत् यस्मात् दम्पती समनसा समानमनसौ कुणोषि करोषि त्वमेव ॥

मन्त्रः 13 -15सम्पाद्यताम्

तुभ्य॒मग्रे॒ पर्य॑वह॒न्पुनः॒ पत्नी॑म॒ग्निर॑दा॒द्विश्वा॑ उ॒त त्वया॑ व॒यम् ।

टीकासम्पाद्यताम्

पुनः परिक्रमणमन्त्राः तुभ्यमग्र इति ॥ गतार्थाः ॥

मन्त्रः 16सम्पाद्यताम्

प्र त्वा॑ मुञ्चामि॒ वरु॑णस्य॒ पाशा॒द्येन॒ त्वाऽब॑द्ध्नात्सवि॒ता सु॒केतः॑ ।
धा॒तुश्च॒ योनौ॑ सुकृ॒तस्य॑ लो॒के स्यो॒नन्ते॑ स॒ह पत्या॑ करोमि ।

टीकासम्पाद्यताम्

उत्तराभ्यां योक्त्त्रं विमुञ्चति - प्र त्वा मुञ्चामीति ॥ त्वा त्वां वरुणस्य पाशात् प्रमुञ्चामि । यदिदं योक्त्रद्विमोचनं तदेवैवं निरूप्यते । येन पाशेन त्वां अबध्नात्सविता सर्वस्य प्रेरयिता सुकेतः सुचित्तः सुप्रज्ञानो वा । धातुश्च योनौ ब्रह्मणश्च लोके । कीदृशे? सुकृतस्य लोके ब्रह्मलोको हि पुण्यस्य कर्मणो लोकः । तस्मिन् स्योनं सुखं स्थानं ते तव पत्या मया सह करोमि ॥

मन्त्रः 17सम्पाद्यताम्

इ॒मं विष्या॑मि॒ वरु॑णस्य॒ पाशं॒ यमब॑द्ध्नीत सवि॒ता सु॒शेवः॑ ।
धा॒तुश्च॒ योनौ॑ सुकृ॒तस्य॑ लो॒केऽरि॑ष्टां त्वा स॒ह पत्या॑ करोमि ।

टीकासम्पाद्यताम्

योक्त्रविमोचनेन इमं वरुणस्य पाशं विष्यामि विस्रंसयामि । यं पाशं अबध्नीत बद्धवान् सविता सुशेवः सुसुखः भक्तानां सुखस्य कर्तेत्यर्थः । धातुश्च योनावित्यादि समानम् । अरिष्टां अविनाशिनीम् ॥

मन्त्रः 18सम्पाद्यताम्

अ॒याश्चा॒ग्नेऽस्य॑नभिश॒स्तीश्च॑ स॒त्यमि॑त्त्वम॒या अ॑सि ।
अय॑सा॒ मन॑सा धृ॒तो॑ऽयसा॑ ह॒व्यमू॑हिषे॒ऽया नो॑ धेहि भेष॒जम् ।। (5)

टीकासम्पाद्यताम्

अनुगतस्यौपासनाग्नेस्समाधानमन्त्रः - अयाश्वाग्न इति ॥ अया इति व्याख्यातम् । हे अग्ने । त्वमयाश्चासि न विद्यते अभिशस्तिर्यस्य सो नाभिशस्तिः अनभिशस्तीश्चासि । दीर्घस्तु छान्दसः अनवद्य इत्यर्थः । सत्यमित्त्वमया असि आदरार्थमिदम् । इच्छब्दोऽवधारणे । एवंभूतस्त्वमस्माभिः अयसा त्वां प्रतिगन्त्रा मनसा धृतो ध्यातः अयसा भक्तान् प्रतिगन्त्रा त्वदीयेय मनसा हव्यं अस्माभिर्दत्तं ऊहिषे देवान् प्रति वहस्व । अयाश्च त्वमस्मभ्यं भेषजं धेहि स्थापय ॥ इति श्रीहरदतविरचितैकाग्निकाण्डमन्त्रव्याख्याने पञ्चमः खण्डः

1.6 तमः खण्डःसम्पाद्यताम्

मन्त्रः 1सम्पाद्यताम्

स॒त्येनोत्त॑भिता॒ भूमि॒स्सूर्ये॒णोत्त॑भिता॒ द्यौः ।
ऋ॒तेना॑दि॒त्यास्तिष्ठ॑न्ति दि॒वि सोमो॒ अधि॑ श्रि॒तः ।

टीकासम्पाद्यताम्

प्रयाणकाले रथस्योत्तम्भनी -सत्येनेति ॥ यथेयं भूमिस्सत्येन मनोवाक्कायजेन उत्तम्भिता उत्तब्धा स्थापिता तिष्ठति, यथा च सूर्येणोत्तमिता द्यौः तिष्ठति, यथा च ऋतेन यज्ञेन आदित्यास्तिष्ठन्ति अग्नौ “प्रास्तादुतिस्मम्यगादित्यमुपतिष्ठते” इतिस्मृतेः । यथा च दिवि सोमो अधिश्रितः तथा त्वमस्माभिः उत्तब्धः तिष्ठेति वाक्य शेषाध्याहारेण योज्यम् ॥

मन्त्रः 2सम्पाद्यताम्

यु॒ञ्जन्ति॑ ब्र॒द्ध्नं

टीकासम्पाद्यताम्

वाहाहुत्तराभ्यां युनक्ति- युञ्जन्तीति ॥ मनुष्याः वक्ष्यमाणंकुर्वते ब्रध्नं महतां नामैतत्, महान्तमश्वमनङ्वाहं वा अरुषं अरुष्यतिर्गतिकर्मा, गन्तारं गमनसमर्थं चरन्तं परितस्थुषः स्थावरान् पदार्थान् परिवर्जयित्वा अतिक्रम्य चरन्तं, परिगच्छन् हि स्थावरानतिक्रम्य गच्छति । उत्तरार्धे यावदित्यध्याहार्यं, रोचना रोचनानि नक्षत्रादीनि यावद्दिवि रोचन्ते तावत् एवंविधेषु कर्मसु नित्यमेव पुरुषा युञ्जन्ति इत्यर्थः ।

मन्त्रः 3सम्पाद्यताम्

योगे॑योगे ।

टीकासम्पाद्यताम्

योगे योगे यदायदाश्वादे रथादौ योजनं प्राप्तं तदातदा तवस्तरं तव इति सौत्रो धातुर्वृद्ध्यर्थः गत्यर्थे वा, तवः वृद्धिर्गमनं वा, इह तु तद्वतोऽभिधानं, अतिशयेन वृद्धियुक्तं गतियुक्तं वा वाजेवाजे सङ्ग्रामनामैतत्, सङ्ग्रामेसङ्ग्रामे प्राप्ते, उपलक्षणं चैतत, सर्वेषु सर्वकार्येषु हवामहे आह्वायामः सखायः स्तोतृत्वेन सखीभूताः वयं इन्द्रं किमर्थं? ऊतये पालनाय ॥

मन्त्रः 4सम्पाद्यताम्

सु॒कि॒ꣳ॒शु॒कꣳ श॑ल्म॒लिं वि॒श्वरू॑प॒ꣳ॒ हिर॑ण्यवर्णꣳ सु॒वृतꣳ॑ सुच॒क्रम् । आरो॑ह वद्ध्व॒मृत॑स्य लो॒क२ꣳ स्यो॒नं पत्ये॑ वह॒तुं कृ॑णुष्व ।

टीकासम्पाद्यताम्

आरोहन्तीमुत्तराभिरभिमन्त्रयते - सुकिंशुकमिति ॥ सुकिंशूकं रथो विशेष्यते, कण्टकिनः पलाशाः किंशुकाः शोभनाः किंशुका यस्मिन् तं सुकिंशुकं शल्मलिं, विकारोयं प्रकृतिशब्दः, शल्मलिना वृक्षेण निर्मितं, वृक्षमात्रोपलक्षणं चैतत् । अन्ये तु मन्त्रलिङ्गादेताभ्यामेव । रथनिर्माणमाहुः । विश्वरूपं नानारूपं हिरण्यवर्णं उज्ज्वलवर्णं सुवृतं सुष्ठु वर्तते गच्छतीति सुवृत् तं सुचक्रं शोभनचक्रं रथं हे वधु । आरोह अमृतस्य अमरणस्य मम दीर्घायुषो लोकं स्थानं आरुह्य च पत्ये मह्यं स्योनं सुखकरं वहतुं पितृकुललब्धं स्त्रीधनं कृणुष्व स्थापयात्रैव रथे ॥

मन्त्रः 5सम्पाद्यताम्

उदु॑त्त॒रमा॒रोह॑न्ती व्य॒स्यन्ती॑ पृतन्य॒तः ।
मू॒र्द्धानं॒ पत्यु॒रा रो॑ह प्र॒जया॑ च वि॒रा़ड्भ॑व ।

टीकासम्पाद्यताम्

उदिति । उत्तरं श्रेष्ठं रथं उदारोहन्ती ऊर्ध्वमारोहन्ती पृतन्यतः योद्धुकामान् व्यस्यन्ती विविधं क्षिपन्ती पत्युः मम मूर्धानं आरोह प्रधानभूता भव प्रजया च विराड्भव विराडिति दशाक्षरवतः छन्दसो नाम । तथा हि श्रुतिः “दश संपद्यन्ते दशाक्षरा विराट्” इति । यथाविराट्छन्दो दशाक्षरवद्भवति तथा त्वं दशपुत्रा भवेत्यर्थः विराजमाना वा भव ॥

मन्त्रः 6सम्पाद्यताम्

स॒म्राज्ञी॒ श्वशु॑रे भव स॒म्राज्ञी॑ श्वश्रु॒वां भ॑व ।
नना॑न्दरि स॒म्राज्ञी॑ भव स॒म्राज्ञी॒ अधि॑ दे॒वृषु॑ ।

टीकासम्पाद्यताम्

प्राधान्यमेव स्फुटयति-संराज्ञीति ॥ श्वशुरे संराज्ञी वल्लभा भव । श्वश्र्वां च संराज्ञी भव । ननान्दरि पत्युस्वसा नानान्दा वध्वाः तस्यां च संराज्ञी भव । तथा देवृषु देवरेषु पत्युर्भ्रातरो वध्वा देवराः तेष्वपि संराज्ञी भव । अधिशब्दः सप्तम्यर्थानुवादी ॥

मन्त्रः 7सम्पाद्यताम्

स्नु॒षाणा॒ꣳ॒ श्वशु॑राणां प्र॒जाया॑श्च॒ धन॑स्य च ।
पती॑नाञ्च देवॄ॒णाञ्च॑ सजा॒तानां॑ वि॒राड्भ॑व ।

टीकासम्पाद्यताम्

एतदेव पुनरुच्यते - स्नुषाणामिति ॥ अस्मद्नृहे यास्स्नुषाः तासां श्वशुराणां श्वशुरस्य तद्भातृणां च प्रजायाश्च तव आगमिन्याः धनस्य च मदीयस्य पतीनां च पत्युर्मम मत्स्थानीयानां च देवृणां च देवराणां च अन्येषां च सजातानां गृहे मया सह जातानां विराट् ईश्वरा भव ॥

मन्त्रः 8सम्पाद्यताम्

नी॒ल॒लो॒हि॒ते भ॑वतः कृ॒त्यास॒क्तिर्व्य॑ज्यते ।
एध॑न्तेऽस्या ज्ञा॒तयः॒ पति॑र्ब॒न्धेषु॑ बद्ध्यते ।

टीकासम्पाद्यताम्

सूत्रे वर्त्मनोर्व्यवस्तृणाति - नीललोहिते इति ॥ उभयाव्यव स्तीर्यमाणे एते सूत्रे । नीललोहित वर्णे भवतः । एकं नीलमपरंलोहितम् । तत् किं? कृत्वा । षष्ठ्येकवचनस्याकारः । कृत्यायाः परैः प्रयुक्तायाः सक्तिः सङ्गः प्रतिहतिः व्यज्यते प्रादुर्भवति सूत्राभ्यां प्रतिहता भूत्वा नास्मानभिभवितुं? शक्नोतीत्यर्थः । ततश्च एधन्ते एधन्तां अस्याः ज्ञातयः पतिश्च बन्धेषु बन्धनस्थानेषु स्नेहविषयेषु बध्यते बध्यताम् । आत्मन एवायं परोक्षनिर्देशः अयं जनोब्रवीदितिषत् ॥

मन्त्रः 9सम्पाद्यताम्

ये व॒द्ध्वश्च॒न्द्रं व॑ह॒तुं यक्ष्मा॒ यन्ति॒ जना॒ꣳ॒ अनु॑ ।
पुन॒स्तान् य॒ज्ञिया॑ दे॒वा नय॑न्तु॒ यत॒ आग॑ताः ।

टीकासम्पाद्यताम्

ते सूत्रे उत्तराभिरभियाति - ये वध्व इति ॥ वध्व इति षष्ट्येकवचनं रूपं छान्दसम् । अस्या वध्वा वहतुं पितृकुललब्धं धनं, कीदृशं? चन्द्रं अह्लादकरं ये यक्ष्माः यक्ष्मस्थानीयाश्रोरादयो यन्ति प्राप्नुवन्ति अपहर्तं जनान् अनु जनानां समीपे तान्यक्षिया देवाः पुनर्नयन्तु यत आगताः ॥

मन्त्रः 10सम्पाद्यताम्

मा वि॑दन्परिप॒न्थिनो॒ य आ॒सीद॑न्ति॒ दम्प॑ती ।
सु॒गेभि॑र्दु॒र्गमती॑ता॒मप॑ द्रा॒न्त्वरा॑तयः ।

टीकासम्पाद्यताम्

तमेव देशं प्रति - मा विदन्निति ॥ परिपन्थिनः पन्थानं परिवृत्यापहर्तुकामा ये तिष्ठन्ति ते परियन्थिनो मा विदन् मा लप्सत मा ज्ञासिषुर्वा ये परिपन्थिनो दम्पती आसीदन्ति आधावन्ति । । सुगेभिः सुगमैः पथिभिः दुर्गं देशं अतीतां अतिक्रामतां तौ दम्पती एव । परोक्षनिर्देशः पूर्ववत् । अपद्रान्तु अपगच्छन्तु अरातयः शत्रवः त एव परिपन्थिनः ।

मन्त्रः 11सम्पाद्यताम्

सु॒गं पन्था॑न॒मारु॑क्ष॒मरि॑ष्ट२ꣳ स्वस्ति॒वाह॑नम् ।
यस्मि॑न्वी॒रो न रिष्य॑त्य॒न्येषां॑ वि॒न्दते॒ वसु॑ ।। (6)

टीकासम्पाद्यताम्

सुगमिति ॥ सुखेन गम्यते यस्मिन् पथि तं सुगं पन्थानं आरुक्षं आरूढवानस्मि न विद्यते रेषणं यत्र तं अरिष्टं स्वस्तिवाहनं अविनाशीनि वाहनानि यत्र । यस्मिंश्च पथि वीरः अस्मदीयो रक्षिता न रिष्यति रिष्टो न भवति, न केवलं न रिष्यति किन्तु अन्येषां परिपन्थिनामेव वसु धनं विन्दते तं पन्थानमारुक्षमिति ॥

इति श्रीहरदत्तविरचिते एकाग्निकाण्डमन्त्रव्याख्याने षष्ठः खण्डः ॥

1.7 तमः खण्डःसम्पाद्यताम्

मन्त्रः 1सम्पाद्यताम्

ताम॑न्दसा॒ना मनु॑षो दुरो॒ण आ ध॒त्तꣳ र॒यिं द॒शवी॑रं वच॒स्यवे॑ ।
कृ॒तं ती॒र्थꣳ सु॑प्रपा॒णꣳ शु॑भस्पती स्था॒णुं प॑थे॒ष्ठामप॑ दुर्म॒तिꣳ ह॑तम् ।

टीकासम्पाद्यताम्

तीर्थादिव्यतिक्रमे जपः - ता मन्दसानेति ॥ आश्विन्येषा । ता तौ अश्विनौ मन्दसाना स्तूयमानौ मनुषः मनुरिति मनुष्यस्य नाम तस्य मनुष्यस्य दुरोणे गृहे एवंभूतौ युवां वचस्यवे वचनवते स्तुतिलक्षणं वच इच्यते मह्यं दशवीरं दशभिः पुत्रैस्सहितं रयिं धनं आधत्तं दत्तम् । किञ्च - तीर्थं मार्गे भवं सुखेन प्रपीयते तत्र तत् सुप्रपाणं तादृशं तीर्थ कृतं कुरुतं हे शुभस्पती । शुप् इत्युदकनाम, वृष्टिलक्षणस्योदकस्य पालयितारौ । किञ्च - पथि यस्तिष्ठति तं पथेष्ठां स्थाणुमपहतं अपविध्यतं दुर्मतिं दुष्टाशयं तस्करादिकं च अपहतम् ॥

मन्त्रः 2सम्पाद्यताम्

अ॒यन्नो॑ म॒ह्याः पा॒र२ꣳ स्व॒स्ति ने॑ष॒द्वन॒स्पतिः॑ ।
सीरा॑ नस्सु॒तरा॑ भव दीर्घायु॒त्वाय॒ वर्च॑से ।

टीकासम्पाद्यताम्

नावमुत्तरयानुमन्त्रयते - अयं न इति ॥ अयं वनस्पतिः वनस्पतिविकारभूता नौरियं नः अस्मान् मह्याः महत्याः नद्याः पारं तीरं स्वस्ति अविनाशं यथा भवति तथा नेषत् नयतु । सीरा सीरेति नदीनामैतत् सम्बुद्धौ चाकारः । हे सीरे । त्वं नः अस्माकं सुतरा सुखेन तरितुं शक्या भव नदीं प्रत्येतद्वचनम् अथवा सुतरा सुष्ठु तारयित्रीति नाव एवाभिधानं दीर्घायुत्वाय । छन्दस्युकाराऽन्तोप्यायुश्शब्दोस्ति “छन्दसि वा” इति वचनात् । वर्चसे च भव ॥

मन्त्रः 3सम्पाद्यताम्

अ॒स्य॒ पा॒रे नि॑र्ऋ॒थस्य॑ जी॒वा ज्योति॑रशीमहि ।
म॒ह्या इ॑न्द्रस्स्व॒स्तये॑ ।

टीकासम्पाद्यताम्

तीर्त्वा जपः - अस्य पार इति ॥ अस्य नद्यादेः पारे तीरे निर्ऋतस्य निस्तरितस्य जीवाः जीवन्तः प्राप्ताः ते वयं ज्योतिः अभयं स्थानं अशीमहि प्राप्नुयाम । एवंभूतानमस्माकं इन्द्रश्च मह्यै महत्यै स्वस्तये भवतु ॥

मन्त्रःसम्पाद्यताम्

यदृ॒तेचि॑दभि॒श्रिषः॑ पु॒रा ज॒र्तृभ्य॑ आ॒तृदः॑ ।
सन्धा॑ता स॒न्धिं म॒घवा॑ पुरो॒वसु॒र्निष्क॑र्ता॒ विह्रु॑तं॒ पुनः॑ ।
4 श्मशानादिव्यतिक्रमे होमः - यदृतेचिदिति । यत् सुपां सुलुक् इति सोर्लुक् यः ऋते चित् ऋतेऽपि अभिश्रिषः अभिश्लोषणद्रव्यं अभिश्रिट् तस्मादृतेपि पुरा पूर्वमेव जर्तृभ्यः जतुशब्दस्येदं विकृतं रूपं तत्र बह्वृच । उकारान्तमधीयते तत्र रेफमात्रमुपजनः । इह तु उकारस्याप्युकारः । तृतीयान्तं चैतत् व्यत्ययेन । बहुवचननिर्देशाच्च आद्यर्थावगतिः । जत्वादिभिः आतृदः स्वपितृदोः कसुन् जत्वादिभिरातर्दनात् पुरा यावता कालेन जत्वादिभिरातृन्दन्ति दृढीकुर्वन्ति ततः प्रागेवातिशीघ्रमित्यर्थः । सन्धाता तृन्नन्तमेतत् तथा च पूर्वपदप्रकृतिस्वरत्वं कर्मणि च द्वितीया । सन्धिं सन्धातव्यं सन्धातव्यस्य वस्तुनः सन्धातेत्यर्थः मघवा इन्द्रः पुरोवसुः पुरुशब्दस्य छान्दस ओकारः पुरुवसुः बहुधनः पुनः निष्कर्ता इदमपि तृन्नन्तं यद्वै निष्कृतं तत्संस्कृतम् इति बह्वृचब्राह्मणं, पुनः संस्कर्ता विहृतं अत्यन्तविनष्टं पुनः । यः पुरुवसुः मघवान्तरेणाज्यमिश्लेषणद्रव्यं प्रागेव च जत्वादिभिरातर्दनात् सन्धातव्यं वस्तु सन्दधाति विहुतं च पुनस्संस्करोति, साकाङ्क्षत्वात्तस्मा इति गम्यते, तस्मै स्वाहेति ॥

मन्त्रः 5सम्पाद्यताम्

इडा॑मग्न

टीकासम्पाद्यताम्

इडामग्न इति । इडां अन्नं हे अग्ने । पुरुदंसं बहुदर्शनीयं अत्यन्तश्लाघ्यं गोस्सनिं गवां दानं च शश्वत्तमं दीर्घकालस्थायिनं हवमानाय त्वामाह्वयते मह्यं साध साधय देहि । किञ्च - स्यान्न स्सूनुस्तनयश्च पौत्रो दृढकायाः तनयः । किदृशः? विजावा विजननस्वभावः जनसनखनक्रमगमो विट् विड्वनोरनुनासिकस्यात् इत्यात्वम् । किं बहुना? हे अग्ने । सा ते प्रसिद्धा सुमतिः भक्तेष्वनुग्रहात्मिका बुद्धिः अस्मे अस्मासु भूतु भवतु ।

मन्त्रः 6 -10सम्पाद्यताम्

इ॒मं मे॑ वरुण॒
तत्त्वा॑ यामि॒
त्वन्नो॑ अग्ने॒
स त्वन्नो॑ अग्ने॒
त्वम॑ग्ने अ॒यासि॑ ।

टीकासम्पाद्यताम्

इमं मे वरुणेत्यादि पञ्च गताः ॥

मन्त्रः 11सम्पाद्यताम्

ये ग॑न्ध॒र्वा अ॑प्स॒रस॑श्च दे॒वीरे॒षु वृ॒क्षेषु॑ वानस्प॒त्येष्वास॑ते ।
शि॒वास्ते अ॒स्यै व॒द्ध्वै॑ भवन्तु॒ मा हिꣳ॑सिषुर्वह॒तुमू॒ह्यमा॑नाम् ।

टीकासम्पाद्यताम्

क्षीरिवृक्षाद्यतिक्रमे जपः - ये गन्धर्वा इति ॥ ये गन्धर्वाः विश्वावसुप्रभृतयः अप्सरसश्च देवीः देव्यः एषु वृक्षेषु वानस्पत्येषु न्यग्रोधोदुम्बराश्वत्थेषु आसते तिष्ठन्ति एते वै गन्धर्वाप्सरसां गृहाः । ते अस्यै वध्व्यै शिवा भवन्तु मा हिंसिषुः वहतुं स्रीधनं ऊह्यमानां इमां च ॥

मन्त्रः 12सम्पाद्यताम्

या ओष॑धयो॒ या न॒द्यो॑ यानि॒ धन्वा॑नि॒ ये वना॑ ।
ते त्वा॑ वधु प्र॒जाव॑तीं॒ प्र त्वे मु॑ञ्च॒न्त्वꣳह॑सः ।

टीकासम्पाद्यताम्

नद्याद्यतिक्रमे जपः - या ओषधयः अस्माभिः अतिक्रान्ताः याश्च नद्यः यानि धन्वानि निरुदकाः प्रदेशाः ये वना यानि वनानि,? ते उक्ताः तत्तदधिष्ठानदेवाः हे वधु त्वा त्वां प्रजावतीं कुर्वन्त्विति शेषः । अंहसश्च त्वे त्वां प्रमुञ्चन्तु ।

मन्त्रः 13सम्पाद्यताम्

संका॑शयामि वह॒तुं ब्रह्म॑णा गृ॒हैरघो॑रेण॒ चक्षु॑षा॒ मैत्रे॑ण ।
प॒र्याण॑द्धं वि॒श्वरू॑पं॒ यद॒स्याꣳ स्यो॒नं पति॑भ्यस्सवि॒ता कृ॑णोतु॒ तत् ।

टीकासम्पाद्यताम्

गृहानुत्तरया संकाशयति - तत्र वहतुः पूर्वं प्रापयितव्यः मन्त्रलिङ्गात् । सङ्काशयामि प्रदर्शयामि वहतुं अस्याः पितृकुलादानीतं धनं ब्रह्मणा मन्त्रेण गृहैः मदीयैस्सह सङ्काशयामि । अघोरेण अक्रूरेण मैत्रेण सौम्येन चक्षुषा, एषा तावत् एवम्भूतेन चक्षुषा पश्यतु तामहं दर्शयामि । अच्च अस्यां पर्याणद्धं बन्धुभिः सर्वतो नद्धं विश्वरूपं नानारूपं आभरणादिकं तत्सविता पतिभ्यः पत्ये मह्यं सद्भ्रात्रादिभ्यश्च स्योनं सुखं कृणोतु करोतु ॥

मन्त्रः 14सम्पाद्यताम्

आ वा॑मगन्त्सुम॒तिर्वा॑जिनी वसू॒न्यश्वि॑ना हृ॒त्सु कामाꣳ॑ अयꣳसत ।
अभू॑तङ्गो॒पा मि॑थु॒ना शु॑भस्पती प्रि॒या अ॑र्य॒म्णो दुर्याꣳ॑ अशीमहि ।

टीकासम्पाद्यताम्

वाहौ विमुञ्चति - आवामगन्निति ॥ हे अश्विनौ । वां युवयोः स्वभूता सुमतिः अनुग्रहात्मिका बुद्धिः अस्मान् प्रति आगन् आगमत् प्राप्ता । हे वाजिनीवसू । हविर्भिः स्तुतिभिश्च धनवन्तौ कामान् । प्रथमार्थे द्वितीया । बह्वृचाश्च । तथैव पठन्ति । अस्मकं हृत्सु ये कामः सुखेन गृहं प्राप्रुयामेति ते च अयंसत? नियताः निश्चिता जाताः यस्मात् युवां गोपा गोपौ वाहयोः पथि रक्षितारौ अभूतम् । मिथुना सहचारिणौ हे शुभस्पती । अन्नस्य उदकस्य वा पालयितारौ युवयोश्च प्रसादात् अर्यम्णः आदित्यस्य अग्नेर्वा प्रिया भूत्वा दुर्यान् गृहान् अशीमहि प्रविशेम ॥

मन्त्रः 15सम्पाद्यताम्

अ॒यन्नो॑ दे॒वस्स॑वि॒ता बृह॒स्पति॑रिन्द्रा॒ग्नी मि॒त्रावरु॑णा स्व॒स्तये॑ ।
त्वष्टा॒ विष्णुः॑ प्र॒जया॑ सꣳररा॒णः काम॒ आया॑तं॒ कामा॑य त्वा॒ विमु॑ञ्चतु ।। (7)

टीकासम्पाद्यताम्

अयमिति ॥ वाहं प्रति वचनमेतत् । हे वाह । नः अस्माकं कामे सति इह आयातं त्वा त्वां कामाय अथेष्टचरणाय विमुञ्चतु । कः? अयं देवस्सविता बृहस्पत्यादयश्च स्वस्तये अविनाशाय प्रजया संरराणः प्रजां सम्यक् ददत् प्रजया वा सम्यग्रममाणः? प्रजाभिः क्रीडन्नित्यर्थः ॥

इति श्रीहरदत्तविरचिते एकाग्निकाण्डमन्त्रव्याख्याने सप्तमः खण्डः ॥

1.8 तमः खण्डःसम्पाद्यताम्

मन्त्रः 1सम्पाद्यताम्

शर्म॒ वर्मे॒दमाह॑रा॒स्यै नार्या॑ उप॒स्तिरे॑ ।
सिनी॑वालि॒ प्रजा॑यतामि॒यं भग॑स्य सुम॒ताव॑सत् ।

टीकासम्पाद्यताम्

चर्मास्तरणम् - शर्म सुखं वर्म तनुत्राणं एवम्भूतं इदं चर्मआहर । किमर्थम्? अस्यै अस्या नार्याः उपस्तिरे उपस्तरणार्थम् । कृत्येऽर्थे केन्प्रत्ययः । दृष्टेन्दुरमावास्या सिनीवाली । हे सिनीवालि इयं वधूः प्रजायतां प्रजावती भूयात् । भगस्य च देवस्य सुमतौ अनुग्रहात्मिकायां बुद्धौ अन्नत्? स्यात् भवतु सोऽपि त्वत्प्रसादात् इमामनु गृह्णात्वित्यर्थः ॥

मन्त्रः 2सम्पाद्यताम्

गृ॒हान्भ॒द्रान्त्सु॒मन॑सः॒ प्रप॒द्येऽवी॑रघ्नी वी॒रव॑तस्सु॒वीरान्॑ ।
इरां॒ वह॑तो घृ॒तमु॒क्षमा॑णा॒स्तेष्व॒हꣳ सु॒मना॒स्सं वि॑शामि ।

