प्रमुखा विकल्पसूचिः उद्घाट्यताम्

एतादृशाः अंशाः किमर्थं न बोध्यन्ते ?

अयं लेखः सम्भाषणसन्देशः इत्येतस्यां संस्कृतमासपत्रिकायां प्रकाशितपूर्वः ।


1. विश्वे ऐदम्प्राथम्येन लेखनं कृतम् इत्यस्य प्रमाणं प्राप्यते हरप्पसंस्कृते: अङ्गतया । (सैन्स् रिपोर्टर्, जून् - 1999)
2.संस्कृतम् अतिप्राचीना भाषा । सर्वासां युरोपीयभाषाणां जननी सा । सङ्गणके तन्त्रांशलेखने सहजभाषारूपेण उपयोक्तुम् अर्हा सा एव । (फोरबेस् मेगझिन्, जुलै - 1987)
3.गतेषु दशसहस्रे वर्षेषु भारतेन अन्यदेशस्य उपरि कदापि आक्रमणं न कृतम् ।
4.ब्रिटिश्जनानाम् आक्रमणात् पूर्वं भारतं जगति अत्यन्तं सम्पद्भरितं राष्ट्रम् आसीत् ।
5.प्रपञ्चस्य प्रथम: विश्वविद्यालय: भारते तक्षशिलायाम् आसीत् क्रि.पू. सप्तमे शतके । अत्र प्रपञ्चस्य नानाकोणेभ्य: समागता: 10,500 विद्यार्थिन: पठन्ति स्म । षष्ट्यधिका: विषया: तत्र अध्याप्यन्ते स्म ।
6.वनस्पतिशास्त्रस्य उत्पत्ति: ऐदम्प्राथम्येन भारते एव जाता । वेदेषु सुव्यस्थितरूपेण विभिन्नानां सस्यानां वर्गीकरणं किंल्पतं दृश्यते ।
7.सर्वप्रथमा सुव्यवस्थिता आवासीया संस्कृति: क्रि.पू 2500 वर्षेभ्य: पूर्वं भारते एव स्थापिता आसीत् हरप्पमोहेञ्जोदारोप्रदेशयो: ।
8.प्रकाशस्य वेग: कियान् इति आधुनिकै: 17 शतके अवगतम् । स च विषय: ऋग्वेदे (1.40.4) एव उपवर्णित: । सायण: (1315-1387) स्वीये भाष्यश्लोकरूपेण एतम् अंशं निरूपयति ।
9.सूर्यात् निर्गत: प्रकाश: कदा भूमिं प्राप्नोति इत्येतां गणनाम् ऐदम्प्राथम्येन कृतवान् भास्कराचार्य: ।
10.युरोपीयगणितज्ञानां ज्ञानात् पूर्वम् एव षष्ठे शतके आचार्य: बोधायन: ‘पै’ (ळ) इत्यस्य मूल्यं निर्दिष्टवान् आसीत् । तदेव अद्य ‘पैथागोरस्प्रमेय’नाम्ना पाठ्यपुस्तकेषु निदिॅश्यते ।
11. क्रि.पू. 5000 पूर्वम् एव भारतीया: दशमानपद्धत्या गणनां जानन्ति स्म । सा एव पद्धति: अद्यापि उपयुज्यते समग्रे जगति ।
12. क्रि.पू.300 वर्षे अशोकस्य शिलाशासने अङ्कानाम् उपयोग: कृत: दृष्ट: । (प्रा ओ.एम्. मेथ्यू, भवन्स् जर्नल्)
13. भारते शून्यस्य (0) आविष्कारं ब्रह्मगुप्त: कृतवान् ।
14. आर्यभट: ऐदम्प्राथम्येन क्रि.पू. 499 तमे वर्षे ग्रहाणां गते: गणनां कृतवान् । (ज्यूयिष् एन्सैक्लोपीडिया) ।
15.क्रि.पू.200 वर्षेभ्य: पूर्वं भारते अङ्कगणितस्य आविष्कार: जात: । (एन्सैक्लोपीडिया ब्रिटानिका)
