3.1.1

अथ तृतीयारण्यकम् । प्रथमोऽध्यायः तत्र प्रथमः खण्डः

अथातः संहिताया उपनिषत्, इति । पृथिवी पूर्वरूपं द्यौरुत्तररूपं वायुः संहितेति माण्डूकेय आकाशः संहितेत्यस्य माक्षव्यो वेदयांचक्रे, इति । स हाविपरिहृतो मेने न मेऽस्य पुत्रेण समगादिति, इति । समाने वै तत्परिहृतो मेन इत्यागस्त्यः समानं ह्येतद्भवति वायुश्चाऽऽकाशश्चेति, इति । इत्यधिदैवतमथाध्यात्मम्, इति । वाक्पूर्वरूपं मन उत्तररूपं प्राणः संहितेति शूरवीरो माण्डूकेयः, इति । अथ हास्य पुत्र आह ज्येष्ठो मनः पूर्वरूपं वागुत्तररूपं मनसा वा अग्रे संकल्पयत्यथ वाचा व्याहरति तस्मान्मन एव पूर्वरूपं वागुत्तररूपं प्राणस्त्वेव संहितेति, इति । समानमेनयोरत्र पितुश्च पुत्रस्य च, इति । स एषोऽश्वरथः प्रष्टिवाहनो मनोवाक्प्राणसंहतः, इति । स य एवमेतां सहितां वेद संधीयते प्रजया पशुभिर्यशसा ब्रह्मवर्चसेन स्वर्गेण लोकेन सर्वमायुरेति, इति । इति नु माण्डूकेयानाम्, इति ।।
इत्यैतरेयब्राह्मणारण्यककाण्डे तृतीयारण्यके प्रथमाध्याये प्रथमः खण्डः ।। १ ।।

3.1.2

अथ शाकल्यस्य, इति । पृथिवी पूर्वरूपं द्यौरुत्तररूपं वृष्टिः संधिः पर्जन्यः संधाता, इति । तदुतापि यत्रैतद्बलवदनूद्गृह्णन्त्संदधदहोरात्रे वर्षति, इति । द्यावापृथिव्यौ समधातामित्युताप्याहुः, इति । इती न्वधिदैवतमथाध्यात्मम्, इति । पुरुषो ह वा अयं सर्व आन्दं द्वे बिदले भवत इत्याहुस्तस्येदमेव पृथिव्या रूपमिदं दिवस्तत्रायमन्तरेणाऽऽकाशो यथाऽसौ द्यावापृथिव्यावन्तरेणाऽऽकाशस्तस्मिन्हस्मिन्नाकाशे प्राण आयत्तो यथाऽमुष्मिन्नाकाशे वायुरायत्तो यथाऽमूनि त्रीणि ज्योतींष्येवमिमानि पुरुषे त्रीणि ज्योतींषि, इति । यथाऽसौ दिव्यादित्य एवमिदं शिरसि चक्षुर्यथाऽसावन्तरिक्षे विद्युदेवमिदमात्मनि हृदयं यथाऽयमग्निः पृथिव्यामेवमिदमुपस्थे रेतः, इति । एवमु ह स्म सर्वलोकमात्मानमनुविधायाऽऽहेदमेव पृथिव्या रूपमिदं दिवः, इति । स य एवमेतां संहितां वेद संधीयते प्रजया पशुभिर्यशसा ब्रह्मवर्चसेन स्वर्गेण लोकेन सर्वमायुरेति, इति ।।
इत्यैतरेयब्राह्मणारण्यककाण्डे तृतीयारण्यके प्रथमाध्याये द्वितीयः खण्डः ।। २ ।।

