प्रमुखा विकल्पसूचिः उद्घाट्यताम्
ऐतरेय आरण्यकम्
अध्यायः १
अध्यायः २ →


भूमिमुपस्पृशेदग्न इळा नम इळा नम ऋषिभ्यो मन्त्रकृद्भ्यो मन्त्रपतिभ्यो नमो वो अस्तु देवेभ्यः शिवा नः शंतमा भव सुमृळीका सरस्वति मा ते व्योम संदृशि ।। भद्रं कर्णेभिः शृणुयाम देवा भद्रं पश्येमाक्षभिर्यजत्राः । स्थिरैरङ्गैस्तुष्टुवांसस्तनूभिर्व्यशेम देवहितु यदायुः ।। शं न इन्द्राग्नी भवतामवोभिर्गीर्भिर्मित्रावरुणा रातहव्या । शमिन्द्रासोमा सुविताय शं योः शं न इन्द्रापूषणा वाजसातौ ।। स्तुषे जनं सुव्रतं नव्यसीभिर्गीर्भिर्मित्रावरुणा सुम्नयन्ता । त आगमन्तु त इह श्रुवन्तु सुक्षत्रासो वरुणो मित्रो अग्निः ।। कया नश्चित्र आभुवदूती सदावृधः सखा । कया शचिष्ठया वृता ।। कस्त्वा सत्यो मदानां मंहिष्ठो मत्सदन्धसः । दृह्ळाचिदारुजे वसु ।। अभी षु णः सखीनामविता जरितॄणाम् । शतं भवास्यूतिभिः ।। स्योना पृथिवि भवानृक्षरा निवेशनी । यच्छा नः शर्म सप्रथः ।। ओष्ठापिधाना नकुली दन्तैः परिवृता पविः । सर्वस्यै वाच ईशाना चारुमामिह वादयेदिति वाग्रसः ।।
ॐ शान्तिः शान्तिः शान्तिः ।

।। अथ प्रथमारण्यकम् ।।

ओम् ।। अथ महाव्रतम् । इन्द्रो वै वृत्रं हत्वा महानभवद्यन्महानभवत्तन्महाव्रतमभवत्तन्महाव्रतस्य महाव्रतत्वम् । द्वे एतस्याह्न आज्ये कुर्यादिति हैक आहुरेकमिति त्वेव स्थितम्। प्र वो देवायाग्नय इति राद्धिकामः । विशो विशो वो अतिथिमिति पुष्टिकामः । पुष्टिर्वै विशः पुष्टिमान्भवतीति। अतिथिमिति पदं भवति नैतत्कुर्यादित्याहुरीश्वरोऽतिथिरेव चरितोः । तदु ह स्माह कुर्यादेव । यो वै भवति यः श्रेष्ठतामश्नुते स वा अति थिर्भवति । न वा असन्तमातिथ्यायाद्रियन्ते । तस्मादु काममेवैतकुर्यात् । स यद्येतत्कुर्यादागन्म वृत्रहन्तममित्येतं तृचं प्रथमं कुर्यात् । एतद्वा अहरीप्सन्तः संवत्सरमासते त आगछन्ति । त एतेऽनुष्टुप्शीर्षाणस्त्रयस्तृचा भवन्ति ब्रह्म वै गायत्री वागनुष्टुब्ब्रह्मणैव तद्वाचं संदधाति । अबोध्यग्निः समिधा जनानामिति कीर्तिकामः । होताजनिष्ट चेतन इति प्रजापशु कामः ।। १.१.१ ।।