16. मोहेञ्जोदारो-हरप्पयो: प्राप्तानाम् अवशेषाणां कारणत: ज्ञायते यत् क्रि.पू. 2500 वर्षेभ्य: पूर्वम् एव भारतीया: रेखागणितीयां त्रिकोणमितिं जानन्ति स्म इति ।
17.जर्मन्लेखक: डा थामस्-आर्य: वदति - सिन्धुसभ्यतायां प्राप्तं वायुभारमापकयन्त्रं दर्शयति यत् भारतीयै: दशमलवप्रणाली बहुपूर्वम् एव ज्ञाता आसीत् इति ।
18.समयस्य कालस्य च गणनाय सज्जीकृता विश्वस्य प्रथमा दिनदर्शिका क्रि.पू. 505 तमे वर्षे सूर्यसिद्धान्तनामके स्वग्रन्थे सूर्यदेवेन वर्णिता अस्ति ।
19.न्यूटनात् बहुपूर्वम् एव भारतीय: भास्कराचार्य: गुरुत्वाकर्षणसिद्धान्तं प्रतिपादितवान् आसीत् । (ज्यूयिष्एन्सैक्लोपीडिया)
20.सिन्धुघट्टसभ्यताया: प्रमाणानि निरूपयन्ति यत् क्रि.पू. 25000 वर्षेभ्य: पूर्वम् एव भारतीया: ताम्रादिधातूनाम् उपयोगं जानन्ति स्म इति ।
21.वैदिकसाहित्ये विविधानां लोहानां प्रयोग: क्रियते स्म इत्यंश: उपवर्णित: अस्ति । अशोकस्तम्भ: (क्रि.श. 320-540) भारतीयानां धातुज्ञानस्य सुस्पष्टम् उदाहरणम् । (दि करेण्ट्सैन्स्)
22.विभिन्नरासायनिकप्रक्रियाणां रासायनिकवर्णानां च प्रयोग: पञ्चम्यां शताब्द्याम् एव भारते क्रियते स्म । (नेशनल् सैन्स् सेण्टर्, नई दिल्ली)
23.विश्वे ऐदम्प्राथम्येन औषधविज्ञानस्य विकास: भारते आयुर्वेदनाम्ना प्राचलत् । चरक: 2500 वर्षेभ्य: पूर्वम् औषधविज्ञानं विस्तरेण निरूपितवान् ।
24.‘लिम्का बुक् आफ् रेकाडर्स्’ वदति यत् चतुर्थशतकात् पूर्वं सुश्रुत: ऐदम्प्राथम्येन ‘प्लास्टिक्सर्जरी’ कृतवान् इति ।
25.सुश्रुत: शस्त्रचिकित्साजनक: । 2600 वर्षेभ्य: पूर्वमेव स: गर्भकोषत: शिशो: बहि: स्वीकरणम्, अस्थियोजनं, मूत्रकोषस्थ-शिलानिष्कासनं, मस्तिष्कचिकित्सा इत्यादी: क्लिष्टा: शस्त्रचिकित्सा: करोति स्म । प्रज्ञाशून्यकरणमपि प्राचीनभारते ज्ञातम् आसीत् । 128 शस्त्रचिकित्सोपकरणानि उपयुज्यन्ते स्म भारते । मानवशरीरशास्त्रम्, शरीररचना, गर्भस्थशिशुशास्त्रम्(Embryology) जीर्णाङ्गव्यवस्था, सन्ततिज्ञानम् (Genetics) विरोधशक्ति: (Immunity) इत्यादिषु विषयेषु निष्कृष्टं ज्ञानं प्राचीनानाम् आसीत् इत्यत्र बहूनि ग्रन्थप्रमाणानि उपलभ्यन्ते ।