3.1.3

अथातो निर्भुजप्रवादाः, इति । पृथिव्यायतनं निर्भुजं दिव्यायतनं प्रतृण्णमन्तरिक्षायतनमुभयमन्तरेण, इति । अथ यद्येनं निर्भुजं ब्रुवन्तमुपवदेदच्योष्टाऽवराभ्यां स्थानाभ्यामित्येनं ब्रूयादथ यद्येनं प्रतृण्णं ब्रुवन्तमुपवदेदच्योष्टा उत्तराभ्यां स्थानाभ्यामित्येनं ब्रूयाद्यस्त्वेवोभयमन्तरेणाऽऽह तस्य नास्त्युपवादः, इति । यद्धि संधिं विवर्तयति तन्निर्भुजस्य रूपमथ यच्छुद्धे अक्षरे अभिव्याहरति तत्प्रतृण्णस्याग्र उ एवोभयमन्तरेणोभयं व्याप्तं भवति, इति । अन्नाद्यकामो निर्भुजं ब्रूयात्स्वर्गकामः प्रतृण्णमुभयकाम उभयमन्तरेण, इति । अथ यद्येनं निर्भुजं ब्रुवन्तं पर उपवदेत्पृथिवीं देवतामारः पृथिवी त्वा देवता रिष्यतीत्येनं ब्रूयादथ यद्येनं प्रतृण्णं ब्रुवन्तं पर उपवदेद्दिवं देवतामारो द्यौस्त्वा देवता रिष्यतीत्येनं ब्रूयादथयद्येनमुभयमन्तरेण ब्रुवन्तं पर उपवदेदन्तरिक्षं देवतामा-रोऽन्तरिक्षं त्वा देवता रिष्यतीत्येनं ब्रूयात्, इति । यथा तु कया च ब्रुवन्वाऽब्रुवन्तं वा ब्रूयादभ्याशमेव यत्तथा स्यात्, इति । न त्वेवान्यत्कुशलाद्ब्राह्मणं ब्रूयात्, इति । अतिद्युम्न एव ब्राह्मणं ब्रूयात्, इति । नातिद्युम्ने चन ब्राह्मणं ब्रूयान्नमो अस्तु ब्राह्मणेभ्य इति ह स्माऽऽह शूरवीरो माण्डूकेयः, इति ।।
इत्यैतरेयब्राह्मणारण्यककाण्डे तृतीयारण्यके प्रथमाध्याये तृतीयः खण्डः ।। ३ ।।

3.1.4

अथातोऽनुव्याहाराः, इति । प्राणो वंश इति विद्यात्, इति । स य एनं प्राणवंशमुपवदेच्छक्नुवन्चेन्मन्येत प्राणं वंशं समधा३म्, प्राणं मा वंशं संदधतं न शक्नोषीत्याह प्राणस्त्वा वंशो हास्यतीत्येनं ब्रूयात, इति । अथ चेदशक्नुवन्तं मन्येत प्राणं वंशं समधित्सिषन्तं नाशकः संधातुं प्राणस्त्वा वंशो हास्यतीत्येनं ब्रूयात्, इति । यथा तु कथा च ब्रुवन्वाऽब्रुवन्तं वा ब्रूयादभ्याशमेव यत्तथा स्यान्न त्वेवान्यत्कुशलाद्ब्राह्मणं ब्रूयादतिद्युम्न एव ब्राह्मणं ब्रूयान्नातिद्युम्ने चन ब्राह्मणं ब्रूयान्नमो अस्तु ब्राह्मणेभ्य इति ह स्माऽऽह शूरवीरो माण्डूकेयः, इति ।। इत्यैतरेयब्राह्मणारण्यककाण्डे तृतीयारण्यके प्रथमाध्याये चतुर्थः खण्डः ।। ४ ।।

