एकीभावस्तोत्रम् (वादिराजप्रणीतम्)

एकीभावस्तोत्रम्
वादिराजः
१९२६

श्रीवादिराजप्रणीतं एकीभावस्तोत्रम् । एकीभावं गत इव मया यः स्वयं कर्मबन्धो घोरं दुःखं भवभवगतो दुर्निवारः करोति । १. बिम्बं प्रतिमा. २. वादिराजस्य देशकालौ न ज्ञायेते, किं त्वेतप्रणीतमेकीभा- वस्तोत्रं दिगम्वरा एव पठन्ति. अस्य स्तवस्य कर्तृनामरहितैका संक्षिप्तावचरिस्त्रीणि मूलपुस्तकानि चास्मामिर्जयपुर एव समधिगतानि. काव्यमाला। तस्याप्यस्य त्वयि जिनरवे भक्तिरुन्मुक्तये चे- ज्जेतुं शक्यो भवति न तया कोऽपरस्तापहेतुः ॥१॥ ज्योतीरूपं दुरितनिवहध्वान्तविध्वंसहेतुं त्वामेवाहुर्जिनवर चिरं तत्त्वविद्याभियुक्ताः । चेतोबासे भवसि च मम स्फारमुद्भासमान- स्तस्मिन्नंहः कथमिव तमो वस्तुतो वस्तुभीष्टे ॥ २ ॥ आनन्दाश्रुस्लपितवदनं गद्गदं चाभिजल्प- न्यश्चायेत त्वयि दृढमनाः स्तोत्रमन्त्रैर्भवन्तम् । तस्याभ्यस्तादपि च सुचिरं देहवल्मीकमध्या- न्निष्कास्यन्ते विविधविषमव्याधयः काद्रवेयाः ॥ ३ ॥ प्रागेवेह त्रिदिवभवनादेष्यता भव्यपुण्या- त्पृथ्वीचक्रं कनकमयतां देव निन्ये त्वयेदम् । ध्यानद्वारं मम रुचिकर स्वान्तगेहं प्रविष्ट- स्तत्किं चित्रं जिन वपुरिदं यत्सुवर्णीकरोषि ॥ ४ ॥ लोकस्यैकस्त्वमसि भगवन्निर्निमित्तेन बन्धु- स्त्वय्येवातौ सकलविषया शक्तिरप्रत्यनीका । भक्तिस्फीतां चिरमधिक्सन्मामिकां चित्रशय्यां मय्युत्पन्नं कथमिव ततः क्लेशयूथं सहेथाः ॥ ५ ॥ जन्माटव्यां कथमपि मया देव दीर्घं भ्रमित्वा प्राप्तैवेयं तव नयकथा स्फारपीयूषवापी । तस्या मध्ये हिमकरहिमव्यूहशीते नितान्तं निर्मग्नं मां न जहति कथं दुःखदावोपतापाः ॥ ६ ॥ पादन्यासादपि च पुनतो यात्रया ते त्रिलोकीं हेमाभासो भवति सुरभिः श्रीनिवासश्च पद्मः । १, पूजयेत्. 'चायृ पूजानिशामनयोः'. २. कुष्ठरोगाक्रान्तं मदीयं शरीरमिति टीकाकार:. एकीभावस्तोत्रम् । सर्वाङ्गेण स्पृशति भगवंस्त्वय्यशेषं मनो मे श्रेयः किं तत्स्वयमहरहर्यन्न मामभ्युपैति ॥ ७ ॥ पश्यन्तं त्वद्वचनममृतं भक्तिपाच्या पिबन्तं कर्मारण्यात्पुरुषमसमानन्दधाम प्रविष्टम् । त्वां दुर्वारस्मरमदहरं त्वत्प्रसादैकभूमिं क्रूराकाराः कथमिव रुजाकण्टका निर्लुठन्ति ॥ ८ ॥ पाषाणामा तदितरसमः केवलं रत्नमूर्ति- मानस्तम्भो भवति च परस्तादृशो रत्नवर्गः । दृष्टिप्राप्तो हरति स कथं मानरोगं नराणां प्रत्यासत्तिर्यदि न भवतस्तस्य तच्छक्तिहेतुः ॥ ९ ॥ हृद्यः प्राप्तो मरुदपि भवन्मूर्तिशैलोपवाही सद्यः पुंसां निरवधि रुजाधूलिबन्धं धुनोति । ध्यानाहूतो हृदयकमलं यस्य तु त्वं प्रविष्ट- स्तस्याशक्यः क इह भुवने देव लोकोपकारः ॥ १० ॥ जानासि त्वं मम भवभवे यच्च यादृक्च दुःखं जातं यस्य स्मरणमपि मे शस्त्रवन्निष्पिनष्टि । त्वं सर्वेशः सकृप इति च त्वामुपेतोऽस्मि भक्त्या यत्कर्तव्यं तदिह विषये देव एव प्रमाणम् ॥ ११ ॥ मापद्दैवं तव नुतिपदैर्जीवकेनोपदिष्टैः पापाचारी मरणसमये सारमेयोऽपि सौख्यम् । कः संदेहो यदुपलभते वासवश्रीप्रभुत्वं जल्पञ्जाप्यैर्मणिभिरमलैस्त्वन्नमस्कारचक्रम् ॥ १२ ॥ शुद्धे ज्ञाने शुचिनि चरिते सत्यपि त्वय्यनीचा भक्तिर्नो चेदनवधि सुखावञ्चिका कुञ्चिकेयम् । १. 'जीवक्रेन क्षत्रियवंशचूडामणिश्रीसत्यंघरमहाराजपुत्रेण' इति टीकाकारः.२. सौख्य- मित्यस्य दैवमिति विशेषणम्, सारमेयः श्वा. काव्यमाला। शक्योद्धाटं भवति हि कथं मुक्तिकामस्य पुंसो मुक्तिद्वारं परिदृढमहामोहमुद्राकवाटम् ॥ १३ ॥ प्रच्छन्नः खल्वयमघमयैरन्धकारैः समन्ता- त्पन्था मुक्तेः स्थपुटितपदः क्लेशगर्तैरगाधैः । तत्कस्तेन व्रजति सुखतो देव तत्वावभासी यद्यग्रेऽग्रे न भवति भवद्भारतीरत्नदीपः ॥ १४ ॥ आत्मज्योतिर्निधिरनवधिर्द्रष्टुरानन्दहेतुः कर्मक्षोणीपटलपिहितो योऽनवाप्यः परेषाम् । हस्ते कुर्वन्त्यनतिचिरतस्तं भवद्भक्तिभाजः स्तोत्रैर्बन्धप्रकृतिपरुषोदामधात्रीखनित्रैः ॥ १५ ॥ प्रत्युत्पन्नानयहिमगिरे रायता चामृताब्धे- र्या देव त्वत्पदकमलयोः संगता भक्तिगङ्गा । चेतस्तस्यां मम रुजिवशादाप्लुतं क्षालितांहः- कल्माषं यद्भवति किमियं देव संदेहभूमिः ॥ १६ ॥ प्रादुर्भूत स्थिरपदसुख त्वामनुध्यायतो मे त्वय्येवाहं स इति मतिरुत्पद्यते निर्विकल्पा । मिथ्यैवेयं तदपि तनुते तृप्तिमभ्रेषरूपां दोषात्मानोऽप्यभिमतफलास्त्वत्प्रसादाद्भवन्ति ॥ १७ ॥ मिथ्यावादं मलमपनुदन्सप्तभङ्गीतरङ्गै- र्वागम्भोधिर्भुवनमखिलं देव पर्येति यस्ते । तस्यावृत्ति सपदि विबुधाश्चेतसैवाचलेन व्यातन्वन्तः सुचिरममृतासेवया तृप्नुवन्ति ॥ १८ ॥ १. तत्वैः सप्तसंख्यैरवभासते यः. २. 