औचित्यविचारचर्चा
औचित्यविचारचर्चा [[लेखकः :|]] |
औचित्यविचारचर्चा
व्याख्याकार:
डॉ. रमाशङ्कर त्रिपाठी
कृतारिवञ्चने दृष्टिर्येनाञ्जनमलीमसा ।
अच्युताय नमस्तस्मै परमौचित्यकारिणे ।। 1 ।।
युग्मकम्__
कृत्वापि काव्यालङकारां क्षेमेन्द्र: कविकर्णिकाम् ।
तत्कलङंक विवेकञ्च विधाय विबुधप्रियम् ।। 2 ।।
औचित्यस्य चमत्कारकारिणचारुणश्चारुचवणे ।
रसजोविस्य चमत्कारकारिणश्चारुचर्वणे ।
रसजोवितभूतस्य विचारं कुरुतेऽधुना ।। 3 ।।
काव्यस्यालमलङकारै: किं मिथ्यागणितैर्गुणै: ।
यस्य जोवितमौचित्यं विचिन्तयापि न वृश्यते ।। 4 ।।
अलङकारास्त्वलङकारा गुणा एव गुणा: सदा ।
औचित्यं रस-सिद्धस्य स्थिरं काव्यस्य जोवितम् ।। 5 ।।
नरस्परोपकारकरुचिरशब्दार्थ रूपस्य काव्यस्योपमोत्प्रेक्षादयो ये
प्रचुरालङकारास्ते कटककुण्डलकेयूरहारादिवदलङकारा एव, बाह्मशोभा-
हेतुत्वात् । येऽपि काव्यगुण: केचन तल्लक्षणविचणै: समाम्नाता-
स्?तेऽपि श्रूतसत्यशेलादिवद् गुणा एव, आहार्यत्वत् । औचित्यं त्वग्रे
वक्ष्यमाणलक्षणं स्थिरमविनश्वरं जीवितं काव्यस्य, तेन विनास्य
गुणालङकारयुक्तस्यापि निर्जीवत्वात् ।। रसेन श्रृङगारा?दिना सिद्धस्य
प्रसिद्धस्य काव्यस्य धातुवादरससिद्धस्येव तज्जीवितं स्थिरमित्यर्थ: ।
उक्तार्थस्यैव विशेषमाह__
उचितस्थानविन्यासदलङ्कृतिरलङ्कृति: ।
औचित्यादच्युता नित्यं भवन्तयेव गुणा गुणा: ।। 6 ।।
अलङ्कृतिरुचितस्थानविन्यासदलङकर्तु क्षमा भवति, अन्यथा
त्वलड्.कृतिव्यपदेशमेव न लभते । तद्वदौचित्यादपरिच्युता गुणा गुण-
तामासदयन्ति अन्यथा पुनरगुणा एव ।
यदाह__
कण्ठे मेखलया नितम्बया नितम्बफलके तारेण हारेण वा,
पाणौ नूपुरबन्धनेन चरणे केयूरपाशेन वा ।
शैर्येण प्रणते रिपौ करुणया नायान्ति के हास्यता-
मौचित्येन विना रुचिं प्रतुते नालङ्कृतिर्नो गुणा: ।।
किं तदौचित्यमित्याह__
अचितं प्राहुराचार्या: सदृशं किल यस्य यत् ।।
अचितस्य च यो भावस्तदौचित्यं प्रचक्षते ।। 7 ।।
यत्किल यस्यानुरूपं तदुचितमुच्यते, तस्य भावमौचित्यं कथयन्ति ।
अधुना सकलकाव्यशरोरजीवातुभूतस्यौचित्यस्य प्राधान्येनोप-
लभ्यां स्थितिं दर्श यितुमाह__
पदे वाक्ये प्रबन्धार्थे गुणेऽलङकरणे रसे ।
क्रियायां कारके लिङेग वचने च विशेषणे ।। 8 ।।
उपसर्गे निपाते च काले देशे कुले व्रते ।। तत्त्वे सत्त्वेऽग्रहे ।। 9 ।।
प्रतिभायामवस्थायां चिवारे नाम्नयथाशिषि ।
काव्यस्याङगेषु च प्राहुरौचित्यं व्यापि जीवितम् ।। 10 ।।
एतेषु पदप्रभृतिषु स्थानेषु मर्मस्वव काव्यस्य सकलशरीरव्यापि
जीवितमौचित्यं स्फुटत्वेन स्फुरदवभासते ।।
तेषूदाहरणानि ऋमेण दर्शयितुमाह__
तिलकं बिभ्रती सूक्तिर्भात्येकमुचितं पदम् ।
चन्द्राननेव कस्तूरीकृतं श्यामेव चान्दनम् ।। 11 ।।
एकमेवो?? चितं पदं तिलकायमानं बिभ्राणा सूक्ति: समुचितपर-
भागाशे भतिशयेन रुचिरतामावहति ।
यथा परिमलस्य__
मग्नानि द्विषतां कुलानि समरे त्वत्खड्गधाराकुले,
नाथास्मिन्निति वन्दिवाचि बहुशो देव श्रुतायां पुरा ।
मुग्धा गुर्जरभूमिपालमहिषी प्रत्याशया पाथस:,
कान्तारे चकिता विभुञ्चति मुहु: पत्यु: कृपाणे दृशौ ।।
अत्र मुग्धापदेनौचित्यचमत्कारिणा सूक्ति: शरदिन्दुवदनेव श्याम-
तिलकेन श्यायेव शुभ्रविशेषकेण विभूषिता सकलकदिकुलललामभूतां
विच्छित्तिमातनोति ।
न तु यथा धर्मकीर्ते:__
लावण्द्रविणव्ययो न गणित: क्लेशा महान्स्वीकृत:,
स्वच्छन्दस्य सुखं जनस्य वसतश्चिन्ताज्वरो निमिंत: ।
एषापि स्वयमेव तुल्यरमणा भावाद्वराकी हता,
कोऽर्थश्चेतसि वेधसा विनिहितस्तन्वयास्तनुं तन्वता ।।
अत्र "तन्वया: इति पदं केवलशब्दानुप्रासव्यसनितया निबद्धं न का?ञ्चिदथौचित्यचमत्कारकणिकामाविष्करोति । "सुन्दर्या: इत्यत्र
पदमनुरूपं स्यात् । अन्यानि वा निरतिशरूपलावण्यव्यव्यञ्जकानि ।
तन्वीपदं तु विरहविधुररमणीजने न्रयुक्तमथौचित्यशो जनयति ।
यथा श्रीहर्षस्य__
परिम्लानं पीनस्तनजघनस ङगादुभयत-
स्तनोर्मक्ष्यस्यान्त: परिमलनमप्राप्य हरितम् ।
इद व्यस्तन्यासं श्लभुजलताक्षेपवलनै:,
कृशाङचा: सन्तापं वदति विसिनीपत्रशयनम् ।।
अत्र सागरिकाया विरहावस्थासूचकं "कृशाडगचा: इतिपदं पर-
मौचित्यं पुष्णाति ।। 11 ।।
वाक्यगतौचित्यं दर्शयितुमाह__
औचित्यरचितं वाक्यं सततं संमतं सताम् ।
त्यागोदग्रमिवंश्वय्र शीलोज्जवलमिव श्रुतम् ।। 12 ।।
औचित्यरचितं वाक्यं काव्यविवेकविचणानामभिमततमम् ।
यथा मम विनयवल्लयाम्__
युग्मकम्__
देवो दयावा?न्विजयो जितात्मा यमौ मन: संयममाननीयौ ।
इति बुवाण: स्वभुजं प्रमाषिट य: कीचकाकालिककालदण्डम् ।।
क्षीर: स किर्मोरजटासुरारि: कुबेरशौर्यप्रशमपोपदेष्टो ।
दृष्टो हिडिम्बादयित: कुरूपां पर्यन्तरेखागणनाकृतान्त: ।।
अत्र भोमस्य भीमचरितोचितकोचकाकालिककालदण्डहिडिम्बाद-
यितादिभि: पदैरुद्ररौस्वरूपानुरूपो वाक्यार्थ: सजीव इव भासते ।
अथवा राशेखरस्य__
सम्बन्क्षी पुरुभूभुजां मनसिजव्यापारदीक्षागुरु-
गौराङगीवदनोपमापरिचितस्तारबधूवल्लभ: ।
सद्योमा?जिंतदाक्षिणात्यतरुणोदन्तावदातद्युति-
श्चन्द्र: सुन्दरि दृश्यतामयमितश्चण्डोशचूडाणि: ।।
अत्रापि चन्द्रमस: श्रृङगारान्?तरङैग रनङगोद्दीपनै: पदैनिंर्वर्तितो
वाक्यार्थ: सर्वथौचित्यसामर्थ्येन समुचितार्थवशेनात्यर्थमत्यन्तमर्थनीयतां प्राप्त: ।
न तु यथास्यैव__
नाले शौर्यमहोत्पलस्य विपुले सेतौ समिद्वारिघे:
शश्वत्खड्गभुङगचन्दनतरौ क्रौडोपक्षाने श्रिय: ।
आकाने जयकुञ्जरस्य सुदृशां कन्दर्पदर्पे परं
श्रीदुर्योक्षनदोष्णि विक्रमपरे लीनं जगन्नन्दतु ।।
अत्रातिशयपरकर्कशसोत्कर्षसुभटभुजस्तजस्तम्भस्यासमुचितेन कुवलय-
नालतुलाधिरोपणेन वाक्यार्थ: सोपहासतयेव निबद्ध: परिज्ञायते ।। 12 ।।
प्रबन्क्षार्थौचित्यं दर्श यितुमाह__
उचितार्थवशेषेण प्रबन्क्षार्थ: प्रकाशते ।
गुण्प्रभावभव्येन विभवेनेव सज्जन: ।। 13 ।।
अम्लानप्रतिभाप्रकर्षोत्प्रेक्षितेन सकलप्रबन्धार्थाप्यायियीयूषवर्षेण
समुचितार्थविशेषेण महाकाव्यं चमत्कारकारितामापद्यते ।
यथा कालिदासस्य__
जातं बंशे भुवनविविते पुष्करावर्तकानां,
जानामि त्वां प्रकृतिपुरुषं कामरूपं मघोन: ।
तेनाथिंत्वं विधिपरवशाद् दूरबन्धुर्गतोऽहं
याच्ञ मोघा वरमधिगुणे नाक्षमे लब्धकामा ।।
अत्राचेतनस्य चेतनाक्ष्यारोण मेघस्य दौत्ययोग्यताक्षानाय प्रथि- तपुष्करावर्तकपर्जन्यवंशत्वममात्यप्रकृतिपुरुषत्वञ्च यदुपन्यस्तं तेन-
समस्तप्रबन्धस्योत्प्रे क्षितेतिवृत्तरुचिरतरस्य निरतिशयमौचित्यमुद्यो- तितम् ।
यथा वा भवभूते:__
?0( ?0नेपथ्ये ?0)
योऽयमश्व: पताकेयमथवा वीरघोषणा ।
सप्तलोकैकवीरस्य दशकण्कुलद्विष: ।।
लत्र:?0__( ?0सगर्वमिव । ?0) ?0अहो सन्तापनान्यक्षराणि । भो, भो: ?0!