टीकासम्पाद्यताम्

गृहान् प्रपादयन् वधूं वाचयति - गृहान् अहं प्रपद्ये । कीदृशान्? भद्रान् मनोज्ञान् समुनसः गृहेषु अवस्थिताः श्वश्र्वादयः वधूं दृष्ट्वा सुमनसो भवन्तीति गृहास्सुमनस इत्याह । अवीरघ्नी वीराः पुत्राः अतद्धननस्वभावा अहं वीरवतो देवरादिपुत्रैस्तद्वतः सुवीरान् शोभनरक्षकपुरुषयुक्तान् इरां अन्नं वहतो घृतमुक्षमाणाः ब्राह्मणेषु भुञ्जानेषु यत्र घृतमुक्ष्यते तत इतस्सिच्यते ते गृहा उच्यन्ते घृतमुक्षमाणा इति । द्वितीयार्थे प्रथमा । प्रपद्य च तेषु एवम्भूतेषु गृहेषु अहं सुमनाः भूत्वा संविशामा ।

मन्त्रः 3सम्पाद्यताम्

आग॑न्गो॒ष्ठं महि॑षी॒ गोभि॒रश्वै॒रायु॑ष्मत्पत्नी प्र॒जया॑ स्व॒र्वित् ।
ब॒ह्वीं प्र॒जाञ्ज॒नय॑न्ती सुरत्ने॒मम॒ग्निꣳ श॒तहि॑मास्सपर्यात् ।

टीकासम्पाद्यताम्

अथोत्तरे त्रयोदश होममन्त्राः- आगन्निति ॥ आगन् आगतवती गोष्ठं गृहं महिषी मम वल्लभा भार्या गोभिः अश्वैश्च पितृकुल लब्धैस्सह आयुष्मान्पतिर्यस्याः सा आयुष्मत्पत्नी अनेनात्मन आयुराशास्ते । प्रजया अपत्येन स्वर्वित् स्वर्गस्य लब्ध्री नापुत्रस्य लोकोस्ति इति प्रजयेत्युक्तम् । तत्र विशेषविधिः बह्वीं प्रजां जनयन्ती सुरत्ना । शोभनधना भूत्वा इममग्निं औपासनाग्निं शतहिमाः शतं संवत्सरान् सपर्यात् परिचरतु अत्रेयं योग्या भवत्वित्यर्थः ॥

मन्त्रः 4सम्पाद्यताम्

अ॒यम॒ग्निर्गृ॒हप॑तिस्सुस॒ꣳ॒सत्पु॑ष्टि॒वर्द्ध॑नः ।
यथा॒ भग॑स्या॒भ्यां दद॑द्र॒यिं पुष्टि॒मथो॑ प्र॒जाम् ।

टीकासम्पाद्यताम्

अयमग्निः औपासनोऽग्निः गृहपतिः मदीयस्य गृहस्य पालयिता सुसंशत् शोभनसदनः पुष्टिवर्धनः मम पुष्टिवर्धनः मम पुष्टेर्वर्धयिता श्रियमिच्छेद्धुताशनात् इति वचनात् । एवम्भूतोग्निः आभ्यां आवाभ्यां दम्पतिभ्यां रयिं धनं पुष्टिं अधो? प्रजां च ददत् दद्यात् । घोर्लोपो लेटि वा । यथा भगस्य भगाय देवाय दत्तवान् । भगग्रहणमुपलक्षणं यथा देवेभ्य इत्यर्थः । देवानामपि हि कर्मजाः सिद्धयः ॥

मन्त्रः 5सम्पाद्यताम्

प्र॒जाया॑ आभ्यां प्रजापत॒ इन्द्रा॑ग्नी॒ शर्म॑ यच्छतम् ।
यथैन॑यो॒र्न प्र॑मी॒याता॑ उ॒भयो॒र्जीव॑तोः प्र॒जा ।

टीकासम्पाद्यताम्

प्रजायै आभ्यां अनयोर्दम्पत्योः या प्रजा तस्यै हे प्रजा तस्यै हे प्रजापते । शर्म यच्छ इति विपरिणामेन सम्बन्धः । हे इन्द्राग्नी । युवां च शर्म यच्छतं यथा एनयोः उभयोः जीवतोः सतोः प्रजा न प्रमीयातै न प्रमीयेत तथा शर्म यच्छतम् ।

मन्त्रः 6सम्पाद्यताम्

तेन॑ भू॒तेन॑ ह॒विषा॒ऽयमा प्या॑यतां॒ पुनः॑ ।
जा॒यां याम॑स्मा॒ आवा॑क्षु॒स्ताꣳ रसे॑ना॒भि व॑र्द्धताम् ।

टीकासम्पाद्यताम्

तेनेति ॥ यदिदं मया हूयते तेन भूतेन प्राप्तेन वा हविषा अयं जनः आप्यायतां पुनः वीप्सालोपोत्र द्रष्टव्यः पुनः पुनः । किञ्चअस्मै मह्यं यां जायां आवाक्षुः आवहन् दत्तवन्तः तां रसेन आज्यादिना अभिवर्धतां अभिवर्धयत्वयं जनः ॥

मन्त्रः 7सम्पाद्यताम्

अ॒भिव॑र्द्धतां॒ पय॑सा॒ऽभि रा॒ष्ट्रेण॑ वर्द्धताम् ।
र॒य्या स॒हस्र॑पोषसे॒मौ स्ता॒मन॑पेक्षितौ ।

टीकासम्पाद्यताम्

अभीति ॥ तथा इयं अभिवर्धतां पयसा, राष्ट्रेण गृहक्षेत्रादिना च अभिवर्धताम् । तथा सहस्रपोषसा बहूनां पोषयित्र्या रय्या धनेन इमौ दम्पती अनपेक्षितौ स्तां यथा अनयोरन्यत्रापेक्षा न भवति तथा धनवृद्धिरस्तु ।

मन्त्रः 8सम्पाद्यताम्

इ॒हैव स्तं॒ मा वियो॑ष्टं॒ विश्व॒मायु॒र्व्य॑श्नुतम् ।
म॒ह्या इ॑न्द्रस्स्व॒स्तये॑ ।

टीकासम्पाद्यताम्

इहैषेति ॥ आत्मन एवेदमन्तरात्मानं प्रति वचनम् । हे आवयोरन्तरात्मानौ । इहैव गृहे स्तं भवतं मावियोष्टं कदाचिदपि वियुक्तौ मा भूतम्, विश्वमायुः स ह षोडशं वर्षशतमजीवत् इति श्रुत्युक्तं व्यश्नुतं प्राप्नुतम् । इन्द्रश्च युवयोः मह्यै महत्यै स्वस्तये भवतु ॥

मन्त्रः 9सम्पाद्यताम्

ध्रु॒वैधि पो॑ष्या॒ मयि॒ मह्य॑न्त्वाऽदा॒द्बृह॒स्पतिः॑ ।
मया॒ पत्या॑ प्र॒जाव॑ती॒ सं जी॑व श॒रद॑श्श॒तम् ।

टीकासम्पाद्यताम्

ध्रुवैवीति ॥ हे वधु । मम पोष्या त्वं मयि ध्रुव निश्चला एधि भव । मह्यं त्वा त्वां अदात् बृहस्पतिः । सा त्वं मया पत्या सह प्रजावती भूत्वा सञ्जीव शरदश्शतं बहून् वत्सरान् ॥

मन्त्रः 10सम्पाद्यताम्

त्वष्टा॑ जा॒याम॑जनय॒त् त्वष्टा॑ऽस्यै॒ त्वां पति॑म् ।
त्वष्टा॑ स॒हस्र॒मायूꣳ॑षि दी॒र्घमायुः॑ कृणोतु वाम् ।

टीकासम्पाद्यताम्

त्वष्टेति । यावच्छो वै रेतसः स्सिक्तस्य त्वष्टा रूपाणि विकरोति त्वष्टा रुपाणि पिंशतु इति च रूपनिर्माणे कर्तृत्वेन श्रुतो यः त्वष्टा स त्वष्टा इमां जायां अजनयत् । तथा अस्यै अस्याः त्वां पतिं च त्वष्टा एवाजनयत् हे मदीयान्तरात्मन् । स एव त्वष्टा वां युवयोः अन्तरात्मनोः सहस्रमायूंषि बहूनि अन्ननि दीर्घमायुश्च कृणोतु करोतु ॥

मन्त्रः 11 -15सम्पाद्यताम्

इ॒मं मे॑ वरुण॒
तत्त्वा॑ यामि॒
त्वन्नो॑ अग्ने॒
स त्वन्नो॑ अग्ने॒
त्वम॑ग्ने अ॒यासि॑ ।। (8)

टीकासम्पाद्यताम्

इमं मे वरुण इत्यादयः पञ्च गताः ॥

इति श्रीहरदत्तविरचिते एकाग्निकाण्डमन्त्रव्याख्याने अष्टमः खण्डः ॥

1.9 तमः खण्डःसम्पाद्यताम्

मन्त्रः 1सम्पाद्यताम्

इ॒ह गावः॒ प्रजा॑यद्ध्वमि॒हाश्वा॑ इ॒ह पूरु॑षाः ।
इ॒हो स॒हस्र॑दक्षिणो रा॒यस्पोषो॒ निषी॑दतु ।

टीकासम्पाद्यताम्

उत्तरया चर्मण्युपविशतः - इह गाव इति ॥ इह गृहे हे गावः । प्रजायध्वं प्रजाता भवत । इहाश्वाः । इह पूरुषाः प्रजायध्वमित्येव । सर्वत्र आमन्त्रितनिघातः छान्दसत्वान्नभवति । इहो इहैव सहस्रदक्षिणः बहुदानयोग्यः रायस्पोषः धनस्य पोषः निषीदतु ॥

मन्त्रः 2सम्पाद्यताम्

सोमे॑नादि॒त्या ब॒लिन॒स्सोमे॑न पृथि॒वी दृ॒ढा ।
अथो॒ नक्ष॑त्राणामे॒षामु॒पस्थे॒ सोम॒ आधि॑तः ।

टीकासम्पाद्यताम्

अथ या पुमांसमेव सूतवती जीवपुत्रा च, तस्याः पुत्रं वध्वा अङ्के उपवेशयति - सोमेनेति ॥ आदित्याः देवाः सोमेन बलिनः चं? ओषधीनां वृद्धिः ओषधिवृद्धौ याग इति । पृथिवी च सोमेन दृढा ओषधिवनस्पत्यादिभिः । अथो यथा एषां नक्षत्राणां उपस्थे सोम आधितः आहितः एवमयं बालः तवोपस्थे उपविशतु ॥

मन्त्रः 3सम्पाद्यताम्

प्र स्वस्स्थः॒ प्रेयं प्र॒जया॒ भुव॑ने शोचेष्ट ।

टीकासम्पाद्यताम्

तस्मै फलानि प्रयच्छति - प्रस्वः स्थ इति ॥ प्रसूयन्त इति प्रस्वः हे फलानि । यूयं प्रस्वः स्थः प्रसवशीलाः स्थ । छान्दसो विसर्जनीयः, भवथ । इयमपि वधूः भुवने प्रजया अपत्येन प्रशोचेष्ट प्रसोषीष्ट यथा यूयं प्रसवशीलाः स्थ तथेयमपि युष्मत्प्रसादेन प्रसवशीला भवत्वित्यर्थः ॥

मन्त्रः 4सम्पाद्यताम्

इ॒ह प्रि॒यं प्र॒जया॑ ते॒ समृ॑द्ध्यताम॒स्मिन् गृ॒हे गार्‌ह॑पत्याय जागृहि ।
ए॒ना पत्या॑ त॒न्वꣳ॑ सꣳ सृ॑ज॒स्वाथा॒ जीव्री॑ वि॒दथ॒मा व॑दासि ।

टीकासम्पाद्यताम्

उत्तरे जपति - इह प्रियमिति ॥ इह गृहे प्रजया प्रियं ते समृध्यतां प्रीतिस्ते वर्धताम् । अनेन प्रजासम्पत्तिरुक्ता । धर्मसम्पत्ति माह - आस्मिन् गृहे गार्हपत्याय गृहपतिभावाय जागृहि अतिथीनामग्नीनां च परिचरणे अवहिता भव । कामसंपत्तिमाह - एना अनेन पत्या मया तन्वं तनुं शरीरं संसृजस्व संभोगकाले । एवं चिरकालमनुभूय अथ अनन्तरं जीव्री जीर्णाभिधानमिदमिति निरुक्तकार आह आत्वारम्भं “न जीव्रयः” इत्यत्र । जीर्णा सती विदथं यज्ञं तद्विषयं वक्तव्यं पुत्रपौत्रादीनां आवदासि आभिमुख्येन वद इत्यमिदं कर्तव्यमिति ॥

मन्त्रः 5सम्पाद्यताम्

सु॒म॒ङ्ग॒लीरि॒यं व॒धूरि॒माꣳ स॑मेत॒ पश्य॑त ।
सौभा॑ग्यम॒स्यै द॒त्वायाथास्तं॒ वि परे॑तन ।

टीकासम्पाद्यताम्

सुमङ्गलीरिति ॥ सुमङ्गलीः छान्दसस्सुलोपाभावः । सुमङ्गलीरियं वधूरिति स्वभावकथनम् । एवम्भूतां इमां समेत समागच्छत समेत्य च पश्यत ईक्षध्वं ईक्षकान्प्रति वचनम् । तथा चाश्वलायनः “सुमङ्गलीरियं वधूरिक्षकानीक्षेत” इति । दृष्ट्वा च अस्यै सौभाग्यं दत्वाय दत्वा अथ अनन्तरं अस्तं स्वस्वगृहस्थानं विपरेतन यथेष्टं गच्छत ॥

मन्त्रः 6सम्पाद्यताम्

ध्रु॒वक्षि॑तिर्द्ध्रु॒वयो॑निर्द्ध्रु॒वम॑सि द्ध्रु॒वत॑स्स्थि॒तम् ।
त्वन्नक्ष॑त्राणां मे॒थ्यसि॒ स मा॑ पाहि पृतन्य॒तः ।

टीकासम्पाद्यताम्

ध्रुवं दर्शयति - ध्रुवेति ॥ ध्रुवक्षितिः ध्रुवनिवासः ध्रुवयोनिः ध्रुवोत्पत्तिः अन्येषां नक्षत्राणां ध्रुवतः ध्रुवत्वहेतौ स्थितं स्वयं च ध्रुवं नक्षत्रं त्वमसि । कुत एतत्? त्वं नक्षत्राणां भ्रमतां मेथ्यसि मेथी खलेवाली असि । सा यथा बलीवर्दानां? अनपगमने हेतुः स्थाणुः तथा त्वं नक्षत्राणाम् । य एवम्भूतः स त्वं मा मां पृतन्यतः योद्धुकामात् पाहि ॥

मन्त्रः 7सम्पाद्यताम्

स॒प्त॒ऋ॒षयः॑ प्रथ॒मां कृत्ति॑कानामरुन्ध॒तीम् ।
यद्ध्रु॒वता॒ꣳ॒ ह नि॒न्युष्षट्कृत्ति॑कामुख्ययो॒गं वह॑न्ती॒यम॒स्माक॑मेधत्वष्ट॒मी ।

टीकासम्पाद्यताम्

अरुन्धतीं दर्शयति - सप्तेति ॥ सप्तर्षयः काश्यपदायः तेषां कृत्तिका नाम भार्याः सप्त । तासामरुन्धती नाम सप्तमी पतिव्रता प्रधानभूता निश्चला च । इतरा व्यभिचारशङ्कया त्यक्ता इत्यैतिहासिकाः स्मरन्ति । तदिदमुच्यते सप्तर्षयः काश्यपादयः कृत्तिकानां प्रथमां अग्रगण्यां अरुन्धतीं यत् यदा ध्रुवतां निश्चलतां होति प्रसिद्धिं दर्शयति निन्युः नयन्ति स्म । यदिति वचनात् ददेति अध्याहार्यम् । तदा इतराः षट्कृत्तिकाः अरुन्धत्यां मुख्ययोगं प्रधानभावं वहन्ति आवहन् अभ्युपगतवत्यः । तस्याः अरुन्धत्याः दर्शनेन इयं वधूः अस्माकं अस्मदो द्वयोश्च इत्येकस्मिन् बहुवचनम् मम अष्टमी भूत्वा एधतु वर्धताम् अहं सप्तर्षीणामष्टमस्थानीयो भूयासम् इयमपि कृत्तिकादीनामष्ठमस्थानीया भूयादित्यर्थः ॥

मन्त्रः 8सम्पाद्यताम्

सद॑स॒स्पति॒मद्भु॑तं प्रि॒यमिन्द्र॑स्य॒ काम्य॑म् ।
सनिं॑ मे॒धाम॑यासिषम् ।

टीकासम्पाद्यताम्

उपाकरण समापनयोः काण्डर्षीणांस्विष्टकृत् स्थानीयः होमः सदसस्पतिमिति ॥ सदः यज्ञगृहं तस्य पतिः सदसस्पतिः । कोसौ? अग्निः,स हि सर्वयज्ञानामधिपतिः देवतान्तरं वा । तं सदसस्पतिं अद्भुतं महन्नामैतत् महान्तं अद्भुतकर्माणं वा, प्रियं इन्द्रस्य सोमपानार्थिन इन्द्रस्याग्निः प्रियो भवति तदायत्तत्वाद्यज्ञानाम्, काम्यं प्रार्थ्यं स्तोतृणां? एवम्भूतं सदसस्पतिं सनिं दानं मेधां प्रज्ञां त अयासिषं याच्नाकर्मायं वर्तमाने लुङ्, याचामि ॥

मन्त्रः 9सम्पाद्यताम्

उद्दी॑प्यस्व जातवेदोऽप॒घ्नन्निर्ऋ॑तिं॒ मम॑ ।
प॒शूꣳश्च॒ मह्य॒मा व॑ह॒ जीव॑नञ्च॒ दिशो॑ दश ।

टीकासम्पाद्यताम्

स्वयं प्रज्वलितेग्नौ समिदाधानम् - उद्दीप्यस्वेति ॥ हे जातवेदः । मम निर्ऋतिं हिंसकवर्गं अपघ्नन् तस्य अपहतिं कुर्वन् उद्दीप्यस्व । किञ्च - पशूंश्च मह्यं आवह आनय । जीवनं च आवह । दिशश्च दश आवह वशीकुर्वित्यर्थः । दिशेति पाठे, दिश अतिसर्जने, दिशः सर्वाः जीवनं दिस जीवनत्वेन देहीति, जीवनरूपेण मे दिशो देहीत्यर्थः ।

मन्त्रः 10सम्पाद्यताम्

मा नो॑ हिꣳसीज्जातवेदो॒ गामश्वं॒ पुरु॑ष॒ञ्जग॑त् ।
अबि॑भ्र॒दग्न॒ आग॑हि श्रि॒या मा॒ परि॑पातय ।। (9)

टीकासम्पाद्यताम्

मा न इति ॥ हे जातवेदाः । नः आस्माकं सम्बन्धिनं मा हिंसीत् । पुरुषव्यत्ययः । मा हिंसीः । किम्? गामश्वं पुरुषं जगत् यच्चान्यज्जङ्गमम् । किञ्च - हे अग्ने । अबिभ्रत् अन्येषां हविर्वहनमकुर्वन् अस्मान्प्रति आगहि आगच्छ । आगत्य च श्रिया मा मां परिपातय परिगमय सर्वतश्श्रियया समृद्धं कुरु ॥

इति श्रीहरदत्तविरचिते एकाग्निकण्डमन्वव्याख्याने नवमः खण्डः

1.10 तमः खण्डःसम्पाद्यताम्

मन्त्रः 1सम्पाद्यताम्

उ॒दी॒र्ष्वातो॑ विश्वावसो॒ नम॑सेडामहे त्वा ।
अ॒न्यामि॑च्छ प्रफ॒र्व्यꣳ॑ सञ्जा॒यां पत्या॑ सृज ।

टीकासम्पाद्यताम्

दण्डोत्थापनमन्त्रः - उदीर्ष्वात इति ॥ उदिर्ष्व उत्तिष्ठ अतः शयनात् हे विश्वावसो । विश्वावसुर्नाम गन्धर्वः तद्बुध्या दण्डः स्थापितः तेनैवं संबोध्यते । नमसा नमस्कारेण त्वा त्वां ईडामहे याचामहे, अन्यां इच्छ प्रफर्व्यं प्रथमवयसं स्त्रियं, इमां तु मम जायां पत्या मया संसृज ॥

मन्त्रः 2सम्पाद्यताम्

उ॒दी॒र्ष्वातः॒ पति॑वती॒ ह्ये॑षा वि॒श्वाव॑सुं॒ नम॑सा गी॒र्भिरी॑ट्टे ।
अ॒न्यामि॑च्छ पितृ॒षदं॒ व्य॑क्ता॒ꣳ॒ स ते॑ भा॒गो ज॒नुषा॒ तस्य॑ विद्धि ।

टीकासम्पाद्यताम्

उदीर्ष्वात इति ॥ गतार्थः । पतिवति ह्येषा । छान्दसो हृस्वः । एषा हि पतिवती मया पत्या तद्वती । विश्वावसुं त्वां नमसा गीर्भिः स्तुतिभिश्च ईट्टे याचे । अतश्च अन्यां इच्छ पितृषदं पितृगृहे स्थितां व्यक्तां असमाप्तविवाहाम् । स हि ते स्वभूतो भागः जनुषा जन्मना तदर्थं त्वं जात इत्यर्थः । तस्य विद्धि तं लभस्व ॥

मन्त्रः 3 -6सम्पाद्यताम्

अग्ने॑ प्रायश्चित्ते॒ त्वन्दे॒वानां॒ प्राय॑श्चित्तिरसि ब्राह्म॒णस्त्वा॑ ना॒थका॑मः॒ प्रप॑द्ये॒ याऽस्यां प॑ति॒घ्नी त॒नूः प्र॑जा॒घ्नी प॑शु॒घ्नी ल॑क्ष्मि॒घ्नी जा॑र॒घ्नीम॑स्यै॒ ताङ्कृ॑णोमि॒ स्वाहा॑ ।
वायो॑ प्रायश्चित्त॒ आदि॑त्य प्रायश्चित्ते॒ प्रजा॑पते प्रायश्चित्ते॒ त्वन्दे॒वानां॒ प्राय॑श्चित्तिरसि ब्राह्म॒णस्त्वा॑ ना॒थका॑मः॒ प्रप॑द्ये॒ याऽस्यां प॑ति॒घ्नी त॒नूः प्र॑जा॒घ्नी प॑शु॒घ्नी ल॑क्ष्मि॒घ्नी जा॑र॒घ्नीम॑स्यै॒ ताङ्कृ॑णोमि॒ स्वाहा॑ ।

टीकासम्पाद्यताम्

अत शेष होममन्त्राः - अग्ने प्रायश्चित्त इति ॥ प्रायो विनाशः चित्तिः सन्धानं हे प्रायश्चिते । विनष्टस्य कर्मणः सन्धातः हे अग्ने । देवानां मध्ये त्वं प्रायश्चित्तिरसि । ततश्च नाथकामः अहं ब्राह्मणः त्वां प्रपद्ये । या अस्यां वध्वां पतिघ्नी तनू पाणिरेखादिः या च प्रजाघ्नी या च पशुघ्नी या च लक्ष्मिघ्नी छान्दसो हृस्वः अस्यै अस्याः तनूं जारघ्नीं कृणोमि करोमि । इदं मे चिकीर्षितं, तेन त्वां प्रपद्ये । एतेन उत्तरास्त्रयो व्याख्याताः । मध्यमयोश्च त्वं देवानाम् इत्यादेरनुषङ्गः ॥

मन्त्रः 7सम्पाद्यताम्

प्र॒स॒वश्चो॑पया॒मश्च॒ काट॑श्चार्ण॒वश्च॑ धर्ण॒सिश्च॒ द्रवि॑णञ्च॒ भग॑श्चा॒न्तरि॑क्षञ्च॒ सिन्धु॑श्च समु॒द्रश्च॒ सर॑स्वाꣳश्च वि॒श्वव्य॑चाश्च॒ ते यं द्वि॒ष्मो यश्च॑ नो॒ द्वेष्टि॒ तमे॑षा़॒ञ्जम्भे॑ दद्ध्म॒स्स्वाहा॑ ।

टीकासम्पाद्यताम्

प्रसवश्चेति ॥ प्रसवः अनुज्ञा, उपयामः पृथिवी इयं वा उपयामः इति श्रुतेः, काटः लिङ्गरूपः रुद्रः “नमः काट्याय” । इति दर्शनात् अर्णवः उदन्वान् हृदादिः, धर्णासिः गृहं, द्रविणं धनं बलं वा, भगः आदित्यानामन्यतमः सौभाग्यं वा उदयं मामको भगः इति दर्शनात्, अन्तरिक्षं प्रसिद्धं सिन्धुः नदी समुद्रः प्रसिद्धः सरस्वान् देवताविशेषः अन्वारम्भणीयायां दृष्टः पीपिवांसं सरस्वतः दिव्यं सुपर्णम् इति च विश्वव्यचाः इन्द्र इत्याहुः विश्वव्यचसप्रवतं मतीनाम् इति दर्शनात् एतेषां स्वरूपेण अधिष्ठा तृद्वारेण च यथासम्भवं देवतात्वम् । तेशब्दस्यान्वयसिद्ध्यर्थं ये शब्दोऽध्याहार्यः । ये ते अनुक्रान्ताः देवाः एषां जम्भे दन्तनामैतत् जातावे कवचनम्, दन्तेषु भक्षणाय दध्मः प्रक्षिपामः । कम्? यं द्विष्मः यश्च नो द्वेष्टि तम् ॥

मन्त्रः 8सम्पाद्यताम्

मधु॑श्च॒ माध॑वश्च शु॒क्रश्च॒ शुचि॑श्च॒ नभ॑श्च नभ॒स्य॑श्चे॒षश्चो॒र्जश्च॒ सह॑श्च सह॒स्य॑श्च॒ तप॑श्च तप॒स्य॑श्च॒ ते यं द्वि॒ष्मो यश्च॑ नो॒ द्वेष्टि॒ तमे॑षा़॒ञ्जम्भे॑दद्ध्म॒स्स्वाहा॑ ।

टीकासम्पाद्यताम्

मधुश्चेति ॥ वसन्तादीनां षण्णामृतूनां द्वौद्वौ मासौ मध्वादयः । ते इत्यादि पूर्ववत् ॥

मन्त्रः 9सम्पाद्यताम्

चि॒त्तञ्च॒ चित्ति॒श्चाकू॑त॒ञ्चाकू॑ति॒श्चाधी॑त॒ञ्चाधी॑तिश्च॒ विज्ञा॑तञ्च वि॒ज्ञान॑ञ्च॒ नाम॑ च॒ क्रतु॑श्च॒ दर्‌श॑श्च पू॒र्णमा॑सश्च॒
ते यं द्वि॒ष्मो यश्च॑ नो॒ द्वेष्टि॒ तमे॑षा़॒ञ्जम्भे॑ दद्ध्म॒स्स्वाहा॑ ।

टीकासम्पाद्यताम्

चित्तं चेति । चित्तं अन्तः करणं , चित्तिः तद्व्यापारः आकूतं अभिप्रेतं आकूतिः अभिप्रायः अधीतं अध्यापनं, अधीतिः अध्ययनं विज्ञातविज्ञाने प्रसिद्धे,नाम च क्रतुश्चेति नामरूपे विवक्षिते क्रियत इति क्रतुः । दर्शपूर्णमासौ प्रसिद्वौ । एतेषां देवतात्वं पूर्ववत् । ते इत्यादि च पूर्ववत् ॥

मन्त्रः 10सम्पाद्यताम्

भूस्स्वाहा॒ भुव॒स्स्वाहा॒ सुव॒स्स्वाहोꣳ स्वाहा॑ ।। (10)

टीकासम्पाद्यताम्

भूस्स्वाहेत्यादिभिः चतुर्भिः वध्वाश्शिरस्याज्यशेषानयनत् - भूस्स्वाहेति ॥ भूरादयः त्रयो लोकाः । ओमिति ब्रह्म ॥

इति श्रीहरदत्तविरचिते एकाग्निकाण्डमन्त्र व्याख्याने दशमः खण्डः

1.11 तमः खण्डःसम्पाद्यताम्

मन्त्रः 1सम्पाद्यताम्

अप॑श्यन्त्वा॒ मन॑सा॒ चेकि॑तानं॒ तप॑सो जा॒तं तप॑सो॒ विभू॑तम् ।
इ॒ह प्र॒जामि॒ह र॒यिꣳ ररा॑णः॒ प्रजा॑यस्व प्र॒जया॑ पुत्रकाम ।

टीकासम्पाद्यताम्

अथ वधूर्वरं समीक्षते - अपश्यं त्वेति ॥ अपश्यं त्वा त्वां पश्यामिमनसा हृदयेन सस्नेहं इत्यर्थः चेकितानं जानन्तं मदभिप्रायं तपसः गर्भाधानादेरुपनयनपर्यन्तात् जातं द्विजत्वेन जातं तपसः भिक्षाचर्यादेरध्ययनाङ्गभूतात् विभूतं विभूतिमत्त्वेन निष्पन्नं विभूतिः श्रीः ऋचस्सामानि यजूंषि सा हि श्रीरमृता सताम् इति इह मयि प्रजां इह मम च गृहे रयिं धनं रराणः ददत् प्रजया प्रजायस्व हे पुत्रकाम । यत्प्रजाया जन्म तज्जनाहितुरेव जन्म । श्रूयते हि प्रजामनुप्रजायसे । तदु ते मर्त्यामृतम् इति ॥

मन्त्रः 2सम्पाद्यताम्

अप॑श्यन्त्वा॒ मन॑सा॒ दीद्ध्या॑ना॒ꣳ॒ स्वायां॑ त॒नूꣳ ऋ॒त्विये॒ नाथ॑मानाम् ।
उप॒ मामु॒च्चा यु॑व॒तिर्बुभू॑याः॒ प्रजा॑यस्व प्र॒जया॑ पुत्रकामे ।

