प्रमुखा विकल्पसूचिः उद्घाट्यताम्
ककारादि कालीसहस्रनामस्तोत्रम्
[[लेखकः :|]]



श्री गणेशाय नमः ।
कैलासशिखरे रम्ये नानादेवगणावृते ।
नानावृक्षलताकीर्णे नानापुष्पैरलङ्कृते ॥ १॥

चतुर्मण्डलसंयुक्ते श्रृङ्गारमण्डपे स्थिते ।
समाधौ संस्थितं शान्तं क्रीडन्तं योगिनीप्रियम् ॥ २॥

तत्र मौनधरं दृष्ट्वा देवी पृच्छति शङ्करम् ।
देव्युवाच ।
किं त्वया जप्यते देव किं त्वया स्मर्य्यते सदा ॥ ३॥

सृष्टिः कुत्र विलीनास्ति पुनः कुत्र प्रजायते ।
ब्रह्माण्डकारणं यत्तत् किमाद्यं कारणं महत् ॥ ४॥

मनोरथमयी सिद्धिस्तथा वाञ्छामयी शिव ।
तृतीया कल्पनासिद्धिः कोटिसिद्धीश्वरात्मकम् ॥ ५॥

शक्तिपाताष्टदशकं चराचरपुरीगतिः ।
महेन्द्रजालमिन्द्रादिजालानां रचना तथा ॥ ६॥

अणिमाद्यष्टकं देव परकायप्रवेशनम् ।
नवीनसृष्टिकरणं समुद्रशोषणं तथा ॥ ७॥

अमायां चन्द्रसन्दर्शो दिवा चन्द्रप्रकाशनम् ।
चन्द्राष्टकं चाष्टदिक्षु तथा सूर्याष्टकं शिव ॥ ८॥

जले जलमयत्वं च वह्नौ वह्निमयत्वकम् ।
ब्रह्म-विष्ण्वादि-निर्माणमिन्द्राणां कारणं करे ॥ ९॥

पातालगुटिका-यक्ष-वेतालपञ्चकं तथा ।
रसायनं तथा गुप्तिस्तथैव चाखिलाञ्जनम् ॥ १०॥

महामधुमती सिद्धिस्तथा पद्मावती शिव ।
तथा भोगवती सिद्धिर्यावत्यः सन्ति सिद्धयः ॥ ११॥

केन मन्त्रेण तपसा कलौ पापसमाकुले ।
आयुष्यं पुण्यरहिते कथं भवति तद्वद ॥ १२॥

श्रीशिव उवाच ।
विना मन्त्रं विना स्तोत्रं विनैव तपसा प्रिये ।
विना बलिं विना न्यासं भूतशुद्धिं विना प्रिये ॥ १३॥

विना ध्यानं विना यन्त्रं विना पूजादिना प्रिये ।
विना क्लेशादिभिर्देवि देहदुःखादिभिर्विना ॥ १४॥

सिद्धिराशु भवेद्येन तदेवं कथ्यते मया ।
शून्ये ब्रह्मण्डगोले तु पञ्चाशच्छून्यमध्यके ॥ १५॥

पञ्चशून्यस्थिता तारा सर्वान्ते कालिका स्थिता ।
अनन्त-कोटि ब्रह्माण्ड राजदण्डाग्रके शिवे ॥ १६॥

स्थाप्य शून्यालयं कृत्वा कृष्णवर्णं विधाय च ।
महानिर्गुणरूपा च वाचातीता परा कला ॥ १७॥

क्रीडायां संस्थिता देवी शून्यरूपा प्रकल्पयेत् ।
सृष्टेरारम्भकार्यार्थं दृष्टा छाया तया यदा ॥ १८॥

इच्छाशक्तिस्तु सा जाता तथा कालो विनिर्मितः ।
प्रतिबिम्बं तत्र दृष्टं जाता ज्ञानाभिधा तु सा ॥ १९॥

इदमेतत्किंविशिष्टं जातं विज्ञानकं मुदा ।
तदा क्रियाऽभिधा जाता तदीच्छातो महेश्वरि ॥ २०॥

ब्रह्माण्डगोले देवेशि राजदण्डस्थितं च यत् ।
सा क्रिया स्थापयामास स्व-स्वस्थानक्रमेण च ॥ २१॥

तत्रैव स्वेच्छया देवि सामरस्यपरायणा ।
तदिच्छा कथ्यते देवि यथावदवधारय ॥ २२॥

युगादिसमये देवि शिवं परगुणोत्तमम् ।
तदिच्छा निर्गुणं शान्तं सच्चिदानन्दविग्रहम् ॥ २३॥