किमक्षत्रिया पृथिवी यदेवमुद्घुष्यते । ?0( ?0विहस्य ?0) ?0आ: किं नाम
स्फुरन्ति शस्त्राणि । ?0( ?0धनुरारेपयन् ?0)?0
ज्याजिह्वया वलयितोत्कटकोटिदंष्ट्र-
मुद्गारिघोषघनघर्घ रघोषमेतत् ।
ग्रासप्रसक्तहसदन्तकवक्त्रयन्त्र-
जृमभाविडम्बिविक्रटोवरसस्तु चापम् ।।
अत्रार्थे रामायणकथातिक्रमेण नृतनोत्प्रे? क्षिता रामतनयस्य सहज-
विक्रमानुसारिणी शौर्योत्कर्षभूमि: परप्रतापस्पस्पर्शसहिष्णुता प्रबन्धस्य
रसबन्धुरामौचित्यच्छायां प्रयच्छति ।
रावण:__यत्पार्वतीहठकचग्रहणप्रीणी-
पाणौ ? स्थितं पुरभिद: शरदां सहस्त्रम् ।
गोर्वाणसारकणनिमिंतगात्रमत्र-
तन्मैथिलीक्रयधनं धनुराविरस्तु ।।
जनक:__आविरस्तु सममग र्भ सम्भवया सीतया ।
अत्र 'आविरस्तु समं सीतया' इति जनकराजेन यदुच्यते तेनानास्य
विशिताशनाय तनयाप्रतिपादनमभितमिवोपलक्ष्यते । नचैतद्विह्म: कथं भक्ष्यभूता कुमुमकोमलाङगी पुरुषादाय प्रतिपाद्यते, इत्यनौचित्येन प्रसिद्धं वृत्तवैपरीत्यं परं हृदयविसंवादमादक्षाति ।
यथा वा कालीदासस्य__
ऊरुमूलनखमार्गपंक्तिभिस्तत्क्षणं हृतविलोचनो हर: ।
वासस: प्रशिथिलस्य संयमं कुर्वतीं प्रियतमामवारयत् ।।
अत्राम्बिकासंभोगवर्णने पामरनारीसमुचिचितर्लज्जसज्जनखराजि-
विराजितोरुमूलहृतविलोचनत्वं त्रिकोचनस्य भगवतस्त्रिजगद्गुरोर्य-
दुक्ते तेनानौचित्यमे व परं प्रबन्धार्थ: पुष्णति ।। 13 ।।
गुणैचित्यं दर्शयितुमाह__
प्रस्तुतार्थोचित: काव्ये भव्ये भव्य: सौभाग्यवान् गुण:।
स्यन्दतोन्दुरिवानन्दं संभोगावसरोदित: ।। 14 ।।
प्रस्तुतार्थस्यौचित्येनौज:प्रसादमाधुर्यसौकुर्मायादिलक्षणो गुण:
काव्ये भव्य: सौभाग्यवत्तामवाप्त: सहृवयानन्दसन्दोहमिन्दुरिव
स्यन्दति ।
अत्र विप्रलम्भभरभग्नधै र्याया: कादम्बर्या विरहव्यथावर्णना माधुर्यसौकुमार्यादिगुणयोगेन पूर्णेन्दुदनेव प्रियंवदत्वेन हृदयानन्द- दायिनीं दयिततमतामातनो ति ।
त तु यथा चन्द्रकस्य__
युद्धेषु भाग्यचलेषु न मे प्रतिज्ञा
दैवं नियच्छति जयञ्च पराजयञ्च ।
एषैव मे रणगतस्य सदा प्रतिज्ञा
पश्यन्ति यन्न रिवपवो जघनं हयानाम् ।।
अत्र क्षात्रवृत्तिरिवौजसा काव्यगुणेनास्पृष्टा सुभटोक्तिरुचितार्थापि
तेजोजोवितविरहिता दुर्गतगृहदीपशिखेव मन्दायमाना न विद्योतते ।
यथा वा राजशेखरस्य__
एतस्या: स्मरसंज्वर: करतलस्पर्शै: परीक्ष्यो न य:,
स्निग्क्षेनापि जनेन दाहभयत: प्रस्थम्पच: पाथसाम् ।
निवींर्यीकृतचन्दनौषक्षिविक्षौ तस्मिंस्तडत्कारिणो,
लाजस्फोटममी स्फुटन्ति मणय: सर्वेऽपि हारस्त्रजाम् ।।
अत्र विरहविक्षुररमणीमनोभवावस्थानुरूपं माक्षुर्यमुत्सृज्य तड-
त्कारिणो लाजस्फोटं स्फुटन्तीत्योज:स्फूर्जितोर्जितस्वभावाक्षिपासिता सूक्तिर्लावण्यपेशलतुर्ल लितललनेव परुषभाषिणी ज्ञटित्यनौचित्यं चेतसि सञ्चारयति ।। 14 ।।
अलङकारौचित्यं दर्शयितुमाह__
अथैचित्यवता सूक्तिरलङकारेण शोभते ।
पीतस्तनस्थितेनेव हारेण हरिणेक्षणा ।। 15 ।।
प्रस्तुतार्थस्यौचित्येनोपमोत्प्रेक्षादिनालङगारेण सूक्तिश्चकास्ति
कामिनीवोच्चकुचचु म्बिना रुचिरमुक्ताकलापेन ।
यथा श्रीहर्षस्य__
विश्रान्तविग्रहकथो रतिमाञ्जनस्य
चित्ते वसन् प्रियवसन्तक एव साक्षात् ।
पर्युत्सुको निजमहोत्सवदर्शनाय
वत्सेश्वर: कुसुमचाप हवाभ्युपैति ।।
अत्र वत्सेश्वरस्य कुसुमचापेनोपमा श्रृङगारावसरसरसचारुतरता-
मौचित्येन कामपि चेतश्चमत्कारिणीमाविष्?करोति ।
नतु यथा चन्द्रकस्य__
खगोत्क्षिप्तैरन्त्रैस्तरुशिरसि दोलेव रचिता,
शिवा तृप्ताहारा स्वपिति रतिखिन्नेव वनिता ।
तृषार्तो गोमायु: सरुधिरमसिं लेढि बहुशो,
बिलान्वेषी सर्पो हतगजकाराग्रें प्रविशति ।।
अत्रानुचितस्थानस्थिताया: पुरुषपिशिततृप्तसुटताया: शिवाया:
सुरतकेलिवलान्तकान्तया विच्छयैवोपमा परं वैवरीत्यं प्रकाशयति ।
यथा वा मालवरुद्रस्य__
अभिनववक्षूरोषास्वाद: करीषतनूनपा-
दसरलजाश्लेषकूरस्तुषारसमीरण: ।
गलितविभवस्याज्ञवाद्य द्युतिर्मसृणा रवे-
विंरहिवनितावक्त्रौपम्यं बिभतिं निशाकर: ।।
अत्र कोमलकामिनीकोपेन करीषकृशानो: सादृश्यं शीतसमयस्वादु-
तया हृदयसंवादसुन्दरमप्यनुचितत्वेन सहसैव चेतस: सङकोचमिवाद- क्षाति ।
यथा वा राजशेखरस्य__
चिताचक्रं चन्द्र: कुसुमधनुषो दग्धवपुष:,
कलङकस्तत्रत्य: स्पृशति मलिनाङगारकलनाम् ।
यदेतत्सज्योतिर्दरदलितकर्पूरक्षवलं,
मरुदिभर्भस्मैतत्प्रसरति विकीर्णं दिशि दिशि ।।
अत्राप्यानन्दिसुक्षावस्यन्दसुन्दरस्येन्दोश्चिताचक्रत्वमनुचिततया कर्ण-
कटृकमातङकमिवातनोति ।
योऽर्थस्तु हृदयसंवादी स यद्यनौचित्यस्पर्श लेशरहितस्तदाऽक्षिकत-
रामलङकारशो भां पुष्णति । यथा कार्पटिकस्य__
शीतेनाद्घृषितस्य माषशिमिवच्यिन्तार्णवे मज्जत:,
शान्ताग्निं स्फुटिताक्षरस्य क्षमत: क्षुत्क्षामकण्ठस्य मे ।
निद्रा क्वापि विमानितेव दयिता सत्यज्य दूरं गता,
सत्पात्रप्रतिपादितेव वसुक्षा न क्षीयते शर्वरी ।।
अत्रानौचित्यस्पर्शपरिहारेण केवलं हृदयसंवासौन्दर्यमेव स्वादुत-
मादक्षाति ।। 15 ।।
रसौचित्यं दर्शयितुमाह__
कुर्वन्सवशिये व्याप्तिमौचित्यरुचिरो रस: ।
मधुमास इवाशोकं करोत्यङ्कुरितं मन: ।। 16 ।।
औचित्येन भ्राजिष्णु: श्रृङगारादिलक्षणो रस: सकलजनहृदय-
व्यापी वसन्त इवाशोकमङ्कुरितं मन: करोति ।
यथा श्रीहर्षस्य__
उद्दामोत्कलिकां विपाण्डुररुचं प्रारब्धजृम्भां क्षणा-
दायासं श्वसनोद्गमैरविमैरविरलैरातन्वतीमात्मन: ।।
अद्योद्यानलतामिमां समदनां नारीमिवान्यां क्ष्रुवं
पश्यन्कोपविपाटलद्युति मुखं देव्या: करिष्याम्यहम् ।।
अत्रेर्ष्याविप्रलम्भरूपस्य श्रृङगाररसस्य वासवदत्तायामवेक्ष्यमाणस्य नबमालिकालताया ललितवनितातुल्यतया विरहावस्थारोपेण नितरा- मौचित्यरुचिरचमत्कारकारिणी दीप्तिरुपपादिता ।
यथा वा कालिदासस्य__
बालेन्दुवक्राण्यविकासभावाद्वभु: पलाशान्यतिलोहितानि ।
सद्यो वसन्तेन सगातानां नखक्षतानीव वनस्थलीनाम् ।।
अत्र पार्वत्यां परमेश्वरस्याभिलाषश्रृङगारे वक्ष्यमाणे प्रथममुद्दीपन-
विभावभूतस्य वसन्तस्य वर्णनायां कामुकाध्यारोपेण वनस्थलीललना-
नां कुटिललोहितपलाशकलिकाभिर्नवसंगमयोग्यनखक्षतायुत्प्रेक्षितानि
परमामौचित्यचारुतां प्रतिपादयन्ति ।
नतु यथास्यैव__
वर्णप्रकर्षे सति कर्णिकारं दुनोति निर्गन्धतया स्म चेत: ।
प्रायेण सामग्रय् विधौ गुणानां पराङ्मुखी विश्वसृज: प्रवृत्ति:।।
अत्र केवलकर्णिकारकुसुमवर्णनमात्रेण विधातृवाच्यताग र्भेणैव प्रस्तुतश्रृङगारानुपयोगिना तदुद्दीपनविभावोचितं न किञ्चिदभिहितम् ।
हास्यरसे यथा मम लावण्यवतीनाम्नि काव्ये__
सीधुस्पर्श भयान्न चुम्बसि मुखं किं नासिकां गूहसे,
रे रे श्रोत्रियतां तनोषि विषमां मन्दोऽसि वेश्यां विना ।
इत्युक्त्वा मदघूर्णमाननयना वासन्तिका मालती
लीनस्यात्रिवसो: करोति वकुलस्येवासवासेचनम् ।।
अत्र श्रोत्रियस्यात्रिवसोरपवित्रसीधुस्पर्श शङकासङकोचनिलीनस्य
शुष्यकबकुलवृक्षस्येव सरसतापदनाय वेदशविलासिन्या यदासवासेचनं
तदङगभूतश्रृङगाररसा भासस्पर्शेन हास्यरसस्य वरासवस्येव सहकार-
रसवेधेन सचमत्कारसौचित्यमाचिर्नोति ।
यथा वा मम लावण्यवत्यामेव__
मार्गे केतकसूचिभिन्नचरणा सीत्कारिणी केरली,
रम्यं रम्यमहो पुन: कुरु विटेनेत्यर्थिता सस्मिता ।
कान्ता दन्चतुष्कबिम्बितशशिज्योत्स्नापटेन क्षणं
धूर्तालोकनलज्जितेव तनुते मन्ये मुखाच्छदनम् ।।
अत्रापि हास्यरसस्य कुटिलविटनर्मोक्तिवचनौचित्येनश्रृङगाररसा-
भासाधिवासितस्य सचमत्कार: पर: परिपोष: समुन्विषति ।
नतु यथा श्यामलकस्य__
चुम्बनसक्त: सोऽस्या दशनं च्युतमात्मनो वदनात् ।
जिह्वामूलप्राप्तं खाडिति कृत्वा निरष्ठीवत् ।।
अत्र हास्यरसस्य बीभत्सरसाधिवासितस्य लशुलिप्तस्येव कुसुम-
शेख रस्याविजुगुप्सितत्वादनीप्सितस्य परमानौचित्?येन चमत्कारस्ति-
रोहित: । वृद्धापरिचुम्बने जिह्वामूलप्राप्तस्य च्युतदशनस्य कण्ठली-
लिन: ष्ठीवनेन बीभत्सस्यैव प्राधान्यम्, नतु हास्यरसस्य ।
करुणे यथा मम मुनिमतमीमांसायाम्__
प्रत्यग्रोपनताभिमन्युनिधने हा वत्स हा पुत्रके-
त्यश्मद्रावि सुभद्रया प्रलपितं पार्थस्य यत्तत्पुर: ।
येनोद्वाष्पविमुक्तशष्पकलै: सेनातुरङैगरपि,
न्यञ्चत्पार्श्वगतैककर्णकुहतैर्नि:स्पन्दमन्दं स्थितम् ।।
अत्र प्रत्यग्रोपनतप्रियतरतनयवियोगोपजनितशोकाख्यस्थायिभा-
वोचितं__दृषतामपि हृदयद्रावणं सुभद्रया यत्प्रलपितं तदर्जु नचेतसि
प्रतिफलितं न केवलमुद्दीप्ततमुपगतं यावत्तिरश्चां तुरङगमाणामप्यन्त:
संक्रन्तमुद्वाष्यविमुक्तशष्पकलनि:स्पन्दमन्दस्थितादिभिरनुभावैरुदी-
र्णतरुणकरुणरसप्रतिपर्तिं किमप्यावधाति ।
नतु यथा परिमलस्य__
हा श्रृङगारतरङिगणीकुलगिरे हा राजचूडामणे,
हा सौजन्यधुधानिधान हहहा वैदग्ध्यदुग्धोदधे ।
हा देवोज्जायिनीभुजङग युवतिप्रत्यधकन्दर्प हा,
हा सद्वान्धव हा कलामृतकर ! क्वासि प्रतीधस्व न: ।।
अत्र 'हसेति' हतमहीपतिविरहे तद्गुणामन्त्रणपदैर्दक्तूववत्रगत ए