टीकासम्पाद्यताम्

वरो वधूमीक्षते - अपश्यं त्वेति ॥ अपश्यं त्वा त्वां अहं मनसा पश्यामि दीध्यानां ध्यायन्ती वा स्वायां तनूं स्वस्यां तन्वाम् । सप्तम्याः पूर्वसवर्णदीर्घः । तत्र ईदूतौ च सप्तम्यर्थे इति प्रगृह्यसम्यायां सत्यामपि छान्दस ऊकारस्सानुनासिकः । बह्वृचास्तु शुद्धमेवाधीयते । इहापि केचिदूकारात्परमनुस्वारमधीयेते । ऊकारान्तस्तु शुद्धः । ऋत्विये ऋतुकाले भवो गर्भः ऋत्वियः द्वितीयैकवचनस्य शेआदेशः । नाथमानां प्रार्थयमानां स्वे शरीरे मत्तो गर्भं प्रार्थयमानामित्यर्थः । उपेत्ययमनुशब्दस्यार्थे द्रष्टव्यः । मां उच्चा उच्चं सम्भोगकाले उपरि सन्तं युवतिः यौवनावस्थां प्राप्ता त्वं उपबभूयाः अनुभायाः, अनुभूय च प्रजया प्रजायस्व हे पुत्रकामे ॥

मन्त्रः 3सम्पाद्यताम्

सम॑ञ्जन्तु॒ विश्वे॑ दे॒वास्समापो॒ हृद॑यानि नौ ।
सं मा॑त॒रिश्वा॒ सं धा॒ता समु॒ देष्ट्री॑ दिदेष्टु नौ ।

टीकासम्पाद्यताम्

उत्तरयाऽऽज्यशेषेण हृदयदेशौ समनक्ति - समञ्जन्त्विति ॥ नौ आवयोः हदयानि व्यापारबहुत्वात् बहुवचनम् । विश्वे देवाः समञ्जन्तु सस्नेहानि कुर्वन्तु । आपश्च समञ्जन्तु । मातरिश्वा वायुः सोऽपि समनक्तु । धाता समनक्तु समित्यस्य देष्ट्रीत्यनेन सम्बन्धः उकारोनर्थकः संदेष्ट्री अन्तर्भावितण्यर्थोऽयम् । सन्देशस्य कारयित्री । संदेशः परस्परसंभाषणम् । का पुनः संदेष्ट्री? सरस्वती, संभाषणस्य तदायत्तत्वात् । गर्भाधाने च तस्या व्यापारदर्शनात् गर्भंधेहि सरस्वति इति । सा संदेष्ट्री संदिदेष्टु । अयमप्यन्तर्भाषितण्यर्थः । सन्देशं कारयतु नौ आवयोः सम्भोगकालानुरूपं सम्भाषणं सरस्वती कारयत्वित्यर्थः ॥

मन्त्रः 4सम्पाद्यताम्

प्रजा॑पते त॒न्वं॑ मे जुषस्व॒ त्वष्ट॑र्दे॒वेभि॑स्स॒हसा॒म इ॑न्द्र ।
विश्वै॑र्दे॒वैरा॒तिभि॑स्सꣳ ररा॒णः पु॒ꣳ॒सां ब॑हू॒नां मा॒तर॑स्स्याम ।

टीकासम्पाद्यताम्

अथ जपः - हे प्रजापते । त्वं मे तन्वं तनूं शरीरं जुषस्व सेवस्व प्रविश । येनाहं रेतस्सेके समर्थस्स्यां आसिञ्चतु प्रजापतिः इति दर्शनात् । हे त्वष्टः त्वमपि मे तन्वं जुषस्व । देवेभिः देवैः देवाः विष्ण्वादयः विष्णुर्योनिं कल्पयतु 2 इत्यादिमन्त्रे निर्दिष्टाः तैस्सह । कीदृशस्त्वम्? सहसामः सहेरसानच्, सहसानः तस्यैव छान्दसो नकारस्य मकारः । रूपनिर्माणे समर्थ इत्यर्थः त्वष्टा रूपाणि पिंशतु इति दर्शनात् । हे इन्द्र । त्वमपि मे तन्दं जुषस्व विश्वैः देवैः तव रातिभिः मित्रभूतैः सह संरराणः सम्यगस्मभ्यं अभिमतं ददत् पुंसां बहूनां मातरः पिता मात्रा इति पितुरेकशेषे प्राप्ते मातुरेकशेषः छान्दसः द्वयोश्च बहुवचनम् । मातरौ मातापितरौ स्याम स्वायं? युष्मत्प्रसादादावां बहुपुत्रौ स्यावेत्यर्थः ॥

मन्त्रः 5सम्पाद्यताम्

आ नः॑ प्र॒जाञ्ज॑नयतु प्र॒जाप॑तिराजर॒साय॒ सम॑नक्त्वर्य॒मा ।
अदु॑र्मङ्गलीः पतिलो॒कमा वि॑श॒ शन्नो॑ भव द्वि॒पदे॒ शञ्चतु॑ष्पदे ।

टीकासम्पाद्यताम्

आन इति ॥ न इति द्वयोर्बहुवचनम् । प्रजापतिः आवयोः प्रजां आजनयतु । आजरसाय आजरसं आवां समनक्तु सस्नेहौ करोतु अर्यमा आदित्यः । त्वं च अदुर्मङ्गलीः दुष्टानि मङ्गलानि लक्षणानि यस्यास्सा दुर्मङ्गलीः ततोन्या अदुर्मङ्गलीः, छान्दसः सुलोपाभावः । सुमङ्गली भूत्वा पतिलोकं पत्युर्मम लोकं गृहं आविश आवस । शं नः इत्यादि गतम् ॥

मन्त्रः 6सम्पाद्यताम्

तां पू॑षञ्छि॒वत॑मा॒ मेर॑यस्व॒ यस्यां॒ बीजं॑ मनु॒ष्या॑ वप॑न्ति ।
या न॑ ऊ॒रू उ॑श॒ती वि॒स्रया॑तै॒ यस्या॑मु॒शन्तः॒ प्रह॑रेम॒ शेफ॑म् ।। (11)

टीकासम्पाद्यताम्

तामिति ॥ हे पूरन् । यस्यां मनुष्याः बीजं वपन्ति शुक्ल- मृत्सृजन्ति तां मे शिवतमां अनुकूलतमां कृत्वा एरयस्व प्रेरयस्व भार्यां मे प्रोत्साहयेत्यर्थः । भार्यायां हि बीजं वपन्ति अन्यत्र निषेधात् । सा विशिष्यते - या नः अस्मदो द्वयोश्च इत्येकस्मिन् बहुवचनम् । मह्यं ऊरू या अशती कामयमाना विश्रयातै शकारस्य सकारः छान्दसः पञ्चमी लकारः विश्रयेत विश्लिष्टौ कुर्यात् तदा हि योनिः विवृता भवति यस्यां च एवंभूतायां उशन्तः कामयमाना भूत्वा शेफं शिश्नं प्रहरेम प्रक्षिपेम । पूर्ववद्बहुवचनम् ॥ इति श्रीहरदत्तविरचितैकाग्निकाण्डमन्त्रव्याख्याने एकादशः खण्डः ॥

1.12 तमः खण्डःसम्पाद्यताम्

मन्त्रः 1सम्पाद्यताम्

आरो॑हो॒रुमुप॑बर्‌हस्व बा॒हुं परि॑ष्वजस्व जा॒याꣳ सु॑मन॒स्यमा॑नः ।
तस्यां॑ पुष्यतं मिथु॒नौ सयो॑नी ब॒ह्वीं प्र॒जां ज॒नय॑न्तौ॒ सरे॑तसा ।

टीकासम्पाद्यताम्

अथ समावेशनकाले जपः । अन्यो वैनामभिमन्त्रयेत - आरोहोरुमिति ॥ जपपक्षे तावदात्मन एवायमन्तरात्मनः प्रैषः । हे मदीयशरीरात्मन् । अस्या ऊरुं आरोह, आरुह्य च सात्मनो बाहुं बाहू उपबर्हस्व उपबर्हणमालिङ्गनं इह तु तदर्थं प्रसारणम् । आलिङ्गनाय बाहू प्रसारय । प्रसार्य च परिष्वजस्व जायां तस्यां सुमनस्यमानः प्रीयप्राणो भूत्वा तथाहि प्रजा रूपादिसमृद्धा भवति । पुष्यतमित्यादि आयया सहाभिधानम्? । हे जाये मदी यशरीरात्मन् । युवां पुष्यतं पुष्टौ भवतं मिथुनौ मिथुनीभूतौ सयोनी सङ्गतोपस्थेन्द्रियौ बह्वीं प्रजां जनयन्तौ सरेतसा सरेतसौ चिरकालमविच्छिन्नेन्दियौ । एषैवानयोः पुष्टिः । यदुत प्रजासमृद्धिः । अभिमन्त्रणपक्षे तस्यामित्यन्तं पत्युरभिमन्त्रणं, शिष्टं द्वयोः ॥

मन्त्रः 2सम्पाद्यताम्

आ॒र्द्रयाऽर॑ण्या॒ यत्राम॑न्थ॒त्पुरु॑षं॒ पुरु॑षेण श॒क्रः ।
तदे॒तौ मि॑थु॒नौ सयो॑नी प्र॒जया॒ऽमृते॑ने॒ह ग॑च्छतम् ।

टीकासम्पाद्यताम्

आर्द्रयेति । अत्रापि जपपक्षे शरीरान्तरात्मनोभिधानम् । यत्रेति यथार्थे । यथा कश्चित् आर्द्रया आज्याक्तया अरण्या अग्निं अमन्थत् एवं शक्रः इन्द्रः, उपलक्षणमेतत्, पूर्वे विवाहस्य कर्ता इन्द्रादिः पुरुषेष? पुरुषलक्षणेन शेफेन पुरुषं पुमांसं गर्भममन्थत् मंथनसदृशेन व्यापारेण निष्पादितवान् । तत् तद्वत् एतौ मिथुनौ मिथुनीभूतौ युवां सयोनी सङ्गतोपस्थेन्द्रियौ सन्तौ प्रजया अमृतेन प्रजारूपेणामृतेन प्रजामनुप्रजायसे । तदु ते मर्त्यामृतम् इति श्रुतेः । इह गृहस्थाश्रमे स्थितौ गच्छतं केवलोप्ययं गमिः संपूर्वस्थार्थे द्रष्टव्यः सङ्गच्छतं सङ्गतौ भवतम् ॥

मन्त्रः 3सम्पाद्यताम्

अ॒हं गर्भ॒मद॑धा॒मोष॑धीष्व॒हं विश्वे॑षु॒ भुव॑नेष्व॒न्तः ।
अ॒हं प्र॒जा अ॑जनयं पितृ॒णाम॒हं जनि॑भ्यो अप॒रीषु॑ पु॒त्रान् ।

टीकासम्पाद्यताम्

अहमिति ॥ ओषधीषु गर्भं अदधां दधामि श्रौतस्मार्तकर्मानुष्ठानद्वारेण । अग्नौ प्रास्ताहुतिस्सम्यगादित्यमुपतिष्ठते । आदित्याज्जायते वृष्टिः वृष्टेरन्नं ततः प्रजाः ॥ इति । अहमेव च विश्वेषु भुवनेषु अन्तः अवस्थितः परमात्मद्वारेण स्वरूपेण वा । एवम्भूतः अहं पितृणां अर्थाय प्रजा अजनयं जनयामि । अहमेव जनिभ्यः जन्याः अस्या वध्वाः अवरीषु अवरासु पश्चात्काल भाविनीषु स्नुषासु पुत्रान् जनयामि । पुत्रोत्पादनद्वारेण पौत्रा अपि मे सन्त्वित्यर्थः । तदेतज्जपपक्षे यथाश्रुतमेव ।अभिमन्त्रण पक्षे तु प्रयुक्तिद्वारेण, प्रयुक्तिश्चाभिमन्त्रणमेव ॥

मन्त्रः 4सम्पाद्यताम्

पु॒त्रिणे॒मा कु॑मा॒रिणा॒ विश्व॒मायु॒र्व्य॑श्नुतम् ।
उ॒भा हिर॑ण्यपेशसा वी॒तिहो॑त्रा कृ॒तद्व॑सू ।

टीकासम्पाद्यताम्

पुत्रिणेमेति ॥ पुत्रिणाविमौ । पुत्रिणेति द्विवचनस्याकारः । पुत्रिणौ इमा इमौ युवां कुमारिणा कुमारिभिः दुहितृभिः तद्वन्तौ विश्वमायुः स ह षोडशं वर्षशतमजीवत् इत्येवं रूपं व्यश्नुतं प्राप्नुतम्, उभा उभौ हिरण्यपेशसः पेश इति रूपनाम, परिशुद्धवर्णौ वीतिहोत्रा वीतिरिति हविर्नाम, हविषा होतारौ कृतद्वसू । दकारः छान्दस उपजनः । कृतवसू कृतधनौ ॥

मन्त्रः 5सम्पाद्यताम्

द॒श॒स्यन्त्वा॒ऽमृता॑य॒ कꣳशमूधो॑ रोम॒शꣳ ह॑थो दे॒वेषु॑ कृ॒णुतो॒ दुवः॑ ।। (12)

टीकासम्पाद्यताम्

दशस्यंत्वेति ॥ दशस्यतिः दानकर्मा, वकार उपजनः । बह्वृचास्तु वकारं न पठन्ति । दशस्यंता अर्थिभ्योपेक्षितानि ददतौ अमृताय अमरणाय देवत्वप्राप्तये कं अनर्थकोऽयं निपातः पादपूरणश्छान्दसः शं सं सकारस्य शकारश्छान्दसः बह्वृचास्तु सकारमेव पठन्ति ऊधः ऊधस्थानीयं उभयोः उपस्थेन्द्रियं रोमशं अनेन उप भोगयोग्यता लक्ष्यते, रोमोत्पत्तेः प्राक् अनुपभोग्या हि स्त्रियः । तथा च भावयव्यस्य राज्ञो भार्यूं भावयव्यानीमिन्द्रः पत्युस्सखा परिहसन् उवाच उपभोगयोग्या त्वं न भवसि रोमाणि ते नोत्पन्नानीति । सा तमब्रवीत्- उपोप मे परामृश मा मे दभ्राणि मन्यथाः । सर्वाहमस्मि रोमशा गन्धारिणामिवाविका इति ॥ तद्रोम -समूढः शंहथः । लोडर्थे लट् । संहतं संश्लिष्टं कुरुतामित्यर्वः । किंच देवेषु दुवः परिचरणं कृणुतः कुरुताम् । पूर्ववल्लोडर्थे लट् पुरुषव्यत्ययश्च । कृणुतं देवान्परिचरतमित्यर्थः ॥

इति श्रीहरदत्तविरचिते एकाग्निकाण्डमन्त्रव्याख्याने द्वादशः खण्डः.

1.13 तमः खण्डःसम्पाद्यताम्

मन्त्रः 1सम्पाद्यताम्

विष्णु॒र्योनि॑ङ्कल्पयतु॒ त्वष्टा॑ रू॒पाणि॑ पिꣳशतु ।
आसि॑ञ्चतु प्र॒जाप॑तिर्धा॒ता गर्भं॑ दधातु ते ।

टीकासम्पाद्यताम्

अथ ऋतुसमावेशने भार्याया अभिमन्त्रणम् - विष्णुर्यो निमिति ॥ विष्णुः ते तव योनि कल्पयतु गर्भाधानक्षमां करोतु । प्रजापतिश्च मामाविश्य तत्र रेतः आसिञ्चतु । तच्च निषिक्तं रेतः धाता आदित्यानामन्यतमः प्रजापतिरेव वा गर्भं दधातु गर्भरूपेण परिणमयतु । तस्य च रूपाणि हस्तपादादीति त्वष्टा पिंशतु दीप्तिकर्मायम् । नक्षत्रेभिः पितरो द्यामपिंशन् इति दर्शनात् दीप्तानि करोतु ॥

मन्त्रः 2सम्पाद्यताम्

गर्भ॑न्धेहि सिनीवालि॒ गर्भ॑न्धेहि सरस्वति ।
गर्भ॑न्ते अ॒श्विनौ॑ दे॒वावा ध॑त्तां॒ पुष्क॑रस्रजा ।

टीकासम्पाद्यताम्

गर्भं धेहीति ॥ सिनीवाल्या सरस्वत्या च अधिष्ठिता वधूरेव तथाभिमन्त्र्यते । धेहि धारय । अश्विनौ च देवौ ते तव गर्भं आधत्तां पुष्करस्रजा पुष्करमालिनौ ॥

मन्त्रः 3सम्पाद्यताम्

हि॒र॒ण्ययी॑ अ॒रणी॒ यन्नि॒र्मन्थ॑तो अ॒श्विना॑ ।
तन्ते॒ गर्भꣳ॑ हवामहे दश॒मे मा॒सि सूत॑वे ।

टीकासम्पाद्यताम्

हिरण्ययी अरणीति ॥ तृतीयैकवचनस्य पूर्वसवर्णः । हिरण्मय्या? अरण्या तत्सदृशेन प्रजननेन यं यादृशं गर्भं निर्मन्थतः प्रयत्नेन जनितवन्तौ अश्विना अश्विनौ तं तादृशं ते गर्भं हवामहे आशास्महे दशमे मासि सूतवे सोतुम्, अश्विनौ रूपवन्तौ तत्पुत्रोपि रूपवान् तादृशस्ते गर्भो भवत्वित्यर्थः ॥

मन्त्रः 4सम्पाद्यताम्

यथे॒यं पृ॑थि॒वी म॒ही तिष्ठ॑न्ती॒ गर्भ॑माद॒धे ।
ए॒वन्त्वं गर्भ॒मा ध॑त्स्व दश॒मे मा॒सि सूत॑वे ।

टीकासम्पाद्यताम्

यथेयमिति ॥ पृथिवी यथा मही महती तिष्ठन्ती यथेयमिदानीं तिष्ठति तथैव तिष्ठन्ती उत्ताना सतीत्यर्थः उत्तानेत्येव बह्वृचानां पाठः । गर्भमादधे द्युलोकतो निषिक्तं वृष्टिलक्षणं रेतो गृहीत्वा सस्य - लक्षणं गर्भं पृथिवी यथा धारयति एवं त्वं गर्भं आधत्स्व धारय । दशमे मासि इति गतम् ॥

मन्त्रः 5सम्पाद्यताम्

यथा॑ पृथि॒व्य॑ग्निग॑र्भा॒ द्यौर्यथेन्द्रे॑ण ग॒र्भिणी॑ ।
वा॒युर्यथा॑ दि॒शां गर्भ॑ ए॒वं गर्भं॑ दधामि ते ।

टीकासम्पाद्यताम्

यथा पृथिवीति ॥ पार्थिवेषु अरण्यादिषु अग्नेरवस्थानात् पृथिवी अग्निगर्भेत्युच्यते, द्युलोके इन्द्रः प्रधानभूतः सः तस्याः गर्भत्वेन निरूप्यते, वायुश्च दिग्भ्यः प्रभवति, तेनासौ ताप्तां गर्भः यथा आसां एते गर्भाः एवं गर्भं दधामि ते ॥

मन्त्रः 6सम्पाद्यताम्

विष्णो॒ श्रेष्ठे॑न रू॒पेणा॒स्यान्नार्यां॑ गवी॒न्या॑म् ।
पुमाꣳ॑सं॒ गर्भ॒मा धे॑हि दश॒मे मा॒सि सूत॑वे ।

टीकासम्पाद्यताम्

विष्णो इति ॥ हे विष्णो । श्रेष्ठेन रूपेण युक्तं पुमांसं गर्भं अस्या नार्यां आधेहि । कीदृश्यां नार्यां? गवीन्यां कमेरेतद्रूपम् । कमनीयायां काम्यायां कामयितुं योग्यायां ऋतुस्नातायामित्यर्थः । अन्ये तु गविनीति स्त्रीणां वीर्यातिशयस्याभिधानं मन्यन्ते वि ते भिनद्मि तकरीं वि योनिं विगवीन्यौ इति दर्शनात् । अस्यां नार्यां वा गविनी तस्यामित्यर्थः । दशमे मासीति गतम् ॥

मन्त्रः 7सम्पाद्यताम्

नेज॑मेष॒ परा॑ पत॒ सुपु॑त्रः॒ पुन॒रा प॑त ।
अ॒स्यै मे पु॒त्रका॑मायै॒ गर्भ॒मा धे॑हि॒ यः पुमान्॑ ।

टीकासम्पाद्यताम्

नेजमेषेति ॥ स्कन्द ग्रहेष्यन्यतमः नेजमेष इतीतिहास पुराणयोः प्रसिद्धः तथाच वैद्यके कुमारग्रहपीडायां नेजमेशं च पूजयेत् इति पठ्यते । हे नेजमेष । परापत परगच्छ त्वं हि गर्भस्य दूषकः । यद्यवश्यमागन्तव्यं सपुत्रः पुनरापत पुत्रं गृहीत्वा आगच्छ । आगत्य च अस्यै मे मम स्वभूतायां अस्यां पुत्राकामायां गर्भमाधेहि । कीदृशं? यः पुमान् ॥

मन्त्रः 8सम्पाद्यताम्

व्यस्य॒ योनिं॒ प्रति॒ रेतो॑ गृहाण॒ पुमा॑न्पु॒त्रो धी॑यतां॒ गर्भो॑ अ॒न्तः ।
तं मा॒ता द॑श॒मासो॑ बिभर्तु॒ स जा॑यतां वी॒रत॑म॒स्स्वाना॑म् ।

टीकासम्पाद्यताम्

व्यस्येति ॥ मया निषिच्यमानं रेतः त्वं योनिं व्यस्य विक्षिप्य विवृत्य प्रतिगृहाण । तथा सति ते अन्तः गर्भो धीयतां स च पुमान् पुत्रः धीयताम् । तं च माता त्वं दशमासः । मासशब्दस्य अयं पद्दन् इत्यादिसूत्रेण मासादेशः । दशमासान् बिभर्तु पुरुषव्यत्ययः बिभृहि, स च स्वानां ज्ञातिनां मध्ये वीरतमः भूत्वा जायताम् ॥

मन्त्रः 9सम्पाद्यताम्

आ ते॒ गर्भो॒ योनि॑मेतु॒ पुमा॒न्बाण॑ इवेषु॒धिम् ।
आ वी॒रो जा॑यतां पु॒त्रस्ते॑ दश॒मास्यः॑ ।। (13)

टीकासम्पाद्यताम्

आ त इति ॥ ते तव योनिं पूमान् गर्भः ऐतु आगच्छतु क इव? वाण इव इषुधिं इषवो यत्र धीयन्ते तं यथा बाणः प्रविशति तद्वत् । यदा चासौ दशमास्यो भवति दशमासभृतो भवति ततः ते पुत्रः वीरः वीर्ययुक्तो भूत्वा आजायताम् ॥

इति श्रीहरदत्तविरचिते एकाग्निकाण्डमन्त्रव्याख्याने त्रयोदशः खण्डः

1.14 तमः खण्डःसम्पाद्यताम्

मन्त्रः 1सम्पाद्यताम्

क॒रोमि॑ ते प्राजाप॒त्यमा गर्भो॒ योनि॑मेतु ते ।
अनू॑नः पू॒र्णो जा॑यता॒मश्लो॒णोऽपि॑शाचधीतः ।

टीकासम्पाद्यताम्

करोमीति ॥ ते प्राजापत्यं पजापतिकर्म रेतसः सेचनं “आसिञ्चतु प्रजापतिः” इति दर्शनात् । तत्ते करोमि । ततश्च गर्भः ते तव योनिमेतु । स च अनूनः अन्यूनाङ्गः पूर्णः पूर्णकालः दशमास्यः जायतां अश्लोणः अपङ्गुः अबधिरो वा अपिशाचधीता धीयतेर्ध्वायतेर्वा धीतः यः पिशाचैः धीतः ध्यातो वा स न भवतीति ॥

मन्त्रः 2सम्पाद्यताम्

पुमाꣳ॑स्ते पु॒त्रो ना॑रि॒ तं पुमा॒ननु॑ जायताम् ।
तानि॑ भ॒द्राणि॒ बीजा॑न्यृष॒भा ज॑नयन्तु नौ ।

टीकासम्पाद्यताम्

पुमानिति ॥ हे नारि । पुमांस्ते पुत्रः जायताम् इति वक्ष्यमाणमपेक्ष्यते प्रथमस्तावद्गर्भः पुमान्भवतु तं च पुमानेव अनुजायतां द्वितीयादयोपि गर्भाः पुमांस एव भवन्त्वित्यर्थः । तानि तादृशानि भद्राणि कल्याणानि अमोघानि वीजानि वीर्याणि ऋषभाः ऋषभवत्सेचनसमर्थाः । के पुनस्ते? प्रजापत्यादयः ओषधयो वा माषादयः वृष्ट्या जनयन्तु नौ आवयोः यथा पुत्रा एव उपर्युपरि जायन्ते तादृशानि वीर्याणि आवयोरुत्पादयन्तु ॥

मन्त्रः 3सम्पाद्यताम्

यानि॑ भ॒द्राणि॒ बीजा॑न्यृष॒भा ज॑नय॒न्ति नः॑ ।
तैस्त्वं पु॒त्रान् वि॑न्दस्व॒ सा प्र॒सूर्धे॑नु॒का भ॑व ।

टीकासम्पाद्यताम्

यानीति ॥ पूर्वोक्ताः ऋषभाः यानि भद्राणि बीजानि नः अस्मदो द्वयोश्च इति बहुवचनम् नौ जनयन्ति तैः बीजैः त्वं पुत्रानेव विन्दस्व सा त्वं प्रसूः प्रसवशीला धेनुका धेनुसदृशी भव । यथा धेनुः वत्सेन पीयते एवं त्वं पुत्रेण नित्यं पीयमाना भव ॥

मन्त्रः 4सम्पाद्यताम्

काम॒ प्रमृ॑द्ध्यतां॒ मह्य॒मप॑राजितमे॒व मे॑ ।
यं कामं॑ का॒मये॑ देव॒ तं मे॑ वायो॒ सम॑र्द्धय ।

टीकासम्पाद्यताम्

कामप्रमिति ॥ प्रा पूरणे कामान्पूरयतीति कामप्रं मह्यं ममेदं कर्म ऋध्यतां ऋद्वमस्तु, अपराजितमेव अमोघमेव मे भवतु । हे देव । वायो । यं कामं कामये पुमांसं जनयेयमिति तं मे कामं समर्धय समृद्धं कुरु । वायुप्रेरितं रेतस्सिच्यत इति स एवं प्रार्थ्यते ॥

मन्त्रः 5सम्पाद्यताम्

अ॒नु॒ह॒वं प॑रिह॒वं प॑रीवा॒दं प॑रिक्ष॒पम् ।
दुस्स्व॑प्नं॒ दुरु॑दितं॒ तद्द्वि॒षद्भ्यो॑ दिशाम्य॒हम् ।

टीकासम्पाद्यताम्

अर्थप्राध्वस्य परिक्षवपरिकासनयोः जपः - अनुहवमिति ॥ पृष्ठत आह्वानं अनुहवः सर्वत आह्वानं परिहवः निन्दितो वादः परिवादः छिन्दि भिन्धि इत्यादिः परितः क्षवतुः परिक्षवः मन्त्रे तु छान्दसो वकारस्य पकारः । दुस्स्वप्नः प्रसिद्धः दुरुदितं वैधवेयादिशब्दोच्चारणम् यच्चान्यदेवं दुर्निमित्तं तत् द्विषद्भ्यो दिशाम्यहं अतिसृजामि ॥

मन्त्रः 6सम्पाद्यताम्

अनु॑हूतं॒ परि॑हूतꣳ श॒कुने॒र्यदशा॑कु॒नम् ।
मृ॒गस्य॑ सृ॒तम॑क्ष्णया॒ तद्द्वि॒षद्भ्यो॑ दिशाम्य॒हम् ।

टीकासम्पाद्यताम्

अनुति ॥ यत् अनुहूतं यच्च परिहूतं यच्च शकुनेः सम्बन्धि अशाकुनं अनिमित्तभूतं यच्च मृगस्य सृगालादेः अक्ष्णया सृतं तिर्यग्गमनं अपसव्यादि तच्च द्विषद्भ्यो दिशाम्यहम् । शकुनं निमित्तं शाकुनं तत्प्रतिपक्षभूतं अशाकुनं दुर्निमित्तम् ॥

मन्त्रः 7सम्पाद्यताम्

आ॒रात्ते॑ अ॒ग्निर॑स्त्वा॒रात्प॑र॒शुर॑स्तु ते ।
नि॒वा॒ते त्वा॒ऽभिव॑र्‌षतु स्व॒स्ति ते॑ऽस्तु वनस्पते स्व॒स्ति मे॑ऽस्तु वनस्पते ।

टीकासम्पाद्यताम्

चित्रियस्य वनस्पतेरभिमन्त्रणम् - आरात्त इत्यादि ॥ हे वनस्पते । ते तव आरात् दूरतः अग्निरस्तु । एवं परशुरपि ते दूरतोस्तु । वाताभावो निवातः तादृशे निवाते सति देवः त्वा त्वां अभिवर्षतु वाते सति भङ्गप्रसङ्गः, एवं ते स्वस्त्यस्तु वनस्पते । एवं ममापि स्वस्त्यस्तु वनस्पते । त्वदभिमन्त्रणात् ॥

मन्त्रः 8सम्पाद्यताम्

नम॑श्शकृ॒त्सदे॑ रु॒द्राय॒ नमो॑ रु॒द्राय॑ शकृ॒त्सदे॑ ।
गो॒ष्ठम॑सि॒ नम॑स्ते अस्तु॒ मा मा॑ हिꣳसी॒स्सिग॑सि॒ नसि॒ वज्रो॒ नम॑स्ते अस्तु॒ मा मा॑ हिꣳसीः ।