शाश्वतं सुन्दरं शुद्धं सर्वदेवयुतं वरम् ।
आदिनाथं गुणातीतं काल्या संयुतमीश्वरम् ॥ २४॥

विपरीतरतं देवं सामरस्यपरायणम् ।
पूजार्थमागतं देव-गन्धर्वाऽप्सरसां गणम् ॥ २५॥

यक्षिणीं किन्नरीकन्यामुर्वश्याद्यां तिलोत्तमाम् ।
वीक्ष्य तन्मायया प्राह सुन्दरी प्राणवल्लभा ॥ २६॥

त्रैलोक्यसुन्दरी प्राणस्वामिनी प्राणरञ्जिनी ।
किमागतं भवत्याऽद्य मम भाग्यार्णवो महान् ॥ २७॥

उक्त्वा मौनधरं शम्भुं पूजयन्त्यप्सरोगणाः ।
अप्सरस ऊचुः ।
संसारात्तारितं देव त्वया विश्वजनप्रिय ॥ २८॥

सृष्टेरारम्भकार्य्यार्थमुद्युक्तोऽसि महाप्रभो ।
वेश्याकृत्यमिदं देव मङ्गलार्थप्रगायनम् ॥ २९॥

प्रयाणोत्सवकाले तु समारम्भे प्रगायनम् ।
गुणाद्यारम्भकाले हि वर्त्तते शिवशङ्कर ॥ ३०॥

इन्द्राणीकोटयः सन्ति तस्याः प्रसवबिन्दुतः ।
ब्रह्माणी वैष्णवी चैव माहेशी कोटिकोटयः ॥ ३१॥

तव सामरसानन्द दर्शनार्थं समुद्भवाः ।
सञ्जाताश्चाग्रतो देव चास्माकं सौख्यसागर ॥ ३२॥

रतिं हित्वा कामिनीनां नाऽन्यत् सौख्यं महेश्वर ।
सा रतिर्दृश्यतेऽस्माभिर्महत्सौख्यार्थकारिका ॥ ३३॥

एवमेतत्तु चास्माभिः कर्तव्यं भर्तृणा सह ।
एवं श्रुत्वा महादेवो ध्यानावस्थितमानसः ॥ ३४॥

ध्यानं हित्वा मायया तु प्रोवाच कालिकां प्रति ।
कालि कालि रुण्डमाले प्रिये भैरववादिनी ॥ ३५॥

शिवारूपधरे क्रूरे घोरद्रंष्टे भयानके ।
त्रैलोक्यसुन्दरकरी सुन्दर्य्यः सन्ति मेऽग्रतः ॥ ३६॥

सुन्दरीवीक्षणं कर्म कुरु कालि प्रिये शिवे ।
ध्यानं मुञ्च महादेवि ता गच्छन्ति गृहं प्रति ॥ ३७॥

तव रूपं महाकालि महाकालप्रियङ्करम् ।
एतासां सुन्दरं रूपं त्रैलोक्यप्रियकारकम् ॥ ३८॥

एवं मायाभ्रमाविष्टो महाकालो वदन्निति ।
इति कालवचः श्रुत्वा कालं प्राह च कालिका ॥ ३९॥

माययाऽऽच्छाद्य चात्मानं निजस्त्रीरूपधारिणी ।
इतः प्रभृति स्त्रीमात्रं भविष्यति युगे युगे ॥ ४०॥

वल्ल्याद्यौषधयो देवि दिवा वल्लीस्वरूपताम् ।
रात्रौ स्त्रीरूपमासाद्य रतिकेलिः परस्परम् ॥ ४१॥

अज्ञानं चैव सर्वेषां भविष्यति युगे युगे ।
एवं शापं च दत्वा तु पुनः प्रोवाच कालिका ॥ ४२॥

विपरीतरतिं कृत्वा चिन्तयन्ति मनन्ति ये ।
तेषां वरं प्रदास्यामि नित्यं तत्र वसाम्यहम् ॥ ४३॥

इत्युक्त्वा कालिका विद्या तत्रैवान्तरधीयत ।
त्रिंशत्-त्रिखर्व-षड्वृन्द-नवत्यर्बुदकोटयः ॥ ४४॥

दर्शनार्थं तपस्तेपे सा वै कुत्र गता प्रिया ।
मम प्राणप्रिया देवी हाहा प्राणप्रिये शिवे ॥ ४५॥