शोक: केवलमुपलध्यते,नतु विभावानुभावव्यभिचारिसंयोगेन शोक ख्यस्य स्थायिभावोचितं रसीकरणं किंचिन्निष्पन्नम्।
रौद्रे यथा भटृनारायणस्य__
यो य: शस्त्रं बिभर्ति स्वभुजगुरुमद:पाडवीनां चमूनां,
यो य: पाञ्चालगोत्रे शिशुरधिकवया गर्भशय्यां गतो वा ।
यो यस्तत्कर्मसाक्षी चरति मयि रणे यश्च यश्च प्रतीप:,
क्रोधान्धस्तस्य तस्य स्वयमपि जगतामन्तकस्यान्तकोऽहम् ।।
अत्र क्रूरक्रोधस्थायिभावत्मकस्योन्निद्ररौद्ररसस्योचिता शिशुस्थ-
विरग र्भगतविशसननिर्स्त्रिशकर्माध्यवसायाधिरोहणसंयादिनी द्रोण-
वधविधुरामर्षविषविषमव्यथा कश्मलशिथिलमश्वत्थाम्न: स्थेमानं-
वधविज्ञापयति ।
नतु यथा श्राप्रवरसेनस्य__
दणुइन्दरुहिरलग्गे जस्य फुरन्ते णहप्पहाविछडे ।
गुप्यन्तो विवलाआ गलिअब्बथणंसुए, महासुरलच्छी ।।
[ दनुजेन्द्ररुधिरलग्ने यस्य स्फुरति नखप्रभासमूहे ।
व्याकुलीभवन्ती विपलायिता गलितस्तनांशुका
महासुरलक्ष्मी: ।।
।। इति छाया ।।
अत्र क्रोधव्यञ्जकपदविरहिततया "दनुजेन्द्रधिरलग्ने यस्य नृसिं-
हस्य स्फुरति नखप्रभासमूहे व्याकुलीभवन्ती विपलायिता गलितस्त-
नांशुका सहासुरलक्ष्मी: इति वर्णनया रुधिरलग्न इति बीभत्सरस-
संस्पर्शे व्याकुलीभवन्ती दैत्यश्री: पलायितेति भयान्करससङकरेण
प्रकृतोचितप्रधानभूतस्य रौद्ररसस्य क्वचिन्मुखमपि न दृश्यते ।
वीरे यथा मम नीतिलतायाम्__
शौर्याराधितभर्गभार्गवमुने: शस्त्रग्रहोन्मार्गिण:,
संखेपेण निवार्य संक्षयमयीं क्षत्रोचितां तीक्ष्णताम् ।
आकर्णायतकृषटचापकुटिलभूभङगसंसर्गिणा,
येनान्यायनिषेधिन शममयी ब्राह्मी प्रटिष्टा स्थिति: ।।
अत्र "सोऽयं राम इति रावणाग्रे शुकसारणाभ्यां दूरान्निर्दिदश्य-
मानस्य नि:संरम्भगभ्भीरावष्टम्भसं भाव्यामानप्रभावोचितायां शस्त्रसं-
ग्रहोन्मार्गगामिनो भार्गवस्य मुने: स्वजातिसमुचितस्थित्युपदेशे सति प्रभविष्णुतायां चापरूपभङगचा भूभङग: प्रदर्शित: न तु स्वाभाविक: वीरस्य क्रोधे विकारसंभवात् । प्रसन्नमधुरधीरा हि वीरवृत्ति:,
तदुचितमत्राभिहितम् भार्गवाभिभवेन च प्रधाननायकस्योत्कर्ष: प्रतिपादित: ।
यथा वा राजशेखरस्य__
स्त्रीणां मध्ये सलीलं श्रमितगुरुगदाघातनिर्नष्टसंज्ञ:,
सद्यो वध्योऽभवस्त्वं पशुरिव विवशस्तेन राज्ञाऽर्जुनेन ।
तस्य च्छेत्तापि योऽसौ सकलनृपरिपुर्जामदग्न्यो भुजानां,
जित्वोच्चै: सोऽपि येन द्विज इति न हतस्तापसस्त्वेष राम:।।
अत्र रावणकार्तवीर्यजामदग्नयोत्कार्षेत्कर्षतरसोपानपरम्पराधिरो-
हणक्रमेण प्रधाननायकस्य प्रताप: परां कोटिमारेपित: ।
नतु यथा भवभूते:__
वृद्धास्ते न विचारणीयचरितास्तिष्ठन्तु हं वर्ततां,
युद्धं स्त्रीदमनेऽप्यखण्डयशसो लोके महान्तो हि ते ।
यानि त्रोणि कुतोमुखान्यपि पदान्यासन्खरायोधने,
यद्वा कौशलमिन्द्रसूनुदमने तत्राप्यभिज्ञो जन: ।।
अत्राप्रधानस्य रामसूनो: कुमारलवस्य परप्रतापोत्कर्षासहिष्णो-
र्वीररसोद्दीपनाय सकलप्रबन्धजीवितसर्वस्वभूतससय प्रधाननायकगतस्य
वीररसास्य ताडकादमनखररणापसरणान्यरणसंसक्तबालिव्यापानादि-
जनविहितावाप्रतिपादनेन स्ववचसा कविना विनाश: कृत इत्यनु- चितमेतत् ।
भयानके यथा श्रीहर्षस्य__
कण्डे कृत्तावशेषं कनकमयमध: श्रृङखलादाम कर्षन्
क्रान्त्वा द्वाराणि हेलाचलचरणरणत्किङिकणीचक्रवाल: ।
प्रभ्रष्टोऽयं प्लवडग: प्रविशति नृपतेर्मन्दिरं मन्दुराया: ।।
अपि च__
नष्टं वर्षवरैर्मनुष्यगणानाभावादकृत्वा त्रण-
मन्त:कञ्चुकिकञ्चुकस्य विशाति त्रासादयं वामन: ।
पर्यन्ताश्रायिभिर्निजस्य सृशं नाम्न: किरातै: कृतं,
कुब्जा नीचतयैव यान्ति शनकैरात्सेक्षणाशङिकन: ।।
अत्राङगनानां निशितदशननखशिखेल्लेखातङकदानेन प्रचुरतरवा-
नराभिसराणभयसंभ्रान्तान्त:पुरिकवृद्धवामनाकिरातकुब्जादीनां पुरुष-
गणनासिहीनतया धै र्यविरहकातरणामुचितचेष्टानुभाववर्णनया भया-
नकरससंवादिरुचिरौचित्यमाचकास्ति ।
नतु यथा राजपुत्रमुक्तापीडस्य__
नीवारप्रराग्रमुष्टिकवलैर्यो वर्धित: शैशवे,
पीतं येन सरोजपत्रपृटके होमावशेषं पय: ।
तं वृषट्वा मदमन्थरालिवलयव्यालोलगल्लं गजं,
सानन्दं सभयञ्च पश्यति मुहुर्दू रे स्थितस्तापस: ।
अत्र गजस्याघातकविकृतचेष्टानुवर्णनाविरहिततया स्थायिभावस्य
भयानुभाववर्जितस्य केवलं नाममात्रोदीरणेन च भयानकरसो चित-
संभ्रमाभावादुपचितमौचित्यं न कि?ञ्चिदुपलभ्यते ।
बीभत्से यथा मम मुनिमतमीमांसयाम्__
सर्वापायचयाश्रयस्य नियतं कुत्सानिकायस्य किं,
कायस्यास्य विभूषणै: सुवसनैरान्दनैश्चन्दनै: ।
अन्तर्यस्य शकृद्यकृत्कृमिकुलवलोमान्त्रमालाकुले,
क्लेदिन्यन्तदिने प्रयान्ति विमुखा: कौलेयकाका अपि ।
अत्र वैराग्यवासनाच्छुरितबीभत्सस्य जुगुप्सास्थायिभावोचित-
कायगतकुत्सिततरान्त्रादिसमुदीरणेन परा परिपुष्टिर्नि:सारशरी- रामिमानवैरस्यजननी प्रतिपादिता ।
नतु यथा चन्दकस्य__
कृश: काण: खञ्ज: श्रवणरहित: पुच्छविकल:,
क्षुधाक्षामो ख्क्ष: विठरककपालार्दितगल: ।
व्रणै: पूतिक्लिन्नै: कृमिपरिवृतै रावृततनु:,
शुनीमन्वेति श्वा तमपि मदयत्येष मदन: ।।
अत्राशुचिचर्वणरुचेरुपचितविचिकित्सकुत्सानिकायस्य स्वभाव-
जुगुत्सितयोने: शुनकस्य किमेतैर्बीभत्सविशेषणैरतिशयनिर्बन्धानुबर्द्ध-
रधिकमुदभासितम् । एतैरेव पुरुषगतैर्जु गुप्?सापरं गौरवमावहति ।
अद्भुते यथा चन्दकस्य__
कृष्णेनाम्ब ?0? ?0गतेन रन्तुमधुना मृद् भक्षिता स्वेच्छया,
सत्यं कृष्ण ?0? ?0क एवमाह मुसली, मिथ्याम्ब ?0? ?0पश्याननम्
व्यादेहीति विकासितेऽथ वदने दृष्ट्वा समस्तं जग-
न्माता यस्य जगाम विस्मयपदं पायात्स व: केशव: ।।
अत्र पाण्डुराङगकरसाक्षिलक्षितमृदभक्षणाक्षेपोद्यतजननीभयकि-
तस्यापह्रवकारिण: शिशो र्विकासितास्यस्यान्त: समस्तजगद्दर्शनेन
मातुश्च तत्प्रभावानभिज्ञतया वात्सल्यविह्वलाया विस्मयगमनेनात्यु-
चितोऽयमदभतातिशय: ।
नतु यथा मम मुनितमीमांसायाम्__
समस्ताश्चर्यंणां जलनिधिरपार: स वसति-
स्ततोऽप्याश्चर्यं यत्बिति सकलं तं किलमुनि: ।
इदं त्वत्याश्चर्यं लघुकलशजन्मापि यदसौ,
परिच्छेत्तुं को वा प्रभवति तवाश्चर्यसरणिम् ।।
अत्रापरस?रित्पतिप्रभावेण मुनिना तस्यैकचुलकाचमनेन मुनेश्च
लघुकलशजन्मना क्रमाक्रान्तिसमारूढोऽप्यसमविस्मयमयोऽयमद्भुत-
प्रसर: संसारस्यैवंविविधै वाश्चर्यसरणिरपरिच्छिन्ना न किंचिदेतत्कौतुक-
मित्यर्थान्तरन्याससामर्थ्थ्येन सहसैवावरोपित इव तिरोभूततामुपगत: ।
शान्ते यथा मम चतुर्वर्गसंग्रहे__
भोगे रोगभयं सुखे क्षयथयं वित्तेऽग्निभू भृदभयं,
दास्ये स्वामिभयं गुणे खलभयं वंशे कुयोषिदभयम् ।
माने म्लानिभयं जये रिपुभयं काये कृतान्तादभयं,
सर्वं नाम भये भवेदभयमहो वैराग्यमेवाभयम् ।।
अत्र सकलजनाभिमतभोगसुखवित्तादीनां भयमयतया हेयतां प्रति-
पाद्य वैराग्यमेव सकलभयायासशमनमुपादेययता यदुपन्यस्तं तेन
शान्तरसस्य निरर्गलमार्गावतरणामुचिततरमुपदिर्ष्ट भवति ।
यथा वा मम मुनिमतमीमांसायाम्__
कुसुमशयनं पाषाणे वा प्रियं भवनं वनं,
व्रतनु, मसृणस्पर्शं वासस्त्वगप्यथ तारवी ।
सरसमशनं कुल्माषे ष धनानि तृणानि वा,
शमसुखसुधापानक्षैव्ये समं हि महात्मनाम् ।।
अत्र सकलविकल्पतल्परहिताभेदाव भाससमानात्मतत्त्वविश्रान्ति-
??जनितसर्वसाम्यसमुल्लरसितशसुखपीयूषपानोदितनित्यानन्दधूर्णमान -
मानसानां प्रियाप्रियसुखदु:खादिषु महतां सदृशी प्रतिपत्तिरिति जीव-
न्मुक्तिसमु चितमभिहितम् ।
नतु यथा श्रीमदुत्पलराजस्य__
अहौ वा हारे वा बलवति रिपौ वा सुहृदि वा,
मणौ वा लोष्टे वा कुसुमशयने वा वृशदि वा ।
तृणे वा स्त्रैणे वा मम समटृशो यान्ति दिवसा:,
क्वचित्पुण्यारण्ये शिवशिवशिवेति प्रलपत: ।।
अत्र जीवन्मुक्तोचितं प्रियाप्रियरागद्वेषोपशमलखणमोक्षक्षमं सर्व-
साम्यमहिहारसुहृदरिसमदृष्टिरूपमभिधता क्वचित्पुण्यारण्ये यदभि-
हितं तद्विकल्प्रतिपादकमभेदवासनाविरुद्धमनु चितमवभवभासते । धारा-
धिरूढसर्वसाम्यविगलितभेदाभिमानग्रन्योर्हि सर्वत्र सर्व शिवमयं पश्यत-
स्तपोवने नगरावस्करकूटे च विमलात्मलाभतृप्ततया समानदुश: क्वचितुपण्यादिवचनमनुचितोच्चारणमेव
।। 16 ।।
यथा मधुरतिक्ताद्या रसा: कुशलयोजिता: ।
विचित्रास्वदतां यान्ति श्रृङगाराद्यास्तथा मिथ: ।। 17 ।।
तेषां परस्पराश्लेषात्कुर्यादौचित्यरक्षणम् ।
अनौचित्येन संस्पुष्ट: कस्येष्टो रससङकर: ।। 18 ।।
रसा: कटुकमधुराम्लवणाद्या: कुशलसूदेन वेसवारपानादिषु
योजिता विचित्रास्वादतामुपयान्ति तथैव परस्परमविरुद्धा: श्रृङगारा-
दय इति तेषामन्योन्यमङगभावयोजनायामौचित्यस्य जीवितसर्वस्वभू-
तस्य रक्षां कुर्यात् । अनौचित्यरजसा रससंयोग: स्पृष्टो न कस्यचिद-
भिमत इत्यर्थ: ।
रससङकरौचित्ये शान्श्रृङगारयोरङगङिगभावो यथा भगवतो
महर्षेर्व्यासस्य__
सत्यं मनोरमा रामा: सत्यं रम्या विभूतय: ।
किन्तु मत्ताङगापाङगभङिगलोलं हि जीवितम् ।।
अत्र भगवता जन्तुहिताभिविष्टेन मोक्षक्षमोपदेशेऽङिगन: शान्त-