टीकासम्पाद्यताम्

शकृद्रीतेरुपस्थानम् - नमश्शकृत्सदे इति ॥ शकृति सीदते रुद्राय, आदरार्थं पुनर्वचनम्, नमो रुद्राय शकृत्सदे । हे शकृत् त्वं गोष्ठमसि गवि स्थितमसि नमस्ते अस्तु मा मा हिंसी, गावोपि न किंचिदपि हिंसन्ति, त्वं च गोष्ठमसि ॥

मन्त्रः 9सम्पाद्यताम्

उ॒द्गा॒तेव॑ श॒कुने॒ साम॑ गायसि ब्रह्मपु॒त्र इ॑व॒ सव॑नेषु शꣳससि ।

टीकासम्पाद्यताम्

सिग्वातस्याभिमन्त्रणम् - सिगसीति ॥ सिक् वस्रस्य दशा असि सिगेव त्वमसि, नसि वज्रः नासि वज्रः न वज्रस्त्वामसि, छान्दसं पररूपम् । नमस्ते इत्यादि गतम् ॥

मन्त्रः 10सम्पाद्यताम्

स्व॒स्ति न॑श्श॒कुने॑ अस्तु॒ प्रति॑ नस्सु॒मना॑ भव ।। (14)

टीकासम्पाद्यताम्

शकुनेरभिमन्त्रणम् - उद्गातेति ॥ हे शकुने । त्वं उद्गातेव साम गायसि यथा उद्गाता साम गायति तद्वत् त्वं गायसि । किंच शंससि प्रशस्तं वदसि ब्रह्मपुत्र इव सवनेषु ब्रह्मपुत्रः ब्रह्मवर्गोद्भवो ब्राह्मणाच्छंसी, स यथा उक्थ्यादिसंस्थासु त्रिष्वपि सवनेषु शंसति तद्वत् । यज्ञवाची सवनशब्दः । किञ्च - हे शकुने । नः अस्मभ्यं स्वस्त्यस्तु, नः अस्मान् च प्रति त्वं सुमना भव ॥

इति श्रीहरदत्तविरचिते एकाग्निकाण्डमन्त्रव्याख्याने चतुर्दशः खण्डः

1.15 तमः खण्डःसम्पाद्यताम्

मन्त्रः 1सम्पाद्यताम्

प्रा॒तर॒ग्निं प्रा॒तरिन्द्रꣳ॑ हवामहे प्रा॒तर्मि॒त्रावरु॑णा प्रा॒तर॒श्विना॑ ।
प्रा॒तर्भगं॑ पू॒षणं॒ ब्रह्म॑ण॒स्पति॑म्प्रा॒तस्सोम॑मु॒त रु॒द्रꣳ हु॑वेम ।

टीकासम्पाद्यताम्

दम्पत्योः हृदयविश्लेषे हृदयसंसर्गेप्सोर्होमः। - प्रातरग्निमिति ॥ अग्न्यादयः प्रसिद्धाः तान् प्रातः हवामहे आह्वयामः रक्षार्थम् । उत रुद्रं हुवेम अपि रुद्रं प्रातराह्वयामः ॥

मन्त्रः 2सम्पाद्यताम्

प्रा॒त॒र्जितं॒ भग॑मु॒ग्रꣳ हु॑वेम व॒यं पु॒त्रमदि॑ते॒र्यो वि॑ध॒र्ता ।
आ॒ध्रश्चि॒द्यं मन्य॑मानस्तु॒रश्चि॒द्राजा॑ चि॒द्यं भगं॑ भ॒क्षीत्याह॑ ।

टीकासम्पाद्यताम्

प्रातर्जितमिति ॥ प्रातः प्रातः काले जयतीति प्रातर्जित् तं भगं आदित्यानामन्यतमं उग्रं अनभिभवनीयं वयं हुवेम आह्वयामः पुत्रं अदितेः आदित्यं यो विधर्तां सर्वस्य धारयिता वृष्ट्यादिना । आघ्रः दरिद्रः तुरः त्वरमाणः । चिच्छब्दोऽप्यर्थे । भक्षीति भजेर्लिङर्थे लुङि रूपम् । आघ्रेपि त्वरमाणोपि राजपि मन्यमानः जानानश्चेत् यं भगं इत्थमाह । कथम्? भगं भक्षि भगं भजेयेति जानानः सर्वं एवं यस्य भक्ततामाशास्ते इत्यर्थः ॥

मन्त्रः 3सम्पाद्यताम्

भग॒ प्रणे॑त॒र्भग॒ सत्य॑राधो॒ भगे॒मान्धिय॒मुद॑व॒ दद॑न्नः ।
भग॒ प्रणो॑ जनय॒ गोभि॒रश्वै॒र्भग॒ प्रनृभि॑र्नृ॒वन्त॑स्स्याम ।

टीकासम्पाद्यताम्

भग प्रणेतरिति ॥ हे भग । सर्वस्य प्रणेतः आदरार्थं पुनःपुनरामन्त्र्यते । भग । सत्यराधः । राधः इति धननाम । भग । इमां धियं येयं मम बुद्धिः सपत्नी बाधेयेति तां सपत्नीबाधनं वा उदव उत्तिष्ठमानो भूत्वा रक्षतात् पर्यायेण रक्ष ददत् नः अस्मभ्यं अभिमतं ददत् । हे भग । त्वं नः अस्मान् गोभिरश्वैश्च प्रजनय समृद्धान् कुरु । हे भग । त्वत्प्रसादात् वयं नृभि दासादिभिः नृवन्तः प्रकर्षेण स्याम ॥

मन्त्रः 4सम्पाद्यताम्

उ॒तेदानीं॒ भग॑वन्तस्स्यामो॒त प्रपि॒त्व उ॒त मध्ये॒ अह्ना॑म् ।
उ॒तोदि॑ता मघव॒न्त्सूर्य॑स्य व॒यन्दे॒वानाꣳ॑ सुम॒तौ स्या॑म ।

टीकासम्पाद्यताम्

उतेति ॥ इदानीं अस्मिन् कर्मकाले वयं भगेन देवेन तद्वन्तः स्याम । उत प्रपित्वे अपि सायाह्ने उत मध्ये अह्नां मध्याह्नेपि उत अपि उदिता उदयः उदितं तस्मिन् उदिता सप्तम्येकवचनस्याकारः । हे मघवन् । मघ इति धननाम धनवान् ।? कस्योदये? सूर्यस्य पूर्वाह्नादिषु त्रिष्वपि कालेषु वयं भगवन्तस्स्यामेत्यर्थः । किंच - वयं देवानां सुमतौ शोभनायां मतौ अनुग्रहात्मिकायां बुद्धौ स्याम भगस्यैव प्रसादात् अन्ये देवा अपि अस्माननुगृह्णीयुरित्यर्थः ।

मन्त्रः 5सम्पाद्यताम्

भग॑ ए॒व भग॑वाꣳ अस्तु देवा॒स्तेन॑ व॒यं भग॑वन्तस्स्याम ।
तन्त्वा॑ भग॒ सर्व॒ इज्जो॑हवीमि॒ स नो॑ भग पुरए॒ता भ॑वे॒ह ।

टीकासम्पाद्यताम्

भग एवेति ॥ हे देवाः । देवः भगः सः स्वयं भग एव सन् भगवानस्तु भगेन देवेन तद्वानस्तु एवं नाम तद्वत्त्वं श्लाघनीयमित्यर्थः । तेन भगेन वयं भगवन्तस्स्याम । हे भग । य एवम्भूतोसि तं त्वा त्वां सर्वं इत् सर्वं एव जनो जोहवीमि, पुरुषव्यत्ययः । जोहवीति । बह्वृचाः तथौवाधीयते । हे भग । स त्वं नः अस्माकं पुरएता नेता भव इह कर्मणि ॥

मन्त्रः 6सम्पाद्यताम्

सम॑ध्व॒रायो॒षसो॑ नमन्त दधि॒क्रावे॑व॒ शुच॑ये प॒दाय॑ ।
अ॒र्वा॒ची॒नव्वँ॑सु॒विदं॒ भग॑न्नो॒ रथ॑मि॒वाश्वा॑ वा॒जिन॒ आव॑हन्तु ।

टीकासम्पाद्यताम्

समध्वरायेति ॥ तस्यैव भगस्य प्रसादेन उषसोपि अध्वराय अस्मै सपत्नीबाधनरूपाय यज्ञाय समनमन्त, लोडर्थे लङ्, संनमन्तां भजन्तामित्यर्थः । दधिक्रावेव दधिक्रावा अग्निः आप इत्यन्ये स यथा शुचये पदाय शुद्धाय स्थानाय कल्पते तद्वत् किञ्च वसुविदं वसुनो लम्भयितारं भगं नः अस्मान्प्रति अर्वाचीनं अभिमुखं आवहन्तु क इव वाजिनः वेगवन्तः अश्वा रथमिव यथा रयं अश्वा वहन्ति तद्वत् ॥

मन्त्रः 7सम्पाद्यताम्

अश्वा॑वती॒र्गोम॑तीर्न उ॒षासो॑ वी॒रव॑ती॒स्सद॑मुच्छन्तु भ॒द्राः ।
घृ॒तन्दुहा॑ना वि॒श्वत॒ᳶ प्रपी॑ना यू॒यं पा॑त स्व॒स्तिभि॒स्सदा॑ नः ।। (15)

टीकासम्पाद्यताम्

उत्तरा ऋक् वैश्वदेवी - अश्वावतीरिति ॥ उषासः उषसः अश्ववत्यः गोमत्यः वीरवत्यश्च भूत्वा उच्छन्तु व्युच्छन्तु व्युष्टा भवन्तु सदं सदा नित्यमित्यर्थः । घृतं, उपलक्षणमेतत् “क्षीरं सर्पिः मधूदकम्” इत्यादि दुहानाः विश्वतः सर्वतः प्रपीनाः प्रवृद्धाः ये अस्मिन्सूक्ते निर्दिष्टाः अग्न्यादयः ते यूयं नः अस्मान् स्वस्तिभिः सदा पात रक्षत ॥

इति श्रीहरदत्तविरचिते एकाग्निकाण्डमन्त्रव्याख्याने पञ्चदशः खण्डः

1.16 तमः खण्डःसम्पाद्यताम्

मन्त्रः 1सम्पाद्यताम्

इ॒मां खना॒म्योष॑धीं वी॒रुधं॒ बल॑वत्तमाम् ।
यया॑ स॒पत्नीं॒ बाध॑ते॒ यया॑ संवि॒न्दते॒ पति॑म् ।

टीकासम्पाद्यताम्

पत्युर्वशीकरणे पाठाया उत्पाटन मन्त्रः - इमां खनामिति ॥ इमां पाठाख्यां ओषधीं खनामि उत्पाटयामि । वीरुधं विविधं रोहन्ती प्रतानवतीमित्यर्थः । बलवत्तमां अतिशयेन वीर्यवतीमित्यर्थः । यथा ओषध्या सपत्नी बाधते सर्व एव स्रीजनः, यथा च सम्यक् विन्दते असाधारणं लभते पतिम् ॥

मन्त्रः 2सम्पाद्यताम्

उ॒त्ता॒नप॑र्णे॒ सुभ॑गे॒ सह॑माने॒ सह॑स्वति ।
स॒पत्नीं॑ मे॒ परा॑धम॒ पतिं॑ मे॒ केव॑लं कृधि ।

टीकासम्पाद्यताम्

उत्तराभिः तस्याः पाठाया अभिमन्त्रणम् - उत्तानपर्णे इति ॥ उत्तानानि पर्णानि यस्यास्सा उत्तानपर्णा । हे उत्तानपर्णे सुभगे सौभाग्यस्य निमित्तभूते । सहमाने । सह मर्षणे, अभिभवे छन्दसि । सपत्नीं बाधमाने । सहस्वति । अतिबलवति । सपत्नी । मे पराधम मम सपत्नी परागमय पतिं मे केवलं कृधि ममैवासाधारणं कुरु ॥

मन्त्रः 3सम्पाद्यताम्

उत्त॑रा॒ऽहमुत्त॑र॒ उत्त॒रेदुत्त॑राभ्यः ।
अथा॑ स॒पत्नी॒ या ममाध॑रा॒ साऽध॑राभ्यः ।

टीकासम्पाद्यताम्

उत्तरेति ॥ हे उत्तरे । उत्कृष्टे । पाठे उत्तरा उत्कृष्टा अहं स्वत एव, पुनरपि उत्तराभ्योपि उत्तरा भूयासम् इच्छब्द, एवार्थे । तथैव बह्वृचाः पठन्ति । अथ या मम सपत्नी सा अधराभ्योप्यधरा भवतु ॥

मन्त्रः 4सम्पाद्यताम्

न ह्य॑स्यै॒ नाम॑ गृभ्णामि॒ नो अ॒स्मिन्र॑मते॒ जने॑ ।
परा॑मे॒व प॑रा॒वतꣳ॑ स॒पत्नीं॑ नाशयामसि ।

टीकासम्पाद्यताम्

नहीति ॥ अस्यै अस्याः नामाप्यहं न गृह्णामि । कि कारणं? अस्मिन् जने आत्मन एवायं निर्देशः, सा नो रमते यतः । किं बहुना? परामेव परावतं परावदिति दूरनाम अत्यन्तं दूरं सपत्नीं नाशयामसि नाशयामः गमयामः । इदन्तो मसि ॥

मन्त्रः 5सम्पाद्यताम्

अ॒हम॑स्मि॒ सह॑मा॒नाऽथ॒ त्वम॑सि सास॒हिः ।
उ॒भे सह॑स्वती भू॒त्वा स॒पत्नीं॑ मे सहावहै ।

टीकासम्पाद्यताम्

उत्तरया तां पाठां द्विधा कृत्वा हस्तयोराबध्नाति - अहमस्मीति ॥ सहमाना सपत्नीः अभिभवन्ती अहमस्मि । अथ पाठे । त्वं असि सासहिः सहमानासि । ते उभे आवां सहस्वती बलवत्यौ भूत्वा सपत्नीं मे सहावहै अभिभवाव ॥

मन्त्रः 6सम्पाद्यताम्

उप॑ तेऽधा॒ꣳ॒ सह॑मानाम॒भि त्वा॑ऽधा॒ꣳ॒ सही॑यसा ।
मामनु॒ प्र ते॒ मनो॑ व॒त्सं गौरि॑व धावतु प॒था वारि॑व धावतु ।। (16)

टीकासम्पाद्यताम्

उत्तरया शय्याकाले बाहुभ्यां भर्तारं परिगृहीयात् - उपतेधामिति ॥ भर्तारं प्रतीदमुच्यते । इमां सहमानां ते तव उपाधां अधोधां तामेव त्वा अभ्यधां तवोपर्यधां सहीयसा अतिशयेनाभि भवित्रा मनसा युक्ता । एवंच तथा परिग्रहः कर्तव्यः यथैको हस्तो भर्तुरधो निहितो भवति अपरश्चोपरि । एवं कृते सति मामनु मां प्रति ते मनः प्रधावतु वत्सं गौरिव यथाचिरप्रसूता गौः वत्सं प्रति धावति, तथा पथा वारिव यथा च निम्नेन पथा वारि धावति तद्वत् ॥

इति श्रीहरदत्तविरचिते एकाग्निकाण्डमन्त्रव्याख्याने षोडशः खण्डः

1.17 तमः खण्डःसम्पाद्यताम्

मन्त्रः 1सम्पाद्यताम्

उद॒सौ सूर्यो॑ अगा॒दुद॒यं मा॑म॒को भगः॑ ।
अ॒हन्तद्विद्व॒लाप॑ति॒मभ्य॑साक्षि विषास॒हिः ।

टीकासम्पाद्यताम्

सपत्नीबाधनार्थमुत्तरेणानुवाकेन अहरहरादित्यमुपतिष्ठते - उदसौ सूर्य इति ॥ असौ सूर्यः उदगात् । तमनु मामकः मम स्वभूतः भगः सौभाग्यं उपस्थेन्द्रियं वा । उच्छब्दस्य पुनः श्रुतेः अगात् इत्यपेक्षते । यथायं सूर्यः प्रवर्धमानः उदेति एवं मम भगोपि उदेत्वित्यर्थः । तत् तस्मात्कारणात् अहं विद्वला वेदनं वित् तद्वती अनया विद्यया तद्वती पतिं अभ्यसाक्षि सहेरेतद्रूपम् । अभिभूतवत्यस्मि वशीकृतवत्यस्मि । विषासहिः विशषेणाभिभवित्री ।

मन्त्रः 2सम्पाद्यताम्

अ॒हं के॒तुर॒हं मू॒र्धाऽहमु॒ग्रा वि॒वाच॑नी ।
ममेदनु॒ क्रतुं॒ पति॑स्सेहा॒नाया॑ उ॒वाच॑रेत् ।

टीकासम्पाद्यताम्

अहमिति ॥ अहं केतुः अहमेव उभयोरपि वंशयोः केतु-स्थानीया, अहमेव मूर्धा मूर्धस्थानीया, अहमुग्रा अनभिभवनीया विवाचनी विवाचनं निर्णयः तस्य कारयित्री । किञ्च - ममेत् ममैव क्रतुं कर्म प्रज्ञानं वा पतिः अनूवाचरेत् छान्दसो वकारः । उपाचरेत् तथैव बह्वृचः पठन्ति । अनुतिष्ठतु । कीदृश्याः? सेहा - नायाः । लिटः कानचि रूपमेतत् । अभिभूतवत्याः अभिभवन्त्या वा यथा मया ज्ञातं यथा वा मया कृतं तथैव पतिरपि करोत्वित्यर्थः ॥

मन्त्रः 3सम्पाद्यताम्

मम॑ पु॒त्राश्श॑त्रु॒हणोऽथो॑ मे दुहि॒ता वि॒राट् ।
उ॒ताहम॑स्मि॒ सञ्ज॑या॒ पत्यु॑र्मे॒ श्लोक॑ उत्त॒मः ।

टीकासम्पाद्यताम्

ममेति ॥ मम पुत्रा शत्रुहणः शत्रूणां हन्तारो भवन्तु । अथो मे दुहिता च विराट् विराजमाना भवतु । उत अपि च अहमस्मि लोडर्थे लट्, असानि सञ्चया सम्यग्जेत्री सपत्नीनां तथा पत्युः, सप्तम्यर्थे षष्ठी पत्यौ, तथैव बह्वृचाः पठन्ति श्लोकः यशश्श्लाघा उत्तमोस्तु पतिरपि मामेव श्लाघतामित्यर्थः ॥

मन्त्रः 4सम्पाद्यताम्

येनेन्द्रो॑ ह॒विषा॑ कृ॒त्य॑भवद्दि॒व्यु॑त्त॒मः ।
अ॒हन्तद॑क्रि देवा असप॒त्ना किला॑भवम् ।

टीकासम्पाद्यताम्

येनेन्द्र इति ॥ इन्द्रः येन हविषा कृती कृतकृत्यः अभवत् दिवि च उत्तमः अभवत् । अहमपि तत् हविः अक्रि करोतेर्लुडिं मन्त्रे घस इत्यादिसूत्रेण च्लेर्लुकि रूपं अकृषि । हे देवाः । ततश्च असपत्ना किल अभवम्, किल प्रसिद्धौ ॥

मन्त्रः 5सम्पाद्यताम्

अ॒स॒प॒त्ना स॑पत्नि॒घ्नी जय॑न्त्यभि॒भूव॑री ।
आवि॑त्सि॒ सर्वा॑सा॒ꣳ॒ राधो॒ वर्चो॒ अस्थे॑यसामिव ।

टीकासम्पाद्यताम्

असपत्नेति ॥ असपत्नाः अप्रतिपक्षा सपत्निघ्नी छान्दसं हस्वस्त्वम्, सपत्नीनां हन्त्री जयन्ती जयशीला अभिभूवरीः भवतेः क्वनिपि वनो रुच, अभिभवनशीला अवित्सि आच्छिद्य लब्धवत्यस्मि सर्वासां सपत्नीनां राधः धनं वर्चः कान्ति च अस्थेयसामिव स्थेयांसः स्थिरतराः ततोऽन्ये अस्थेयांसः तेषां धनं यथान्ये हरन्ति तद्वत् ॥

मन्त्रः 6सम्पाद्यताम्

सम॑जैषमि॒मा अ॒हꣳ स॒पत्नी॑रभि॒भूव॑रीः ।
यथा॒ऽहम॑स्य वी॒रस्य॑ वि॒राजा॑मि॒ धन॑स्य च ।। (17)

टीकासम्पाद्यताम्

समिति ॥ इमाः सपत्नीः अहं समजैषं सञ्जयेयं अभिभूवरीः छान्दसः सुलोपाभावः सुमङ्गलीरियम् इतिवत् । अभिभूवर्यहं अभिभूवरी सपत्नीर्वा यथा सञ्जयेयं, तथा सति अहं अस्य वीरस्य पत्युः धनस्य च विराजामि ईश्वरा भवामि ॥

इति श्रीहरदत्तविरचिते एकाग्निकाण्डमन्त्रव्याख्याने सप्तदशः खण्डः

1.18 तमः खण्डःसम्पाद्यताम्

मन्त्रः 1सम्पाद्यताम्

अ॒क्षीभ्या॑न्ते॒ नासि॑काभ्यां॒ कर्णा॑भ्यां॒ चुबु॑का॒दधि॑ ।
यक्ष्मꣳ॑ शीर्‌ष॒ण्यं॑ म॒स्तिष्का॑ज्जि॒ह्वाया॒ विवृ॑हामि ते ।

टीकासम्पाद्यताम्

यक्ष्मगृहीतां वधूं अन्यां वा स्वस्त्रादिकां पुष्करसंवर्तमूलैः उत्तरैर्मन्त्रैः यथालिङ्गमङ्गानि संमृज्य प्रतीचीनं निरस्येत् - अक्षीभ्यामिति ॥ अधिशब्धोनर्थकः । ते तव शीर्षण्यं यक्ष्मं विवृहामि संमृज्य निरस्यामि । एवं सामान्येनोपदिष्टस्य विभज्यवचनं अक्षीभ्यामित्यादि । अक्ष्यादयः प्रसिद्धाः । मस्तिष्कः कपालान्तर्गतं मांसम् ॥

मन्त्रः 2सम्पाद्यताम्

ग्री॒वाभ्य॑स्त उ॒ष्णिहा॑भ्यः॒ कीक॑साभ्योऽनू॒क्या॑त् ।
यक्ष्मं॑ दोष॒ण्य॑मꣳसा॑भ्यां बा॒हुभ्यां॒ विवृ॑हामि ते ।

टीकासम्पाद्यताम्

ग्रीवाभ्य इति ॥ ग्रीवा कण्ठः. पर्वभेदेन भेदमारोप्य बहुवचनम् । उष्णिहाभ्यः उष्णिहाः तत्रत्या नाह्यः यानि तद्गतान्य स्थीनि ताः कीकसाः अनूक्यात् पृष्ठंवशात् दोष्णोर्भवं दोषण्यं असौ बाहू च प्रसिद्धौ ॥

मन्त्रः 3सम्पाद्यताम्

आ॒न्त्रेभ्य॑स्ते॒ गुदा॑भ्यो वनि॒ष्ठोर्‌हृद॑या॒दधि॑ ।
यक्ष्मं॒ मत॑स्नाभ्यां य॒क्नः प्ला॒शिभ्यो॒ विवृ॑हामि ते ।

टीकासम्पाद्यताम्

आन्त्रेभ्य इति ॥ अशितं पक्वावस्थायां येषु तिष्ठति तानि आन्त्राणि तेभ्यः गुदाभ्यः गुदनाडीभ्यः वनिष्ठो आन्त्रेष्वेष स्थूलप्रदेशात् हृदयात् हृदयपुण्डरीकात् मतस्नाभ्यां आम्रफलाकृतिभ्यां वृक्याभ्यां यक्नः यकृतः प्लाशिभ्यः पर्शुभ्यः ॥

मन्त्रः 4सम्पाद्यताम्

ऊ॒रुभ्या॑न्तेऽष्ठी॒वद्भ्यां॒ जङ्घा॑भ्यां॒ प्रप॑दाभ्याम् ।
यक्ष्म॒२ꣳ॒ श्रोणी॑भ्यां भा॒सदा॑द्ध्व॒ꣳ॒ससो॒ विवृ॑हामि ते ।

टीकासम्पाद्यताम्

ऊरुभ्यामिति ॥ ऊरू प्रसिद्धौ अष्ठीवद्भयां ऊरुजान्वोः सन्धिप्रदेशाभ्याम्, जङ्घे प्रसिद्धे । प्रपदाभ्यां पादाग्राभ्यां श्राणीभ्यां ऊरुमूलाभ्यां भासदात् भसदिति गुह्यप्रदेशे अवयवविशेषस्य नाम भसदेव भाक्षदं तस्मात् ध्वंससः नामेः गुदवलयादित्यन्ये ॥

मन्त्रः 5सम्पाद्यताम्

मेह॑नाद्वल॒ङ्कर॑णा॒ल्लोम॑भ्यस्ते न॒खेभ्यः॑ ।
यक्ष्म॒ꣳ॒ सर्व॑स्मादा॒त्मन॒स्तमि॒मं विवृ॑हामि ते ।

टीकासम्पाद्यताम्

मेहनादिति ॥ मेहनं प्रजननम् । वलङ्करणात् नकारस्य लकारः छान्दसः । नकारमेव बह्वृचाः पठन्ति । वनं वननं ततत्क्रियते येन तद्वनंकरणं सर्वो हि लोकः तेन वशीकृतः एवम्भूतात् मेहानात् । अन्ये तु उ अलङ्करणात् इति छेदमाहुः अलङ्करणात् मेखलाप्रदेशात् लोम नखं च प्रसिद्धम् । सर्वस्मात् आत्मनः उक्तादनुक्ताच्च प्रदेशात् तमिमं यक्ष्मं विवृहामि ॥

मन्त्रः 6सम्पाद्यताम्

अङ्गा॑दङ्गा॒ल्लोम्नो॑लोम्नो जा॒तं पर्व॑णिपर्वणि ।
यक्ष्म॒ꣳ॒ सर्व॑स्मादा॒त्मन॒स्तमि॒मं विवृ॑हामि ते ।

टीकासम्पाद्यताम्

अङ्गादङ्गादिति ॥ सर्वस्मादङ्गात् लोम्नोलोम्नः सर्वेभ्यो लोमभ्यश्च पर्वणिपर्वणि प्रतिपर्वसन्धि जातं यक्ष्मं सर्वस्मादिति गतम् ।

मन्त्रः 7सम्पाद्यताम्

परा॑देहि शाब॒ल्यं॑ ब्र॒ह्मभ्यो॒ विभ॑जा॒ वसु॑ ।
कृ॒त्यैषा प॒द्वती॑ भू॒त्वा जा॒याऽऽवि॑शते॒ पति॑म् ।

टीकासम्पाद्यताम्

यत् परि त्वा गिर्वणः इति परिधापितं वधूवासस्तदेताद्विदे विवाहकर्मविदे दद्यादुत्तराभिः - परोदेहीति ॥ परित्यज शाबल्यं शबलवर्णं वासः ब्रह्मभ्यो ब्राह्मणेभ्यः वसु विभज विभज्य देहि । किं पुनः कारणं वाससस्त्यागे इति चेदुच्युते - एषा जाया पद्वती पादवती कृत्या भूत्वा पतिं आविशते ॥

मन्त्रः 8सम्पाद्यताम्

अ॒श्ली॒ला त॒नूर्भ॑व॒ रुश॑ती पा॒पया॑ऽमु॒या ।
पति॒र्यद्व॒द्ध्वै॑ वास॑सा॒ स्वमङ्ग॑मभि॒धित्स॑ति ।

टीकासम्पाद्यताम्

अश्लीलेति ॥ अमुया पापया च कृत्यया आविष्टवत्या पत्युः तनूः अश्लीला निश्रीका भवति रुशती च । रुशतिः हिंसार्थः व्यत्ययेन च कर्मणि कर्तृप्रत्ययः । हिंस्यमाना च भवति कस्मिन् पुनः कृते सर्वमेतद्भवति? उच्यते - पतिः यत् यदि वध्वैः वध्वाः वाससा स्वं आत्मीयं अङ्गं शरीरं अभिधित्सति परिधातुमिच्छति वधूवाससा परिधानमेवंनाम दुष्टं तस्मात् तन्नपरिधेयं मन्त्रविदापिसता ॥

मन्त्रः 9सम्पाद्यताम्

क्रू॒रमे॒तत् कटु॑कमे॒तद॑पा॒ष्ठव॑द्द्वि॒षव॒न्नैतदत्त॑वे ।
सू॒र्यां यः प्र॒त्यक्षं॑ वि॒द्यात्स ए॒तत् प्रति॑गृह्णीयात् ।

टीकासम्पाद्यताम्

पुनरयि वास एव निन्द्यते - क्रूरमिति ॥ क्रूरं विनाशकारि कटुकं रुजाकारि अपाष्ठवत् अपष्ठु विषवत् विषयुक्तं च, एवंनाम निन्दितं एतत् वासः अत्तवे न भवति उपभोक्तुं योग्यं न भवति । कस्य तर्हीदं योग्यमित्याह -सूर्या सूर्या नाम विवाहदेवता तया दृष्टोपि मन्त्रगणः सूर्या प्रसुग्मन्ता इत्यादिरेवमन्त्रः । तां यः प्रत्यक्षं स्पष्टं पदशः स्वरशः अक्षरशः अर्थतो विनियोगतश्च विद्यात् जानीयात् स एतत्प्रतिगृह्णीयात् प्रतिग्रहीतुमर्हति ॥