3.1.5

अथ खल्वाहुर्निर्भुजवक्त्राः, इति । पूर्वमक्षरं पूर्वरूपमुत्तरमुत्तररूपं योऽवकाशः पूर्वरूपोत्तररूपे अन्तरेण सा संहितेति, इति ।
स य एवमेतां संहितां वेद संधीयते प्रजया पशुभिर्यशसा ब्रह्मवर्चसेन स्वर्गेण लोकेन सर्वमायुरेति, इति । अथ वयं ब्रूमो निर्भुजवक्त्रा इति ह स्माऽऽह ह्रस्वो माण्डूकेयः पूर्वमेवाक्षरं पूर्वरूपमुत्तरमुत्तररूपं योऽवकाशः पूर्वरूपोत्तररूपे अन्तरेण येन संधिं विवर्तयति येन स्वरास्वरं विजानाति येन मात्रामात्रां विभजते सा संहितेति इति । स य एवमेतां संहितां वेद संधीयते प्रजया पशुभिर्यशसा ब्रह्मवर्चसेन स्वर्गेण लोकेन सर्वमायुरेति, इति । अथ हास्य पुत्र आह मध्यमः प्रातीबोधीपुत्रोऽक्षरे खल्विमे अविकर्षन्ननेकीकुर्वन्यथावर्णमाह तद्याऽसौ मात्रा पूर्वरूपोत्तररूपे अन्तरणे संधिविज्ञपनी साम तद्भवति सामैवाहं संहितां मन्य इति, इति । तदप्येतदृषिणोक्तम्, इति । बृहस्पते न परः साम्नो विदुरिति, इति । स य एवमेतां संहितां वेद संधीयते प्रजया पशुभिर्यशसा ब्रह्मवर्चसेन स्वर्गेण लोकेन सर्वमायुरेति, इति ।
इत्यैतरेयब्राह्मणारण्यककाण्डे तृतीयारण्यके प्रथमाध्याये पञ्चमः खण्डः ।। ५ ।।

3.1.6

वृहद्रथंतरयो रूपेण संहिता संधीयत इति तार्क्ष्यः, इति । वाग्वै रथंतरस्य रूपं प्राणो बृहत उभाभ्यामु खलु संहिता संधीयते वाचा च प्राणेन च, इति । एतस्यां ह स्मोपनिषदि संवत्सरं गा रक्षयते तार्क्ष्यः, इति। एतस्यां ह स्म मात्रायां संवत्सरं गा रक्षयते तार्क्ष्यः, इति । तदप्येतदृषिणोक्तम्, इति । स य एवमेतां संहितां वेद संधीयते प्रजया पशुभिर्यशसा ब्रह्मवर्चसेन स्वर्गेण लोकेन सर्वमायुरेति, इति । वाक्प्राणेन संहितेति कौण्ठरव्यः प्राणः पवमानेन पवमानो विश्वैर्देवैर्विश्वे देवाः स्वर्गेण लोकेन स्वर्गो लोको ब्रह्मणा सैषाऽवरपरा संहिता, हति । स यो हैतामवरपरां संहितां वेदैवं हैव स प्रजया पशुभिर्यशसा ब्रह्मवर्चसेन स्वर्गेण लोकेन संधीयते यथैषा संहिता, इति । स यदि परेण वोपसृतः स्वेन वाऽर्थेनाभिव्याहरेदभिव्याहार्षन्नेव विद्याद्दिवं संहिताऽगमद्विदुषां
देवानामेवं भविष्यतीति शश्वत्तथा स्यात्, इति । स य एवमेतां संहितां वेद संधीयते प्रजया पशुभिर्यशसा ब्रह्मवर्चसेन स्वर्गेण लोकेन सर्वमायुरेति, इति । वाक्संहितेति पञ्चालचण्डः, इति । वाचा वै वेदाः संधीयन्ते वाचा छन्दांसि वाचा मित्राणि संदधति वाचा सर्वाणि भूतान्यथो वागेवेदं सर्वमिति, इति । तद्यत्रैतदधीते वा भाषते वा वाचि तदा प्राणो भवति वाक्तदा प्राणं रेह्ळ्यथ यत्र तूष्णीं वा भवति स्वपिति वा प्राणे तदा वाग्भवति प्राणस्तदा वाचं रेह्ळि ताव न्योन्यं रीह्ळो वाग्वै माता प्राणः पुत्रः, इति । तदप्येतदृषिणोक्तम्, इति । एकः सुपर्णः स समुद्रमाविवेश स इदं विश्वं भुवनं विचष्टे । तं पाकेन मनसाऽपश्यमन्तितस्तं माता रेह्ळि स उ रेह्ळि मातरमिति, इति । स य एवमेतां संहितां वेद संधीयते प्रजया पशुभिर्यशसा ब्रह्मवर्चसेन स्वर्गेण लोकेन सर्वमायुरेति, इति । अथातः प्रजापतिसंहिता, इति । जाया पूर्वरूपं पतिरुत्तररूपं पुत्रः संधिः प्रजननं संधानं सैषाऽदितिः संहिता, इति । अदितिर्हीदं सर्वं यदिदं किंच पिता च माता च पुत्रश्च प्रजननं च, इति । तदप्येतदृषिणोक्तम्, इति । अदितिर्माता स पिता स पुत्र इति, इति । स य एवमेतां संहितां वेद संधीयते प्रजया पशुभिर्यशसा ब्रह्मवर्चसेन स्वर्गेण लोकेन सर्वमायुरेति सर्वमायुरेति, इति ।।
इत्यैतरेयब्राह्मणारण्यककाण्डे तृतीयारण्यके प्रथमाध्याये षष्ठः खण्डः ।। ६ ।।
इति बहवृचब्राह्मणारण्यककाण्डे तृतीयारण्यके प्रथमोऽध्यायः ।। १ ।।