रसस्य रागिजनानिष्टत्वात्सकलजनमन:प्रह्लादने बालगुडिह्विकया
श्रृङगारेऽङगभावमुपनीते पर्यन्ते शान्तस्यैव लोलं जी वितमित्यनित्यता-
प्रतिपादनपरिनिर्वाहेण परमौचित्यमुच्चै: कृतम् ।
बीभत्सश्रृङगारयोरङगाङिगभावो यथा मम बौद्धावदानकल्पलता-
याम__
क्षीबस्येवाचलस्य द्रुतहृतहृदया जम्बुकी कण्ठसक्ता,
रक्ताभिव्यक्तकामा कमति नखमुखेल्लेखमासूत्रयन्ती ।
आस्वाद्यास्वाद्य युन: क्षणमधरदलं दत्तदन्तव्रणाङंक:,
लग्नानङगक्रियायामियमतिर भसोत्कर्षमाविष्करोति ।।
अत्र श्लेषोपमया तुल्यकक्षाधिरूढयोरपि परस्परविरुद्धयोरर्थयोर्वी-
भत्सश्रृङगाराङगाङिगभावयोजनायां जम्बुकी तरुणशवस्य क्षीबस्येव
निश्चलस्थिते: सहसैव हृतहृदयह्माकृ?ष्टचिता वा, कण्ठे लग्ना
शोणिते भृशमभिव्यक्तस्पृहा रक्ताभभिव्यक्तकाम वा, नखोल्लेखमासूत्र-
यन्ती दत्तदन्तव्रणमधरमास्वाद्या ङगच्छेदक्रियामनङगभोगक्रियायां
वा, लग्ना गात्राणामर्ध्वगतं कर्षणं रतकौशलोत्कर्षं वा, प्रकाश्यतीति
समानयोर्बीभत्सश्रृङगारयो: कामिनीपदपरित्यागेन केवलं जम्बुक्या:
कतृं त्वेन बीभत्सस्यैव प्राधान्ये श्रृङगारेऽडगतामुपगते वक्तुर्बोधिसत्त्वा-
स्यायान्तर्ग तगाढवै राग्यवासनाधिवासितचेतस: कुत्सार्हजुगुप्सया नित-
म्बिनीरतिविडम्बनमौचित्यरुचिरतामादधाति । यद्यप्यत्र महावक्ये
शान्तस्यैव प्राधान्यं तथाप्युदाहरणशलोकवाक्ये बीभत्यस्यैव ।
वीरकरुणयोर्यथा मम मुनिमतमीमांसायाम्__
गाण्डीवस्त्र्?ुवमार्जनप्रणयिन: स्नातस्य बाष्पाम्बुभि-
श्चण्डं खाण्डवपाकादपि परं शोकानलं बिभ्रत: ।
जिष्णेर्नुतनयौवनोदयदिनच्छिन्नाभिमन्योश्चिरं,
हा वत्सेति बभूव सैन्धववधारब्धाभिचारे जप: ।।
अत्र त्रिगर्तसंग्रामगतस्य गाण्डीवधन्वन: शत्रुभिर्नवयौवनोदयसम-
यनिहततनयस्य कार्मुकस्त्रुवमुन्मार्जयत:प्रसरदश्रुस्नातस्य शोकाम्निमुद्व-
हतश्चिरं हा पुत्रेति जयद्रथवघारब्धाभिचारे जपो बभूवेति यदुपन्श्त्स्तं,
तेनारिक्षये दीक्षासमुचितव्रतवर्णनया शोकाग्नेश्चण्डत्वेन खाण्डवपदोदी-
रणेन वीररसस्याङिगन: सहसैवागन्तुके करुणरसे प्रज्वलिते सैन्धवव-
धारब्धाभिचारभिधानेन पर्यन्ते शौर्यनिर्वाहेण परममौचित्यमुज्जृम्भते।
शान्तश्रृङगारकरुणबीभत्सानां यथा मम तत्रैव__
तीक्ष्णान्तस्त्रीकटाक्षक्षतहृदयतया व्यक्तसंसक्तरक्ता:,
क्रोधादिक्रूररोगव्रणगणतीततीव्रवयथार्ता: ।
स्नेहक्लेदातिलग्नै: कृमिभिरिव सुतै: स्वाङगजैर्भक्ष्यमाणा:,
संसारक्लेशशय्यानिपतिततनव: पश्य सीदन्ति मन्दा: ।।
अत्र मुरूयस्याङिगन: शान्तरसस्यैवोद्दीपने कारणीभूतास्तीक्ष्णान्त-
स्त्रीकटाक्षक्षतहृदयव्यव्यथार्त्तस्नेहक्लेदातिलग्नकृमितुल्यतनयादिपदोपा-
दानेन श्रृङगारकरुणबीभत्सा: शान्तमुखप्रे क्षिण:, संलीनतया स्तिमित-
वृत्तयो भृत्या इव परममौचित्यं दर्शयन्ति ।
रससङगरस्यानौनित्यमुदभावयितुमाह । श्रृङगारशान्तयोर्यथा-
ऽमरुकस्य__
गन्तव्यं यदि नाम निश्चितमहो गन्तासि केयं त्वरा,
द्वित्राण्येव पदानि तिष्ठतु भवान्पश्यामि यावन्मुखम् ।
संसारे घटिकाप्रणालविगलद्वारा समे जीविते,
को जानाति पुनस्त्वया सह मम स्याद्वा न वा सङगम: ।।
अत्र प्रकरणवर्तिन: श्रृड्गाररसस्य पश्यामि यावन्मुखमित्यकुण्ठो-
त्वकण्ठासमुज्जृम्भमाणस्य स्वभावविरोधिनि शान्तेऽङगभावमुमपनीते
विस्तीर्णतरानित्यातावर्णनया वैराग्येण रतेर्न्यगभावमापदयन्त्या प्रधान
रससम्बन्धेनाधिकमनौचित्यमुत्साहितम् । नि:सारसंसाराचारुताश्रव-
णेन हि कठिनक्रियाकूरचेतसामप्युसाहभङगादङगान्यलसोलसोभवन्ति,
किमुत कुसुमसुकुमारश्रृङ् गाररसकोमलमनसां विलासवताम् ।
प्रान्ते च शान्तपरिपोषनिर्वाहेण रागवैरस्यमेव पयैवस्यति ।
तदुक्तमानन्दवर्घनेन__
विरोधी वाऽविरोधो वा रसोऽङ्गिनि रसान्तरे ।
परिपोषं न नेतव्यस्तेन स्यादविरोधिता ।।
तदेवात्र वैपरीत्येनाबलोक्यते__
परिपोषविपरीते स्वमभावविरोधिन्यपि प्रधानानुपरोध एव । यथा
राजशेखरस्य__
माणं भुंचध देह वल्लहजणे दिट्ठि तरंगुत्तरं,
तारुण्णं दिअहार्हे पञ्च वह वा पीणत्थणत्थंभणं ।
इत्यं कोइलिमंजुसिंजिणमिसाद् देवस्य पंचेसुणो,
दिष्णा चित्तमहूसवेण सहसा आणब्ब सब्बंकसा ।।
?0[ ?0मानं मञ्चत दत्त वल्लभजने दृष्टिं तरङ्गोत्तरां,
तारुण्यं दिवसानि पञ्च दश वा पीनस्तनस्तम्भनम् ।
इत्थं कोकिलमञ्जुशिञ्जितमिषाद्दे वस्य पञ्चेषो-
र्दत्ता चैवमहोत्सवेन सहसाऽऽज्ञेव सर्वङकषा ।। ?0] ?B?0 इति च्छाया ।।
अत्र 'मानं मुञ्चत इत्त वल्लभजने दृषिंट तरङिगतां तारुण्यं दिनानि
पञ्च दश वा पीनस्तनस्तम्भनमित्थं कोकिलमधुरध्वनिव्याजेन देवस्य
पञ्चेषेश्चैत्रमहोत्सवेनाज्ञेव सर्वङकषा दत्ता" इति वाक्ये मुखय: श्रृंगार-
प्रारम्भपर्यन्तव्याप्तिशाली कतिपयदिसस्चापि यौवनमित्यनित्यता-
रूपशान्तबिन्दुना मधबुडितेने विरसतां न नीत:, विरुद्धस्य परिपोषा-
भावत् । विरुद्धवर्णनोदितेन ह्मनौचित्येन स्थायी कुञ्चर इव श्वभ्र-
पातित: पुनरुत्थातुं नोत्सहत इत्यलं विस्तरेण । अनया दिशा रस-
सङगरे भेदप्रपञ्चौचित्यं विपश्चिदिभ: स्वयं विचार्यम् ।। 18 ।।
रसौचित्यविचारानन्तरमुद्द शोनुसारक्रमेण क्रमापगतं क्रियापदौ-
चित्यं दर्शयितुमाह__
सगुणत्वं सुवृत्तत्वं साधुता च विचराजते ।
काव्यस्य सुजनस्येव यद्यौचित्यवती क्रिया ।। 19 ।।
काव्यस्य माधुर्यादिगुणवत्ता वसन्ततिलकातिलकादिसुवृत्तता परिपूर्ण-
लक्षणसधुता च विराजते, यद्यौचित्युक्तं क्रियापदं भवति सुजनस्ये-
वेति तत्तुल्यत्वं स्पष्टार्थमेव ।
क्रियापदौचित्यं यथां मम नीतिलतायाम्__
य: प्रख्यातजब: सदास्थिविधौ सप्ताब्धिसंध्यायर्चने,
दीर्दर्पेण निनाय दुन्दुभिवपुर्य: कालकङकालताम् ।
य: पातालमसृङ् मयं प्रविदधे निष्पिष्य मायाविनं,
सुग्रीवाग्रचविभूतिलुण्ठनपदुर्बाली स किं स्मर्यते ।।
अत्र सप्ताब्धिसंध्यार्चनप्रख्यातजवो महिषरूपदुन्दुभिदानवेन्माथी
मायाविदानवनिष्पेद्भूतशोणितपूरितपातालत: स किं बाली
स्मर्यत इति क्रियापदेन शुकसारणाभ्यां रावणस्य दुर्नयाभिनिवेशिन-
स्तद्विरामाय हितोपदेशेन भवान्वसनकोणनियमिततनु: कक्षायां नि:-
क्षिप्त इत्युचितयुक्तिमुक्तं भवति ।।
न तु यथा श्रीप्रवरसेनस्य__
? सग्गं अपारिजाअं कोत्थुहलच्छिरहिअँ महुमहस्सउरं ।
सुमिरामि महणपुरओ समुद्धअन्दं हरअड़ापब्भारं ।।
क्रियापदानौचित्यस्यादोहरणमुपस्थापयितुमाह__न तु यथेति ।
सग्गं इति ।'
स्वर्गमपारिजातं कौस्तुभलक्ष्मीभ्यो विरहितं मधुमथनस्योर: ।
स्मराम्यमृतमथनपुरोप्यबालचन्द्रं हरजाटाप्राग्भारम् ।।
इति छाया ।
अत्र जाम्बवताऽभिधीयमाने "स्वर्गमपारिजातं कौस्तुभलक्ष्मीभ्या
विरहितं मधुमथनस्योर:, स्माराम्यमृतमथनपुरतोऽप्यबालचन्द्रं हर-
जटाप्राग्भारम्" इति प्रगुणगुणाख्यानप्रसङेग कियापदेन जराजजर-
शरीरत्वमात्रमेव प्रतिपादितम् न तु पौरुषोत्?कर्षविशेषातिशय: कश्चि-
दुचित: संसूचित: ।। 19 ।।
कारकौचित्यं दर्शयितुमाह__
सान्वयं शोभते वाक्यमुचितैरेव कारकै:।
कुलाभरणमैश्वर्यमौदार्यचरितैरिव ।। 20 ।।
उचिर्तरेव कारकै: सदान्वयदद्वाक्यं विराजते सद्वंशभूषिमैश्वयं
सच्चरितैरिव ।
कर्तृपदौचित्यं यथा भटटबाणस्य__
स्तनयुगमश्रुस्नातं समीपतरवर्ति हृदयशोकाग्ने: ।
चरति विमुक्ताहारं व्रतमिव भवतो रिपुस्त्रेणाम् ।।
अत्र शत्रुस्त्रियो व्रतं चरन्तीति वक्तव्ये स्तनयुगं बाष्पसलिलस्नातं
शोका ग्निसमीपर्ति विमुक्तभोजनं विगतमुक्ताहारं च सव्गतं चरती-
त्वुक्ते कर्तृपदमौचित्यमुपचितं जनयति ।
नतु यथा परिमलस्य
आहारं न करोति नाम्बु पिबति स्त्रैणं न संसेवते,
शेते यत्सिकतासु मुक्ताविषयश्चण्डातपं सेवते ।
त्वतपादब्ज:प्रसादकणिकालो भोन्मुखस्तन्मरौ,
मन्ये मालवसिंह ! गुजरपतिस्तीव्रं तपस्तप्यते ।।
अत्र गुर्जरपतिर्विद्रुतो मरुगहनं प्रविष्ट: प्ररित्यक्ताहारादिसमस्त-
विषयश्चण्डातपोपसेवी तपश्चातीति यादुक्तं तत्कर्तृपदस्य विशेषाभि-
प्रायेचितं न किञ्चिदुपलक्ष्यते शत्रुत्रासतरलतया मरुकान्तारान्तराव-
सन्न: सकलविषयसुख भोगपरिभ्रष्ट: किमन्यकुरुताम् । स्तनयुगवत्कर्तृ-
पदस्य चमत्कारोचितं न किंचिदभिहितम् ।
कर्मपदौचित्यं यथा मम लावण्यवत्याम्__
सदा सक्तं शैत्यं विमलजलधारापरिचितं,
घनोल्लास: क्ष्मा भृत्पूथुकटकपाती वहति य: ।
विधत्ते शौर्य श्रीश्रवणनवनीलोत्पलरुचि:,
स चित्रं शत्रूणां ज्वलदनलतापं भवदसि: ।।
अत्र निश्चलममलजलधारागतं शैत्यं तैक्ष्ण्यं शीतलत्वं च घनोल्लासो
निविडोत्साह: पर्जन्यतुल्योदयश्च क्षमाभृतां सानुसैन्यनिपाती वहति स
शौर्यश्रीश्रवणनवनीलोत्पलतुल्यस्त्वत्खड्गश्चित्रं शात्रूणां संतापं करो-
तीति यदुक्तं तत्कर्मभूतस्य तापस्य शिशिरतरसामग्रीजन्मन: परं
वैचित्र्यं रुचिरमौचित्यमासूत्रितम् ।
न तु यथा ममैवावसरसारे__
भग्नाहितश्वसितवातविबोध्यमान:
काष्ठाश्रयेण सहसैव विवृद्धिमाप्त:।
अत्र विद्रुतारिनि:श्वसितानिलप्रबोध्यमान: काष्ठाश्रयेण दिक्चक्र-