मन्त्रः 10सम्पाद्यताम्

आ॒शस॑नं वि॒शस॑न॒मथो॑ अधि वि॒चर्त॑नम् ।
सू॒र्यायाः॑ पश्य रू॒पाणि॒ तानि॑ ब्र॒ह्मोत शꣳ॑सति ।। (18)

टीकासम्पाद्यताम्

पुनरपि वाससो निन्दा आशसनमिति ॥ आशसनं क्षतकरणं शूलादि विशसनं चर्मणां पृथक्करणं स्वधित्यादि अथो अपिच अधिरनर्थकः । विचर्तनं त्वचोन्यत्र मोचनं एवम्भूत मेतद्वासः न प्रतिगृह्णीयादिति संबन्धः । अथ तस्य कथमनर्थो न भवति? उच्यते - सूर्यायः पश्य रूपाणि सूर्याया हि तादृशानि रूपाणि, तानि च ब्रह्म ब्राह्मणः शंसति तस्य कथमनर्थशङ्केति । उतशब्द सम्यगर्थे अनेकार्थत्वान्निपातानाम् । एवमेतद्वधूवाससः परिदानं चतुर्थ्यन्ते कर्तव्यं तथा च विवाहान्ते आश्वलायनः सूर्याविदे वधूवस्त्रं दद्यात् इति । अन्येतुयक्ष्मगृहीतायाः वासः एतद्भैषज्यविदे देयमुपदिश्यते इत्याहुः । सूर्याशब्देनापि त एव मन्त्रा उच्यन्ते ॥ इति श्रीहरदत्तमिश्रविरचिते एकाग्निकाण्डमन्त्रव्याख्याने अष्टादशः खण्डः प्रथमः प्रपाठकस्समाप्तः —————-

2.1सम्पाद्यताम्

द्वितीय प्रश्न प्रारम्भः

मन्त्रः 1सम्पाद्यताम्

उ॒ष्णेन॑ वायवुद॒केनेह्यदि॑तिः॒ केशान्॑ वपतु ।

टीकासम्पाद्यताम्

अथोपनयनमन्त्राः । तत्र उष्णा अपः शीतास्वानयति उष्णेनेति ॥ हे वायो । उष्णेन उदकेन उष्णमुदकं गृहीत्वा एहि आगच्छ । किमर्थे? अदितिः केशान्वपतु अदित्याः वपने अनुग्रह कर्तृत्वं एवं वायोरुदकानयने ॥

मन्त्रः 2सम्पाद्यताम्

आप॑ उन्दन्तु जी॒वसे॑ दीर्घायु॒त्वाय॒ वर्च॑से ।
ज्योक्च॒ सूर्यं॑ दृ॒शे ।

टीकासम्पाद्यताम्

उत्तरया शिर उनत्ति - आप उन्दन्त्विति ॥ माणवकस्यास्य शिरः आपः उन्दन्तु क्लेदयन्तु जीवसे जीवितुं जीवनाय । कियन्तं कालं? दीर्घायुत्वाय षोडशवर्षयुतं शतं दीर्घमायुः वर्चसे दीप्तये ज्योक् दीर्घकालं सूर्यं दृशे द्रष्टुं यथा अयं दीर्घकालं जीवेत्, तावन्तं कालं चक्षुष्मान्भवति वर्चस्वी च तथोन्दन्तु ॥

मन्त्रः 3सम्पाद्यताम्

येनाव॑पत्सवि॒ता क्षु॒रेण॒ सोम॑स्य॒ राज्ञो॒ वरु॑णस्य वि॒द्वान् ।
तेन॑ ब्रह्माणो वपते॒दम॒स्यायु॑ष्मा॒ञ्जर॑दष्टि॒र्यथाऽस॑द॒यम॒सौ ।

टीकासम्पाद्यताम्

उत्तराभिः प्रतिदिशं प्रवपत्याचार्यः । तत्र प्राच्यां दिशि - येनावपदिति ॥ येन क्षुरेण सविता सोमस्य राज्ञः वरुणस्य शिर अवपत् विद्वान् नापितकर्मणि कुशलः तेन क्षुरेण जातिद्वारेणैक्यं तादृशेन वा क्षुरेण हे ब्रह्माणः । ब्राह्मणाः पुण्याहवाचनस्य कर्तारः इदं अस्य माणवकस्य शिरः वपत वपने मां प्रयुङ्ध्वमित्यर्थः । युष्मदनुज्ञयाहं प्रवपामीति यावत् । यथा वपने सति अयं माणवकः असौ यज्ञशर्मा आयुष्मन् जरदष्टिः जीर्णाशनश्च असत् स्यात् तथा वपत । असावित्यत्र माणवकस्य नामनिर्देशः प्रथमया ॥

मन्त्रः 4सम्पाद्यताम्

येन॑ पू॒षा बृह॒स्पते॑र॒ग्नेरिन्द्र॑स्य॒ चायु॒षेऽव॑पत् ।
तेना॒स्यायु॑षे वप॒ सौश्लो॑क्याय स्व॒स्तये॑ ।

टीकासम्पाद्यताम्

अथ दक्षिणतः - येन पूषेति ॥ येन क्षुरेणेति गतम् । तेन क्षुरेण अस्य शिरः आयुषे वप शरीरात्मानं प्रत्यन्तरात्मनः प्रैषः, हे मदीयशरीरात्मन् । वप सौश्लोक्याय सुश्लोकः सुकीर्तिः तस्य भावः सौश्लोक्यं यथा अयं सुकीर्तिः स्यात् तथेत्यर्थः । स्वस्तये अवि नाशाय च ॥

मन्त्रः 5सम्पाद्यताम्

येन॒ भूय॒श्चरा॑त्य॒यञ्ज्योक्च॒ पश्या॑ति॒ सूर्य॑म् ।
तेना॒स्यायु॑षे वप॒ सौश्लो॑क्याय स्व॒स्तये॑ ।

टीकासम्पाद्यताम्

अथ पश्चात् - येन भूय इति ॥ येन क्षुरेण उप्तः अयं माणवकः भूयश्चराति । पञ्चमो लकारः । भूयिष्ठं चरेत् सर्वानतीत्य चरेत्, ज्योक् दीर्घकालं च सूर्यं पश्याति पश्येत् । छान्दस उभयत्र दीर्घः । तेनेत्यादि गतम् ॥

मन्त्रः 6सम्पाद्यताम्

येन॑ पू॒षा बृह॒स्पते॑र॒ग्नेरिन्द्र॑स्य॒ चायु॒षेऽव॑पत् ।
तेन॑ ते वपाम्यसा॒वायु॑षा॒ वर्च॑सा॒ यथा॒ ज्योक्सु॒मना॒ असाः॑ ।

टीकासम्पाद्यताम्

अथोत्तरतः - येन पूषेति ॥ पूर्वार्धं गतम् । तेन क्षुरेण ते तव शिरो वपामि असौ इति नामनिर्देशः संबुद्ध्या यज्ञशर्मन् ।यथा वपने सति आयुषा वर्चसा च युक्तः ज्योक् दीर्घकालं सुमनाः त्वं असाः अत्रापि पञ्चमो लकारः । स्याः तथा वपामि ॥

मन्त्रः 7सम्पाद्यताम्

यत्क्षु॒रेण॑ म॒र्चय॑ता सुपे॒शसा॒ वप्त्रा॒ वप॑सि॒ केशान्॑ ।
शुन्धि॒ शिरो॒ मास्यायुः॒ प्रमो॑षीः ।

टीकासम्पाद्यताम्

अथ वपन्तं नापितं उत्तरयानुमन्त्रयते आचार्यः यत्क्षुरेणेति ॥ यत् यदा क्षुरेण मर्चयता तीक्ष्णभूतेन सुपेशसा सुरूपेण उज्र्वलेन वप्त्रा करणस्य कर्तृत्वविवक्षा, एवम्भूतेन क्षुरेण यदास्य केशान्वपसि । यदिति वचनात्तदेत्यध्याहार्यम् । तदा अस्य शिरः शुन्धि शुद्धं कुरु यथा केशाः निर्मूला भवन्ति तथेत्यर्थः । आयुस्तु अस्य मा प्रमोषीः वपनस्य स्वतोमङ्गलत्वात् एवं प्रार्थ्यते । तथा च ब्राह्मणम् । रिक्तो वा एषोनपिहितो यन्मुण्डः इति ।.

मन्त्रः 8सम्पाद्यताम्

उ॒प्त्वाय॒ केशा॒न्॒ वरु॑णस्य॒ राज्ञो॒ बृह॒स्पति॑स्सवि॒ता सोमो॑ अ॒ग्निः ।
तेभ्यो॑ नि॒धानं॑ बहु॒धाऽन्व॑विन्दन्नन्त॒रा द्यावा॑पृथि॒वी अ॒पस्सुवः॑ ।।

टीकासम्पाद्यताम्

अथ केशनिधानमन्त्रः उप्त्वाय केशानिति ॥ उप्त्वाय उप्त्वा । क्त्वो यत् । केशान् कस्य? वरुणस्य राज्ञः के? बृहस्पत्यादयः । ते किमकुर्वन्? तेभ्यः तेषां केशानां निधानम् । अधिकरणे ल्युट् । ते यत्र निधीयन्ते तत्स्थानं बहुधा बहुभिः प्रकारैः अन्वविन्दन् अनुक्रयेण लब्धवन्तः । क्वा? अन्तराद्यावापृथिवी द्यावापृथिव्योर्मध्ये अपः अन्तरिक्षे सुवः स्वर्गे लोके, कालभेदेन स्थानभेदः । एवं अहमपि उदुम्बरमूले दर्भस्तम्बे वा निदधामीति योज्यम् ।

इति श्रीहरदत्तविरचिते एकाग्निकाण्डमन्त्रव्याख्याने द्वितीयप्रश्ने प्रथमः खण्डः

2.2 तमः खण्डःसम्पाद्यताम्

मन्त्रः 1सम्पाद्यताम्

आ॒यु॒र्दा दे॑व ज॒रसं॑ गृणा॒नो घृ॒तप्र॑तीको घृ॒तपृ॑ष्ठो अग्ने ।
घृ॒तं पिब॑न्न॒मृत॒ञ्चारु॒ गव्यं॑ पि॒तेव॑ पु॒त्रञ्ज॒रसे॑ नये॒मम् ।

टीकासम्पाद्यताम्

अथ समिदाधानम् - आयुर्दा देवेति । हे देव । अग्ने । आयुर्दाः त्वं जरसं जरा स्तुतिः तां गृणानः उच्चारणकर्मायमन्यत्र इह तु प्रहणे द्रष्टव्यः स्तुति गृह्णन् इत्यर्थः । घृतप्रतीकः घृ क्षरणदीप्त्यो, प्रतीकमिति अवयवनाम दीप्तावयवः घृतं आज्यं पृष्ठे यस्य सः घृतपृष्ठः घृतं पिबन् । कीदृशं? अमृतं चारु गव्यं अस्मिन्कर्मणि आज्यभागादिरूपेण । एवंभूतस्त्वं इदानीं अनया समिदाहुत्या इमं माणवकं जरसे नय जरां प्रापय यथायं दीर्घमायुः भवति तथा कुरु पितेव पुत्रं यथा सर्व प्रकारेण प्रापयति तद्वत् । एवं तावदाचार्यो मन्त्रस्य वक्तेति पक्षे योजना । माणवकपक्षे तु इमं मां नयेति ।

मन्त्रः 2सम्पाद्यताम्

आति॑ष्ठे॒ममश्मा॑न॒मश्मे॑व॒ त्व२ꣳ स्थि॒रो भ॑व ।
अ॒भिति॑ष्ठ पृतन्य॒तस्सह॑स्व पृतनाय॒तः ।

टीकासम्पाद्यताम्

अश्मास्थापनम् - अतिष्ठेति ॥ गतम् ॥

मन्त्रः 3 -4सम्पाद्यताम्

रे॒वती॑स्त्वा॒ व्य॑क्ष्‌ण॒न्कृत्ति॑का॒श्चाकृ॑न्त२ꣳ स्त्वा ।
धियो॑ऽवय॒न्नव॒ग्न आ॑वृञ्जन्त्स॒हस्र॒मन्ताꣳ॑ अ॒भितो॑ अयच्छन्न् ।

दे॒वीर्दे॒वाय॑ परि॒धी स॑वि॒त्रे ।
म॒हत्तदा॑सामभवन्महित्व॒नम् ।

टीकासम्पाद्यताम्

उत्तराभ्यं वासोभिमन्त्रणम् - रेवतीरिति ॥ हे वासः । त्वा त्वां रेवतीः वा छन्दसि इति जसि पूर्वसवर्णः रेवत्यो नाम देवताः व्यक्ष्णन् विविधमध्वंनयन् कार्पासावस्थायां बीजनिर्हरणार्थम् । कार्यकारणयोरभेदोपचारात् वास एव ताः व्यक्ष्णन् । कृत्तिकाश्च त्वा त्वां अकृन्तन् कर्तनं तन्तुकरणम् । अत्राप्यभेदोपचारः । धियो नाम देवताः त्वा अवयन् तन्तुसन्तानं कृत्वा वासः कृतवत्यः । ग्नाश्चदेवतास्त्वामवावृञ्जन् । अन्तरयोरच्छिन्दम् । किञ्च - उक्त्ता अन्याश्च सहस्रं देव्यः अन्तान् दशासूत्राणि अभितः उभयोः पार्श्वयोः अयच्छम् दाण् दाने, तस्य यच्छादेशः दत्तवत्यः ।

देवीः देव्यः सहस्रमित्यनेन पूर्वेण सम्बन्धः । देवाय सवित्रे देवस्य सवितुः परिधी परिधिः परिधानं, सप्तम्येकवचनस्य पूर्वसवर्णः, परिधौ परिधानकाले आसां देवीनां तत् महित्वनं महत्वं महदभवत् एवं नाम ता देव्यो महत्यो यद्देवस्य सवितुः वासः कृतवत्यः एवम्भूतं च त्वमसीत्यभिमन्त्रणार्थः ॥

मन्त्रः 5सम्पाद्यताम्

या अकृ॑न्त॒न्नव॑य॒न्॒ या अत॑न्वत॒ याश्च॑ दे॒वीरन्ता॑न॒भितो॑ऽददन्त ।
तास्त्वा॑ दे॒वीर्ज॒रसे॒ संव्य॑य॒न्त्वायु॑ष्मानि॒दं परि॑धत्स्व॒ वासः॑ ।

टीकासम्पाद्यताम्

उत्तराभिः तिसृमिः परिधापयति - या अकृन्तन्निति ॥ या देव्यः त्वां अकृन्तन् याश्चावयन् याश्चातन्वत विस्तारितवत्यः याश्च अन्तान् दशासूत्राणि अभितः उभयोः पार्श्वयोः अददन्त दत्तवत्यः दद् दाने, तास्त्वा रेवत्यादयो देवीः देव्यः जरसे यथा त्वं जरां प्राप्नुयाः तथा संव्ययन्तु परिधापयन्तु, त्वं च आयुष्मान् भवन् इदं वासः परिधत्स्व परिधेहि ॥ ।

मन्त्रः 6सम्पाद्यताम्

परि॑धत्त धत्त॒ वास॑सैनꣳ श॒तायु॑षं कृणुत दी॒र्घमायुः॑ ।
बृह॒स्पतिः॒ प्राय॑च्छ॒द्वास॑ ए॒तत्सोमा॑य॒ राज्ञे॒ परि॑धात॒वा उ॑ ।

टीकासम्पाद्यताम्

परिधत्तेति ॥ हे देव्यो । रेवत्यादयः । एनं कुमारं वाससा परिधत्त आच्छादयत धत्त अत्रापि परिरपेक्ष्यते, आदरार्थं पुनर्वचनम् । परिदधत्यश्च शतायुषमेनं कृणुत । दीर्घमायुरिति । अस्योत्तरेण सम्बन्धः कारणे च कार्योपचारः दीर्घस्यायुषो निमित्तभूतं एतद्वासो बृहस्पतिः प्रायच्छत् । कस्मै? सोमाय राज्ञे । किमर्थं? परिधातवै परिधानार्थम् । उ इत्यनर्थकः ॥

मन्त्रः 7सम्पाद्यताम्

ज॒रां ग॑च्छासि॒ परि॑धत्स्व॒ वासो॒ भवा॑ कृष्टी॒नाम॑भिशस्ति॒पावा॑ ।
श॒तञ्च॑ जीव श॒रद॑स्सु॒वर्चा॑ रा॒यश्च॒ पोष॒मुप॒ संव्य॑यस्व ।

टीकासम्पाद्यताम्

जरां गच्छासीति ॥ इदं वासः परिधत्स्व, परिधाय च जरां गच्छासि गच्छे । कृष्टीनां बन्धुमनुष्याणां च याचना अभिशस्तेः पाता रक्षिता भव । जरां गच्छसीत्युक्तमेव विशिष्यते - शतं च जीव शरदः संवत्सरान् सुवर्चा भूत्वा रायश्च पोषं रायो धनस्य च पोषं उप उपेत्ययममेरर्थे, अभिसंव्ययस्व वासो यथा रायस्पोषं भवति तथेत्यर्थः ॥

मन्त्रः 8सम्पाद्यताम्

परी॒दं वासो॒ अधि॑धास्स्व॒स्तयेऽभू॑रापी॒नाम॑भिशस्ति॒पावा॑ ।
श॒तञ्च॑ जीव श॒रदः॑ पुरू॒चीर्वसू॑नि चा॒र्यो वि॑भजासि॒ जीवन्न्॑ ।

टीकासम्पाद्यताम्

परिहितवन्तं कुमारमुत्तरयानुमन्त्रयते - परिदं वास इति ॥ त्वं इदं वासः पर्यधिधाः परिहितवानसि । धाञो लुङि रूपमेतत्, यकारस्य धकारश्छान्दसः । किमर्थं? स्वस्तये । परिधाय च आपीनां आप्तानां ज्ञात्यादीनां अभिशस्तिपावा अभिशस्तेः पाता अभूः । शतं च जीव शरदः गतम् । पुरूचीः बहुगतिः वसूनि च आर्यः स्वामी भूत्वा विभजासि विभजेः विभज्य दद्याः जीवन् सम्पन्नस्सन्, लोके हि स जीवतीत्युच्यते यस्सम्पन्नो भवति ॥

मन्त्रः 9सम्पाद्यताम्

इ॒यं दुरु॑क्तात्परि॒बाध॑माना॒ शर्म॒ वरू॑थं पुन॒ती न॒ आगा॑त् ।
प्रा॒णा॒पा॒नाभ्यां॒ बल॑मा॒भर॑न्ती प्रि॒या दे॒वानाꣳ॑ सु॒भगा॒ मेख॑ले॒यम् ।

टीकासम्पाद्यताम्

मौञ्ज्याः परिव्ययनमन्त्रौ - इयं दुरुक्तादिति ॥ इयं मेखला दुरुक्तात् । शस आदादेशः । दुरुक्तानि तथैव शाबरगृह्यपाठः । परिबाधमाना सर्वतो नाशयन्ती शर्म शरणं गृहं वरूथं वरणीयं पुनती शोधयन्ती नः अस्माकं सम्बन्धि अस्मान्वा आगात् आगतवती प्राणापानाभ्यां चतुर्थ्यन्तमेतत्, ताभ्यां बलमाभरन्ती आहरन्ती प्रिया देवानां एवम्भूता इयं मेखला, अतश्च इयमेव सुभगा ॥

मन्त्रः 10सम्पाद्यताम्

ऋ॒तस्य॑ गो॒प्त्री तप॑सः पर॒स्पी घ्न॒ती रक्ष॒स्सह॑माना॒ अरा॑तीः ।
सा न॑स्सम॒न्तमनु॒ परी॑हि भ॒द्रया॑ भ॒र्तार॑स्ते मेखले॒ मा रि॑षाम ।

टीकासम्पाद्यताम्

ऋतस्येति ॥ ऋतस्य सत्यस्य यज्ञस्य वा गोप्त्री तपसः परस्पी, पातेरेतद्रूपं परशब्दः प्रकर्षे, तपसः प्रकर्षेण पात्री रक्षित्री घ्नती रक्षः रक्षसां हननं कुर्वन्ती सहमाना अभिभवन्ती अरातीः शत्रुजातीः, छान्दसः प्रकृतिभावः । या एवंभूता सा त्वं नः अस्मान् समन्तं परितः अनु आनुपूर्व्येण परीहि परिगच्छ, भद्राया त्वया रक्षिता वयं हे मेखले । मा रिषाम रिष्टा मा भूम भर्तारः ते त्वां बिभ्राणाः कर्तृकर्मणोः कृति ॥

मन्त्रः 11सम्पाद्यताम्

मि॒त्रस्य॒ चक्षु॒र्धरु॑णं॒ बली॑य॒स्तेजो॑ यश॒स्वि स्थवि॑र॒ꣳ॒ समि॑द्धम् ।
अ॒ना॒ह॒न॒स्यं वस॑नञ्जरि॒ष्णु परी॒दं वा॒ज्यजिन॑न्दधे॒ऽहम् ।। (2)

टीकासम्पाद्यताम्

अजिनमन्त्रः - मित्रस्येति ॥ मित्रस्य आदित्यस्य चक्षुः प्रकाशकं, अजिनोत्तरीयो हि दीर्घायुर्भवति, स च आदित्यं पश्पति अतः तस्य प्रकाशकं धरुणं धार्यमाणं बलीयः तेजः अत्यन्तं बलिष्ठं तेजः यशस्वि धारयतो यशोनिमित्तत्वात् स्वयमेव यशस्वि स्थविरं प्रवृद्धं समिद्धं सम्यगिद्धं दीप्तिमत् अनाहनस्यं आहनसः धूर्ताः ये ते मदा आहनसः इत्यादौ दर्शानात् । तेषां कर्म आहनस्यं मणितशब्दादि । आहनस्याद्वै रेतस्सिच्यते । हवि बह्वृचब्राह्मणम् । तद्विपरीतं अनाहनस्यं धूर्तानामयोग्यमित्यर्थः । वसनं उपरिवासः अरिष्णु, जीर्यतिस्स्तुत्यर्थः कर्मणि च कर्तृप्रत्ययः, स्तोतव्यं जरायाः प्रापयितृ वा वाजि अन्नवत् अन्नस्य दातृ वा इदं एवम्भूतं अजिनं अहं परिदधे प्रावृणोमि ॥

इति श्रीहरदत्तविरचिते एकाग्निकाण्डव्याख्याने द्वितीयप्रश्ने द्वितीयः खण्डः

2.3 तमः खण्डःसम्पाद्यताम्

मन्त्रः 1सम्पाद्यताम्

आ॒ग॒न्त्रा सम॑गन्महि॒ प्र सु॑ मृ॒त्युं यु॑योतन ।
अरि॑ष्टा॒स्सञ्च॑रेमहि स्व॒स्ति च॑रतादि॒ह स्व॒स्त्या गृ॒हेभ्यः॑ ।

टीकासम्पाद्यताम्

उत्तरेणाग्नि दर्भेषु अवस्थापनमन्त्रः - आगन्त्रेति ॥ आगन्त्रा आगन्त्रा आगच्छता आचार्येण समगन्महि सङ्गतास्स्यः । सङ्गतास्स्यः । सङ्गताश्च मृत्युं मरणं प्रसुयुयोतन यौतिः पृथग्भावे लोटमध्यमपुरुषबहुवचनस्य तनवादेशः व्यत्ययेन च उत्तमपुरुषस्य स्थाने मध्यमः । प्रकर्षेण सुष्ठु च पृथत्करवाम । अरिष्टाश्च संचरेमहि ॥ आचार्योपि स्वस्ति चरतात् ममापि इह ब्रह्मचर्ये स्वस्ति भवतु आ गृहेभ्यः आ गृहस्थाश्रमप्राप्तेः ॥

मन्त्रः 2सम्पाद्यताम्

स॒मु॒द्रादू॒र्मिर्मधु॑मा॒ꣳ॒ उदा॑रदुपा॒ꣳ॒शुना॒ सम॑मृत॒त्वम॑श्याम् ।
इ॒मे नु ते र॒श्मय॒स्सूर्य॑स्य॒ येभि॑स्सपि॒त्वं पि॒तरो॑ न॒ आयन्न्॑ ।

टीकासम्पाद्यताम्

प्रोक्षणमन्त्रः - समुद्रादूर्मिरिति ॥ यत्प्रोक्षणबिन्दवः मयि पतन्ति तत् समुद्रादेव मधुमान् ऊर्मिः मां उदारत् उन्मुखं आगमत् । उपेत्यस्य अश्यामित्याख्यातेन सम्बन्धः । अनुदात्तपाठस्तु व्यत्ययेन । बह्वृचास्तु आद्युदात्तमेव अधयिते ।? अंशुना अन्तर्हीतमत्त्वर्थमेतत्, अंशुमता दीप्तिमता तेनोर्मिणा अमृतत्वं समुपाश्यां सम्यगुपाश्नुवीय इमे नु ते नु इत्यनर्थकः यद्यप्यूर्मिरित्येकवचनान्तं प्रकृतं, तथापि रश्मय इत्यनेन सामानाधिकरण्यात् इमे ते इति बहुवचनम् । इमे ते सूर्यस्य रश्मयः योयं ऊर्मिमानुदारत् कार्यकारणयोरभेदोपचारः, आदित्याज्जायते वृष्टिः इति । अपां बिन्दवः सूर्यस्य रश्मयः येभिः यै रश्मिभिः सपित्वं समानपानं नः अस्मकं पितरः अङ्गिरसः आयन् इतवन्तः आङ्गिरसस्य वामदेवस्य वैतद्वचनम् । अङ्गिरसो देवानां सखायः अतो रश्मिभिरन्यैश्च देवैस्सह पानमुपपन्नम् । एतदुक्तं भवति - यैः रश्मिभिस्सहास्मत्पितरो अङ्गिरसः सोमपानं कृतवन्तः तत्कारणका बिन्दवो मयि पतिताः तैश्चामृतत्वमुपाश्नुवीयेति ॥

मन्त्रः 3 -12सम्पाद्यताम्

अ॒ग्निष्टे॒ हस्त॑मग्रभी॒त्सोम॑स्ते॒ हस्त॑मग्रभीत्सवि॒ता ते॒ हस्त॑मग्रभी॒त्सर॑स्वती ते॒ हस्त॑मग्रभीत्पू॒षा ते॒ हस्त॑मग्रभीदर्य॒मा ते॒ हस्त॑मग्रभी॒दꣳशु॑स्ते॒ हस्त॑मग्रभी॒द्भग॑स्ते॒ हस्त॑मग्रभीन्मि॒त्रस्ते॒ हस्त॑मग्रभीन्मि॒त्रस्त्वम॑सि॒ धर्म॑णा॒ऽग्निरा॑चा॒र्यस्तव॑ ।

टीकासम्पाद्यताम्

हस्तग्रहणमन्त्राः - अग्निष्ट इति ॥ यदिदं मया तव हस्तग्रहणं तदग्न्यादिभिरेव ग्रहणमस्त्वित्युपचारः । लोडर्थे लुङ् । अग्रभीत् अग्रहीत् गृह्णातु । अग्निः सोमः सरस्वती च प्रसिद्धाः । सवित्रादयोपि द्वादशादित्यानामन्यतमे । त्वं धर्मणा धर्मेण मित्रोसि यादृशो मित्रो देवः तादृशोसि । कीदृशश्च सः? मित्रं देवा अब्रुवन्तसोमं राजानं हनामेति सोब्रवीन्नाहं सर्वस्य वा अहं मित्रमस्मि । इति । एवंविधः अग्निः तवाचार्यस्थानीयः ॥

मन्त्रः 13 -23सम्पाद्यताम्

अ॒ग्नये॑ त्वा॒ परि॑ददाम्यसौ॒ सोमा॑य त्वा॒ परि॑ददाम्यसौ सवि॒त्रे त्वा॒ परि॑ददाम्यसौ॒ सर॑स्वत्यै त्वा॒ परि॑ददाम्यसौ मृ॒त्यवे॑ त्वा॒ परि॑ददाम्यसौ य॒माय॑ त्वा॒ परि॑ददाम्यसौ ग॒दाय॑ त्वा॒ परि॑ददाम्यसा॒वन्त॑काय त्वा॒ परि॑ददाम्यसा- व॒द्भ्यस्त्वा॒ परि॑ददाम्यसा॒वोष॑धीभ्यस्त्वा॒ परि॑ददाम्यसौ पृथि॒व्यै त्वा॒ सवै॑श्वान॒रायै॒ परि॑ददाम्यसौ ।

टीकासम्पाद्यताम्

उत्तरे परिदानमन्त्राः अग्नये त्वेत्यादयः ॥ रक्षार्थे दानं परिदानम् । सर्वत्र च असौशब्दस्य स्थाने माणवकस्य नाम निर्देशः संबुद्ध्या ॥

मन्त्रः 24सम्पाद्यताम्

दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒व उप॑नये॒ऽसौ ।

टीकासम्पाद्यताम्

अथोपनयनमन्त्रः - देवस्य त्वेति ॥ देवस्य सवितुः प्रसवे अनुज्ञायां सत्यां त्वां अहं उपनये आत्मनः समीपं प्रापयामि वशं नयामीत्यर्थः । नामनिर्देशः पूर्ववत् । केचित्तु - अन्तोदात्तस्य पाठात् आचार्यस्य नाम्नः प्रथमया निर्देशं मन्यन्ते ॥

मन्त्रः 25सम्पाद्यताम्

सु॒प्र॒जाः प्र॒जया॑ भूयास्सु॒वीरो॑ वी॒रैस्सु॒वर्चा॒ वर्च॑सा सु॒पोषः॒ पोषैः॑ ।

टीकासम्पाद्यताम्

अथ कर्णे जपः- सुप्रजा इति ॥ हे ब्रह्मचारिन् । त्वं प्रजया सुप्रजां भूयाः । सुवीरो वीरैः । अत्र वीराः पौत्राः प्रजाया उक्तत्वात् । वर्चसा सुवर्चाः पोषैश्च सुपोषः भूया इति सर्वत्रानुषङ्गः ॥

