एकादशमुखहनुमत्कवचम्
एकादशमुखहनुमत्कवचम् हनूमान्स्तोत्राणि [[लेखकः :|]] |
श्रीगणेशाय नमः ।
लोपामुद्रा उवाच ।
कुम्भोद्भव दयासिन्धो श्रुतं हनुमतः परम् ।
यन्त्रमन्त्रादिकं सर्वं त्वन्मुखोदीरितं मया ॥ १॥
दयां कुरु मयि प्राणनाथ वेदितुमुत्सहे ।
कवचं वायुपुत्रस्य एकादशमुखात्मनः ॥ २॥
इत्येवं वचनं श्रुत्वा प्रियायाः प्रश्रयान्वितम् ।
वक्तुं प्रचक्रमे तत्र लोपामुद्रां प्रति प्रभुः ॥ ३॥
अगस्त्य उवाच ।
नमस्कृत्वा रामदूतां हनुमन्तं महामतिम् ।
ब्रह्मप्रोक्तं तु कवचं श्रृणु सुन्दरि सादरम् ॥ ४॥
सनन्दनाय सुमहच्चतुराननभाषितम् ।
कवचं कामदं दिव्यं रक्षःकुलनिबर्हणम् ॥ ५॥
सर्वसम्पत्प्रदं पुण्यं मर्त्यानां मधुरस्वरे ।
ॐ अस्य श्रीकवचस्यैकादशवक्त्रस्य धीमतः ॥ ६॥
हनुमत्स्तुतिमन्त्रस्य सनन्दन ऋषिः स्मृतः ।
प्रसन्नात्मा हनूमांश्च देवता परिकीर्तिता ॥ ७॥
छन्दोऽनुष्टुप् समाख्यातं बीजं वायुसुतस्तथा ।
मुख्यः प्राणः शक्तिरिति विनियोगः प्रकीर्तितः ॥ ८॥
सर्वकामार्थसिद्धयर्थं जप एवमुदीरयेत् ।
ॐ स्फ्रेंबीजं शक्तिधृक् पातु शिरो मे पवनात्मजः ॥ ९॥
क्रौंबीजात्मा नयनयोः पातु मां वानरेश्वरः ।
क्षंबीजरूपः कर्णौ मे सीताशोकविनाशनः ॥ १०॥
ग्लौंबीजवाच्यो नासां मे लक्ष्मणप्राणदायकः ।
वंबीजार्थश्च कण्ठं मे पातु चाक्षयकारकः ॥ ११॥
ऐंबीजवाच्यो हृदयं पातु मे कपिनायकः ।
वंबीजकीर्तितः पातु बाहू मे चाञ्जनीसुतः ॥ १२॥
ह्रांबीजो राक्षसेन्द्रस्य दर्पहा पातु चोदरम् ।
ह्रसौंबीजमयो मध्यं पातु लङ्काविदाहकः ॥ १३॥
ह्रींबीजधरः पातु गुह्यं देवेन्द्रवन्दितः ।
रंबीजात्मा सदा पातु चोरू वार्धिलंघनः ॥ १४॥
सुग्रीवसचिवः पातु जानुनी मे मनोजवः ।
पादौ पादतले पातु द्रोणाचलधरो हरिः ॥ १५॥
आपादमस्तकं पातु रामदूतो महाबलः ।
पूर्वे वानरवक्त्रो मामाग्नेय्यां क्षत्रियान्तकृत् ॥ १६॥
दक्षिणे नारसिंहस्तु नैऋर्त्यां गणनायकः ।
वारुण्यां दिशि मामव्यात्खगवक्त्रो हरीश्वरः ॥ १७॥
वायव्यां भैरवमुखः कौबेर्यां पातु मां सदा ।
क्रोडास्यः पातु मां नित्यमैशान्यं रुद्ररूपधृक् ॥ १८॥
ऊर्ध्वं हयाननः पातु गुह्याधः सुमुखस्तथा ।
रामास्यः पातु सर्वत्र सौम्यरूपो महाभुजः ॥ १९॥
इत्येवं रामदूतस्य कवचं यः पठेत्सदा ।
एकादशमुखस्यैतद्गोप्यं वै कीर्तितं मया ॥ २०॥
रक्षोघ्नं कामदं सौम्यं सर्वसम्पद्विधायकम् ।
पुत्रदं धनदं चोग्रशत्रुसंघविमर्दनम् ॥ २१॥
स्वर्गापवर्गदं दिव्यं चिन्तितार्थप्रदं शुभम् ।
एतत्कवचमज्ञात्वा मन्त्रसिद्धिर्न जायते ॥ २२॥
चत्वारिंशत्सहस्राणि पठेच्छुद्धात्मको नरः ।
एकवारं पठेन्नित्यं कवचं सिद्धिदं पुमान् ॥ २३॥
द्विवारं वा त्रिवारं वा पठन्नायुष्यमाप्नुयात् ।
क्रमादेकादशादेवमावर्तनजपात्सुधीः ॥ २४॥
वर्षान्ते दर्शनं साक्षाल्लभते नात्र संशयः ।
यं यं चिन्तयते चार्थं तं तं प्राप्नोति पूरुषः ॥ २५॥
ब्रह्मोदीरितमेतद्धि तवाग्रे कथितं महत ॥ २६॥
इत्येवमुक्त्वा वचनं महर्षिस्तूष्णीं बभूवेन्दुमुखीं निरीक्ष्य ।
संहृष्टचित्तापि तदा तदीयपादा ननामातिमुदा स्वभर्तुः ॥ २७॥
॥ इत्यगस्त्यसारसंहितायामेकादशमुखहनुमत्कवचं सम्पूर्णम् ॥