पूरणे प्रौढतां प्राप्त: पावकतुलृयस्म्त्वत्प्रताप: शत्रुकान्तानां तापमात्रं
तनोतीति तत्समुचितमाश्चर्यं न किंचित् ।
तापं तनोति निहतारिविलासिनीनां
वह्रिद्युतिर्भुवननाथ ?0! ?0भवत्प्रताप: ।।
अत्र विदुतारिनि:श्वसितानिलप्रबोध्यमान:काष्ठाश्रयेण दिक्चक्र-
पूरणेन प्रौढतां प्राप्त: पावकतुल्यस्त्वत्प्रताप: शत्रुकान्तानां तापमात्रं
तनोतीति ततसमुचितमाश्चर्यं न किंचित् ।
करणौचित्य यथा गौडकुम्भकारस्य__
लाङ्गूलेन गभस्तिमान्वलायित: प्रोत: शशी मौलिना,
व्याधूता जलदा: सटाभिरुडवो दष्ट्राभिरुत्तम्भिता: ।
प्रोत्तीर्णो जलधिर्टृशैव हरिणा रवैराटटहासोर्मिभि-
र्लङेकशस्य च लङ्घितो दिशि दिशि प्राज्य: प्रतापानल: ।।
अत्र हरिणा हनुमता जलनिधितरणे तरणिर्लाङ्गूलेन वलयित:,
किरीटप्रान्तेन शशी प्रोत:, सटाभिर्मेघा व्याधूतास्तारा दष्ट्राभिरायासि-
तास्तीर्णोऽब्धिर्टृ षट्यैवाटटहासतरङैगर्लङेकशस्य विस्तीर्ण: प्रतापाग्नि:
शमित इति बहुभि: करणपदैरुत्साहाधिवासितैर्विस्मयशिखरारोहण-
सोपानैरिव रघुपतिप्रभावारम्भविजयध्वायमानस्य पवनसूनोरौचि-
त्यातिशय: प्रकाशित:।
न तु यथा बाणस्य कादम्बर्यां__
जयत्युपेन्द्र: स चकार दूरतो बिभित्सया य: क्षणलब्धलक्ष्या ।
दूशैव कोपारुणया रिपोरुर: स्वयं भयादिभन्नमिवास्त्रपाटलम् ।।
अत्र भगवतो नृसिंहस्य कोपरक्तया दुष्ट्यैव क्षणलब्धलक्षया
?हिरण्यकशिपोर्वक्ष: स्वयं भयादिभुन्नमिवेति यदुक्तं तन्महोत्साहपराक्र-
मस्य प्रतिनायापकस्य रिपो: प्रधाननायकप्रतापोद्दीपनोपकरणीभूताधि-
कधैयैस्य स्वयं विह्वलतया हृदयस्फुटनमित्युपचितमनौचित्यं "दृशैव
इति करणदस्य शिरसि विश्रानतम् ।
सम्प्रदानौचित्यं यथा भट्ट प्रभाकरस्य__
दिङ्मात ङगघटोविभक्तचतुराघाटा मही साध्यते,
सिद्धा सापि वदन्त एव हि वयं रोमञ्चिता: पश्यत ।
विप्राय प्रतिपाद्यते किमपरं रामाया तस्यै नमो,
यस्मादाविरभूत्कथाद्भुतमिदं यत्रैव चास्तं गतम् ।।
अत्र रावणदूतेन परशुं याचितो भार्गवो ब्रूते__नैष हरप्रसादलब्ध:
पाशुर्दानयोग्य:। तत्तस्मादात्मद्वचसा स दशग्रीवो वाच्य:__पृथ्वी मया
कश्यपय प्रतिपादिता, तुभ्यं पातालत्रिदिवयोर्मध्यात्किं निर्जित्य दीय-
ताम् इत्यनुचितं मुनेर्लोकहितप्रवृत्तस्य त्रैलोक्यकण्टकभूताय राक्षसाय
भुवनप्रतिपादनम् ।
अपादानैचित्यं यथा मालवरुद्रस्य__
एतस्माज्जलधोर्मिताम्बुकणिका: काश्चिद् गृ?हीत्वा तत:,
पाथोदा: परिपूरयन्ति जगतीं रुद्धाम्बरा वारिभि: ।
भ्राम्यन्मन्दरकूटकोटिघटनाभीतिभ्रमत्तारकां,
प्राप्यैकां जलमानुषीं त्रिभुवने श्रीमानभूच्युत: ।।
अत्र यदुक्तमेतस्मान्महोदधे: परिमिताम्बुकणिका: प्राप्य जलदा
जगत्पूरयन्ति, तथा भ्रमन्मन्दरकूटकोटिसंधट्टत्रासतरलतारकामेकां
जलमानुषीं श्रियं प्राप्य श्रीमानच्युतोऽभूदिति तेन सागरगतनिरति-
शयोत्कर्षविशेष: प्रदर्शित: । त्र एतस्माज्जलघे रित्येत्पदमौचित्यस्य मूलभूमि: ।।
न तु यथा भट्टेन्दुराजस्य__
आदाय वारि परित: सरितां मुखेभ्य:
किं नाम साधितमनेन महार्णवेन ।
क्षारीकृतं च वडवाहने हुतं च
पातालमूलकुहरे विनिवेशितं च ।।
अत्र महार्णवव्यपदेशेनान्योपार्जितद्रविणुर्व्ययकारिण: सत्संवि-
भाग-विमुखस्य कस्यचिदुच्यते । सरितां मुखेभ्य: समन्तात्तोयमादाया-
पात्रेभ्य: प्रतिपादितं दूषितम् । यत्त्वत्र सरिद्भ्य: समादायेति वक्तव्ये
सरिन्मुखेभ्य इत्युक्तं तेन मुखाशब्दस्य नैरर्थक्यादत्रानौचित्यमेव पर्य-
वस्यति ।
अधिकरणौचित्?यं यथा कुन्तेश्वरदौत्ये कालिदासस्य__
इह निवसति मेरु: शेखर: क्ष्माधराणा-
मिह विनिहितभारा: सागरा: सप्त चान्ये ।
इदमहिपितभोगस्तम्भविभ्राजमानं
धरणितलमिहैव स्थानमस्मद्विधानाम् ।
अत्र महाराजदूतोऽपि सामन्तास्थाने स्वप्रभुसमुचितगौरवपूजार्ह-
मासनमनासाद्य कार्यवशेन भूमावेवोपविष्ट: प्रागल्भयगाम्भीर्येणैवं ब्रूते?0__
यथाऽस्मद्विधानां वसुधातल एव भुजगपतिभोगस्तम्भप्राग्भरनिष्कम्पे
धासने स्थानं युक्तं यस्मादिहैव मेरुचलचक्रवर्ती समुपविष्ट: सप्त-
सागरा अब्धयश्च, तत्तल्यतैवास्माकमित्यौचित्मधिकरणपद- सम्बद्धमेव ।
नतु यथा परिमलस्य__
तत्र स्थितं स्थितिमतां वर वेच ! दैवाद्
भृत्येन ते चकितचित्तमियन्त्यहोनि ।
उत्कम्पिनि स्तनतटे हरिणेक्षणानां
हारान्प्रवर्तयति यत्र भवत्प्रताप: ।।
अत्र त्वद् भृत्येन मया तत्र तस्मिन्देशे स्थितं यत्र भवत्प्रताप: कम्प-
तरलस्तनतटे हरिणटृशां हारान्प्रवर्तयतीति यदुक्तं तेन शौर्यश्रृङगार-
गुणोत्कर्षस्तुतौ सर्वतो दिग्गमनाविच्छिन्नप्रसर: प्रताप: पारिमित्यं
प्राप्त: । एकत्र परिच्छिन्ने देशे मया तत्र स्थितं यत्र त्वप्रतापस्तरु-
णीस्तनतटेषु हारतरलनं करोत्यन्यदेशे विलक्षणमुपलक्षणम् । सर्वगत-
श्चेत्प्रतापस्तत्सर्वत्रैव मया स्थितमिमति वक्तव्ये तत्रेत्येकदेशाभिधायि
पदं नोपपद्यते, दस्युमात्रस्याप्येकदेशे जृम्भमाप्रतापत्वात् । तदत्राधि-
करणपदगतमनौचित्यमुपलभ्यते । तत्र तत्र मया स्थितं यत्र यत्र भव-
त्प्रताप इत्येव स्तुत्युचितं युक्तयुक्तं स्यात् ।। 20 ।।
लिङगौचित्यं दर्शयितुमाह__
अचितेनैव लिङेगन काव्यमायाति भव्यताम् ।
साभ्राज्यसूचकेनेव शरीरं शुभलक्ष्मणा ।। 21 ।।
प्रस्तुतार्थोचितेन लिङेगन काव्यं भव्यतामुपयाति राजलक्षणेनेव
शरीरम् ।
यथा मम ललितरत्नमालायाम्__
निद्रां न स्पुशति त्यजत्यपि धृतिं धत्ते स्थितिं न क्वचिद्
दीर्घां वेत्ति कथां व्याथां न भजते सर्वात्मना निर्वृ तिम् ।
तेनाराधयता गुणस्तवजपध्यानेनन रत्नावलीं,
नि:सङेगन पराङगनापरिगतं नामपि नो सह्मते ।।
अत्र वत्सेश्वरस्य रत्नावलीविरहविधुरचेतस: स्मरावस्थासमुचितं
विदूषकेण सुसङगतायै यदभिहितम्__निद्रां न स्पृशति, धृतिं
त्यतति, र्स्थिनिं न धत्ते, दीर्घां कथां व्यथामिव वेत्ति, तिर्वृ तिं न भजते
तां विना तेन तद्गुणजापिना तद्धचाननिरतेन जनसङगत्यागिनाऽन्या-
सामङगनानां नामापि न सह्मते । तत्र स्थितिधृतिकथानिर्वृ तीनां स्त्री-
लिङगाभिधानेनाङगानात्वध्यारोपेण परमौचित्यं प्रतिपादितम् ।
नतु यथा मम नीतिलतायाम्__
वरुणरणसमर्था स्वर्गभङैग कृतार्थ,
यमनियमनशक्ता मारुतोन्माथसक्ता ।
धनदनिधनशय्या लज्जते मर्त्ययुद्धे
दहनदलनचण्डा मण्डली मद्भुजानाम् ।।
अत्र रावण: कपिनिकरामर्षविषमविकाराविष्कारोचितं ब्रूते__
चरुणादिलोकपालविशालबलावलेपविप्लवकारिणी मर्त्यमात्रयुद्धेलज्जते
प्रचण्डा मद्भुजमण्डलीति स्त्रीलिङेगन निर्देशस्त्रैलोक्यविजयोचितस्य
प्रतापस्य कठोरतामपहरन्ननौचित्यं सूचयति ।। 21 ।।
वचनौचित्यं दर्शयितुमाह__
उचितैरेव वचनै: काव्यमायाति चारुताम् ।
अदैन्यधन्?यमनसां वदनं विदुषामिव ।। 22 ।।
अचितैरेकवचनद्विवचनबहुवचनै: काव्.यं चारुतामायाति अदैन्यो-
दारचेतसां विदुषामिव वदनयाञ्चाचारुचिरौचित्यचारुभिर्वचोभि: ।
यथा मम नीतिलतायाम्__
त्रैलोक्याक्रमणैर्वराहविजयैर्नि:संख्यारत्नाप्तिभि:,
प्रख्यात: स्वरसस्वयंवरशतैर्युद्धाब्धिमध्ये श्रिय: ।
साश्चर्यै र्ब लिबन्धनैश्च बहुभिर्नित्यं हसत्युत्थित:
पौलस्त्य: सकृदुद्यमश्रमवशाद्व्चासक्तनिद्रं हरिम् ।।
अत्र शुकसारणाभ्यां रघुपतेरग्रे दशग्रीवपराक्रमेऽभिधीयमाने
यदुक्तं पैलस्त्य: शेषशायिनं हरिमेकवारेद्योगश्रमवशेन संसक्तालस्य-
निद्रमनेकत्रैलोक्याक्रमणैर्वराहविजयिनां सुभटानां जयैरनेकरत्नप्रा-
प्तिभि: समरसमुद्रमध्ये बहुवारविहितै: श्रिय: स्वयंवरशतैबैलिनां च
लोकपालानां बन्धनै: प्रख्यात: दोत्थित: सोत्साह: सततं हसतीति
बहुवचनैरेव हरिवैलक्षण्यलक्षणमुपचितमौचित्यमुदञ्चितम् ।
नतु यथा मातृगुप्तस्य__
नायं निशामुखसरोरुहराजहंस:,
कीरीकपोलतलकान्ततनु: शशाङक: ।
आभाति नाय ! तदिदं दिवि दुग्धसिन्धु-
डिण्डीरपिण्डपरिपाण्डु यशस्त्वदीयम् ।।
अत्र नायं शरी त्वदीयं दुग्धाब्धिफेनपिण्डपाण्डुरं यश इति यदभि-
हितं तदविच्छिन्नप्रराणां यशसां बहुवचनेन वर्णनायां समुचिताया-
मेकचनोचित्युमुदभावयति ।
विशेषणौचित्यं दर्शयितुमाह__
विशेषणै: समुचितैर्विशेष्योऽर्थ: प्रकाश्याते ।
गुणाधिकैर्गुणोदार: सुहृदिभरिव सज्जन: ।। 23 ।।
काव्ये विशेष्योऽर्थ: समुचितैरेव विशेषणै: शोभां लभते, गुणोदार:
साधुर्यथाऽभ्यधिकगुणै: सुहृदिभ: ।
यथा मम मुनिमतमीमांसायाम्__
चैत्रे सूत्रितयौवनान्युपवनान्यामोदिनी पह्मिनी,
ज्योत्स्नाप्रावरणानि रत्नवलभीहर्म्याणि रम्या: स्त्रिय: ।
सर्वं चारुतरं न कस्य दयितं यर्स्मिस्तु तद्भुज्यते,
तन्मृन्निर्मितमामभाजनमिव क्षिप्रक्षयं जीवितम् ।।
अत्र युधिष्ठिरस्यासादितमहाविभूतेर्मयनिर्मितमणिमयसभाभि-
मानिनो विभवप्रभावे वर्ण्यमाने सकलभावाभावस्वरूपभाववादोपदे-
शिनोमहामुनेराशयविचरावसरे यदुक्तं कुसुमसमयसमुपचितयौवना-
न्युपवनानि मकरन्दामोदसयुन्दरारविन्दिनो ज्योत्स्नापटप्रावृतानि रत्न-
वलभीहर्म्याणि रमणीया रमण्श्चेति सर्वमेतच्चारुतरं सर्वस्याभि-