मन्त्रः 26सम्पाद्यताम्

ब्र॒ह्म॒चर्य॒मागा॒मुप॒ मान॑यस्व दे॒वेन॑ सवि॒त्रा प्रसू॑तः ।

टीकासम्पाद्यताम्

अथ कुमारस्य मन्त्रः - ब्रह्मचर्यमिति ॥ ब्रह्म वेदः तदर्थं व्रतं ब्रह्मचर्यं तदहं आगाम् । आशंसायां भूतवच्च इति भविष्यति लुङ् । प्राप्नुवानि, तं मां उपनयस्व देवेन सवित्रा प्रसूतः अनुज्ञातस्त्वम् ॥

मन्त्रः 27सम्पाद्यताम्

को नामा॑सि
अ॒सौ नामा॑ऽस्मि॒
कस्य॑ ब्रह्मचा॒र्य॑सि असौ
प्रा॒णस्य॑ ब्रह्मचा॒र्य॑स्मि अ॒साव्

टीकासम्पाद्यताम्

कोनामासीति ॥ कोनामासि किंनामधेयोसीत्याचार्यः । असौ नामास्मि इति माणवकः नामनिर्देशः प्रथमया । कस्य ब्रह्मचार्यस्यसौ इत्याचार्यः । नामनिर्देशस्संबुद्ध्य । प्राणस्य ब्राह्म चार्यस्म्यसौ इति माणवकः । नामनिर्देशः प्रथमया । प्राण आत्मा ॥

मन्त्रः 28सम्पाद्यताम्

ए॒ष ते॑ देव सूर्य ब्रह्मचा॒री
तं गो॑पाय स॒मामृ॑तै॒ष ते॑ सूर्यपु॒त्रस्स दी॑र्घा॒युस्स॒मामृ॑त ।
याꣳ स्व॒स्तिम॒ग्निर्वा॒युस्सूर्य॑श्च॒न्द्रमा॒ आपोऽनु॑ स॒ञ्चर॑न्ति॒ ताꣳ स्व॒स्तिमनु॒ सञ्च॑रासौ ।

टीकासम्पाद्यताम्

एष इत्याचार्यः एष । माणवकः हे देव । सूर्य । ते तव ब्रह्मचारी तं गोपाय रक्षस्व । स च मा मृत मरणं मा गमत्, हे सूर्य । ते तव एष पुत्रश्च सुदीर्घायुः भवतु स च मा मृत दीर्घायुषो मध्ये मरणं मा गमत् । यां स्वस्तिं अग्न्यादयः अनुक्रमेण सञ्चरन्ति तां स्वस्ति त्वमपि अनुसञ्चर असौ यज्ञशर्मन् ।

मन्त्रः 29सम्पाद्यताम्

अद्ध्व॑नामद्ध्वपते॒ श्रेष्ठ॒स्याद्ध्व॑नः॒ पा॒रम॑शीय ।। (3) स॒मामृ॑त॒ द्वे च॑ ।।3।।

टीकासम्पाद्यताम्

अध्वनामिति माणवकः ॥ अध्वपत इत्युक्ते एकस्याध्वनः पतिरित्यपि गम्यते अतः अध्वनामिति पुनर्वचनं, सर्वेषामध्वानां अध्वपते । सूर्य । अहं त्वत्प्रसादात् श्रेष्ठस्य श्रेशस्करस्य अध्वनः ब्रह्मचर्यामार्गस्य पारं पर्यन्तं अशीय अश्नुवीव । ध्वं दुःखं तत् यत्र नास्ति सोऽध्वा तस्य सुखसाधनस्य मार्गस्य पते । इत्यर्थः ॥

इति श्रीहरदत्तविरचिते एकाग्निकाण्डव्याख्याने द्वितीयप्रश्ने तृतीयः खण्डः

2.4 तमः खण्डःसम्पाद्यताम्

मन्त्रः 1सम्पाद्यताम्

योगे॑योगे त॒वस्त॑रम् #### टीका अथ होममन्त्राः - ते च सर्वे माणवकस्यैव । द्वितीयचतुर्था - वाचार्यस्येत्येके । योगेयोगे गतम् । योगस्त्वह कर्मण्युद्योगः ॥

मन्त्रः 2सम्पाद्यताम्

इ॒मम॑ग्न॒ आयु॑षे॒ वर्च॑से कृ॒धीति॒ द्वे ।

इ॒मम॑ग्न॒ आयु॑षे॒ वर्च॑से कृधि ति॒ग्ममोजो॑ वरुण॒ सशि॑शाधि ।
मा॒तेवास्मा अदिते॒ शर्म॑ यच्छ॒ विश्वे॑ देवा॒ जर॑दष्टि॒र्यथाऽस॑त् ।।

टीकासम्पाद्यताम्

इममग्न इति ॥ हे अग्ने । त्वं इमं माणवकं आयुषे वर्चसे कृधि कुरु यथायं आयुष्मान् वर्चस्वी च भवति तथा कुरु । हे वरुण त्वं पुनरस्य प्रियं रेतः कुरु प्रियं पुत्रं देहि यदा गृहस्थो भवति । हे सोम राजन् । त्वं च, हे अदिते । त्वं च अस्मै मातेव शर्म सुखं यच्छ देहि । दाण् दाने, यच्छादेशः । हे विश्वेदेवाः । यूयं च शर्म यच्छत, यथा सत्ययं जरदष्टिः असत् स्यात् । आचार्यपक्षे सुगमम् । माणवकपक्षे आत्मन एव परोक्षनिर्देशः । इमं जनं अस्मै जनाय अयं जरदष्टिरसदिति ॥जनो

मन्त्रः 3सम्पाद्यताम्

श॒तमिन्नु श॒रदो॒ अन्ति॑ देवा॒ यत्रा॑ नश्च॒क्रा ज॒रस॑न्त॒नूना॑म् ।
पु॒त्रासो॒ यत्र॑ पि॒तरो॒ भव॑न्ति॒ मा नो॑ म॒द्ध्या री॑रिष॒तायु॒र्गन्तोः॑ ।

टीकासम्पाद्यताम्

शतमिन्नु शरद इति ॥ इच्छब्द एवार्थे । नुशब्दः प्रसिद्धौ । शतमेव हि शरदः परमायुः । कीदृशं शतं? अन्ति अन्तिकं सन्निकृष्टं अल्पमित्यर्थः । हे देवाः । यत्र शते नः अस्माकं तनूनां अवयवापेक्षं बहुवचनम्, शरीरस्य तदवयवानां च जरसं चक्रा कृतवन्तः स्थ । छान्दसो दीर्घः । यत्र च कियन्तंचित्कालं पुत्रा भूत्वा पितरो भवन्ति पालका भवन्ति कुटुम्बभरणव्याकुला भवन्ति एवं नाम विरसमायुः यत्स्वरूपेणाल्पं जरया चाभिभूतं कुटुम्बभरणादिना च व्यथाकारि एवम्भूतमपि तावत् नः अस्माकमायुः पूर्णमस्तु मध्या मध्ये मा रीरिषत मा हिंसिष्ट । रुष रिष हिंसायाम् । गन्तो आङ् अत्र द्रष्टव्यः, आ गन्तोः आगमनात् यावत्स्वयमेव गच्छति तावन्मा रीरिषत ॥

मन्त्रः 4सम्पाद्यताम्

अ॒ग्निष्ट॒ आयुः॑ प्रत॒रां द॑धात्व॒ग्निष्टे॒ पुष्टिं॑ प्रत॒रां कृ॑णोतु ।
इन्द्रो॑ म॒रुद्भि॑र्ऋतु॒धा कृ॑णोत्वादि॒त्यैस्ते॒ वसु॑भि॒रा द॑धातु ।

टीकासम्पाद्यताम्

अग्निष्ट इति ॥ अग्निः ते तव आयुः प्रतरां प्रकृष्टतरं दधातु ददातु स्थापयतु वा । स एवाग्निः ते तव पुष्टि प्रतरां प्रकृष्टतरां कृणोतु । इन्द्रश्च मरुद्भिस्सह ते तव पुष्टिं ऋतुधा ऋतावृतौ कृणोतु । स एवेन्द्रः आदित्यैर्वसुभिस्सह ते पुष्टिं आदधातु । इदमप्याचार्यपक्षे सुगमं, माणवकपक्षे चु अन्तरात्मशरीरात्मभेदेन योज्यम् ॥

मन्त्रः 5सम्पाद्यताम्

मे॒धां मह्य॒मङ्गि॑रसो मे॒धाꣳ स॑प्त॒ऋषयो॑ ददुः ।
मे॒धां मह्यं॑ प्र॒जाप॑तिर्मे॒धाम॒ग्निर्द॑दातु मे ।

टीकासम्पाद्यताम्

मेधामिति ॥ स्पष्टोर्थः ॥ ददुः दद्युः ॥

मन्त्रः 6सम्पाद्यताम्

अ॒प्स॒रासु॒ या मे॒धा ग॑न्ध॒र्वेषु॑ च॒ यद्यशः॑ ।
दैवी॒ या मा॑नु॒षी मे॒धा सा मामा वि॑शतादि॒ह ।

टीकासम्पाद्यताम्

अप्सरास्विति ॥ अप्सरस्सु । दैवीं । देवेषु भवा । मानुषीं मनुष्येषु भवा या सा मेधा । तच्च यश इत्यपि द्रष्टव्यम् । इह कर्मणि मां सा मेधा आविशतात् ॥

मन्त्रः 7 -11सम्पाद्यताम्

इ॒मं मे॑ वरुण॒
तत्त्वा॑ यामि॒
त्वन्नो॑ अग्ने॒
स त्वन्नो॑ अग्ने॒
त्वम॑ग्ने अ॒यासि॑ ।। (8)

टीकासम्पाद्यताम्

इमं म इत्यादि ॥ पञ्च गताः ॥

मन्त्रः 12सम्पाद्यताम्

रा॒ष्ट्र॒भृद॑स्याचार्यास॒न्दी मा त्वद्यो॑षम् ।

टीकासम्पाद्यताम्

आचार्यः कूर्चमारोहति - राष्ठ्रभृदिति ॥ हे कूर्च । त्वं राष्ट्रभृदसि राष्ट्रस्य भर्तासि प्रशस्तोसि आचार्यासन्दी आचार्याणामासन्दी, एवम्भूतात् त्वत् त्वत्तः अहं मा योषं यौतिः पृथग्भावे, वियुक्तो मा भूवम् ॥

मन्त्रः 13सम्पाद्यताम्

तत्स॑वि॒तुर्वरे॑ण्य॒मित्ये॒षा ।

टीकासम्पाद्यताम्

अथ सावित्री - तत्सवितुरिति ॥ तच्छब्दश्रुतेः यच्छब्दोभ्याहर्तव्यः । यत् सर्वेषां ध्येयं तद्देवस्य सवितुः वरेण्यं वरणीयं भर्गाः पापानां भर्जनं तेजोमयं रूपं वयं धीमहि ध्यायामः । कीदृशस्य सवितुः? यो नः अस्माकं सर्वेषां धियो धर्मादिविषया वृद्धिः प्रचोदयात् प्रेरयेत् । सवित्राभ्यनुज्ञातो हि सर्वोपि कर्म करोति सविता वै प्रसवानामीशे इति ब्राह्मणम् ॥

मन्त्रः 14सम्पाद्यताम्

अवृ॑धम॒सौ सौ॑म्य प्रा॒णस्वं मे॑ गोपाय ।

टीकासम्पाद्यताम्

ओष्ठोपस्पर्शनम् - अवृधमिति ॥ वृद्धिः श्रीः अहं अवृधं प्रवृद्धः श्रीमान् जातः सावित्रीग्रहणात् ऋचस्सामानि यजूंषि । सा हि श्रीरमृता सताम् । सर्वेभ्यो वै वेदेभ्यः सावित्र्यनूच्यते इति च ब्राह्मणम् । असाविति प्राण उच्यते शरीरसन्निधानात् सौम्येत्यनुकूलाभिधानं, प्राण आत्मा । हे शरीरसन्निहित । प्राण । सौम्य । मदीयान्तरात्मन् । यदिदानीं मे ममान्ताप्रविष्टं सावित्र्याख्यं स्वं धनं तत् गोपाय रक्ष यथा न निर्गच्छेत्तथा कुरु ॥

मन्त्रः 15सम्पाद्यताम्

ब्रह्म॑ण आ॒णी स्थः॑ ।। (4)

टीकासम्पाद्यताम्

कर्णोपस्पर्शनम् - ब्रह्मण इति । ब्रह्मणः सावित्रीलक्षणस्य मन्त्रस्य आणी कीले स्थः । लोडर्थे लट् । स्तं भवतम् ॥

इति श्रीहरदत्तविरचिते एकाग्निकाण्डव्याख्याने द्वितीयप्रश्ने चतुर्थः खण्डः॥

2.5 तमः खण्डःसम्पाद्यताम्

मन्त्रः 1सम्पाद्यताम्

सु॒श्रव॑स्सु॒श्रव॑सं मा कुरु॒
यथा॒ त्वꣳ सु॒श्रव॑स् सु॒श्रवा॑ अस्ये॒वम॒हꣳ सु॒श्रव॑स् सु॒श्रवा॑ भूयासं॒॥
यथा॒ त्वꣳ सु॒श्रव॑स् सु॒श्रवो॑ दे॒वानां॑ निधिगो॒पो॑ऽस्ये॒वम॒हं ब्रा॑ह्म॒णानां॒ ब्रह्म॑णो निधिगो॒पो भू॑यासम् ।

टीकासम्पाद्यताम्

दण्डमादत्ते - सुश्रव इति ॥ सुश्रवाः पालाशः श्रूयते हि देवा वै ब्रह्मन्नवदन्त तत्पर्णं उपाशृणोत् सुश्रवा वै नाम इति तस्यामन्त्रणं, हे सुश्रवः । मामपि सुश्रवसं सुष्ठु श्रोतारं कुरु । यथा त्वमित्यादि पुनर्वचनमादरार्थं तच्च स्पष्टार्थम् । यथा त्वं देवानां निधिगोपोसि निधिर्यज्ञः तं पालाशो गोपायति जुह्वादिरूपेण, एवमहमपि त्वद्धारणात् ब्राह्मणानां निधेः ब्रह्मणो देवस्य गोपो गोप्ता भूयासम् । उपसर्जनस्पापि निधिशब्दस्य ब्राह्मणैस्सह सम्बन्धः ॥

मन्त्रः 2 -10सम्पाद्यताम्

स्मृ॒तञ्च॒ मे ऽस्मृ॑तञ्च मे॒ तन्म॑ उ॒भयं॑ व्र॒तं,
नि॒न्दा च॒ मे ऽनि॑न्दा च मे॒ तन्म॑ उ॒भयं॑ व्र॒त२ꣳ,
श्र॒द्धा च॒ मे ऽश्र॑द्धा च मे॒ तन्म॑ उ॒भयं॑ व्र॒तं,
वि॒द्या च॒ मेऽवि॑द्या च मे॒ तन्म॑ उ॒भयं॑ व्र॒त२ꣳ,
श्रु॒तञ्च॒ मेऽश्रु॑तञ्च मे॒ तन्म॑ उ॒भयं॑ व्र॒तꣳ,
स॒त्यञ्च॒ मेऽनृ॑तञ्च मे॒ तन्म॑ उ॒भयं॑ व्र॒तं,
तप॑श्च॒ मेऽत॑पश्च मे॒ तन्म॑ उ॒भयं॑ व्र॒तं,
व्र॒तञ्च॒ मेऽव्र॑तञ्च मे॒ तन्म॑ उ॒भयं॑ व्र॒तं,

यद्ब्रा॑ह्म॒णानां॒ ब्रह्म॑णि व्र॒तम्,
यद॒ग्नेस् सेन्द्र॑स्य॒ सप्र॑जापतिकस्य॒ सदे॑वस्य॒ सदे॑वराजस्य॒ सम॑नुष्यस्य॒ सम॑नुष्यराजस्य॒ सपि॑तृकस्य॒ सपि॑तृराजस्य॒ सग॑न्धर्वाप्सर॒स्कस्य॑,
यन्म॑ आ॒त्मन॑ आ॒त्मनि॑ व्र॒तन्,
तेना॒हꣳ सर्व॑व्रतो भूयासम् ।

टीकासम्पाद्यताम्

अथ कुमारं वाचयति - स्मृतं च म इति ॥ स्मृतं चिन्तितं एवमिदं कर्तव्यमिति, तद्विपरीतं अस्मृतं असामर्थ्यात् आपदि प्रवर्तितं तदुभयमपि मे मम व्रतम् । निन्दा कुत्सा निन्द्यविषया अनिन्दा वेदादिविषया । श्रद्धा कर्तव्यविषया । अश्रद्धा निषिद्धविषया विद्या वेदितव्यस्य ज्ञानम् । अविद्या अवेदितव्यविषया । श्रुतं श्रवणं वेदतदङ्गादीनाम् । अश्रुतं पाषण्डागमादीनाम् सत्यं यथादृष्टवचनं एतत् स्वतः प्राप्तम् । अनृतं प्राणात्ययादिविषये तपो भिक्षाचरणादि । अशक्तौ तदकरणं अतपः । व्रतं अनध्ययन वर्जनादि । अव्रतं भयादिना तदतिक्रमः ।

यच्चान्यत् ब्राह्मणानां ब्रह्मणि वेदविषये व्रतं यच्च अग्नेरिन्द्रादिसहितस्य । यच्च मे मम आत्मनः आत्मनि व्रतं मयैवोत्प्रेक्षितं आचार्येणान्यार्थं प्रेषितस्य तदुपयोग्यर्थान्तरकरणादि तेन अनेन सर्वप्रकारेण व्रतेन सर्वव्रतो भूयासम् । तत्राग्नेर्व्रतं यातृत्वं त्वमग्ने व्रतपा असि इति दर्शनात्, इन्द्रस्य प्राधान्यं, प्रजापतेः स्रष्टत्वं, देवानां दातृत्वादि, देवराजस्य देवरञ्जनं, मनुष्याणां प्रियवचनं, मनुष्यराजस्य प्रजारक्षणं पितृणां पुत्रोत्पत्ति, पितृराजस्य यमस्य सर्वसमत्वं गन्धर्वाणां देवस्तुतिः अफ्सरसां परिचरणे कौशलम् ॥

मन्त्रः 11सम्पाद्यताम्

उदायु॑षा स्वा॒युषोदोष॑धीना॒ꣳ॒ रसे॒नोत्प॒र्जन्य॑स्य॒ शुष्मे॒णोद॑स्थाम॒मृता॒ꣳ॒ अनु॑ ।

टीकासम्पाद्यताम्

उत्थापनमन्त्रः - उदिति ॥ अमृता देवाः ताननु अहं उदस्थां उत्तिष्ठामि । तत्र विशेषः- उदायुषा आयुषा सहोत्तिष्ठामि । स्वायुषा स्वकीयेन शतसंवत्सरलक्षणेन सह उदोषधीनां रसेन रसो बलहेतुः तेन बलं लक्ष्यते तेनोत्तिष्ठामि । उत्पर्जन्यस्य शुष्मेण शुष्ममिति बलनाम पर्जन्यस्य यादृशं बलं तादृशेन बलेन उत्तिष्ठामि उदस्थाग्मिति सर्वत्रानुषङ्गः ॥

मन्त्रः 12सम्पाद्यताम्

तच्चक्षु॑र्दे॒वहि॑तं पु॒रस्ता॑च्छु॒क्रमु॒च्चर॑त् ।
पश्ये॑म श॒रद॑श्श॒तं
जीवे॑म श॒रद॑श्श॒तं
नन्दा॑म श॒रद॑श्श॒तं
मोदा॑म श॒रद॑श्श॒तं
भवा॑म श॒रद॑श्श॒तꣳ
शृ॒णवा॑म श॒रद॑श्श॒तं
प्रब्र॑वाम श॒रद॑श्श॒तम्
अजी॑ताः स्याम श॒रद॑श्श॒तं
ज्योक्च॒ सूर्य॑न्दृ॒शे ।

टीकासम्पाद्यताम्

आदित्योपस्थानम् - तच्चक्षुरित्यादि ॥ तदिति प्रसिद्धिमाह । चक्षु चक्षुस्स्थानीयं लोकस्य देवहितं देवेन इन्द्रेण निहितं इन्द्रो दीर्घाय चक्षसे । असूर्यं रोहयद्दिवि इति दर्शनात् पुरस्तात् पूर्वस्यां दिशि उच्चरत् उद्गच्छत् शुक्रं परिशुद्धं ज्योतिः सूर्याख्यं पश्येम प्रार्थने लिङ्, एवमुत्तरेष्वपि लिङ् लोटौ । जीवेम सहषोडशं वर्षशतं । समृद्धास्स्याम । नन्दाम । मोदाम पुत्रपौत्रादिभिस्सह सन्तुष्याम । भवाम भूतिमन्तस्स्याम । शृणवाम प्रियहितवचनानि । प्रब्रवाम प्रवचने कर्तारस्स्याम । अजीताः अहिंसिताः स्याम ज्योक् दीर्घकालं सूर्यं दृशे द्रष्ट्रं च स्यामेत्यनुषङ्गः ॥

मन्त्रः 13सम्पाद्यताम्

यस्मि॑न्भू॒तञ्च॒ भव्य॑ञ्च॒ सर्वे॑ लो॒कास्स॒माहि॑ताः ।
तेन॑ गृह्णामि त्वाम॒हं मह्यं॑ गृह्णामि त्वाम॒हं प्र॒जाप॑तिना त्वा॒ मह्यं॑ गृह्णाम्यसौ ।।

टीकासम्पाद्यताम्

हस्तग्रहणमन्त्रः - यस्मिन्भूतमिति ॥ यस्मिन् प्रजापतौ भूतं भव्यं भविष्यच्च सर्वे लोका इदानीं वर्तमानाः समाहिताः समाश्रिताः । तेन तदनुज्ञया त्वामहं गृह्णमि । मह्यं गृह्णामि त्वामहं यथा त्वं मत्तो न विच्छिद्येथाः तथा गृह्णामि । प्रजापतिनेत्यादि पुनर्वचनमादरार्थम् । असाविति संबुद्ध्या माणवकस्य नामनिर्देशः ॥

इति श्रीहरदत्तविरचिते एकाग्निकाण्डव्याख्याने द्वितीयप्रश्ने पञ्चमः खण्डः

2.6 तमः खण्डःसम्पाद्यताम्

मन्त्रः 1सम्पाद्यताम्

परि॑ त्वाऽग्ने॒ परि॑मृजा॒म्यायु॑षा च॒ धने॑न च ।
सु॒प्र॒जाः प्र॒जया॑ भूयासꣳ,
सु॒वीरो॑ वी॒रैस्, सु॒वर्चा॒ वर्च॑सा, सु॒पोषः॒ पोषै॑स्, सु॒गृहो॑ गृ॒हैस्, सु॒पतिः॒ पत्या॑, सुमे॒धा मे॒धया॑, सु॒ब्रह्मा ब्र॑ह्मचा॒रिभिः॑ ।

टीकासम्पाद्यताम्

समिदाधाने परिमार्जनमन्त्रः - परि त्वेति ॥ हे अग्ने । त्वां अहं परिमृजामि सर्वतः शोधयामि । परिशब्दस्य द्विश्रुतेराख्यातमप्यावर्तते । आदरार्थं पुनर्वचनम् । आयुषा च धनेन च प्रार्थितेन । सुप्रजा इत्यादि । गतम् । अत्र भूयासमिति विशेषः पतिः पालयिता आचार्यः । मेधया धारणावत्या धिया सुमेधाः । सुब्रह्मा शोभनवेदः ब्रह्मचारिभिः सहाध्यायिभिः पादं सब्रह्मचारिभ्यः इति वचनात् ॥

मन्त्रः 2सम्पाद्यताम्

अ॒ग्नये॑ स॒मिध॒माहा॑ऱ्षं बृह॒ते जा॒तवे॑दसे ।
यथा॒ त्वम॑ग्ने स॒मिधा॑ समि॒द्ध्यस॑ ए॒वं मामायु॑षा॒ वर्च॑सा स॒न्या मे॒धया॑ प्र॒जया॑ प॒शुभि॑र्ब्रह्मवर्च॒सेना॒न्नाद्ये॑न॒ समे॑धय॒ स्वाहा॑ ।

टीकासम्पाद्यताम्

समिदाधानमन्त्राः - अग्नय इति । तुभ्यं समिधं इमां आहार्षं आहरामि बृहते प्रभावते महते वा जातवेदसे जातधनाय जातप्रज्ञाय वा । आहरन्तं च मां यथा त्वमग्ने समिधा अनया समिध्यते संदीप्यते एवं मामायुरादिभिः समेधय संवर्धय । सनिः लाभः । अन्नस्यादनमन्नाद्यम् । अन्यत्प्रसिद्धम् ॥

मन्त्रः 3सम्पाद्यताम्

एधो॑ऽस्येधिषी॒महि॒ स्वाहा॑ ।

टीकासम्पाद्यताम्

एधोसीति ॥ समिधं प्रतिवचनम् । हे समित् । त्वं एधोसि ञि इन्धी दीप्तौ, दीप्तिसाधनमस्यग्नेः । वयमपि त्वां आदधानाः एधिषीमहि प्रवृद्धास्स्याम ॥

मन्त्रः 4सम्पाद्यताम्

स॒मिद॑सि समेधिषी॒महि॒ स्वाहा॑ ।

टीकासम्पाद्यताम्

समिदसीति ॥ निगदव्याख्यातमेतत् ॥

मन्त्रः 5सम्पाद्यताम्

तेजो॑सि॒ तेजो॒ मयि॑ धेहि॒ स्वाहा॑ ।

टीकासम्पाद्यताम्

तेजोसीति ॥ दीप्तिहेतुत्वात् मय्यपि? तेजो धेहि स्थापय ॥

मन्त्रः 6सम्पाद्यताम्

अपो॑ अ॒द्यान्व॑चारिष॒ꣳ॒ रसे॑न॒ सम॑सृक्ष्महि ।
पय॑स्वाꣳ अग्न॒ आग॑म॒न्तं मा॒ सꣳसृ॑ज॒ वर्च॑सा॒ स्वाहा॑ ।

टीकासम्पाद्यताम्

अपो अद्येति ॥ अप इति कर्मनाम । अपः समिदाधान लक्षणं कर्म अद्य अन्वचारिषं अनुक्रमेण करोमि । रसः इच्छः कर्म विषया श्रद्धा, तेन रसेन समसृक्ष्मही । एकवचनस्थाने बहुवचनम् । लिङर्थे लुङ् । संसृष्टो भवेयं समिदाधाने कर्मणि श्रद्धापि मे वर्धता मित्यर्थः अथ वा रस इति ब्रह्मनाम स एव रसानां रसतमः इति श्रुतेः त्वत्प्रसादात् मे ब्रह्मसायुज्यं भूयादित्यर्थः ॥ पयस्वान् पय इति हविष उपलक्षणं, हविष्मान् भूत्वा हे अग्ने त्वां अहं अहरहः आगमम् । लिङर्थे लुङ् ।आगच्छेयम् । तमेवंभूतं मां वर्चसा दीप्त्या संसृज ॥

मन्त्रः 7सम्पाद्यताम्

सं मा॑ऽग्ने॒ वर्च॑सा सृज प्र॒जया॑ च॒ धने॑न च॒ स्वाहा॑ ।

टीकासम्पाद्यताम्

समिति ॥ हे अग्ने मा वर्चसा प्रजया धनेन च संसृज ॥

मन्त्रः 8सम्पाद्यताम्

वि॒द्युन्मे॑ अस्य दे॒वा इन्द्रो॑ वि॒द्यात्स॒हऱ्षि॑भिः॒ स्वाहा॑ ।

टीकासम्पाद्यताम्

विद्युदिति ॥ अस्य द्वितीयार्थे षष्ठी, इमं मां देवाः विद्युत् छान्दसस्तकारः, विद्युः । बह्वृचाश्चैवमेवाधीयते । एवं कर्म कुर्वन्तं देवा जानीयुरित्यर्थः । इन्द्रश्च मां ऋषिभिः सह विद्यात् जानीयात् ॥

मन्त्रः 9सम्पाद्यताम्

अ॒ग्नये॑ बृह॒ते नाका॑य॒ स्वाहा॑ ।

टीकासम्पाद्यताम्

अग्नय इति ॥ बृहते प्रभावते महते वा नाकाय दिविनाको नामाग्निः इति ब्राह्मणम् । तस्मै ॥

मन्त्रः 10सम्पाद्यताम्

द्यावा॑पृथि॒वीभ्या॒ꣳ॒ स्वाहा॑ ।

टीकासम्पाद्यताम्

द्यावापृथिवीभ्यामिति ॥ द्याव्यपृथिव्यौ प्रसिद्धे ॥

मन्त्रः 11सम्पाद्यताम्

ए॒षा ते॑ अग्ने स॒मित्तया॒ वर्द्ध॑स्व॒ चाप्या॑यस्व च॒ तया॒ऽहं वर्ध॑मानो भूयासमा॒प्याय॑मानश्च॒ स्वाहा॑ ।

टीकासम्पाद्यताम्

एषा त इति ॥ हे अग्ने । ते तुभ्यं एषा समित् दीयते तथा त्वं वर्धस्व च आप्यायस्व च आप्यायनमभिपूरणं, पूर्णश्च भव । अहमपि तथा समिधा वर्धमानः आप्ययमानश्च भूयासम् ॥