किं करोमि क्व गच्छामि इत्येवं भ्रमसङ्कुलः ।
तस्याः काल्या दया जाता मम चिन्तापरः शिवः ॥ ४६॥

यन्त्रप्रस्तारबुद्धिस्तु काल्या दत्तातिसत्वरम् ।
यन्त्रयागं तदारभ्य पूर्वं चिद्‍घनगोचरा ॥ ४७॥

श्रीचक्रं यन्त्रप्रस्ताररचनाभ्यासतत्परः ।
इतस्ततो भ्रम्यमाणस्त्रैलोक्यं चक्रमध्यकम् ॥ ४८॥

चक्रपारदर्शनार्थं कोट्यर्बुदयुगं गतम् ।
भक्तप्राणप्रिया देवी महाश्रीचक्रनायिका ॥ ४९॥

तत्र बिन्दौ परं रूपं सुन्दरं सुमनोहरम् ।
रूपं जातं महेशानि जाग्रत्त्रिपुरसुन्दरि ॥ ५०॥

रूपं दृष्ट्वा महादेवो राजराजेश्वरोऽभवत् ।
तस्याः कटाक्षमात्रेण तस्या रूपधरः शिवः ॥ ५१॥

विना श्रृङ्गारसंयुक्ता तदा जाता महेश्वरी ।
विना काल्यंशतो देवि जगत्स्थावरजङ्गमम् ॥ ५२॥

न श्रृङ्गारो न शक्तित्वं क्वापि नास्ति महेश्वरी ।
सुन्दर्य्या प्रार्थिता काली तुष्टा प्रोवाच कालिका ॥ ५३॥

सर्वासां नेत्रकेशेषु ममांशोऽत्र भविष्यति ।
पूर्वावस्थासु देवेशि ममांशस्तिष्ठति प्रिये ॥ ५४॥

सावस्था तरुणाख्या तु तदन्ते नैव तिष्ठति ।
मद्भक्तानां महेशानि सदा तिष्ठति निश्चितम् ॥ ५५॥

शक्तिस्तु कुण्ठिता जाता तथा रूपं न सुन्दरम् ।
चिन्ताविष्टा तु मलिना जाता तत्र च सुन्दरी ॥ ५६॥

क्षणं स्थित्वा ध्यानपरा काली चिन्तनतत्परा ।
तदा काली प्रसन्नाऽभूत् क्षणार्द्धेन महेश्वरी ॥ ५७॥

वरं ब्रूहि वरं ब्रूहि वरं ब्रूहीति सादरम् ।
सुन्दर्युवाच ।
मम सिद्धिवरं देहि वरोऽयं प्रार्थ्यते मया ॥ ५८॥

तादृगुपायं कथय येन शक्तिर्भविष्यति ।
श्रीकाल्युवाच ।
मम नामसाहस्रं च मया पूर्वं विनिर्मितम् ॥ ५९॥

मत्स्वरूपं ककाराख्यं मेधासाम्राज्यनामकम् ।
वरदानाभिधं नाम क्षणार्द्धाद्वरदायकम् ॥ ६०॥

तत्पठस्व महामाये तव शक्तिर्भविष्यति ।
ततः प्रभृति श्रीविद्या तन्नामपाठतत्परा ॥ ६१॥

तदेव नामसाहस्रं सुन्दरीशक्तिदायकम् ।
कथ्यते परया भक्त्या साधये सुमहेश्वरि ॥ ६२॥

मद्येर्मांसैस्तथा शुक्रैर्बहुरक्तैरपि प्रिये ।
तर्पयेत् पूजयेत् कालीं विपरीतरतिं चरेत् ॥ ६३॥

विपरीतरतौ देवि काली तिष्ठति नित्यशः ।
माध्वीकपुष्पशुक्रान्नमैथुनाद्या विरागिणी ॥ ६४॥

वैष्णवी व्यापिका विद्या श्मशानवासिनी परा ।
वीरसाधनसन्तुष्टा वीरास्फालननादिनी ॥ ६५॥

शिवाबलिप्रहृष्टात्मा शिवारूपाद्यचण्डिका ।
कामस्तोत्रप्रियात्युग्रमानसा कामरूपिणी ॥ ६६॥

ब्रह्मानन्दपरा शम्भु मैथुनानन्दतोषिता ।
योगीन्द्रहृदयागारा दिवा निशि विपर्यया ॥ ६७॥

क्षणं तुष्टा च प्रत्यक्षा दन्तमालाजपप्रिया ।
शय्यायां चुम्बनाङ्गः सन् वेश्यासङ्गपरायणः ॥ ६८॥