मतम् । किन्तु यस्मिन्भुज्यते तज्जीवितमाममृत्पात्रनि:सारं क्षिप्रक्षय-
मिति तद्विशेष्यपदोत्कर्षकारिविशेषणपदोदितसौन्दर्येण पर्यन्तनि:सार-
तानिर्वेदसवादिस्फुरदौचित्यमातनोति ।
न तु यथा भट्टलट्टनस्य__
ग्रीष्मं द्विषन्तु जलदागममर्थयन्तां
ते सङकटप्रकृतयो विकटास्तडागा: ।
अब्धेस्तु मुग्धशफरीचटुलावचलोचलेन्द्र-
निष्कम्पकुक्षिपयसो द्वयमप्यचिन्त्यम् ।।
अत्र ग्रीष्मं द्विषन्तु मेघागमं सङकटस्वभावा विकटा विस्तीर्णाश्च
तटाका: प्रार्थयन्ताम्, महब्धेस्तु बालशफरीलोलाचलेन्द्रनिश्चलकुक्षि-
पयसो ग्रीष्मघनागमावप्यगणनीयाविति यदुक्तम्,तत्र तडागविशेषणयो:
सङकटविकटपदयो: परस्परविरुद्धार्थयोरनौचित्यं स्पष्टमवभासते,
सङकटस्वभावस्य हि विकटत्वं विस्तीर्णत्वं नोपपद्यते । अथ स्वभावे
सङकटमाकारे विकटत्वम्, तदपि तटाकस्य निश्चेतनस्य स्वभावा-
भावादनुपपन्नमेव ।। 23 ।।
उपसर्गैचित्यं दर्शयितुसाह__
योग्योपसर्गसंसगैर्निरर्गलगुणोचिता ।
सूक्तिर्विवर्धते सम्पत्सन्मार्गगनैरिव ।। 24 ।।
अचितै: प्रादिभिरुपसर्गै: सूक्तिरुन्नतिमासादयति, विभूतिरिव
सन्मार्गगमनै: ।
यथा मम मुनिमतमीमांसायाम्__
आचारं भजते त्यजत्यपि मदं वै राग्यमालम्बते,
कर्तुं वाञ्छति सङगभङगगनिलतोत्ततुङगाभिमानं तप: ।
र्दवत्यस्तविपर्ययै: सुखशिखाभ्रष्ट: प्रणाष्टो जन:,
प्रायस्तापविलीनलोहसदृशीमायाति कर्मण्यताम् ।।
अत्र दुर्योधनस्य घोषयात्रायां गन्धर्वबन्धपराभवभग्नाभिमानस्य
प्राज्यसाभ्राज्यमुत्सृज्य तप:प्रयत्नाभिविष्टस्य दुर्ग्रहे वर्ण्यमाने
यदुक्तं__सर्वो जन: सुख भ्रष्ट: प्रणष्टविभव: सदाचारं भजते, मदं
त्यजति, वैराग्यमाश्रयति, सङगभङगेन विगलितोत्तुङगाभिमानं तप:
कर्तुं वाञ्छति, प्रायो बाहुल्येन तापविगलितलोहपिण्डसदृशीं कर्मण्य-
तामायातीति, तत्रोत्पूर्वतया सोपसर्गस्य तुङगशब्दस्य स्व्भावोत्रतिर्द्वि-
गुणातामुपयाता दुर्मदाभिमानार्थैचित्यमुच्यै: करोति ।
न तु यथा कुमारदासस्य__
अयि विजहीहि दृढोपगूहनं त्यज नवसङगमभीरु ! वल्लभम् ।
अरुणकरोद्गम एष वर्तते वरतनु ! सम्प्रवदिन्त कुक्कुटा: ।।
अत्राभिनवानङगसङगमगाढालिङगननिश्चलाङगच्छन्नाङगनाप्रबोधने
सख्या यदुक्तं मुञ्च वल्लभं प्रभातसंध्ययामरुणकिरणोद्गमो वर्तते,
कुक्कृटाश्च सम्प्रवदन्तीति, तच्च सम्प्रोपासर्गंशून्याशब्दापूरणमात्रेण
निरर्थकत्वानुचितमेव ।। 24 ।।
निपातौचित्यं दर्शयितुमाह__
उचितस्थानविन्यस्तैर्निपातैरर्थसङगति ।
उपादेयैर्भवत्येव सचिवैरिव निश्चला ।। 25 ।।
उपादेयैश्चा?दिभिर्निपातैरुचितपदविनिवेशितै: काव्याथैस्य सङगति-
रसन्दिधा सत्सहायैरिव भवति ।
यथ मम मुनिमतमीमांसायाम्__
सर्वे स्वर्गसुखथिन: त्रतुशतै: प्राज्यैर्यजन्ते जडा-
स्तेषां नाकपुरे प्रयाति विपुल: काल: क्षणार्धं च तत् ।
क्षीणे पुष्यधने स्थितिनं तु यथा वेश्यागृहे कामिनां, तस्मान्मोक्षसुखं समाश्रयत भो: ! सत्यं च नित्यं च यत् ।।
अत्र स्वर्गसुखस्य वेश्याभोगवदवसानविरसचपलतायां प्रतिपा-
दितायां निश्चलमोक्षसुखस्य नि:सन्देहनिश्चिता प्रतिपत्तिर्निपातपदो-
पबृंहिता वाक्यार्थौचित्यं जनयति ।
न तु यथां श्राचक्रस्यम__
देवो जानाति सर्वं यदपि च तदपि ब्रूमहे नीतिनिष्ठं,
सार्द्धं सन्धाय जालान्तरधरणिभुजा निर्वृ तो बान्धवेन ।
स्लेच्छानुच्छिन्धि भिन्धि प्रतिदिनमयशो रुन्धि विश्वं यशोभि:,
सोदन्वन्मेखलायां परिकलय करं किञ्च विश्वम्भरायाम् ।।
अत्र क्षितिपतिस्तुतिप्रस्तावे "देवो जानाति सर्वं यदपि च तदपि
इति तदुक्तं तत्र पूर्वापरयोरसम्बन्द्धत्वेन निरर्थक एव निरुपयोगश्च-
कार: प्रततोत्सवबहुजनभोजनपङ्क्तावपरिज्ञात: स्वयमिव मध्ये
समुपविष्ट: पश्चादभिव्यक्त: परं लज्जादुर्मना अनौचित्यं प्रतनोति ।। 25 ।।
कालौचित्यं दर्शयितुमाह__
कालौचित्येन यात्येव वाक्यमर्थेन चारुताम् ।
जनावर्जनरम्येण वेषेणेव सतां वपु: ।। 26 ।।
कालकृतौचित्ययुक्तेनार्थेन वाक्यं चारुतामेति वेषपरिग्रहेणेव
कालयोग्येन सतामवसरज्ञानां वपु: ।
यथ्या मम मुनिमतमीमांसायाम्__
योऽभूद गोपिशिशु: पयोदधिशिरश्चौर: करीषङकष__
स्तस्यैवाद्य जगत्पते खगपते शौरे मुरारे हरे ।
श्रीवत्साङक ! जहैरिति स्तुतिपदै: कर्णौ नृणां पूरितौ,
ही कालस्य विपर्ययप्रणयिनी पाकक्रियाश्चर्यभू: ।।
अत्रामर्षविषविषमाविष्कारमुमूर्षुणा शिशुपालेनाभिधीयमाने
यत्किल गोपलबाल: पयोदधिशिरश्चौर: करीषङकषोऽभूत्तस्यैवाद्य
जगन्नाथादिभि: स्तुतिपदैर्नु णां कर्णौ पूरितौ ही बत कालस्य विपर्यय-
कारिणी पाकक्रियाऽऽचर्य भूमिरिति वाक्येभूदिति भूतकालेनाश्चर्य-
परिषोषरुचिरमारब्धाधिक्ष पलक्षणं वक्यौचित्यं कृतम् ।
यथा वा मालवकुवलयस्य__
च्यतुतसुमनस: कुन्दा: पुष्पोद्गमैरलसा द्रुमा,
मनसि च गिरं गृह्णन्तीमे किरन्ति न कोकिला: ।
अथ च सवितु: शीतोल्लासं लुलन्ति मरीचयो
न च जरठतामरलम्बन्ते क्लमोदियदायिनीम् ।।
अत्र शिशुतरवसन्तकान्तोपवननवरसोल्लाससूच्यमानमनसिजो-
त्कण्ठावर्णनायामृतुमन्धिसमुचिता: कुन्दा: कुसुमावसानशून्यतनव:,
किंशुकाशोका: कलिकोद्गमभरालसा:, मनसि कोकिला: कलकूजिता-
न्यनुसन्दधति, रबेर्मरीचय: शीतोल्कासमथ च निवारयन्ति न च
सन्तापदायिनीं प्रौढतामालम्बन्ते इत्युक्ते वर्तमानकालपदेष्वेव
हृदयसंवादसुन्दरमौचित्यं किमप्यामोदते ।
यथा च भूट्टभल्लटस्य__
मृत्योरास्यमिवाततं धनुरिदं मुर्च्छद्विषाश्चषेव:,
शिक्षा सा विजितार्जुना प्रतिलयं सर्वाङगलग्ना गति: ।
अन्त:कौर्यमहो शठस्य मधुनो हा हारि गीतं मुखे,
व्याधस्यास्य यथा भष्यियति तथा मन्ये वनं निर्मृगम् ।।
अत्र लुब्धकस्य धनु: सायकशिक्षागतिक्रौर्यगीतानि तथा यथा
वनं निर्मृगं भविष्यतीति भविष्यत्काल: प्रककृतार्थपरिपोषेण हृदयसंवा-
दौचित्यमादधाति ।
न तु यथा वराहमिहिरस्य__
क्षीणश्चन्द्रो विशति तरणेर्मण्डलं मासि मासि
लब्ध्वा का?ञ्चित्पुनरपि कलां दूरदूरानुवर्ती ।
स्म्पूर्णश्चेत्कथमपि तदा स्पर्द्धयोदेति भानो-
र्नो दौर्जन्यादिरमति जडो नापि दैन्याद्वचरंसीत् ।।
अत्र रवेर्मण्डलं क्षीण: शशी प्रतिमासं प्रविशति तत: का?ञ्चिदाप्या-
यिकां कलां प्राप्य दूरे दूरे भवति,परिपूर्णश्च तस्यैव स्पर्द्ध याऽभ्युदेति,
दौर्जन्यान्न्?ा विरमति न च दैन्याद्वचरंसीदित्येतद् "विरमति व्यरंसीत्
इति परस्परासङगतं कालपदद्वयं चन्द्रस्य सदृशयोर्दौर्जन्ययो: सर्वकाल-
मभिनिर्वु तयोर्यदुपन्यस्तं तत्र व्यरंसीदिति विरुद्वार्थत्वादनुचित-
मेव ।। 26 ।।
वेशौचित्यं दर्शयितुमाह__
देशौचित्येन काव्यार्थ: ससंवादेन शोभते ।
परं परिचयाशंसी व्यवहार: सतामिव ।। 27 ।।
देशविषयौचित्येन हृदयसंवादिना काव्यार्थ: सतां व्यवहार इव
परिचयसूचक: शोभते ।
यथा भट्टभवभूते:__
पुरा यत्र स्त्रोत: पुलिनमधुना तत्र सरितां
विपर्यासं यातो घनविरलभाव: क्षितिरुहाम् ।
बहोर्दृ ष्टं कालादपरमिव मन्ये वनमिदं
निवेश: शैलानां तदिदमिति बुद्धिं द्रढयति ।।
अत्र बहुभिर्वर्षैरतिक्रान्तै शम्बूकवधप्रसङेगन दण्डकारण्यं राम:
पूर्वपिरिचतं पुन: प्रविष्ट: समान्तादवलोक्यैवं ब्रूते__पुरा यत्र नदीनां
प्रवाहस्तत्रेकदानीं तटम्, वृक्षाणां घनविरलत्वे विपर्ययश्चिराद् दृष्टं
वनमिदमपूर्वमिव मन्ये, पर्वतसन्निवेशस्तु तदेवैतदिति बुद्धिं स्थिरीकरी-
ति" इत्युक्ते चिरकालविपर्यपरिवृत्तसंस्थानकरानकाननवर्णनया हृदयसंवादी
देशस्वभाव: परमौचित्यमुद्द्योतयति ।
न तु यथा राजशेखरस्य__
कर्णटीदशानाङिकत: सितमहाराष्ट्रीकटाक्षाहत:,
प्रौढान्ध्रीस्तनपीहित: प्रणयिनीभ्रूभङगवित्रासित: ।
लाटीबाहुविवेष्टितश्च मलयस्त्रीतर्जनीतर्जित:,
सोऽयं सम्प्रति राजशेखरकविर्वाराणसीं वाञ्छति ।।
अत्र कर्णटमहाराष्ट्रान्ध्रलाटमलयललनासम्भोगसुभग: कालेन
गलितरागमोह: सम्प्रति राजशेखरकविर्वाराणसीं गन्तुमिच्छ?तीत्युक्ते
श्रृङगाररसतरङिगतवराङगनाप्रसङेगऽनङगनिरर्गलदक्षिणापयथदेशोद्दे श__
मध्येप्रणयिनीभ्रू भङ्गवित्रासित इति देशोपलक्षणाविरहितकेवलप्रण_
यिनीपदेन देशौचित्यमुपचितमप्यनुचिततां नीतम् ।। 27 ।।
कुलौचित्यं दर्शयितुमाह__
कुलोपचितमौचित्यं विशेषेत्कर्षकारणम्
काव्यस्य पुरुषस्येव प्रियं प्राय: सचेतसाम् ।। 28 ।।
पुरुषस्येव काव्यस्य कुलोन्नतमौचितृयं सविशेषोत्कर्षजनकं प्रायेण
बाहुल्येन सहृदयानामभिमतम् ।
यथा कालिदासस्य__
अथ स विषयव्यावृत्तात्मा यथाविधि सूनवे
नृपतिककुदं दत्त्वा यूने सितातपवापरणम् ।
मुनिवनतरुच्छायां देव्या तया सह शिश्रिये
गलितवयसामिक्ष्वाकूणामिदं हि कुलव्रतम् ।।
अत्र" अथ स राजा वृद्धस्तरुणाय सूनवे राज्यं प्रतिपाद्य तया देव्या
सह तपोवनं भेजे, विरक्तचेतसामिख्वाकूणामन्ते हि कुलव्रतीमदमेव
इत्युक्ते भूतवर्तमानभाविनां तद्वंश्यानामौचित्यमुन्मीलितम् ।
न तु यथा यशोवर्मंदेवस्य__
उत्पत्तिर्भण्डकुले यदभीष्टं तत्पदं समाक्रान्तम् ।
भोगास्तथापि दैवात्सकृदिप भोक्तं न लभ्यन्ते ।।