मन्त्रः 12सम्पाद्यताम्

यो मा॑ऽग्ने भा॒गिनꣳ॑ स॒न्तमथा॑भा॒गञ्चिकी॑ऱ्षति ।
अभा॒गम॑ग्ने॒ तं कु॑रु॒ माम॑ग्ने भा॒गिनं॑ कुरु॒ स्वाहा॑ ।

टीकासम्पाद्यताम्

यो माग्न इति ॥ हे अग्ने योमां भागिनं भागप्राप्तियोग्यं सन्तं अथ अनर्थकोयं निपातः, अभागं चिकीर्षति कर्तुमिच्छति तं अभागं कुरु मां तु भागिनं कुरु । आदरार्थे पुनः पुनरामन्त्रणम् ।

मन्त्रः 13सम्पाद्यताम्

स॒मिध॑मा॒धाया॑ग्ने॒ सर्व॑व्रतो भूयास॒२ꣳ॒ स्वाहा॑ ।

टीकासम्पाद्यताम्

समिधमिति ॥ हे अग्ने अहं इमां समिधमाधाय सर्वव्रतः परिपूर्णव्रतो भूयासम् ॥

मन्त्रः 14सम्पाद्यताम्

ब्र॒ह्म॒चा॒र्य॑स्य्, अपो॑ऽशान॒ कर्म॑ कुरु॒, मा सुषु॑प्थाः ।
भि॒क्षा॒च॒र्य॑ञ्चराचार्याधी॒नो भ॑व ।

टीकासम्पाद्यताम्

संशासनम् - ब्रह्मचार्यसीति ॥ ब्रह्मचर्याश्रमं प्राप्तोसि । अपोऽशान अप एव मयानुज्ञातः अशान । कर्म कुरु समिदाहरणादि । मा सुषुप्थाः दिवा मा स्वाप्सीः अथ यः पूर्वोत्थायी जघन्यसंवेशी तमाहुर्न स्वपितीति एवंविधो वा स्वापाभावः । भिक्षाचर्यं चर निमन्त्राणादिना स्वयमभुञ्जानोप्यस्मदर्थं भैक्षमाहर । आचार्याधीनो भव मया अननुज्ञातः याजनाध्यापनादि कस्यचिन्माकार्षीः ॥

मन्त्रः 15सम्पाद्यताम्

यस्य॑ ते प्रथमवा॒स्यꣳ॑ हरा॑म॒स्तं त्वा॒ विश्वे॑ अवन्तु दे॒वाः ।
तन्त्वा॒ भ्रात॑रस्सु॒वृधो॒ वर्ध॑मान॒मनु॑ जायन्तां ब॒हव॒स्सुजा॑तम् ।। (6)

टीकासम्पाद्यताम्

वासस आदानम् - यस्य त इति ॥ प्रथमवास्यं प्रथमाच्छादितं वासः वयं हरामः तं त्वा विश्वे देवा अवन्तु । किञ्च - तमेव त्वां वर्धमानं सुजातं शोभनजन्मानं वहवो भ्रातरः ॥ सुवृधः सुष्ठु वर्धयितारः भूत्वा अनुजायन्तां त्वमपि एवंविधो भूयाः तवानुजा अप्येवंविधा भूयासुरित्यर्थः ॥

इति श्रीहरदत्तविरचिते एकाग्निकाण्डव्याख्याने द्वितीयप्रश्ने षष्ठः खण्डः

2.7 तमः खण्डःसम्पाद्यताम्

मन्त्रः 1सम्पाद्यताम्

इ॒म२ꣳ स्तोम॒मऱ्ह॑ते जा॒तवे॑दसे॒ रथ॑मिव॒ संम॑हेमा मनी॒षया॑ ।
भ॒द्रा हि नः॒ प्रम॑तिरस्य स॒ꣳ॒सद्यग्ने॑ स॒ख्ये॑ मारि॑षामा व॒यं तव॑ ।

टीकासम्पाद्यताम्

अथ समावर्तने समिदाधानम् - इमं स्तोममिति ॥ इमं स्तोमं इमां स्तुतिं अर्हते स्तुत्यर्हाय जातवेदसे जातधनाय जातप्रज्ञाय वा संमहेम । महिः पूजायामन्यत्र, इह तु करोत्यर्थे संस्कारे वा द्रष्टव्यः कर्तं संस्कर्तुं वा शक्नुयाम मनीषया स्वया बुद्ध्या रथमिव यथा तक्षा रथं करोति गन्तुकामो वा संस्करोति तद्वत् । किंकारणमग्नेस्स्तुतिः क्रियते? उच्यते, भद्रा हि हिशब्दो यस्मादित्यर्थे, यस्मात् भद्रा कल्याणी नः अस्माकं उपरि अस्मासु वा प्रमतिः प्रकृष्टा अनुग्रहात्मिका मतिः अस्य अग्नेः संसदि सभायां यस्मादयं यज्ञादिसभा स्वस्माकमनुग्राहक इत्यर्थः । परः पादः प्रत्यक्षकृतत्वाद्भिन्नं वाक्यम् । हे अग्ने तव सख्ये देवानां मनुष्याणां च स्तुत्यस्तोतृभावलक्षणं सख्यं तत्र वर्तमाना वयं मा रिषाम मा केनचिद्धिंसिष्महि ॥

मन्त्रः 2सम्पाद्यताम्

त्र्या॒यु॒षं ज॒मद॑ग्नेः क॒श्यप॑स्य त्र्यायु॒षम् ।
यद्दे॒वानां॑ त्र्यायु॒षन्तन्मे॑ अस्तु त्र्यायु॒षम् ।

टीकासम्पाद्यताम्

क्षुराभिमन्त्रणम् - त्र्यायुषमिति ॥ त्र्यायुषं कौमारयौवनस्थाविराणि त्रीण्यायूंषि तेषां समाहारः त्र्यायुषं जमदग्न्यादीनां यादृशं त्र्यायुषं ममापि तादृशं त्र्यायुषं अस्तु । क्षुरकर्मणोनाऽयुष्करत्वात् तत्साधनस्यैवमभिमन्त्रणम् ॥

मन्त्रः 3सम्पाद्यताम्

शि॒वो नामा॑सि॒ स्वधि॑तिस्ते पि॒ता नम॑स्ते अस्तु॒ मा मा॑ हिꣳसीः ।

टीकासम्पाद्यताम्

क्षुरं वप्त्रे प्रयच्छति - शिवो नामेति ॥ नामशब्दो निपातोवधारणे । शिव एव त्वमसि स्वधितिः वज्रः वज्रो वै स्वधितिः इति दर्शनात् स ते पिता सर्वशस्त्रेषु तस्य प्रधानत्वात्, नमस्ते अस्तु मा मा हिंसीः ॥

मन्त्रः 4 -11सम्पाद्यताम्

उ॒ष्णेन॑ वायवुद॒केनेत्ये॒षः ।

टीकासम्पाद्यताम्

उष्णेन वायवुदकेन इति ॥ गतार्थाः ॥

मन्त्रः 12सम्पाद्यताम्

इ॒दम॒हम॒मुष्या॑मुष्याय॒णस्य॑ पा॒प्मान॒मुप॑गूहा॒म्युत्त॑रो॒ऽसौ द्वि॒षद्भ्यः॑ ।

टीकासम्पाद्यताम्

मेखलाया उपगूहनम् - इदमहमिति ॥ अमुष्य यज्ञशर्मणः आमुष्यायणस्य वात्स्यस्य वात्स्यायनस्य वा पाप्मानमिदं अहं उपगूहामि उपगूहनं अप्रकाशीकरणम् । सूत्रोक्तमुपगूहनमप्येतदेव । यन्मेखलाया उपगूहनं तत्पाप्मन एव उपगूहनत्वेन निरूप्यते । असौ यज्ञशर्मा द्विषद्भ्यः उत्तरः उधिकोस्तु ॥

मन्त्रः 13सम्पाद्यताम्

आपो॒ हि ष्ठा म॑यो॒भुव॑स्
ता न॑ ऊ॒र्जे द॑धातन ।
म॒हे रणा॑य॒ चक्ष॑से।।

टीकासम्पाद्यताम्

स्नानमन्त्राः - आपो हिष्ठेति ॥ हे आपः यूयं मयोभुवः स्थ मय इति सुखनाम, सुखस्य भावयित्र्यः स्थ । हिः प्रसिद्धौ । ताः युयं नः अस्मान् ऊर्जे अन्नाय दधातन धत्त अन्नमस्मभ्यं धत्तेत्यर्थः महे महते रणाय रमणीयाय चक्षसे दर्शनाय दधातन ॥

मन्त्रः 14सम्पाद्यताम्

यो वः॑ शि॒वत॑मो॒ रस॑स्
तस्य॑ भाजयते॒ह नः॑ ।
उ॑श॒तीरि॑व मा॒तरः॑ ।।

टीकासम्पाद्यताम्

य इति ॥ वः युष्माकं सम्बन्धी यश्शिवतमो रसः तस्य तृतीयार्थे षष्ठी, तेन रसेन नः अस्मान् भाजयत सः यथा अस्मान्भजते तथा कुरुत इह लोके उशतीः कामयमाना इव मातरो यथा मातरोवत्सला भूत्वा स्तन्यं प्रापयन्ति तद्वत् ॥

मन्त्रः 15सम्पाद्यताम्

तस्मा॒ अरं॑ गमाम वो
यस्य॒ क्षया॑य॒ जिन्व॑थ ।
आपो॑ ज॒नय॑था च नः ।।

टीकासम्पाद्यताम्

तस्मा इति ॥ तस्मै रसाय अरं शीघ्रं पर्याप्तं वा गमाम गच्छेम वः युष्मान् तद्रसस्य पानार्थं युष्मान् गच्छेम । यस्येति तृतीयार्थे षष्ठी, येन रसेन क्षयाय । निवासवचनोयं आद्युदात्तत्वात् द्वितीयार्थे चतुर्थी । क्षयं निवासं अस्मदीयं जिन्वथ प्रीणयथ । येन च हे आपः जनयथ पुत्रपौत्रादिभिः प्रजातान् कुरुथ नः अस्मान् ॥

मन्त्रः 16 - 18सम्पाद्यताम्

हिर॑ण्यवर्णा॒श्शुच॑यः पाव॒का इति॑ ति॒स्रः ।

टीकासम्पाद्यताम्

हिरण्यवर्णाश्शुच इति ॥ गताः । यदप्यगतं तदपि स्पष्टम् । इन्द्रः । पर्जन्यः तस्य मेधेष्वाविर्भावात् अप्सुजातत्वम् ॥

मन्त्रः 19सम्पाद्यताम्

अ॒न्नाद्या॑य॒ व्यू॑हद्ध्वं दीर्घा॒युर॒हम॑न्ना॒दो भू॑यासम् ।
सोमो॒ राजा॒ऽयमाग॑म॒त्स मे॒ मुखं॒ प्रवे॑क्ष्यति॒ भगे॑न स॒हवर्च॑सा ।

टीकासम्पाद्यताम्

दन्तधावनम् - अन्नाद्यायेति ॥ अन्नाद्याय अन्नादनाय व्यूहभ्वं व्यूहः पृथग्भावः पृथग्भवत हे दन्ताः मलेन पृथग्भूता भवत । अहं च युष्माभिः शुद्धैः दीर्घायुः अन्नादश्च भूयासं सोमो राजा यमागमत् दन्तधावनकाष्ठस्य वार्क्षत्वात् वृक्षणां च सोमाधिष्ठितत्वादेवमुच्यते । स चागतः मे मम मुखं प्रवेक्ष्यति भगेन सौभाग्येन वर्चसा दीप्त्या च सह । दन्तशोधने सति मुखमतीव शोभते इत्युच्यते ॥

मन्त्रः 20सम्पाद्यताम्

सोम॑स्य त॒नूर॑सि त॒नुवं॑ मे पाहि॒ स्वामा॑ त॒नूरावि॑श ।

टीकासम्पाद्यताम्

अनन्तरं वासः परिधत्ते सोमस्य तनूरसीति ॥ हे वासः । त्वं सोमस्य तनूरसि सौम्यँ वै वासः इति श्रुतेः । एवं भूतं त्वं मे तनुवं तनूं पाहि त्वयाच्छादितं शरीरं रक्षितं भवति । न केवलं सोमस्य तनूः । किं तर्हि? ममापि स्वा तनूः शरीरतुल्यत्वादेवमुच्यते । तथा च मन्त्रान्तरं आत्मा पितुस्तनूर्वास ओजोदा अभ्यञ्जनम् इति । एवंभूतं त्वं मामाविश ॥

मन्त्रः 21 - 23सम्पाद्यताम्

नमो॑ ग्र॒हाय॑ चाभिग्र॒हाय॑ च ।
नम॑श्शाकजञ्ज॒भाभ्या॑म् ।
नम॒स्ताभ्यो॑ दे॒वता॑भ्यो॒ या अ॑भिग्रा॒हिणीः॑ ।

टीकासम्पाद्यताम्

देवताभ्यः चन्दनप्रदानम् - नम इति ॥ नमआदय स्त्रयो मन्त्राः । देवताश्च मान्त्रवर्णिक्यः ग्रहश्च अभिग्रहश्च शाक जम्भवौ च अभिग्राहिण्यश्च । एताश्च अलङ्कारसमये पुरुषमुपसर्पन्ति ताभ्यश्चन्दनप्रदानम् ।.

मन्त्रः 24सम्पाद्यताम्

अ॒प्स॒रस्सु॒ यो ग॒न्धो ग॑न्ध॒र्वेषु॑ च॒ यद्यशः॑ ।
दैवो॒ यो मा॑नु॒षो ग॒न्धस्स मा॑ ग॒न्धस्सु॑र॒भिर्जु॑षताम् ।

टीकासम्पाद्यताम्

उत्तरया आत्मानमनुलिम्पति - अप्सरसस्स्विति ॥ अप्सरसामुपभोगयोग्यो यो गन्धः गन्धर्वेषु च यद्यशः कीर्तिः प्रसिद्धा गन्धर्वेषु च यः प्रसिद्धो गन्धः यद्योगात्ते गन्धर्वा भवन्ति गन्धवन्तो गन्धर्वा इति, यश्च दैवो गन्धः यश्च मानुषः स सर्वोपि सुरभिर्गन्धः मां जुषतां भजताम् । सुरभिर्घ्राणतर्पणः ॥

मन्त्रः 25सम्पाद्यताम्

इ॒यमोष॑धे॒ त्राय॑माणा॒ सह॑माना॒ सह॑स्वती ।
सा मा॒ हिर॑ण्यवर्चसं ब्रह्मवर्च॒सिनं॑ मा करोतु ।

टीकासम्पाद्यताम्

सौवर्णे मणिं उदपात्रे परिप्लावयति - इयमोषध इति ॥ पार्थिवस्य सुवर्णस्य पृथिवीत्वेन स्तुतिः इयं पृथिवी ओषधे ओषधीः । विभक्तिलोपश्छान्दसः । त्रायमाणा ओषधीनामाधारभूतेत्यर्थः सहमाना सर्वकार्येषु समर्था सहस्वती बलवती एवम्भूता पृथिवी सा मां हिरण्यवर्चसं हिरण्यवद्दीप्तं करोतु ब्रह्मवर्चसिनं ब्रह्मवर्चसयुक्तं च मां करोतु ॥

मन्त्रः 26सम्पाद्यताम्

अपा॑शो॒ऽस्युरो॑ मे॒ मा सꣳशा॑रीः ।
शि॒वो मोप॑तिष्ठस्व दीर्घायु॒त्वाय॑ श॒तशा॑रदाय ।
श॒तꣳ श॒रद्भ्य॒ आयु॑षे॒ वर्च॑से जी॒वात्वै पुण्या॑य ।

टीकासम्पाद्यताम्

ग्रीवास्वाबध्नाति - अपाशोसीति ॥ येन चोरादि बध्यते स पाशः स त्वं न भवसि । अतश्च उरः उरस्थलं मे मा संशारीः मा हिंसीः ग्रीवास्वावबद्ध्यमानस्य अवपतनादुरसो बाधशङ्का । शिवो मा उपतिष्ठस्व दीर्घायुत्वाय । कीदृशाय? शतशारदाय शतं शरदो भावि यद्दीर्घायुष्यं तस्मै । शतम् चतुर्थ्यर्थे प्रथमा शताय शरद्भयः शतवर्षार्थमायुषे शतवर्षभावि यदायुः तदर्थम् । वर्चसे जीवात्वै जीवातुः जीवनं तस्मै पुण्याय प्रशस्ताय शिषो मोप तिष्ठस्वेत्येव । आदरार्थं चायुषः पुनर्वचनम् ॥

मन्त्रः 27 -32सम्पाद्यताम्

रे॒वती॑स्त्वा॒ व्य॑क्ष्ण॒न्नित्ये॒ताः ।। (7)

टीकासम्पाद्यताम्

रेवतीस्त्वा व्यक्ष्णन् इत्यदि ॥ गताः । ताभिरेव द्वितीयं वासः परिधत्ते ॥

इति श्रीहरदत्तविरचिते एकाग्निकाण्डव्याख्याने द्वितीयप्रश्ने सप्तमः खण्डः

2.8 तमः खण्डःसम्पाद्यताम्

मन्त्रः 1सम्पाद्यताम्

आ॒यु॒ष्यं॑ वर्च॒स्यꣳ॑ सु॒वीर्यꣳ॑ रा॒यस्पोष॒मौद्भि॑द्यम् ।
इ॒दꣳ हिर॑ण्यं॒ जैत्र्या॒यावि॑शता॒न्माम् ।

टीकासम्पाद्यताम्

तस्य दशायां प्रवर्तो प्रबध्य जुहोति - आयुष्यमिति ॥ आयुषो निमित्तं आयुष्यं वर्चसे निमित्तं वर्चस्यं सुवीर्ये सुष्ठु वीर्य युक्तं रायस्पोषं रायो धनस्य पोषयितृ सर्वधनस्य हिरण्यमूलत्वात् औद्भिद्यं उद्भिनत्ति प्रकाशते इति उद्भित् उद्भिदेव औद्भिद्यं यशस्करमित्यर्थः । एवं भूतं इदं हिरण्यं जैत्र्याय जयहेतुः जैत्रं तदेव जैत्र्यं कर्म तस्मै होमाय जयायैव ममाविशतां आविशतु ॥

मन्त्रः 2सम्पाद्यताम्

उ॒च्चै॒र्वा॒दि पृ॑तना॒जि स॑त्रासा॒हं ध॑नञ्ज॒यम् ।
सर्वा॒स्समृ॑द्धी॒र्॒ ऋद्ध॑यो॒ हिर॑ण्ये॒ऽस्मिन्त्स॒माहि॑ताः ।

टीकासम्पाद्यताम्

उच्चैर्वादीति । उच्चैर्वादयतीति उच्चैर्वादि हिरण्यवन्तो हि उच्चैर्वदन्ति । पृतनाजि । छान्दसस्तुगभावः । पृतनाजित् । सत्रासाहं सत्रेत्यव्ययं सत्यनाम सत्यमेवाभिभवितृ शत्रूणां धनञ्जयं धनस्यापि शत्रुसम्बन्धिनो जैत्रं किं बहुना? सर्वा ऋद्धयः कीदृश्यः? समृद्धीः समृद्धयः समृद्धः समग्रा इत्यर्थः तथैव पाठो बह्वृचानाम् । हिरण्येस्मिन् समाहिताः सम्यगाहिताः ॥

मन्त्रः 3सम्पाद्यताम्

शु॒नम॒हꣳ हिर॑ण्यस्य पि॒तुरि॑व॒ नामा॑ग्रभैषम् ।
तं मा॒ हिर॑ण्यवर्चसं पू॒रुषु॑ प्रि॒यं कु॑रु ।

टीकासम्पाद्यताम्

शुनमहमिति ॥ शुनमिति सुखनाम । शुनं हिरण्यस्य नाम अहं अग्रभैषं अग्रहीषं पितुरिव यथा पितुर्नाम पुत्रः पुनः पुनः कीर्तयति तद्वत् तं त्वन्नाम कीर्तयन्तं मां हिरण्यवर्चसं हिरण्यवद्दीप्तं कुरु हे हिरण्य किञ्च - पूरुषु पुरु इति बहुनाम तस्यैव छान्दसं दीर्घत्वं, पूरुषु बहुषु, षष्ठ्यर्थे मप्तमी । बहूनां मां प्रियं कुरु यथाहं सर्वेषां प्रियस्स्यां तथा कुरु ॥

मन्त्रः 4सम्पाद्यताम्

प्रि॒यं मा॑ दे॒वेषु॑ कुरु प्रि॒यं मा॒ ब्रह्म॑णे कुरु ।
प्रि॒यं वि॒श्ये॑षु शू॒द्रेषु॑ प्रि॒यꣳ राज॑सु मा कुरु ।

टीकासम्पाद्यताम्

एतदेव प्रपञ्चयति- प्रियं मा इति । सर्वत्र षष्ठ्यर्थे सप्तमी । ब्रह्मणे ब्राह्मणे । ब्राह्मणाशब्दस्य छान्द सं हृस्वत्वम्, जातावेकवचनम् । विश्येषु वैश्येषु । छान्दस हृस्वत्वम् । राजसु क्षत्रियेषु हे हिरण्य । त्वत्संस्पृष्टाज्यहोमात् देवादीनामेषां प्रियस्स्यामित्यर्थः ॥

मन्त्रः 5सम्पाद्यताम्

या ति॒रश्ची॑ नि॒पद्य॑से॒ऽहं वि॒धर॑णी॒ इति॑ ।
तां त्वा॑ घृ॒तस्य॒ धार॑या॒ यजे॑ स॒ꣳ॒राध॑नीम॒हम् ।

टीकासम्पाद्यताम्

या तिरश्चीति ॥ संराधनी नाम देवता, सा च भूमिरित्येके । मध्यमावस्थाना वागित्यन्ये । हे संराधनि । या त्वं तिरश्ची तिर्यग्भूता निषद्यसे शेषे अहं सर्वस्य भूतस्य विधरणी विधारयित्री इति अनया बुद्ध्येति भूमिपक्षे । वाक्पक्षे तु विधरणं निवारणं होमविघ्नकारिणामहं निवारयित्रीत्यनया बुद्ध्या तेषामप्रवेशाय या त्वं द्वारदेशे तिर्यग्भूता शेष इति, तां त्वा घृतस्य धारया संराधनीमहं यजे ॥

मन्त्रः 6 - 7सम्पाद्यताम्

स॒ꣳ॒राध॑न्यै दे॒व्यै स्वाहा॑ ।
प्र॒साध॑न्यै दे॒व्यै स्वाहा॑ ।

टीकासम्पाद्यताम्

उत्तरौ स्पष्टौ ॥ प्रसाधन्यपि सैव संराधनी, प्रकर्षेण साधयित्रीति । देवतान्तरं वा ॥

मन्त्रः 8सम्पाद्यताम्

स॒म्राज॑ञ्च वि॒राज॑ञ्चाभि॒श्रीर्या च॑ नो गृ॒हे ।
ल॒क्ष्मी रा॒ष्ट्रस्य॒ या मुखे॒ तया॑ मा॒ सꣳसृ॑जामसि ।

टीकासम्पाद्यताम्

सम्राजं चेति ॥ आद्यपादस्य चतुर्थपादे मेत्यनेन? सम्बन्धः सम्राजं च विराजं च मा मां संसृजामसि । एकस्मिन् बहुवचनम् । संसृजामि । केन? या च नः मम गृहे अभिश्रीः अभिमुखा श्रीः । चकारो वक्ष्यमाणापेक्षया । या च राष्ट्रास्य मुखे लक्ष्मीः तया मा संसृजामसि । सम्यग्दीप्यमानः सम्राट् विविधं दीप्यमानो विराट् ॥

मन्त्रः 9सम्पाद्यताम्

शुभि॑के॒ शिर॒ आरो॑ह शो॒भय॑न्ती॒ मुखं॒ मम॑ ।
मुखꣳ॑ हि॒ मम॑ शोभय॒ भूयाꣳ॑सञ्च॒ भगं॑ कुरु ।

टीकासम्पाद्यताम्

उत्तराभ्यां स्रग्बन्धनम् - शुभिके शिर इति ॥ शुभैव शुभिका स्वार्थे कः । हे शुभिके स्रक् मम शिर आरोह मम मुखं शोभयन्ती भूत्वा । आदरार्थें पुनरुच्यते - मुखं हि मम शोभय । हिशब्दः पादपूरणः । भूयांसं भगं सौभाग्यं च कुरु ॥

मन्त्रः 10सम्पाद्यताम्

यामाह॑रज्ज॒मद॑ग्निश्श्र॒द्धायै॑ कामाया॒न्यै ।
इ॒मान्तामपि॑ नह्ये॒ऽहं भगे॑न स॒हवर्च॑सा ।

टीकासम्पाद्यताम्

यामाहरदिति ॥ यां स्रजं आहरत् आहृतवान् जमदग्निः । कस्यै? श्रद्धायै देव्यै । कीदृश्यै? कामयान्यै कामयमानायै । इमां ईदृशीं तां स्रजं अहमपि नह्ये शिरसि बध्नामि भगेन वर्चसा सह ॥

मन्त्रः 11सम्पाद्यताम्

यदाञ्ज॑नं त्रैककु॒दं जा॒तꣳ हि॒मव॑त उ॒परि॑ ।
तेन॑ वामाञ्जे॒ तेज॑से॒ वर्च॑से॒ भगा॑य च ।। (8)

टीकासम्पाद्यताम्

आञ्जनमन्त्रः - यदाञ्जनमिति ॥ त्रिककुन्नाम पर्वतः तत्र भवं त्रैककुदं यच्च हिमवत उपरि जातं तेन अञ्जनेन हे अक्षिणी यां युवां आञ्जे किमर्थं? तेजसे प्रकाशार्थं वर्चसे दीप्त्यर्थं भगाय सौभाग्यार्थं च ॥

इति श्रीहरदत्तविरचिते एकाग्निकाण्डव्याख्याने द्वितीयप्रश्ने अष्टमः खण्डः

2.9 तमः खण्डःसम्पाद्यताम्

मन्त्रः 1 - 4सम्पाद्यताम्

मयि॑ पर्वतपूरु॒षम् ।
मयि॑ पर्वतवर्च॒सम् ।
मयि॑ पर्वतभेष॒जम् ।
मयि॑ पर्वतायु॒षम् ।

टीकासम्पाद्यताम्

मयि पर्वतपूरुषमिति ॥ पर्वते यादृशं पुरुषं पौरुषं पुंस्त्वं धारणशक्तिः तत्पर्वतपूरुषं मयि भवतु यादृशी च पर्वतस्व वर्चः दीप्तिः श्लक्ष्णता, यच्च पर्वते भेषजं, यच्च पर्वते आयुषं पर्वतस्यायुः तत्सर्वं मयि भवतु ॥

मन्त्रः 5सम्पाद्यताम्

यन्मे॒ वर्चः॑ प॒राग॑तमा॒त्मान॑मुप॒तिष्ठ॑ति ।
इ॒दन्तत्पुन॒राद॑दे दीर्घायु॒त्वाय॒ वर्च॑से ।

टीकासम्पाद्यताम्

आदर्शावेक्षणमन्त्रः - यन्मे वर्च इति ॥ यत् मे मम वर्चः परागतं मत्तो निर्गतं आत्मानं आदर्शतलस्थितं मां उपतिष्ठति प्राप्नोति इदं तत् वर्चः पुनराददे दीर्घायुत्वाय वर्चसे ॥

मन्त्रः 6सम्पाद्यताम्

प्र॒ति॒ष्ठे स्थो॑ दे॒वता॑नां॒ मा मा॒ सन्ता॑प्तम् ।

टीकासम्पाद्यताम्

उपानद्ग्रहणमन्त्रः - प्रतिष्ठे स्थ इति ॥ प्रतिशब्दः प्रशब्दार्थे । हे उपानहौ । युवां प्रतिष्ठे प्रस्थानसाधने स्थः देवतानां अपीत्यध्यहार्यम्, देवतानामपि, किमुतास्माकम् । मा मा संतप्तं? व्रणोत्पाद नेना सन्तापं मा कार्ष्टं? कम्टकादिकृतो वा सन्तापो मे मा भूदित्यर्थः ॥

मन्त्रः 7सम्पाद्यताम्

प्र॒जाप॑ते॒श्शर॑णमसि॒ ब्रह्म॑णश्छ॒दिर्वि॑श्वज॒नस्य॑ छा॒याऽसि॑ स॒र्वतो॑ मा पाहि ।

टीकासम्पाद्यताम्

छत्रधारणमन्त्रः - प्रजापतेरिति ॥ हे छत्र प्रजापतेः शरणं गृहं असि ब्रह्मणः छदिरसि छदिः पटलं एवंनाम प्रशस्तमित्यर्थः । किx बहुना? विश्वजनस्य छायासि छायाकार्यसि एवम्भूतस्त्वं सर्वतो मा पाहि ॥

मन्त्रः 8सम्पाद्यताम्

दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒वे॑ऽश्विनो॑र्बा॒हुभ्यां॑ पू॒ष्णो हस्ता॑भ्या॒मा द॑दे द्विष॒तो व॒धायेन्द्र॑स्य॒ वज्रो॑ऽसि॒ वार्त्र॑घ्न॒श्शर्म॑ मे भव॒ यत्पा॒पन्तन्निवा॑रय ।