खड्गहस्तो मुक्तकेशो दिगम्बरविभूषितः ।
पठेन्नामसहस्राख्यं मेधासाम्राज्यनामकम् ॥ ६९॥

यथा दिव्यामृतैर्देवाः प्रसन्ना क्षणमात्रतः ।
तथाऽनेन महाकाली प्रसन्ना पाठमात्रतः ॥ ७०॥

कथ्यते नामसाहस्रं सावधानमनाः श्रृणु ।
सर्वसाम्राज्यमेधाख्यनामसाहस्त्रकस्य च ॥ ७१॥

महाकाल ऋषिः प्रोक्त उष्णिक्छन्दः प्रकीर्तितम् ।
देवता दक्षिणा काली मायाबीजं प्रकीर्तितम् ॥ ७२॥

ह्रूँ शक्तिः कालिकाबीजं कीलकं परिकीर्तितम् ।
कालिका वरदानादि-स्वेष्टार्थे विनियोगतः ॥ ७३॥

कीलकेन षडङ्गानि षड्दीर्घाबीजेन कारयेत् ।
ध्यानं च पूर्ववत्कृत्वा साधयेदिष्टसाधनम् ॥ ७४॥

ॐ अस्य श्रीसर्वसाम्राज्यमेधाकालीस्वरूप-
ककारात्मकसहस्रनामस्तोत्रमन्त्रस्य महाकाल-
ऋषिरुष्णिक्छन्दः, श्रीदक्षिणकाली देवता, ह्रीं बीजम्,
ह्रूँ शक्तिः, क्रीं कीलकं, कालीवरदानादिस्वेष्टार्थे जपे विनियोगः ।

ॐ महाकाल ऋषये नमः शिरसि ।
उष्णिक्छन्दसे नमः मुखे ।
श्री दक्षिणकालीदेवतायै नमः हृदये ।
ह्रीं बीजाय नमः गुह्ये ।
ह्रूँ शक्तये नमः पादयोः ।
क्रीं कीलकाय नमः नाभौ ।
विनियोगायनमः सर्वाङ्गे । इति ऋष्यादिन्यासः ।
ॐ क्रां अङ्गुष्ठाभ्यां नमः ।
ॐ क्रीं तर्जनीभ्यां नमः ।
ॐ क्रूं मध्यमाभ्यां नमः ।
ॐ क्रैं अनामिकाभ्यां नमः ।
ॐ क्रौं कनिष्ठिकाभ्यां नमः ।
ॐ क्रः करतलकरपृष्ठाभ्यां नमः । इति कराङ्गन्यासः ।
ॐ क्रां हृदयाय नमः ।
ॐ क्रीं शिरसे स्वाहा ।
ॐ क्रूं शिखायै वषट् ।
ॐ क्रैं कवचाय हुं ।
ॐ क्रौं नेत्रत्रयाय वौषट् ।
ॐ क्रः अस्त्राय फट् । इति हृदयादि षडङ्गन्यासः ।
अथ ध्यानम् ।
ॐ करालवदनां घोरां मुक्तकेशीं चतुर्भुजाम् ।
कालिकां दक्षिणां दिव्यां मुण्डमालाविभूषिताम् ॥

सद्यश्छिन्नशिरःखड्गवामोर्ध्वाधःकराम्बुजाम् ।
अभयं वरदं चैव दक्षिणाधोर्ध्वपाणिकाम् ॥

महामेघप्रभां श्यामां तथा चैव दिगम्बराम् ।
कण्ठावसक्तमुण्डालीगलद्रुधिरचर्चिताम् ॥

कर्णावतंसतानीतशवयुग्मभयानकाम् ।
घोरदंष्ट्राकरालास्यां पीनोन्नतपयोधराम् ॥

शवानां करसङ्घातैः कृतकाञ्चीं हसन्मुखीम् ।
सृक्कद्वयगलद्रक्तधाराविस्फुरिताननाम् ॥

घोररूपां महारौद्रीं श्मशानालयवासिनीम् ।
दन्तुरां दक्षिणव्यापिमुक्तलम्बकचोच्चयाम् ॥

शवरूपमहादेवहृदयोपरि संस्थिताम् ।
शिवाभिर्घोररूपाभिश्चतुर्द्दिक्षु समन्विताम् ॥

महाकालेन सार्द्धोर्द्धमुपविष्टरतातुराम् ।
सुखप्रसन्नवदनां स्मेराननसरोरुहाम् ॥

एवं सङ्चिन्तयेद्देवीं श्मशानालयवासिनीम् ॥

ॐ क्रीं काली क्रूँ कराली च कल्याणी कमला कला ।
कलावती कलाढ्या च कलापूज्या कलात्मिका ॥ १॥