अत्र ममोत्पत्तिर्भण्डकुले समीहितपदाक्रमणं च निष्पन्नं तथापि
दैवार्पितप्रियावियोगादभोगा भोक्तु न लभ्यन्त ?इत्यभिहिते स्वसंवे-
द्यमेव भण्डकुलमन्यत्राप्रसिद्धं स्वयमेव निर्दिदिश्यमानमुत्कर्षविशेषण-
विरहितकेवलपदोदनेन निरर्थकतया निरौचित्यमेव । इक्ष्वाकुकुलस्य
तु निर्विशेषणत्वमुपपद्यत एव, त्रिभुवनप्रसिद्वौचित्यचरित्रत्वात् ।। 28 ।।
व्रतौचित्यं दर्शयितुमाह__
काव्यार्थ: साधुवादाहं: सद्व्रतौचित्यगौरवात् ।
सन्तोषनिर्भरं भक्त्या करोति जनमानसम् ।। 29 ।।
काव्यार्थ: समुचिततव्रतगौरवात्सधुवावादयोग्य: सन्तोषपूर्णं जनमन:
करोति । भक्तिविंच्छित्ति: ।
यथा मम मुक्तावलीकाव्ये__
अत्र वल्कलजुष: पलाशिन: पुष्परेणुभरभस्मभूषिता:।
लोलभृङगवलयाक्षमालिकास्तापसा इव विभान्ति पादपा: ।।
अत्र तपोधनोचिंव्रतव्यञ्जकवल्कलभस्माक्षसूत्रप्र णयिपादपवर्ण-
नायामचेतनामपि शमसमयविल चित्तवृत्तिरौचित्युपननयति ।
न तु यथा दीपकस्य__
पुण्ये ग्रामे वने वा महति सितपटच्छन्नपालीकपाली-
मादाय न्यायगर्भद्विजहुतहुतभुग्धूमोपकण्ठम् ।
द्वारं द्वारं प्रवृत्तो वरमुदरदरीपूरणाय क्षुधार्तो-
मानी प्राणी सनाथो न पुनरनुदिनं तुल्यकुल्येषु दीन:।।
अत्र वैराग्यनिरर्गलवर्णनायां भिक्षाकपलीमादाय क्षुत्क्षाम: कुक्षि-
पुरणाय प्रवृत्तो मानी वरं द्वारं द्वारं यष्टिनिविष्टपाणि: परिभ्रान्तो न
पुनरनिशं तुल्युकुल्येषु दीन इत्युक्ते सहजप्रशमविमल मानसविश्रान्ति-
सन्तोषामुत्सृज्य तुल्युकुल्यद्वेषविजिगीषापरमेव वाक्यं भृशमनौचित्य-
मुदभावयति । वरमेतत्तीव्रव्रतकष्टं न तु स्वजनदैन्यायचनमिति संसार-
ग्रन्थिबन्धाभिमानोयन्यास: ।। 29 ।।
तत्त्वैचित्यं दर्शयितुमाह__
काव्यं हृदयसंवादि सत्यप्रत्ययनिश्चयात् ।
तत्त्वोचिताभिधानेन यात्पयुपादेयतां कवे: ।। 30 ।।
तत्त्वोचिताख्यानेन कवे: सूक्तं सत्यप्रत्यस्यैर्यात्संवदि
गृह्मतां याति ।
यथा मम बौद्धावदानलोतिकायाम्__
दिवि भूवि फणिकोके शैशवे यौवने वा
जरसि निधनकाले गर्भशय्याश्रये वा ।
सहगमनसहिष्णो: सर्वथा देहभाजां
नहि भवति विनाश: कर्मण: प्राक्तनस्य ।।
अत्र प्राक्तनस्य कर्मणस्त्रैलोक्ये शैशवयौवनवृद्धत्वास्थासु देहिनां
सहगमने समर्थत्वान्न्?ा विनाशोऽस्तीत्युक्ते नि:संशयसकलजनहदय-
संवादितत्त्वाख्यानमौचित्यं ख्यापयति ।
न तु यथा माघस्य__
बुभक्षितैव्यकिरणं न भुज्यते न पीयते काव्यरस: पिपासितै: ।
न विद्यया केनचिदुद्धृतं कुलं हिरण्यमेवार्जय निष्फला: कला: ।।
अत्रायर्थार्थाथिंथतापरत्वेन धनमेवार्जय, क्षुधितैर्व्याककरणं न
भुज्यते, न च काव्यरस: पिपासितै: पीयते, न च विद्यया कुलं केन-
?Bचिदुद्धृतमित्युक्ते सर्वमेतद्दारिद्रचदैन्यविद्रुतधैर्यकातरताया तत्त्वविर-
हितं विपरीतमुपन्यस्तमनौचित्यसयुक्तमेव । विद्याानामेव सर्वसम्पत्प्र-
सपिवनीनां कुलोद्धारक्षमत्वं नान्यस्य ।। 30 ।।
सत्त्वैचित्यं दर्शयितुमाह__
चमत्कारं करोत्येव वच: सत्त्वोचितं कवे: ।
विचारीरुचिरोदारचरितं सुमतेरिव ।। 31 ।।
सत्त्वोचितं कवेर्वचश्चमत्कारं करोति, सुमतेरिव विचार्यमाणं
रुचिरमुदारवरितम् ।
यथा मम चित्रभारते नाटके
नदीवृन्दोद्दामप्रसरसलिलापृरिततनु:, स्फुरत्स्फीतज्वालानिविडवडवाग्निक्षतजल: ।
न दर्पं नो दैन्यं स्पृशति बहुसयत्त्व: पीतरपा- मवस्थानां भेदादभवति विकृतिर्नैव महताम् ।।
अत्र पयोधिव्यपदेशेन युधिष्ठिरस्य सत्त्वोत्कर्षेऽभिधीयमाने सरि-
त्पूरप्रवर्धिततनुर्वडवाग्निनिष्पीतश्च नोत्सेकं न सङकोचमब्धिर्विपुल-
सत्त्व: स्पृशति, न ह्मवस्थानां भेदान्महाशयानां विकारो भवतीत्युक्ते
गम्भरीरधीरा सत्त्ववृत्तिरौचित्यमातनोति ।
न तु यथा भट्टेन्दुराजस्य__
आश्चर्यं वडवानल: स भगवानाश्चर्यमम्भो निधि-
र्यत्कर्मातिशयं विचिन्त्य मनस: कम्प: समुत्पद्यते ।
एकस्याशयघस्मरस्य पिबतस्तृप्तिर्न जाता जलै-
रन्यस्यापि महात्मनो न वपुषि स्वल्पोऽपि जात: श्रम: ।।
अत्र वडवानलसमुद्रयो: सत्त्वमहत्त्वे वक्ष्यमाणे नातिविपुलाशयत्वा-
देकस्य पिबत:, पयोभिस्तृप्तिनं जाता, द्वितीयस्य तदुपजीव्यमानस्य न
मनागपि खेद:, तदेतदुभयमाश्चर्यमित्युक्ते नि:सन्तोषतया सततया च
कस्य न वडवाग्नेर्लज्जा न च जलनिघेराश्रितैकार्थिपूरणसामर्थ्यमित्य-
सत्त्वे सत्त्वस्तुतिरनौचित्यमावहति ।। 31 ।।
अभिप्रायौचित्यं दर्शयितुमाह__
अकदर्थनया सूक्तमभिप्रायसमर्थकम् ।
चित्तमावर्जयत्येव सतां स्वस्थमिवार्जवम् ।। 32 ।।
अक्लेशेनाभिप्रायसमर्थकं काव्यं हृदयमावर्जयति, सज्जनानां
निर्मलमार्ज वमिव ।
यथा दीपकस्य__
श्येनाहिङ्ध्रग्रहदारितोत्तरकरो ज्याङगप्रकोष्ठान्तर,
आताभ्राधरपाणिपादनयनप्रान्त: पृथूर: स्थल: ।
मन्येऽयं द्विजमध्यगो नृपसुत: कोऽप्यम्ब ! नि:शम्कल:,
पुत्र्येवं यदि कोष्ठमेतु सुकृतै: प्राप्तो विशेषातिथि: ।।
अत्र स्वैररमणी रमणीयं दिवसावसाने युवानं पथिकमालोक्याभि-
प्रायसूचकं जननीमेवं ब्रूते__"यदसौ राजपुत्राकृति: श्येनग्रहनाराच-
?परिचयोचित: सायंसमये प्राप्त: हत्युक्ते मात्राप्यभिप्रायपूरकमभिहि-
तम्--पुत्रि ! यद्येवं तत्कोष्ठाङंक प्रविशतु सुकृतैर्विशेषोऽतिथि: प्राप्त:
पूज्य इत्येतेन स्फुटाभिप्रायसूचकमौचित्यमुपचितमाचकास्ति ।
न तु यथाऽस्यैव-
अयि विरहविचित्ते ! भर्तुरर्थे तथार्ता
सपदि, निपतिता त्वं पादयोश्चण्डिकाया: ।
स्वयमुपहितधूपस्थालकच्छत्रश्रृङगो-
द्दलितमपि ललाटं येन नैवाललक्षे ।।
अत्राविनयदत्या: सुचिरात्पत्पयावगते ललाटनखोल्लेखापह्नववचने
सख्या समुपदिश्यमाने हे विरहोन्मत्ते भर्तुरर्थे चणिडकापादपतने स्वयं
स्थापितधूपस्थालको टिक्षतमनि न लक्षितं भवत्या ललाटमित्युक्तौ
स्वैरापह्नवशिक्षामात्रमेवोपलक्ष्यते, न तु तस्या: सख्या वा कश्चिदभि-
प्रायविशेष: ।। 32 ।।
स्वभावौत्यिं दर्शंयितुमाह---
स्वभावौचित्यमाभाति सूक्तीनां चारु भूषणम् ।
अकृत्रिममसामान्यं लावण्यमिव योषिताम् ।। 33 ।।
यथा मम मुनिमतमीसायाम्---
कर्णोत्तालितकुन्तलान्तनिपतत्तोयक्षणासङिगना,
हारेणेव वृतस्तनी पुलकिता शीतेन सीत्कारिणी ।
निर्धौताञ्जनशोणकोणनयना स्नानावसानेऽङगना,
प्रस्यन्दत्कबरीभरा न कुरुते कस्य स्पृहार्द्रं मन: ।।
अत्र "व्याससूनो: शुकस्य गाढवैराग्यनि:सङगस्य, गगनगङगातीरे
स्नातोत्तीर्णास्त्रिदशयोषितो विवसनास्तद्दर्शननि:सङकोचा: पश्यत:
प्रशमविमलमनस: स्मरव्यतिकरनिर्विकारतायां कर्णमूलोत्क्षिप्तालक-
पर्यन्तनिपतत्तोयकणसन्तानेन स्तनयो: कृतमुहूर्तहाराविभ्रमा, शीतेन
रोमाञ्चसीत्कारिणी, धौताञ्जनारुणनयनान्ता, प्रस्त्रवन्मुक्तकेशकलापा,
स्नानोत्तीर्णा तरुणी कस्य स्पृहार्द्र न मम: करोतीत्युक्ते स्वयमार्द्र -
स्वभाव: परमप्यार्द्रीकरोतीत्युचितमेतत् ।
न तु यथा मम तत्रैव__
भक्ति: कातरतां क्षमा सभयतां पूज्यस्तुतिर्दीनतां,
धैर्यं दारुणतां ?मति: कुटिलतां विद्याबलं क्षोभताम् ।
ध्यानं वञ्चकतां तप: कुहकतां शीलव्रतं षण्ढतां,
पैशुन्यव्रतिनां गिरां किमिव वा नायाति दोषार्द्र ताम् ।।
अत्र पिशुनस्वभावे वर्ण्यमाने भक्तयादीनां गुणानां वैवपरीत्ये प्रति-
पादिते पिशुनानां वचसां किं वा दोषार्द्रतां नायातीत्यभिहिते स्वय
मनार्द्र स्वभावस्य पशर्द्रीकरणमनुचितमेव ।। 33 ।।
सारसङ्ग्रहौचित्यं दर्शयितुमाह__
सारसङ्ग्रहवाक्येन काव्यार्थ: फलनिश्चित: ।
अदीर्घसूत्रव्यापार इव कस्य न स्म्मत: ।। 34 ।।
सारसंग्रहवाक्येन काव्यार्थ: सुनिश्चितफल: शीघ्रकारिण इव
व्यापार: कस्य नाभिमत: ।
यथा मम मुनिमतमीमांसायाम्__
विविधगहनगर्भग्रन्थसम्भारभारै-
र्मुनिभिरभिनिविष्टैस्तत्त्वमुक्तं न कि?ञ्चित् ।
कृतरुचिरविचारं सारमेतन्महर्षे-
रहमिति भवभूमिर्नाहमित्येव मोक्ष: ।।
अत्र भगवद्गीतार्थविचारे सारसंग्रहोऽभिहित:__यत्किल मुनिभिर-
नेकभेवभिन्नशास्त्रजहैरभिविष्टमभिनिविष्टमतिभिस्तत्त्वमुपादेयं न किञ्चत्क-
थितम् । भगवतो महर्षेर्व्यासस्य सुमतेर्विमलविचारोत्तीर्ण निश्चितमेत-
देव__यदहङकार: संसारमूलभूमिर्ममतपारित्याग एव मोक्ष इति तत्संक्षे- पेण भयक्षयोपदेश: प्रकृतार्थस्य परममौचित्यं पुष्णाति ।
न तु यथा परिव्रजकस्य__
तपो न तप्तं वयमेव तप्रा भोगा न भुक्ता वयमेव भुक्ता:।जरा न जीर्ण वयमेव जीर्णस्तृष्णा न याता वयमेव याता:।।
प्रतिभौचित्यं दर्शयितुमाह__
प्रतिभाभरणं काव्यमुचितं शोभते कवे: ।
निर्मलं सुगुणस्येव कुलं भूतिविभूषितम् ।। 35 ।।
यथा मम लावण्यवत्याम्__
अदय ! दशसि किं त्वं बिम्बबुद्धचाधरं मे
भव वपल निराश: पक्वजम्बूफलानाम् ।
इति दयितमवेत्य द्वारदेशाप्तमन्या
निगदति शुकमुच्यै: कान्तदन्तक्षतौष्ठी ।।
अत्र कयापि द्वारवेशाप्तं प्रियं ज्ञात्वा वन्यकामुकदशनखण्?िडतोष्ठचा
सम्प्रति तदागमन।नभिज्ञसयेव शुममुद्दिश्य यदुक्तं निदंय किं ! त्वं बिम्ब-
फललोभादधर मम विदारयसि, पक्वानां ज्म्बूफलानामिदानीं चपल