3.2.1

प्राणो वंश इति स्थविरः शाकल्यस्तद्यथा शालावंशे सर्वेऽन्ये वंशाः समाहिताः स्युरेवमस्मिन्प्राणे चक्षुः श्रोत्रं मनो वागिन्द्रियाणि शरीरं सर्व आत्मा समाहितः, इति। तस्यैतस्याऽऽत्मनः प्राण ऊष्मरूपमस्थीनि स्पर्शरूपं मज्जानः स्वररूपं मांसं लोहितमित्येतदन्यच्चतुर्थमन्तस्था रूपमिति ह स्माऽऽह ह्रस्वो माण्डूकेयः, इति । त्रयं त्वेव न एतत्प्रोक्तम्, इति । तस्यैतस्य त्रयस्यास्थ्नां मज्ज्ञां पर्वणामिति त्रीणीतः षष्टि शतानि त्रीणीतस्तानि सप्तविंशतिशतानि भवन्ति सप्त च वै शतानि विंशतिश्च संवत्सरस्याहोरात्राः स एषोऽहःसंमानश्चक्षुर्मयः श्रोत्रमयश्छन्दोमयो मनोमयो वाङ्मय आत्मा, इति । स य एवमेतमहःसंमानं चक्षुर्मयं श्रोत्रमयं छन्दोमयं मनो-मयं वाङ्मयमात्मानं वेदाह्नां सायुज्यं सरूपतां सलोकतामश्नुते पुत्री पशुमान्भवति सर्वमायुरेति, इति । इत्यैतरेयब्राह्मणारण्यककाण्डे तृतीयारण्यके द्वितीयाध्याये प्रथमः खण्डः ।। १ ।। (७)

3.2.2

अथ कौण्ठरव्यः, इति । त्रीणि षष्टि शतान्यक्षराणां त्रीणि षष्टि शतान्यूष्मणां त्रीणि षष्टि शतानि संधीनाम्, इति ।
यान्यक्षराण्यवोचामाहानि तानि यानूष्मणोऽवोचाम रात्रयस्ता यान्त्संधीनवोचामाहोरात्राणां ते संधय इत्यधिदैवतम्, इति ।
अथाध्यात्मं यान्यक्षराण्यधिदैवतमवोचामास्थीनि तान्यध्यात्मं यानूष्मणोऽधिदैवतमवोचाम मज्जानस्तेऽध्यात्मम्, इति । एष ह वै संप्रति प्राणो यन्मज्जैतद्रेतो न ह वा ऋते प्राणाद्रेतः सिच्यते यद्वा ऋते प्राणाद्रेतः सिच्येत पूयेन्न संभवेत् इति ।
यान्त्संधीनधिदैवतमवोचाम पर्वाणि तान्यध्यात्मम् इति । तस्यैतस्य त्रयस्यास्थ्नां मज्ज्ञां पर्वणामिति पञ्चेतश्च त्वारिंशच्छतानि पञ्चेतस्तदशीतिसहस्रं भवत्यशीतिसहस्रं वा अर्कलिनो बृहतीरहरभिसंपादयन्ति , इति । स एषोऽक्षरसंमानश्चक्षुर्मयः श्रोत्रमयश्छन्दोमयो मनोमयो वाङ्मय आत्मा, इति । स य एवमेतमक्षरसंमानं चक्षुर्मयं श्रोत्रमयं छन्दोमयं मनोमयं वाङ्मयमात्मानं वेदाक्षराणां सायुज्यं सरूपतां सलोकतामश्नुते पुत्री पशुमान्भवति सर्वमायुरेति, इति ।।
इत्यैतरेयब्राह्मणारण्यककाण्डे तृतीयारण्यके द्वितीयाध्याये द्वितीयः खण्डः ।। २ ।। ( ८)