अग्निं नरो दीधितिभिररण्योरित्यन्नाद्यकामः । अग्निर्वा अन्नादः । चिरतरमिव वा इतरेष्वाज्येष्यग्निमागछन्त्यथेह मुखत एवाग्निमागछन्ति मुखतोऽन्नाद्यमश्नुते मुखतः पाप्मानमपघ्नते । हस्तच्युती जनयन्तेति जातवदेतस्माद्वा अह्नो यजमानो जायते तस्माज्जातवत् । तानि चत्वारि छन्दांसि भवन्ति चतुष्पादा वै पशवः पशूनामवरुद्ध्यै । तानि त्रीणि छन्दांसि भवन्ति त्रयो वा इमे त्रिवृतो लोका एषामेव लोकानामभिजित्यै । ते द्वे छन्दसी भवतः प्रतिष्ठाया एव । द्विप्रतिष्ठो वै पुरुषश्चतुष्पादाः पशवो यजमानमेव तद्द्विप्रतिष्ठं चतुष्पात्सु पशुषु प्रतिष्ठापयति । ताः पराग्वचनेन पञ्चविंशतिर्भवन्ति पञ्चविंशोऽयं पुरुषो दश हस्त्या अङ्गुलयो दश पाद्या द्वा ऊरू द्वौ बाहू आत्मैव पञ्चविंशस्तमिममात्मानं पञ्चविंशं संस्कुरुते । अथो पञ्चविंशं वा एतदहः पञ्चविंश एतस्याह्न स्तोमस्तत्समेन समं प्रतिपद्यते तस्माद्द्वे एव पञ्चविंशतिर्भवन्ति । तास्त्रिः प्रथमया त्रिरुत्तमयैकया न त्रिंशन्न्यूनाक्षरा विराट् । न्यूने वै रेतः सिच्यते न्यूने प्राणा न्यूनेऽन्नाद्यं प्रतिष्ठितमेतेषां कामानामवरुद्ध्यै । एतान्कामानवरुन्धे य एवं वेद । ता अभिसंपद्यन्ते बृहतीं च विराजं च छन्दो यैतस्याह्नः संपत्तामथो अनुष्टुभमनुष्टुबायतनानि ह्याज्यानि ।।१.१.२।।


गायत्रं प्रउगं कुर्यादित्याहुस्तेजो वै ब्रह्मवर्चसं गायत्री तेजस्वी ब्रह्मवर्चसी भवतीति । औष्णिह प्रउगं कुर्यादित्याहुरायुर्वा उष्णिगायुष्मान्भवतीति । आनुष्टुभं प्रउगं कुर्यादित्याहुः क्षत्त्रं वा अनुष्टुप्क्षत्त्रस्याऽऽप्त्या इति बार्हतं प्रउगं कुर्यादित्याहुः श्रीर्वै बृहती श्रीमान्भवतीति पाङ्क्तं प्रउगं कुयादित्याहुरन्नं वै पङ्क्तिरन्नवान्भवतीति त्रैष्टुभं प्रउगं कुर्यादित्याहुर्वीर्यं वै त्रिष्टुब्वीर्यवान्भवतीति जागतं प्रउगं कुर्यादित्याहुर्जागता वै पशवः पशुमान्भवतीति, इति । तदु गायत्रमेव कुर्याद्ब्रह्म वै गायत्री ब्रह्मैतदहर्ब्रह्मणैव तद्ब्रह्म प्रतिपद्यते, इति । तदु माधुच्छन्दसम्, इति । मधु ह स्म वा ऋषिभ्यो मधुच्छन्दाश्छन्दति तन्मधुच्छन्दसो मधुच्छन्दस्त्वम्, इति । अथो अन्नं वै मधु सर्वं वै मधु सर्वे वै कामा मधु तद्यन्माधुच्छन्दसं शंसति सर्वेषां कामानामवरुद्ध्यै, इति । सर्वान्कामानवरुन्धे य एवं वेद, इति । तद्वैकाहिकं रूपसमृद्धं बहु वा एतस्मिन्नहनि किंच किंच वारणं क्रियते शान्त्या एव शान्तिर्वै प्रतिष्ठैकाहः शान्त्यामेव तत्प्रतिष्ठायामन्ततः प्रतितिष्ठन्ति, इति । प्रतितिष्ठति य एवं वेद येषां चैवं विद्वानेतद्धोता शंसति, इति ।।
इत्यैतरेयब्राह्मणारण्यकाण्डे प्रथमारण्यके प्रथमाध्याये तृतीयः खण्डः ।। १.१.३ ।।