'प्रकृतिस्थित्यनुभागप्रदेशा बन्धप्रकृतयः' इति टीका. ३. स्याद्वादनयहिमाचलात्. ४, स्यादस्ति, स्थानास्ति, स्यादस्ति नास्ति, स्थादवफव्यम् , स्वादस्त्यवक्तव्यम् , स्थानास्त्यवतन्यम् , स्यादति च नास्ति चाव- सव्यं न इति सत भनाः स्याद्वादनये प्रसिद्धाः. ५. घेतोपपर्वतेनावृत्ति मथनम्, एकीभावस्तोत्रम् । आहार्येभ्यः स्पृहयति परं यः स्वभावादहृद्यः शस्त्रग्राही भवति सततं वैरिणा यश्च शक्यः । सर्वाङ्गेषु त्वमसि सुभगस्त्वं न शक्यः परेषां तत्किं भूषावसनकुसुमैः किं च शस्त्रैरुदस्त्रैः ॥ १९ ॥ इन्द्रः सेवां तव सुकुरुतां किं तया श्लाघनं ते तस्यैवेयं भवलयकरीं श्लाध्यतामातनोति । त्वं निस्तारी जननजलधेः सिद्धिकान्तापतिस्त्वं त्वं लोकानां प्रभुरिति तब श्लाध्यते स्तोत्रमित्यम् ॥२०॥ वृत्तिर्वाचामपरसदृशी न त्वमन्येन तुल्यः स्तुत्युद्गाराः कथमिव ततस्त्वय्यमी नः क्रमन्ते । मैवं भूवंस्तदपि भगवन्भक्तिपीयूषपुष्टा- स्ते भव्यानामभिमतफलाः पारिजाता भवन्ति ॥ २१ ॥ कोपावेशो न तव न तव क्वापि देव प्रसादो व्याप्तं चेतस्तव हि परमोपेक्षयेवानपेक्षम् । आज्ञावश्यं तदपि भुवनं संनिधिर्वैरहारी क्वैवंभूतं भुवनतिलकं प्राभवं त्वत्परेषु ॥ २२ ।। देव स्तोतुं त्रिदिवगणिकामण्डलीगीतकीर्तिं तोतूर्ति त्वां सकलविषयज्ञानमूर्तिं जनो यः। तस्य क्षेमं न पदमटतो जातु जोइर्ति पन्था- स्तत्त्वग्रन्थस्मरणविषये नैष मोमूर्ति मर्त्यः ॥ २३ ॥ चित्ते कुर्वन्निरवधिसुखज्ञानहग्वीर्यरूपं देव त्वां यः समयनियमादादरेण स्तवीति । श्रेयोमार्गं स खलु सुकृती तावता पूरयित्वा कल्याणानां भवति विषयः पञ्चधा पञ्चितानाम् ॥ २४ ॥ . १. बाह्यभूषणादिभ्यः. २. प्रभुस्वम्. ३. स्तोतुं तोतूर्ति स्वरितो भवति. ४. कुटिलो भवति. ५. संदेहं प्राप्नोति.. विस्तृतानाम्. काव्यमाला। भक्तिप्रह्वमहेन्द्रपूजितपद त्वत्कीर्तने न क्षमाः सूक्ष्मज्ञानदृशोऽपि संयमभृतः के हन्त मन्दा वयम् । अस्माभिः स्तवनच्छलेन तु परस्त्वय्यादरस्तन्यते स्वात्माधीनसुखैषिणां स खलु नः कल्याणकल्पद्रुमः ॥२५॥ वादिराजमनु शाब्दिकलोको वादिराजमनु तार्किकसिंहः । वादिराजमनु काव्यकृतस्ते वादिराजमनु भव्यसहायः ॥ २६ ॥ इति श्रीवादिराजकृतमेकीभावस्तोत्रम् ॥