3.2.3

चत्वारः पुरुषा इति बाध्वः, इति । शरीरपुरुषश्छन्दःपुरुषो वेदपुरुषो महापुरुष इति, इति । शरीरपुरुष इति यमवोचाम स य एवायं दैहिक आत्मा तस्य योऽयमशरीरः प्रज्ञात्मा स रसः, इति । छन्दःपुरुष इति यमवोचामाक्षरसमाम्नाय एव तस्यैतस्याकारो रसः, इति । वेदपुरुष इति यमवोचाम येन वेदान्वेद ऋग्वेदं यजुर्वेदं सामवेदं तस्यैतस्य ब्रह्मा रसः, इति । तस्माद्ब्रह्माणं ब्रह्मिष्ठं कुर्वीत यो यज्ञस्योल्बणं पश्येत्, इति । महापुरुष इति यमवोचाम संवत्सर एव प्रध्वंसयन्नन्यानि भूतान्यैक्या भावयन्नन्यानि तस्यैतस्यासावादित्यो रसः, इति । स यश्चायमशरीरः प्रज्ञात्मा यश्चासावादित्य एकमेतदिति विद्यात्तस्मात्पुरुषं पुरुषं प्रत्यादित्यो भवति, इति । तदप्येतदृषिणोक्तम्, इति । चित्रं देवानामुदगादनीकं चक्षुर्मित्रस्य वरुणस्याग्नेः । आप्रा द्यावापृथिवी अन्तरिक्षं सूर्य आत्मा जगतस्तस्थुषश्चेति, इति । एतामनुविधं संहितां संधीयमानां मन्य इति ह स्माऽऽह बाध्वः, इति । एतं ह्येव बह्वृचा महत्युक्थे मीमांसन्त एतमग्नावध्वर्यव एतं महाव्रते छन्दोगा एतमस्यामेतं दिव्येतं वायावेतमाकाश एतमप्स्वेतमोषधीश्वेतं वनस्पतिष्वेतं चन्द्रमस्येतं नक्षत्रेष्वेतं सर्वेषु भूतेष्वेतमेव ब्रह्मेत्याचक्षते, इति । स एष संवत्सरसंमानश्चक्षुर्मयः श्रोत्रमयश्छन्दोमयो मनोमयो वाङ्मय आत्मा, इति । स य एवमेतं संवत्सरसंमानं चक्षुर्मयं श्रोत्रमयं छन्दोमयं मनोमयं वाङ्मयमात्मानं परस्मै शंसति, इति ।।
इत्यैतरेयब्राह्मणारण्यककाण्डे तृतीयारण्यके द्वितीयाध्याये तृतीयः खण्डः ।। ३ ।। ( ९)