टीकासम्पाद्यताम्

दण्डादानमन्त्रः - देवस्य त्वेति ॥ देवस्य सवितुः प्रसवे अनुज्ञायां सत्यां अश्विनोर्बाहुभ्यां तदधिष्ठिताभ्यां मम बाहुभ्यामित्यर्थः । एवं पूष्णो हस्ताभ्यमिति । मध्यमसन्धेरुपरिभागो बाहुः, अधोभागो हस्तः । त्वामाददे द्विषते वधाय श्वादेर्निस्सारणाय इन्द्रस्य वज्रोसि यथेन्द्रस्य वज्रः तथा मम त्वमसि वार्त्रघ्नः वृत्र इति शत्रुनाम तस्य हन्ता वृत्रहा स एव वार्त्रघ्नः एवंभूतस्त्वं शर्म मे भव सुखकरो भव यत्पापं अनर्थकारि श्वादि तन्निवारय ॥

मन्त्रः 9सम्पाद्यताम्

देवीः॑ षडुर्वीरु॒रु ण॑ᳶ कृणोत॒ विश्वे॑ देवास इ॒ह वी॑रयध्वम् ।

टीकासम्पाद्यताम्

दिशामुपस्थानम् - देवीष्षडिति ॥ त्रीणि दिशामामन्त्रणानि । देवीः । हे देव्यः चतस्रः प्रधाना दिशः प्राच्यादयः ऊर्ध्वाधरा चेति षट् उर्वीः उर्व्यः विस्तीर्णाः उरु विस्तीर्णं प्रभूतं धनं नः अस्मभ्यं कृणोत कुरुत । हे विश्वे देवासः तासामेव दिशामधिपतपयस्सर्वे देवाः इन्द्रादयः यूयं चेह कर्मणि वीरयध्वं वीरकर्म कुरुत वीरवन्तं पुत्रवन्तं वा मां कुरुत ॥

मन्त्रः 10सम्पाद्यताम्

मा हा॑स्महि प्र॒जया॒ मा त॒नूभि॒र्मा र॑धाम द्विष॒ते सो॑म राजन्न् ।

टीकासम्पाद्यताम्

नक्षत्रणां चन्द्रमसश्चोपस्थानम् - मा हास्महीति ॥ अत्र राजन्नित्यनेन नक्षत्राणि सूच्यन्ते । हे नक्षत्राणां राजन् सोम युष्मत्प्रसादात् वयं प्रजया मा हास्महि हानिः त्यागः त्यक्ता मा भूम । मा च तनूभिः हास्महि पुत्रादिशरीरापेक्षं बहुवचनम् । मा रधाम द्विषते रधिः वशीकरणकर्म, षष्ठ्यर्थे चतुर्थी । द्विषतो वश्या मा भूम ॥

मन्त्रः 11 - 13सम्पाद्यताम्

रा॒ष्ट्र॒भृद॑स्याचार्यास॒न्दी मा त्वद्यो॑षꣳ राष्ट्र॒भृद॑सि सम्राडास॒न्दी मा त्वद्यो॑षꣳ राष्ट्र॒भृद॑स्यधिपत्न्यास॒न्दी मा त्वद्यो॑षम् ।

टीकासम्पाद्यताम्

अथमधुपर्कमन्त्राः- राष्ट्रभृदिति । गतम् । सम्राट् अभिषिक्तः क्षत्रियः तदनुरूपमासनं सम्राडासन्दी । अधिपति मंण्डलाधिपतिः अनभिषिक्तः तस्यासनं अधिपत्न्यासन्दी । नकारश्छान्दस उपजनः ॥

मन्त्रः 14सम्पाद्यताम्

आपः॑ पादाव॒नेज॑नीर्द्वि॒षन्तं॑ नाशयन्तु मे ।
अ॒स्मिन्कुले॑ ब्रह्मवर्च॒स्य॑सानि ।

टीकासम्पाद्यताम्

पाद्याभिमन्त्रणम्-आपः पादेति ॥ पादाववनिज्येते प्रक्षाळयेते याभिस्ताः पादावनेजनीः पादावनेजन्यः ताः आपो मे द्विषन्तं नाशयन्तु । अस्मिन्कुले अहं ब्रह्मवर्चसी असानि भूयासम् ।

मन्त्रः 15सम्पाद्यताम्

मयि॒ महो॒ मयि॒ यशो॒ मयी॑न्द्रि॒यं वी॒र्य॑म् ।

टीकासम्पाद्यताम्

आत्मनः प्रत्यभिमर्शः - मयि मह इति ॥ महः पूजा यशः कीर्तिः, इन्द्रियं चक्षुरादि, वीर्यं रेतः । भवत्विति शेषः । ब्राह्मणेन पादे स्पृष्टे एतेषामुपगमशङ्कया प्रार्थ्यते ॥

मन्त्रः 16सम्पाद्यताम्

आमा॑ऽग॒न्॒ यश॑सा॒ वर्च॑सा॒ सꣳसृ॑ज॒ पय॑सा॒ तेज॑सा च ।
तं मा॑ प्रि॒यं प्र॒जानां॑ कु॒र्वधि॑पतिं पशू॒नाम् ।

टीकासम्पाद्यताम्

अर्घ्याभिमन्त्रणम् - आ मा गन्निति ॥ हे अर्घ्योदक त्वं मां आगन् आगमः आगच्छ वा । आगत्य च यशसा वर्चसा च मां संसृज पयसा क्षीरेण तेजसा च । किञ्च - एतैः संसृष्टं तं मां प्रजानां प्रियं कुरु पशूनां च गवादीनां अधिपतिं कुरु ॥

मन्त्रः 17सम्पाद्यताम्

वि॒राजो॒ दोहो॑ऽसि वि॒राजो॒ दोह॑मशीय॒ मम॒ पद्या॑य॒ विरा॑ज ।

टीकासम्पाद्यताम्

अञ्जलावानीयमानेर्घ्ये - जपति - विराज इति ॥ विराट् अन्नं अन्नं विराट् तस्य त्वं दोहोसि दोहः क्षरणं अतश्च त्वत्परिग्रहात् विराजो दोहमशीय प्राप्रुयाम् । मम पद्याय पदं स्थानं तत्र भवः पद्यः मम यः पद्यः मस्थानापन्नः पुत्रः तस्मै विराज दीप्यस्य तमप्येवंविधं कुरु ॥

मन्त्रः 18सम्पाद्यताम्

स॒मु॒द्रं वः॒ प्रहि॑णोमि॒ स्वां योनि॒मपि॑ गच्छत ।
अच्छि॑द्रः प्र॒जया॑ भूयासं॒ मा परा॑ सेचि॒ मत्पयः॑ ।। (9)

टीकासम्पाद्यताम्

शेषं पुरस्तान्निनीयमानमुत्तरयानुमन्त्रयते - समुद्रं व इति ॥ हे आपः । वः युष्मान् समुद्रं प्रहिणोमि प्रापयामि । यूयं स्वां योनिं समुद्रं अपिगच्छत प्रतिगच्छत । सर्वासामपां समुद्रो योनिः अहमपि युष्मत्प्रसादात् प्रजया अच्छिद्रः निरन्तरो भूयासं प्रजा मे मा विच्छेदि । मा च मत् मत्तः परासेचि पयः । पुनस्तदुपभोग्यं यथा न भवति तथा सेकः परासेकः ॥

इति श्रीहरदत्तविरचिते एकाग्निकाण्डव्याख्याने द्वितीयप्रश्ने नवमः खण्डः

2.10 तमः खण्डःसम्पाद्यताम्

मन्त्रः 1सम्पाद्यताम्

त्र॒य्यै वि॒द्यायै॒ यशो॑ऽसि॒ यश॑सो॒ यशो॑सि॒ ब्रह्म॑णो॒ दीप्ति॑रसि ।
तं मा॑ प्रि॒यं प्र॒जानां॑ कु॒र्वधि॑पतिं पशू॒नाम् ।

टीकासम्पाद्यताम्

उत्तराभ्यां मधुपर्कमभिमन्त्रयते - त्रय्यै विद्याया इति ॥ त्रयो वेदास्रयी विद्या तस्यै, षष्ठ्यर्ये चतुर्थी । तस्या यशोसि यशः गोमधुपर्कार्हो वेदाध्यायीति । किञ्च - यशसो यशोसि? प्रशंसा परमेतत् । यथा आभरणस्याभरणनिति । ब्रह्मणो वेदस्य दीप्तिरसि । तं मा प्रियमित्यादि गतम् ॥

मन्त्रः 2सम्पाद्यताम्

आमा॑ग॒न्नित्ये॒षा ।

टीकासम्पाद्यताम्

आमा गन्निति ॥ गतम् ॥

मन्त्रः 3सम्पाद्यताम्

अ॒मृ॒तो॒प॒स्तर॑णमसि ।

टीकासम्पाद्यताम्

अप आचामति - अमृतोपस्तरणमसीति ॥ अमृतस्य अमृतसदृशस्य त्वं उपस्तरणमसि यथा अवदानानामुपस्तरणम् ॥

मन्त्रः 4सम्पाद्यताम्

अ॒मृ॒ता॒पि॒धा॒नम॑सि ।

टीकासम्पाद्यताम्

उपरिष्टादप आचामति - अमृतापिधानमसीति ॥ अमृतस्य त्वं अपिधानमसि ॥

मन्त्रः 5सम्पाद्यताम्

यन्मधु॑नो मध॒व्यं॑ पर॒मम॒न्नाद्यं॑ वी॒र्य॑म् ।
तेना॒हं मधु॑नो मध॒व्ये॑न पर॒मेणा॒न्नाद्ये॑न वी॒र्ये॑ण पर॒मो॑ऽन्ना॒दो म॑ध॒व्यो॑ऽसानि ।

टीकासम्पाद्यताम्

मधुपर्कं प्राश्नाति - यन्मधुन इति ॥ मधुनि भवं मधव्यं मधुनः संवन्धि यत् मधव्यं यथा गवां गापतिः? वसूनां वसुपति रित्यादौ गोपतिर्वसुपतिरित्यतः परमार्थतो नातिरिच्यते अथ चोभयं प्रयुज्यते तथेहापि मधुनो मधव्यमिति । अर्थस्तु मधव्यमित्येतावानेव । किंपुनस्तत्? परममन्नाद्यं इदं हि परमन्नादनं यन्मधुनः प्राशनं वीर्यं वीर्यकरम् । एवम्भूतं यत् मधव्यं तेन मधुनो मधव्येन परमेणान्नाद्येन वीर्येण । पूर्वानुसारेण योज्यम् । अहमपि परमोऽन्नादो मधव्यश्च असानि भूयासम्, मधुपर्कार्हो मधव्यः ॥

मन्त्रः 6सम्पाद्यताम्

गौर॒स्यप॑हतपा॒प्माऽप॑ पा॒प्मान॑ञ्जहि॒ मम॑ चा॒मुष्य॑ च ।
अ॒ग्निः प्राश्ना॑तु प्रथ॒मस्स हि वेद॒ यथा॑ ह॒विः ।

टीकासम्पाद्यताम्

गां निवेदितामभिमन्त्रयते - गौरसीति ॥ हे गौः । त्वं अपहतपाप्माऽसि ततश्च पाप्मानं अपजहि । कस्य? मम च अमुष्य च दातुः ॥

मन्त्रः 7सम्पाद्यताम्

अरि॑ष्टम॒स्माकं॑ कृ॒ण्वन् ब्रा॑ह्म॒णो ब्रा॑ह्म॒णेभ्यः॑ ।

टीकासम्पाद्यताम्

आलम्भनपक्षे वपाहोममन्त्रः - अग्निरिति ॥ अयं अग्निः प्रथमः प्राश्नातु किमर्थम्? स हि वेद यथा हविः समीचीनसमसमीचीनं वा । स च प्राश्नन् अनष्टमस्माकं कृण्वन् प्राश्नातु अस्माकमपिशेषयित्वैष प्राश्नातु । कीदृशोऽग्निः? ब्राह्मणेभ्योपि ब्राह्मणः अति शयेन ब्राह्मण इत्यर्थः । अथवा - ब्राह्मणेभ्य इति षष्ठ्यर्थे चतुर्थी । ब्राह्मणानामस्माकमनष्टं कुर्वन्, स्वयं च ब्राह्मण इति ॥

मन्त्रः 8सम्पाद्यताम्

य॒ज्ञो व॑र्द्धतां य॒ज्ञस्य॒ वृद्धि॒मनु॑ व॒र्द्धाप॑चितिर॒स्यप॑चितं मा कु॒र्वप॑चितो॒हं म॑नु॒ष्ये॑षु भूयासम् ।

टीकासम्पाद्यताम्

उत्सर्गपक्षे जपः -यज्ञ इति ॥ अयं मनुष्ययज्ञोऽस्मत्पूजालक्षणो वर्धतां उत्सर्गपक्षेऽपि वैकल्यं मा भूत् । तस्य यज्ञस्य वृद्धिमनु वृद्धेः पश्चात् हे गौः त्वमपि वर्ध वर्धस्व अपचितिरसि तत्साधनत्वात् मां च अपचितिं कुरु । कोर्थः? अहं त्वामुत्सृजन् मनुष्येषु अपचितः पूजितः भूयासम् ॥

मन्त्रः 9 -11सम्पाद्यताम्

गौर्धे॑नुभ॒व्या मा॒ता रु॒द्राणां॑ दुहि॒ता वसू॑ना॒ꣳ॒ स्वसा॑ऽऽदि॒त्याना॑म॒मृत॑स्य॒ नाभिः॑ ।
प्रणु॒वोच॑ञ्चिकि॒तुषे॒ जना॑य॒ मागामना॑गा॒मदि॑तिं वधिष्ट ।
पिब॑तूद॒कं तृणा॑न्यत्तु ।
ओमुत्सृ॒जत ।

टीकासम्पाद्यताम्

गौर्धेनुभव्येति ॥ गोरियं धेनुभव्या धेनुर्भविष्यन्ती, उत्सर्गपक्षे स्तुत्यर्थमिदं उत्सृष्टा हि गौरियं धेनुर्भविष्यति ततश्च महाफला । आलम्भपक्षे तु क्षणिका तृप्तिः । किञ्च - इयं रुद्रादीनां देवानां मात्रादिस्थानीया सर्वेषां यज्ञभागित्वात् तस्य चाज्यादिगव्यसाध्यत्वात् । अमृतस्य अमृतत्वप्राप्तिहेतोर्यज्ञस्य नाभिः प्रधानावयवः आज्यादिद्वारेण एष वाव यज्ञो यदाज्यम् इति श्रुतेः । एवंनाम प्रशस्तेयं अतश्च प्रणुवोचं नुः क्षिप्रार्थे क्षिप्रं प्रकर्षेण च ब्रवीमि ।चिकितुषे कित ज्ञाने, जानते जनाय । कि ब्रवीमि? मा गां अनागां अनागसं इमां गां अदितिं अस्त्रण्डितां मा वधिष्ट । एषा कामं उदकं पिबतु तृणानि च अत्तु । ओमुत्सृजत उत्सृजतेति प्रसिद्धेऽर्थे ओमित्यनुज्ञावचनं सर्वैरनुज्ञातामुत्सृजत ॥

मन्त्रः 12सम्पाद्यताम्

भू॒तम् ।
सु॒भू॒तम् ।

टीकासम्पाद्यताम्

सिद्धेऽन्ने भूतमित्याह । भूतं सिद्धमित्यर्थः ॥

मन्त्रः 13 -15सम्पाद्यताम्

सा वि॒राट् ।
तन्मा क्षा॑यि ।
तस्य॒ तेऽशी॑य ।
तन्म॒ ऊर्जं॑धाः ।
ओं कल्प॒यत ।। (10)

टीकासम्पाद्यताम्

तथोक्ते उत्तरान् जपति - सा विराडिती ॥ विराट्-छब्दस्य स्त्रीलिङ्गत्वात् सेत्युक्तम् । तदन्नं विराट् विविधं राजत इति कृत्वा । तन्मा क्षायि क्षीणं मा भूत् । तस्य ते । द्वितीयार्थे षष्ठी । तत् त्वां अशीय अश्नीयां तत् त्वं मे मह्यं ऊर्जं बलं धाः धेहि देहि । ओमित्यनुज्ञायाम् । कल्पयत उपनयत हे परिचारकाः ॥

इति श्रीहरदत्तविरचिते एकाग्निकाण्डव्याख्याने द्वितीयप्रश्ने दशमः खण्डः

2.11 तमः खण्डःसम्पाद्यताम्

मन्त्रः 1सम्पाद्यताम्

धा॒ता द॑दातु नो र॒यिम्
ईशा॑नो॒ जग॑त॒स्पतिः॑ ।
स नः॑ पू॒र्णेन॑ वावनत् ।

टीकासम्पाद्यताम्

सीमन्तोन्नयने होममन्त्राः - धाता ददात्विति ॥ जगतः ईशानः पतिः पालयिता च स धाता नः अस्मभ्यं रयिं धनं ददातु । ददच्च सः नः अस्मान् पूर्णेन कामेन वावनत् । वन षण सम्भक्तौ पञ्चमो लकारः । यथा अस्मत्कामः पूर्यते तथा नः संभजेत ॥

मन्त्रः 2सम्पाद्यताम्

धा॒ता प्र॒जाया॑ उ॒त रा॒य ई॑शे
धा॒तेदं विश्व॒म्भुव॑नं जजान ।
धा॒ता पु॒त्रं यज॑मानाय॒ दाता॑
तस्मा॑ उ ह॒व्यं घृ॒तव॑द्विधेम ।

टीकासम्पाद्यताम्

धातेति ॥ स एव धाता प्रजायाः उत रायः धनस्यापि ईशे ईष्टो । धातैव इदं विश्वं भुवनं जजान अन्तर्भावितण्यर्थो जनिः जनयामास । धातैव च यजमानाय च पुत्रं दाता । तृन्नन्तमेतत् । तस्मै एवम्भूताय धात्रे घृतवत् घृतयुक्तं हव्यं विधेम । विदधाति रन्यत्र परिचरणकर्मा इह तु दाने द्रष्टव्यः । दद्याम् । विभक्ति व्यत्ययो वा घृतवता हव्येन तं परिचरेमेति । उशब्दोनर्थकः ॥

मन्त्रः 3सम्पाद्यताम्

धा॒ता द॑दातु नो र॒यिम्
प्राचीं॑ जी॒वातु॒मक्षि॑ताम् ।
व॒यं दे॒वस्य॑ धीमहि
सुम॒तिꣳ स॒त्य-रा॑धसः।

टीकासम्पाद्यताम्

धातेति । स एव धाता न रयिं ददातु । कीदृशीं? प्राचीं प्राक्कालभवां क्रमागतां यादृशी पूर्वेषां तादृशीमित्यर्थः । जीवातुं जीवनाय पर्याप्तां अक्षितां क्षयरहिताम् । वयं तस्य देवस्य धातुः सुमतिं शोभनां मतिं भक्तेष्वनुग्रहात्मिकां बुद्धिं धीमहि ध्यायामः सत्यराधसः सत्यधनस्य ॥

मन्त्रः 4सम्पाद्यताम्

धा॒ता द॑दातु दा॒शुषे॒ वसू॑नि
प्र॒जाका॑माय मी॒ढुषे॑ दुरो॒णे ।
तस्मै॑ दे॒वा अ॒मृताः॒ सं व्य॑यन्तां॒
विश्वे॑ दे॒वासो॒ अदि॑तिः स॒जोषाः॑ ।

टीकासम्पाद्यताम्

धातेति ॥ स एव धाता दाशुषे दाशु दाने चरुपुरोडाशादीनां दात्रे मह्यं वसूनि धनानि ददातु प्रजारूपं मम धनं विवक्षितं प्रजाकामाय इति वचनात् । प्रजाकामाय मीढुषे रेतस्सेक्त्रे दुरोणे । दुरोणामिति गृहनाम, इह तु न गृहं गृहमित्याहुः गृहिणी गृहमुच्यते इति न्यायेन भार्यायां वर्तते । योऽहं प्रजाकामो भूत्वा भार्यायां रेतस्सिञ्चामि तस्मै मह्यं प्रजां ददात्विति समुदायार्थः । तस्मा एव मह्यं देवा अपि अमृताः अमरणधर्माणः संव्ययन्तां व्ययशिर्दानकर्मणि ?, ददतु । देवा इति वचनं कतिपयेष्वेव पर्यवस्येत् तदर्थमाह - विश्वे देवास इति । अदितिश्च सजोषाः समानप्रीतिः ॥

मन्त्रः 5सम्पाद्यताम्

यस्त्वा॑ हृ॒दा की॒रिणा॒ +++(=स्तत्रिणा)+++ मन्य॑मा॒नो
ऽम॑र्त्यं॒ मर्त्यो॒ जोह॑वीमि ।
जात॑वेदो॒ यशो॑ अ॒स्मासु॑ धेहि
प्र॒जाभि॑रग्ने अमृत॒त्वम॑श्याम् ।।

टीकासम्पाद्यताम्

यस्त्वा हृदेति ॥ हे अग्ने । जातवेदः यः अहं मर्त्यः त्वां अमर्त्यं मन्यमानः मरणधर्माणं माममरणधर्मा रक्षितुं समर्थ इति मन्यमानः कीरिणा हृदा कीरिरिति स्तोत्रनाम, स्तुतिपरेण मनसा जोहवीमि आह्वयामि । यच्छब्दश्रुतेः तच्छब्दोऽध्याहार्यः । तस्मिन् आस्मासु, वचनव्यत्ययः तस्मिन्मयि यशः अन्नं कीर्तिं वा धेहि स्थापय । किञ्च - प्रजाभिरमृतत्वं अश्यां प्राप्नुयां प्रजामनु प्रजायसे । तदु ते मर्त्या मृतम् इति श्रुतेः ॥

मन्त्रः 6सम्पाद्यताम्

यस्मै॒ त्वꣳ सु॒कृते॑ जातवेद॒ उ
लो॒कम॑ग्ने कृ॒णवः॑ +++(=कुर्याः)+++ स्यो॒नम् +++(सुखमयम्)+++।
अ॒श्विन॒ꣳ॒ स पु॒त्रिणं॑ वी॒रव॑न्तं॒
गोम॑न्तꣳ र॒यिं न॑शते +++(=प्राप्नोति)+++ स्व॒स्ति ।।

टीकासम्पाद्यताम्

यस्मा इति ॥ हे अग्ने जातवेदः त्वं यस्मै सुकृते पुरुषाय स्योनं सुखात्मकं लोकं कृणवः कुर्याः । उशब्दोऽनर्थकः । सः अश्विनं अश्वयुक्तं पुत्रिणं पुत्रैश्च युक्तं वीरवन्तं शूरैः परिचारकपुरुषैः पौत्रैर्वा युक्तम् । वीरशब्दः पौत्रवचनः पुत्रिणामीत्युक्तत्वात् । गोमन्तं च रयिं धनं च नशते प्राप्नोति स्वस्ति यथा तथा ॥

मन्त्रः 7सम्पाद्यताम्

त्वे सु पु॑त्त्र शव॒सो
ऽवृ॑त्र॒न् काम॑-कातयः ।
न त्वामि॒न्द्राति॑ रिच्यते ।।

टीकासम्पाद्यताम्

त्वे सु पुत्रेति ॥ हे शवसः पुत्र । शव इति बलनाम, तस्य पुत्र बलातिशयप्रतिपादनपरं चैतत् । बलवतोपि तावत्पुत्रो बलवान्भवति, किंपुनर्बलस्यैव पुत्र इति । दृश्यते चान्यत्रापीदृशं इन्द्रस्याभिधानम् । तद्यथा ओजसो जातमुत मन्य एनम् इति । त्वे त्वयि स्ववृत्रन् वृतेर्लुङि द्युतादित्वादङि बहुलं छन्दसि इति रुटि रूपम् । सुष्ठु वर्तन्ते । काः? कामकातयः काम्यन्त इति कामाः तेषां कातयः कामनाः सर्वेषामेव कामानां कामनास्त्वयि वर्तन्ते । त्वमेव तेषां दातेत्यर्थः । अतश्च न त्वामिन्द्रातिरिच्यते त्वत्तोऽधिकः कश्चिदपि नास्तीत्यर्थः ॥

मन्त्रः 8सम्पाद्यताम्

उ॒क्थउ॑क्थे॒ सोम॒ इन्द्रं॑ ममाद
नी॒थेनी॑थे म॒घवा॑नꣳ सु॒तासः॑ ।
यद् ईꣳ स॒बाधः॑ पि॒तरं॒ न पु॒त्राः
स॑मा॒न-द॑क्षा॒ अव॑से॒ हव॑न्ते ।

टीकासम्पाद्यताम्

उक्थउक्थ इति ॥ उक्थमिति शस्रनाम शस्त्रेशस्त्रे प्रति शस्त्रं सोमः इन्द्रं ममाद । लोडर्थे लिट् अन्तर्भावितण्यर्थश्च मदिः । मादयतु नीथेनीथे नीतेनीते समाप्तेसमाप्ते । कीदृशमिन्द्रं? मघवानं मघमिति धननाम धनवन्तं सुतासः । एकस्मिन् बहुवचनम् । सुतः अस्माभिरभिषुतः सोमा । कि कारणमिन्द्रमेव मादयितुम्? यत् यस्मात् र्हे? । एनमित्यस्यार्थे छन्दस्ययं शब्दः प्रयुज्यते । एनमिन्द्रं सवाधः समानबाधः समनदक्षाः समानबलाश्च अवसे आत्मनो रक्षणाय हवन्ते आह्वयन्ति पितरंन पितरमिव पुत्राः यस्मात्परस्परं बाधमानाः एनमेव हवन्ते तस्मात्सर्वेषां पितरमिन्द्रमेव मादयत्विति ॥

मन्त्रः 9सम्पाद्यताम्

भूर्भुव॒स्सुवः॑

टीकासम्पाद्यताम्

सीमन्तोन्नयनमन्त्रेषु - व्याहृतयः ॥ गताः ॥

मन्त्रः 10सम्पाद्यताम्

रा॒काम॒हँ सु॒हवाँ॑ सुष्टु॒ती हु॑वे शृ॒णोतु॑ नस्सु॒भगा॒ बोध॑तु॒ त्मना॑ ।
सीव्य॒त्वप॑स्सू॒च्याऽच्छि॑द्यमानया॒ ददा॑तु वी॒रँ श॒तदा॑यमु॒क्थ्य॑म् ।

टीकासम्पाद्यताम्

राकामहमिति ॥ पूर्णचन्द्रा पौर्णमासी राका तां अहं सुहवां स्वाह्वानाम् । सुष्टुती । तृतीयैकवचनस्य पूर्वसवर्णः । सुष्टुत्या शोभनया स्तुत्या हुवे आह्वयामि । सा च शृणोतु नः अस्माकम् । षष्ठीनिर्देशात् आह्वानमिति शेषः । सुभगा सौभाग्ययुक्ता श्रुत्वा च बोधतु त्मना आत्मना बुध्यतां हृदये करोत्वित्यर्थः । तदनन्तरं च सीव्यत्वपः अप इति कर्मनाम, एतत्सीमन्तोन्नयनलक्षणं कर्म सीव्यतु छिद्रापिधानेन सुष्टु करोतु सूच्या सूचीस्थानीयया स्वया बुद्ध्या अच्छिद्यमानया क्वचिदप्यप्रतिहन्यमानया ददातु वीरं पुत्र नामैतत्, पुत्रं शतदायं बहूनां दातारम् । अण् कर्मणि च इति भविष्यति आकारान्तादण् प्रत्ययः उक्थ्यं प्रशंसनीयम् ॥

मन्त्रः 11सम्पाद्यताम्

यास्ते॑ राके सुम॒तय॑स्सु॒पेश॑सो॒ याभि॒र्ददा॑सि दा॒शुषे॒ वसू॑नि ।
ताभि॑र्नो अ॒द्य सु॒मना॑ उ॒पाग॑हि सहस्रपो॒षँ सु॑भगे॒ ररा॑णा ।

टीकासम्पाद्यताम्

यास्त इति ॥ हे राके । सुपेशसः सुरूपायाः ते याः सुमतयः अनुग्रहात्मिका बुद्धयः याभिर्दाशुषे यजमानाय वसूनि ददासि, ताभिः सुमतिभिः नः अस्मान् सुमना भूत्वा उपागहि अद्यै वोपागच्छ । हे सुभगे । सहस्रपोषं बहुविधं पोषं रराण ददती ॥

मन्त्रः 12सम्पाद्यताम्

यौग॑न्धरिरे॒व नो॒ राजेति॒ साल्वी॑रवादिषुः ।
विवृ॑त्तचक्रा॒ आसी॑ना॒स्तीरे॑ण यमुने॒ तव॑ ।

टीकासम्पाद्यताम्

यमुनातीरवासिनां वीणागानमन्त्रः -यौगन्धरिरिति । साल्वो नाम जनपदः तद्विषयवासिन्यः प्रजाः साल्वीः साल्व्यः यौगन्धरिः युगन्धरस्यापत्यं यौगन्धरिः एष एव नो राजेत्यवादिषुः वदन्ति विवृत्तचक्रः विविधं वृत्तं चक्रं राष्ट्रं यासां ताः एवम्भूतां भूत्वा हे यमुने । तव तीरेण तीरे आसीना इति ॥

मन्त्रः 13सम्पाद्यताम्

सोम॑ ए॒व नो॒ राजेत्या॑हुर्ब्राह्म॒णीः प्र॒जाः ।
विवृ॑त्तचक्रा॒ आसी॑ना॒स्तीरे॑णासौ॒ तव॑ ।

टीकासम्पाद्यताम्

सर्वासां ब्राह्मणीनां प्रजानां वीणागानमन्त्रः - सोम एवेति । ब्राह्मणीः ब्राह्मणजातीयाः प्रजाः सोम एव नो राजेत्याहुः । विवृत्त - चक्रा इत्यादि । गतम् । असावित्यत्र नद्या नामनिर्देशः संबुद्ध्या यामुपजीवन्ति तीरेण कावेरी तव इति ॥

मन्त्रः 14सम्पाद्यताम्

पु॒ꣳ॒सु॒वन॑मसि ।

टीका