26.रैट्सहोदरौ विमानस्य निर्माणं कृतवन्तौ इति श्रूयते । किन्तु तत: बहुभ्य: वर्षेभ्य: पूर्वं दयानन्दसरस्वतीवर्यस्य शिष्य: शिवकरजी ताल्पडेवर्य: मुम्बय्या: चौपाटीप्रदेशे वैदिकविध्यनुगुणं विमानं निर्माय उड्डयनं कृतवान् आसीत् इति वदति इतिहास: ।
27.सूर्यं परित: ग्रहा: भ्रमन्ति इति प्रतिपादितवान् कोपर्निकस: 15 शतके । अयम् अंश: यजुर्वेदे तैत्तिरीयसंहितायां (3.4.10. 34) विष्णुपुराणादिषु च प्राचीने काले एव निरूपित: आसीत् ।
28.प्लूटोग्रहस्य सत्तां 1930 तमे वर्षे क्लैड् टोम्बाग्नामक: विज्ञानी ज्ञापितवान् इति वयं शृणुम: । किन्तु तत: 20 वर्षेभ्य: पूर्वम् एव वेङ्कटेशकेतकर: एतस्य सत्ताया: विषये प्रबन्धं लिखितवान् आसीत् । (1911 - फ्रान्स्देशीया अस्ट्रानामिकल् सोसैटी बुलटेन्)
29.इटलीदेशीय: मार्कोनि: निस्तन्तुसाधनम् अन्विष्टवान् इति पाठ्यपुस्तकेषु लिख्यते । तत: पूर्वम् एव 1899 तमे वर्षे जगदीशचन्द्रबोस: लण्डन्नगरीयायां रायल्सोसैटीपत्रिकायाम् एतद्विषये स्वीयं शोधप्रबन्धं प्रकाशितवान् आसीत् । (इण्टर्-न्याषनल् इन्स्टिट्यूषन् आफ् इलेक्ट्रानिक्स् इञ्जनियरिङ्ग - 1911)
30.जगत: प्रथमा वैद्यपद्धति: आयुर्वेद: एव । ‘वैद्यकीयपिता’ इति प्रसिद्धेन चरकेन 2500 वर्षेभ्य: पूर्वमेव एषा पद्धति: आविष्कृता अस्ति ।
31. 6000 वर्षेभ्य: पूर्वं सिन्धुनदप्रदेशे नौकायानस्य आविष्कार: कृत: । कघऋउगऋक्तक शब्दोऽपि संस्कृतशब्दात् एव निर्गत: ।
32. सूर्यं परित: भूमे: भ्रमणसमय: भास्कराचार्येण खगोलज्ञस्य स्मार्टस्य आविष्कारात् शतकेभ्य: पूर्वमेव गणित: आसीत् । (5 शतके) (सूर्यं परित: परिभ्रमणाय भूम्या स्वीक्रियमाण: समय: - 365.258756484 दिनानि)
33. बीजगणितं (Algebra), त्रिकोनमिति: (Trignometry), निश्चितगणनापद्धति: (Calcules) इत्येतेषाम् उत्पत्तिस्थानं भारतम् अस्ति । ‘Quadratic Equations’ विषय: एकादशे शतके एव श्रीधराचार्येण आविष्कृत: अस्ति ।
34.हिन्दुभि: 5000 वर्षेभ्य: पूर्वमेव निर्दिष्टनामभि: उपयुज्यमाना महासङ्ख्या 1053 । अद्यापि आधुनिकै: उपयुज्यमाना महासंख्या अस्ति 1012 ।

एतादृशा: बहव: अंशा: सन्ति अस्माकम् इतिहासे । एवं गौरवशालिनि समृद्धे इतिहासे सत्यपि तत्रत्यानाम् अंशानां बोधने किमर्थम् अवसर: नास्ति अस्माकं पाठ्यक्रमे ? एतादृशान् अंशान् ज्ञातुम् अस्मच्छात्रा: किमर्थम् अवसरं न प्राप्नुवन्ति ?

आधारःसम्पाद्यताम्

'सम्भाषणसन्देशः' - जून् २००९