3.2.4

दुग्धदोहा अस्य वेदा भवन्ति न तस्यानूक्ते भागोऽस्ति न वेद सुकृतस्य पन्थानमिति, इति । तदप्येतदृषिणोक्तम्, इति । यस्तित्याज सचिविदं सखायं न तस्य वाच्यपि भागो अस्ति । यदीं शृणोत्यलकं शृणोति न हि प्रवेद सुकृतस्य पन्थामिति, इति । न तस्यानूक्ते भागोऽस्ति न वेद सुकृतस्य पन्थानमित्येतत्तदुक्तं भवति, इति । तस्मादेवं विद्वान्न परस्मा अग्निं चिनुयान्न परस्मै महाव्रतेन स्तुवीत न परस्मा एतदहः शंसेत्, इति । कामं पित्रे वाऽऽचार्याय वा शंसेदात्मन एवास्य तत्कृतं भवति, इति । स यश्चायमशरीरः प्रज्ञात्मा यश्चासावादित्य एकमेतदि त्यवोचाम तौ यत्र विहीयेते चन्द्रमा इवाऽऽदित्यो दृश्यते न रश्मयः प्रादुर्भवन्ति लोहिनी द्यौर्भवति यथा मञ्जिष्ठा व्यस्तः पायुः काककुलायगन्धिकमस्य शिरो वायति संपरेतोऽस्याऽऽऽत्मा न चिरमिव जीविष्यतीति विद्यात्, इति । स यत्करणीयं मन्येत तत्कुर्वीत यदन्ति यच्च दूरक इति सप्त जपेदादित्प्रत्नस्य रेतस इत्येका यत्र ब्रह्मा पवमानेति षळुद्वयं तमसस्परीत्येका, इति । अथापि यत्र च्छिद्र इवाऽऽदित्यो दृश्यते रथनाभिरिवाभिख्यायेत च्छिद्रां वा छायां पश्येत्तदप्येवमेव विद्यात्, इति । अथाप्यादर्शे वोदके वा जिह्मशिरसं वाऽशिरसं वाऽऽत्मानं पश्येद्विपर्यस्ते वा कन्याके जिह्मेन वा दृश्येयातां तदप्येवमेव विद्यात्, इति । अथापिधायाक्षिणी उपेक्षेत तद्यथा बटरकाणि संपतन्तीव दृश्यन्ते तानि यदा न पश्येत्तदप्येवमेव विद्यात्, इति । अथाप्यपिधाय कर्णा उपशृणुयात्स एषोऽग्नेरिव प्रज्वलतो रथस्येवोपब्दिस्तं यदा न शृणुयात्तदप्येवमेव विद्यात्, इति । अथापि यत्र नील इवाग्निर्दृश्यते यथा मयूरग्रीवा मेघे वा विद्युतं पश्येन्मेघे वा विद्युतं न पश्येन्महामेघे वा मरीचीरिव पश्येत तदप्येवमेव विद्यात्, इति । अथापि यत्र भूमिं ज्वलन्तीमिव पश्येत तदप्येवमेव विद्यात्, इति । इति प्रत्यक्षदर्शनानि, इति । अथ स्वप्नाः, इति । पुरुषं कृष्णं कृष्णदन्तं पश्यति स एनं हन्ति वराह एनं हन्ति मर्कट एनमास्कन्दयत्याशु वायुरेनं प्रवहति सुवर्णं खादित्वाऽपगिरति मध्वश्नाति बिसानि भक्षयत्येकपुण्डरीकं धारयति खरैर्वराहैर्युक्तैर्याति कृष्णां धेनुं कृष्णवत्सां नलदमाली दक्षिणामुखो व्राजयति, इति । स यद्येतेषां किंचित्पश्येदुपोष्य पायसं स्थालीपाकं श्रपयित्वा रात्रीसूक्तेन प्रत्यृचं हुत्वाऽन्येनान्नेन ब्राह्मणान्भोजयित्वा चरुं स्वयं प्राश्नीयात्, इति । स योऽतोऽश्रुतोऽगतोऽमतोऽनतोऽदृष्टोऽविज्ञातोऽनादिष्टः श्रोता मन्ता द्रष्टाऽऽदेष्टा घोष्टा विज्ञाता प्रज्ञाता सर्वेषां भूतानामन्तरपुरुषः स म आत्मेति विद्यात्, इति ।। इत्यैतरेयब्राह्मणारण्यककाण्डे तृतीयारण्यके द्वितीयाध्याये चतुर्थः खण्डः ।। ४ ।। ( १०)