वायवायाहि दर्शतेमे सोमा अरं कृता इत्येतद्वा अहररं यजमानाय च देवेभ्यश्च, इति । अरं हास्मा एतदहर्भवति य एवं वेद येषा चैवं विद्वानेतद्धोता शंसति, इति । इन्द्रवायू इमे सुता आयातमुपनिष्कृतमिति यद्वै निष्कृतं तत्संस्कृतम्, इति । आ हास्येन्द्रवायू संस्कृतं गच्छतो य एवं वेद येषां चैवं विद्वानेतद्धोता शंसति, इति । मित्रं हुवे पूतदक्षं धियं घृताचीं साधन्तेति वाग्वै धीर्घृताची इति । वाचमेवास्मिंस्तद्दधाति य एवं वेद येषां चैवं विद्वानेतद्धोता शंसति, इति । अश्विना यज्वरीरिष इत्यन्नं वा इषोऽन्नाद्यस्यावरुद्धयै, इति । आयातं रुद्रवर्तनी इति, इति । आ हास्याश्विनौ यज्ञं गच्छतो य एवं वेद येषां चैवं विद्वानेतद्धोता शंसति इति । इन्द्राऽऽयाहि चित्रभानविन्द्राऽऽयाहि धियेषित इन्द्राऽऽयाहि तूतुजान इत्यायाह्यायाहीति शंसति, इति । आ हास्येन्द्रो गच्छति य एवं वेद येषां चैवं विद्वानेतद्धोता शंसति, इति । ओमासश्चर्षणीधृतो विश्वे देवास आगतेति, इति । आ हास्य विश्वे देवा हवं गच्छन्ति य एवं वेद येषां चैवं विद्वानेतद्धोता शंसति, इति । दाश्वांसो दाशुषः सुतमिति यदाह ददुषो ददुषः सुतमित्येव तदाह, इति । ददति हास्मै तं कामं देवा यत्काम एतच्छंसति, इति । य एवं वेद येषां चैवं विद्वानेतद्धोता शंसति, इति । पावका नः सरस्वती यज्ञं वष्टु धियावसुरिति वाग्वै धियावसुः, इति । वाचमेवास्मिंस्तद्दधाति य एवं वेद येषां चैवं विद्वानेतद्धोता शंसति, इति । यज्ञं वष्ट्विति यदाह यज्ञं वहत्वित्येव तदाह, इति । ताः पराग्वचनेनैकविंशतिर्भवन्त्येकविंशोऽयं पुरुषो दश हस्त्या अङ्गुलयो दश पाद्या आत्मैकविंशस्तमिममात्मानमेकविंशं संस्कुरुते, इति । तास्त्रिः प्रथमया त्रिरुत्तमया पञ्चविंशतिर्भवन्ति पञ्चविंश आत्मा पञ्चविंशः प्रजापतिर्दश हस्त्या अङ्गुलयो दश पाद्या द्वा ऊरू द्वौ बाहू आत्मैव पञ्चविंशस्तमिममात्मानं पञ्चविंशं संस्कुरुतेऽथो पञ्चविंशं वा एतदहः पञ्चविंश एतस्याह्नः स्तोमस्तत्समेन समं प्रतिपद्यते तस्माद्द्वे एव पञ्चविंशतिर्भवन्ति भवन्ति, इति ।। इत्यैतरेयब्राह्मणारण्यकाण्डे प्रथमारण्यके प्रथमाध्याये चतुर्थः खण्डः ।। १.१.४ ।।

इति बहवृचब्राह्मणारण्यकाण्डे प्रथमारण्यके प्रथमाऽध्यायः ।। १ ।।