निराशो भव, कुपिता तुभ्यं नो दास्यामीति तेनोच्चै: प्रत्यायनापह्नवन-
वनवोन्मेप्रज्ञाचातुर्यचारुचनमौचित्चमत्कारं करोति । यदाह
भट्टतौत:__"प्रज्ञा नवनवोन्मेषशालिनी प्रतिभा मता इति ।
न तु यथा मम तत्रैव__
निर्याते दयिते गृहे विशयने निर्माल्यमाल्ये कृते,
प्राप्ते प्रातरसह्मरागिणि परे वारावहारेऽन्यथा ।
द्वाराली?नविलोचना व्यसनिनी सुप्राहमेकाकिनी-
त्युक्त्वा नीविविकर्वणै: स चरणाघातैरशोकीकृत: ।।
अत्र वेश्या व्यालग्नकामुकस्य वारावहारं विधाय नवकानुकेन सह
क्षपायां नीतायां प्रभाते तन्निर्याते शयायाकुमादिसम्भोददिसम्भोगलक्षणे निवा-
रिते वारवञ्चनकुपिते गाढसनुरागग्रहग्रस्तमतौ पूर्वकामुके प्राप्ते त्वदा-
लोकनकांखिणी व्यसनिनी द्वारन्यस्तनयनाहमेकाकिनी सुप्तेति प्रत्याय-
नावचनविलीसन्युसनमप्युसरभससरसनीविविकर्षणोद्यताकृतिकृतेर्ष्याकोपया
चरणनलिनप्रहारैरशोकीकृत: शङकाशल्योन्मुलनान्नि:शोक: सम्पादित:
सन्ततपुलकाङकरत्वादशोकतरुतुल्यतां नीत इति वा वाक्यार्थ: केवल-
यति, न तु प्रतिभोद्भूतामौचित्यकणिकां सूचयति ।। 35 ।।
अवस्थौचित्यं दर्शयितुमा__
अवस्थौचित्यमाधत्ते काव्यं जगति पूज्यताम् ।
विचार्यमाणरुचिरं कर्तव्यमिव धीमताम् ।। 36 ।।
अवस्थोचिततया काव्यं जगति श्लाध्यतामायाति, मतिमतामिव
कृत्यं विचारनिर्धर्षरुचिरम् ।
यथा मम लावण्यवतयाम्__
मुक्त: कन्दुकविभ्रमस्तरलता त्यवक्तैव बाल्योचिता,
मौग्ध्यं निर्धृतमाश्रिता गजगतिर्भ्रू लास्यमभ्यस्यते ।
यन्तर्मोमषु निर्मितं मृगदृशा वैदग्ध्यदिव्यं वच-
स्तह्मि: सुभगाभिमानलटभाभावे निबद्धो भर: ।।
अत्र यदुक्तं__कंन्दुकक्रीडा त्यक्त, बालचापल्यं परिहितम्, मौग्धं
निरस्तम्, गजगतिरङगीकृता, भूलतालास्याभ्यास: क्रियते, नर्मोमिषु
वचनवैचित्र्यमासूत्रितम्, तेन जानीभहे शैशवावस्थां समुत्सृजन्त्या
प्रौढतामनारूढयापि नवसम्भोगगौरवगर्भेण सुभगाभिमानेन लटभाभावे
बालया भरो निबद्ध:, इत्यभिहिते स्फुटधिया वयोवस्थामध्यसन्धिवर्ण-
नायामौचित्यं स्फुरदिवावभासते ।
न तुथा राजशेखरस्य__
ज्यायान् धन्वी नवण्धृतधनुस्ताभ्रहस्तोदरेण,
क्षत्रक्षोदव्यतिकरपटुस्ताटकाताडकेन ।
कर्णार्भायर्णस्फुरितपलित: क्षीरकण्ठेन सार्धं,
योद्धुं वाञ्छन्न कथमधुना लज्जते जामदग्न्य: ।
"अत्र भार्गव: स्थाविरावास्थास्थित: स्थिरतपराक्रमककंशप्रौढो धनुधर: शिशुना रामेण धनुर्ग्रहणारुणितकोमलकरकमलेन क्षत्रिय-
क्षयसंरम्भप्रगल्स्ताटकाताडकेन स्फुरदाकर्णपलित: सम्भाव्यमानजन-
नीस्तनक्षीरकण्ठेनामुना युयुत्सु: कथं न लज्जत इत्युक्ते पेशलताया राघवावस्थायां जामदग्न्यावस्थाविरीततायां प्रतिपाद्यमानायां ताट-
काताडकेनेति विरुद्धाधिवासोऽर्थ: किमप्यनौचित्येन चेतसि सङकोच-
मादधाति ।। 36 ।।
विचारौचित्यं दर्शयितुमाह__
उचितेन विचारेण चारुतां यान्ति सूक्तय: ।
वेद्यतत्त्वावबोधेन विद्या इव मनीषिणाम् ।। 37 ।।
विचारौचित्येन सूक्तयश्चारुतां यान्ति, ज्ञेयस्वरूपज्ञानेन विद्या इव
विदुषाम् ।
यथा मम मुनिमतमीमांसायाम्---
अध्वत्यथामवधाभिधानसमये सत्यव्रतोत्साहिना,
मिथ्या धर्मसुतेन जिह्मवचसा हस्तीति यद् व्याहृतम् ।
सा सत्यामृतरश्मिर्वरमसमं संसूचयन्त्या: सदा,
शङके पङकजसंश्रयेण मलिनारम्भा विजृम्भा श्रिय: ।।
अत्र "द्रोणनिधनाख्याने सत्यव्रतोत्साहवता धर्मतनयेनापि मिथ्या
लघुवचसा कुञ्चर इति यदुक्तं सा सततं सत्यचन्द्रद्वेषं सूचयन्त्या: श्रिया:
शङेक पङकजसंश्रयेण मलिनव्यापरा विजृम्भे त्यभिहिते ससंवादलक्ष्मी-
स्वभावपरिभावनया तत्त्वावबो धेन मूलविश्रान्त्या फलपर्यंवसायी
विचार: सहृदयसंवेद्यमौचित्यं व्यनक्ति ।
न तु यथा मम तत्रैव__
प्रग्लाने चिरकालवृत्तदयिताकेशाम्बराकर्षणे,
कूरं राक्षसवैशसं यदि कृतं भीमेन दु:शासने ।
तत्कालक्षमिणा कुशाश्मपरुषारण्यप्रवासे चिरं,
किं पीतं तततापमग्नमहिषस्वेदाम्बुपृक्तं पय: ।।
अत्र भीमसेनचरिते विचार्यमाणे त्रयोदशवर्षपर्युषिते कृष्णाकेशा-
कर्षणपराभवे भीमेन भीमं राक्षसकर्म दु:शासने यदि कृतं तत्सद्य:
कृतार्द्रापराधकालक्षमिणा सुचिरं दर्भसूचीविषमाश्मपरुषवनवासे किं
ग्रीष्मतापनिमग्नमहिषस्वेदस्त्रुतिपृक्तं पय:पीतिमित्यनुपपन्नकृत्येऽभिहिते
कारणविचाराभावान्निर्मुलोवान्निर्मुलोपालम्भात्रमनौचित्यमनुबध्नाति ।। 37 ।।
नामौचित्यं दर्शयितुमाह__
नाम्ना कर्मानुरूपेण ज्ञायते गुणदोषयो: ।
काव्यस्य पुरुषस्येव व्यक्ति: संवादपातिनी ।। 38 ।।
यथा कालिदासस्य__
इदमसुलभवस्तुप्रार्थनादुर्निवार:
प्रथममपि मनो मे पञ्चबाण: क्षिणोति ।
किमुत मलयवातान्दोलितापण्डपत्रै -
रुपवसहकारैर्दर्शितेष्वङ्कुरेषु ।।
अत्र प्रारम्भ एव ममेदं मन: पञ्चबाण: सुदुर्लंभवस्तुप्रार्थनादुर्नि-
वार: शकलीकरोति किमुत लीलोद्यानसहकारैर्मलयानिलान्दोलितबाल
पल्लवैरङ्कुरेषु दर्शितेष्वित्युक्ते मदनस्? ञ्चबाणाभिधानमुचितमेव ।
यथा वा मम बौद्धावदानलतायाम्__
तारुण्येन निपीतशैशवतया साऽनङगश्रृङगारिणी,
तन्पङगचा सकलाङगङगमसखी भङिगर्नवाङगीकृता ।
नि:संरम्भपराक्रम: पृथुतराम्भाभियोगं विना,
साभ्राज्ये जगतां यया विजयते देवो विलासायुध: ।।
अत्र "यौवननिपीतशैशवतया तन्वङगचाऽनङगश्रृङगारवती सर्वाङग
सङगमसखी सा काप्यभिनवा भङिगरङगीकृता यया निष्प्रयत्नपराक्रम:
प्रभूततराम्भम्भारं विहाय त्रिभुवनसाम्राज्ये जयति देवोविलासा-
युध: इत्युक्ते कामस्य विलासायुध इति नामपोपपन्नमेव, तन्वङगीभङग-
चैव सिद्धत्रैलोक्याधिपत्वविजिगीषायां कामसायकादीनां नैरर्थक्यात् ।
न तु यथा कालिदासस्य__
क्रोधं प्रभो संहर संहरेति यावद् गिर: खे मरुतां चरन्ति ।
तावत्स वह्रिर्भबनेत्रजन्मा भस्मावशेषं मदनं चकार ।।
अत्र "पश्यतो भगवतस्त्रिनेस्य स्मरशरनिपातक्षोभे वर्ण्यमाने-
तन्निकारोपशमाय 'सहर संहर प्रभो क्रोधमि'ति यावद्वच: खे देवानां
चरति तावदभवनेत्रोदभव: स वह्निर्मदनं भस्मराशिशेषमकार्षीत्इत्युक्ते
संहारावसरे रुद्रस्य भवाभिवानमनुचितमेव ।। 38 ।।
आशीर्वचनौचित्यं दर्शयितुमाह__
पूर्णार्थदाजतु: काव्यस्य सन्तोषितमनीषिण: ।
उचिताशीर्नृ पस्येव भवत्यभ्युदयावहा ।। 39 ।।
सम्पूर्णसमर्पकस्य सन्तोषितविदुष: काव्यस्य नृपतेरिवोचितमाशी:
पदमभ्युदयावहं भवति ।
यथाऽस्मदुपाध्यायगङगकस्य__
स कोऽपि प्रेमार्द्र: प्रणयपरिताकप्रचलितो
विलासोऽक्ष्यां देयात्सुमनुपमं वो मृगवृशाम् ।
यदाकूतं वृष्ट्वा पिदधति मुखं तूणविवरे,
निरस्तव्यापारा भुवनजयिन: पञ्चविशिखा: ।।
अत्र "स कोऽप्यसामान्यप्रेमार्द्रविश्रान्प्रिगल्भकुरङगवृशां निरु-
पमो नयनविलास:, सुखं वो देयात्, यदभिप्रायमालोक्य भुवनजयिन:
कामस्य पञ्चसायका: समाप्तव्यापारास्तूणीरविवरे लज्जयेव मुखं पिद-
धती इत्युक्ते सुखं वो देयादित्याशी:पदमुचितमेव प्रियानयनविभ्रमस्य सुखार्पणयोग्यत्वात् ।
यथा वा मम वात्स्यायनसूत्रसारे__
काम: कामं कमलवदनानेत्रपर्यन्तवासी
दासीभूतत्रिभुवनजन: प्रीतये जायतां व: ।
दग्धस्यापि त्रिपुररिपुणा सर्वलोकस्पृहार्हा
यस्याधिक्यं रुचिरतितरामञ्जनस्येव याता ।।
अत्र काम: प्री?तये वो जायतां यस्य दग्धस्याप्यञ्जनस्येवाधिक्यं
रुचिर्यातेत्युक्ते प्रीतये जायतामित्युचितं, कामस्य प्रीत्यात्मकत्वात् ।
नतु यथाऽमरुकस्य_ _
आलोलामलकावलीं विलुलितां विभ्राच्चलत्कुण्डलं,
किञ्चिन्मृष्टविशेषकं तनुतरै: स्वेदाभसां सीकरै: ।
तन्वङगचा: सुतरां रतान्तसमये वक्त्रं रतिव्यत्यये,
तत्त्वां पातु चिराय किं हरिहरस्कन्दादिभिर्दैवतै: ।।
अत्र "तन्व्या रतिव्यत्यये लोलाकं चलत्कुण्डलं चलत्कुण्डलं स्वेदसलिलेन
किञ्चिन्मृष्टतिलकं यन्मुखं तत्त्वां पातु किं हरिहरस्कन्दादिभिर्दैवतै:
इत्युक्ते पातु त्वामित्यनु?चितम्, आनान्दयतु त्वामित्युचितं स्यात् ।
अन्येषु काव्याङेगष्वनयैव दिशा स्वयमौचित्यमुत्प्रेणीयम् ।
तदुदाहरणान्यानन्त्यान्न प्रदर्शिशतानीत.यलमतिप्रसङगेन ।। 40 ।।
?0ग्रन्थकर्तृ परिचय:
आसीत् प्रक्राशेन्द्र इति प्रकाश: काश्मीरदेशे त्रिदशेश्वरश्री: ।
अभूद् गृहे यस्य पवित्रसत्त्रमच्छिन्नमग्रासनमग्रजानाम् ।। 1 ।।
य: श्रीस्वयंभूभवने विचित्रे दिचित्रे लेप्यप्रतिष्ठापितमातृचक्र: ।
गोभूमिकृष्णाजिनवेश्मदाता तत्रैव काले तनुमुत्ससर्जं ।। 2 ।।
तस्यात्मज: सर्वमनीषिशिष्य: श्रीव्यासदापरपुण्यनामा ।
क्षेमेन्द्र इत्यक्षयकाव्यकीर्तिश्चक्रे नवौचित्यविचारचर्याम् ।। 3 ।।
श्रीरत्नसिंहे सुहृदि प्रयाते शार्वं पुरं श्रीविजचेशराज्ञि: ।
तदात्मजस्योदयासिंहनाम्न: कृते कृतस्तेन गिरां प्रपञ्च: ।। 4 ।।
यस्यासि: परिवारकृत्त्रिभुवनप्रख्यातशीलश्रूते:
सर्वस्यावनतेन येन नितरां प्राप्ता विशेषोन्नति: ।
आशा: शीतलतां नयत्यविरतं यस्य प्रतापानल-
स्तस्य श्रीमदनन्तराजनृपते: काले किलायं कृत: ।। 5 ।।
इति श्रीप्रकाशेन्द्रात्मज्वयासदासपराख्यश्रीक्षेमेन्द्रकृता
'औचित्यविचारर्चा' समाप्ता ।।