3.2.5

अथ खल्वियं सर्वस्यै वाच उपनिषत्सर्वा ह्येवेमाः सर्वस्यै वाच उपनिषद इमां त्वेवाऽऽचक्षते, इति । पृथिव्या रूपं स्पर्शा अन्तरिक्षस्योष्मणो दिवः स्वरा अग्ने रूपं स्पर्शा वायोरूष्माण आदित्यस्य स्वरा ऋग्वेदस्य रूपं स्पर्शा यजुर्वेदस्योष्माणः सामवेदस्य स्वराश्चक्षुषो रूपं स्पर्शाः श्रोत्रस्योष्माणो मनसः स्वराः प्राणस्य रूपं स्पर्शा अपानस्योष्माणो व्यानस्य स्वराः, इति । अथ खल्वियं दैवी वीणा भवति तदनुकृतिरसौ मानुषी वीणा भवति, इति । यथाऽस्याः शिर एवममुष्याः शिरो यथाऽस्या उदरमेवममुष्या अम्भणं यथाऽस्यै जिह्वैवममुष्यै वादनं यथाऽस्यास्तन्त्रय एवममुष्या अङ्गुलयो यथाऽस्याः स्वरा एवममुष्याः स्वरा यथाऽस्याः स्पर्शा एवममुष्याः स्पर्शा यथा ह्येवेयं शब्दवती तर्द्मवत्येवमसौ शब्दवती तर्द्मवती यथा ह्येवेयं लोमशेन चर्मणाऽपिहिता भवत्येवमसौ लोमशेन चर्मणाऽपिहिता, इति । लोमशेन ह स्म वै चर्मणा पुरा वीणा अपिदधति, इति । स यो हैतां दैवीं वीणां वेद श्रुतवदनो भवति भूमिप्राऽस्य कीर्तिर्भवति यत्र क्वचाऽऽर्या वाचो भाषन्ते विदुरेनं तत्र, इति । अथातो वाग्रसो यस्यां संसद्यधीयानो वा भाषमाणो वा न विरुरुचुषेत तत्रैतामृचं जपेत्, इति । ओष्ठापिधाना न कुलीदन्तैः परिवृता पविः । सर्वस्यै वाच ईशाना चारु मामिह वादयेदिति वाग्रसः, इति ।
इत्यैतरेयब्राह्मणारण्यककाण्डे तृतीयारण्यके द्वितीयाध्याये पञ्चमः खण्डः ।। ५ ।। ( ११)

3.2.6

अथ हास्मा एतत्कृष्णहारितो वाग्ब्राह्मणमिवोपोदाहरति, इति । प्रजापतिः प्रजाः सृष्ट्वा व्यस्रंसत संवत्सरः स च्छन्दोभिरात्मानं समदधाद्यच्छन्दोभिरात्मानं समदधात्तस्मात्संहिता, इति । तस्यै वा एतस्यै संहितायै णकारो बलं षकारः प्राण आत्मा, इति । स यो हैतौ णकारषकारावनुसंहितमृचो वेद सबलां सप्राणां संहितां वेदाऽऽयुष्यमिति विद्यात्, इति । स यदि विचिकित्सेत्सणकारं ब्रवाणीँ३ अणकाराँ३ इति सणकारमेव ब्रूयात्सषकारं ब्रवाणीँ३ अषकाराँ३ इति सषकारमेव ब्रूयात्, इति । यद्वयमनुसंहितमृचोऽधीमहे यच्च माण्डूकेयीयमध्यायं प्रब्रूमस्तेन नो णकारषकारावुपाप्ताविति ह स्माऽऽह ह्रस्वो माण्डूकेयः, इति । अथ यद्वयमनुसंहितमृचोऽधीमहे यच्च माण्डूकेयीयमध्यायं प्रब्रूमस्तेन नो णकारषकारावुपाप्ताविति ह स्माऽऽह स्थविरः शाकल्यः, इति । एतद्ध स्म वै तद्विद्वांस आहुर्ऋषयः कावषेयाः किमर्था वयमध्येष्यामहे किमर्था वयं यक्ष्यामहे वाचि हि प्राणं जुहुमः प्राणे वा वाचं यो ह्येव प्रभवः स एवाप्ययः, इति । ता एताः संहिता नानन्तेवासिने प्रब्रूयान्नासंवत्सरवासिने नाप्रवक्त्र इत्याचार्या आचार्याः, इति ।।
इत्यैतरेयब्राह्मणारण्यककाण्डे तृतीयारण्यके द्वितीयाध्याये षष्ठः खण्डः ।। ६ ।। ( १२)
इति बह्वृचब्राह्मणारण्यककाण्डे तृतीयारण्यके द्वितीयोऽध्यायः ।। २ ।।
इति बह्वृचब्राह्मणारण्यककाण्डे तृतीयारण्यकं समाप्तम् ।। ३ ।।