कलादृष्टा कलापुष्टा कलामस्ता कलाधरा ।
कलाकोटि कलाभासा कलाकोटिप्रपूजिता ॥ २॥

कलाकर्मकलाधारा कलापारा कलागमा ।
कलाधारा कमलिनी ककारा करुणा कविः ॥ ३॥

ककारवर्णसर्वाङ्गी कलाकोटिविभूषिता ।
ककारकोटिगुणिता कलाकोटिविभूषणा ॥ ४॥

ककारवर्णहृदया ककारमनुमण्डिता ।
ककारवर्णनिलया काकशब्दपरायणा ॥ ५॥

ककारवर्णमुकुटा ककारवर्णभूषणा ।
ककारवर्णरूपा च ककशब्दपरायणा ॥ ६॥

ककवीरास्फालरता कमलाकरपूजिता ।
कमलाकरनाथा च कमलाकररूपधृक् ॥ ७॥

कमलाकरसिद्धिस्था कमलाकरपारदा ।
कमलाकरमध्यस्था कमलाकरतोषिता ॥ ८॥

कथङ्कारपरालापा कथङ्कारपरायणा ।
कथङ्कारपदान्तस्था कथङ्कारपदार्थभूः ॥ ९॥

कमलाक्षी कमलजा कमलाक्षप्रपूजिता ।
कमलाक्षवरोद्युक्ता ककारा कर्बुराक्षरा ॥ १०॥

करतारा करच्छिन्ना करश्यामा करार्णवा ।
करपूज्या कररता करदा करपूजिता ॥ ११॥

करतोया करामर्षा कर्मनाशा करप्रिया ।
करप्राणा करकजा करका करकान्तरा ॥ १२॥

करकाचलरूपा च करकाचलशोभिनी ।
करकाचलपुत्री च करकाचलतोषिता ॥ १३॥

करकाचलगेहस्था करकाचलरक्षिणी ।
करकाचलसम्मान्या करकाचलकारिणी ॥ १४॥

करकाचलवर्षाढ्या करकाचलरञ्जिता ।
करकाचलकान्तारा करकाचलमालिनी ॥ १५॥

करकाचलभोज्या च करकाचलरूपिणी ।
करामलकसंस्था च करामलकसिद्धिदा ॥ १६॥

करामलकसम्पूज्या करामलकतारिणी ।
करामलककाली च करामलकरोचिनी ॥ १७॥

करामलकमाता च करामलकसेविनी ।
करामलकबद्ध्येया करामलकदायिनी ॥ १८॥

कञ्जनेत्रा कञ्जगतिः कञ्जस्था कञ्जधारिणी ।
कञ्जमालाप्रियकरी कञ्जरूपा च कञ्जना ॥ १९॥

कञ्जजातिः कञ्जगतिः कञ्जहोमपरायणा ।
कञ्जमण्डलमध्यस्था कञ्जाभरणभूषिता ॥ २०॥

कञ्जसम्माननिरता कञ्जोत्पत्तिपरायणा ।
कञ्जराशिसमाकारा कञ्जारण्यनिवासिनी ॥ २१॥

करञ्जवृक्षमध्यस्था करञ्जवृक्षवासिनी ।
करञ्जफलभूषाढ्या करञ्जारण्यवासिनी ॥ २२॥

करञ्जमालाभरणा करवालपरायणा ।
करवालप्रहृष्टात्मा करवालप्रिया गतिः ॥ २३॥

करवालप्रिया कन्या करवालविहारिणी ।
करवालमयी कर्म्मा करवालप्रियङ्करी ॥ २४॥

कबन्धमालाभरणा कबन्धराशिमध्यगा ।
कबन्धकूटसंस्थाना कबन्धानन्तभूषणा ॥ २५॥

कबन्धनादसन्तुष्टा कबन्धासनधारिणी ।
कबन्धगृहमध्यस्था कबन्धवनवासिनी ॥ २६॥

कबन्धकाञ्चीकरणी कबन्धराशिभूषणा ।
कबन्धमालाजयदा कबन्धदेहवासिनी ॥ २७॥

कबन्धासनमान्या च कपालाकल्पधारिणी ।
कपालमालामध्यस्था कपालव्रततोषिता ॥ २८॥

कपालदीपसन्तुष्टा कपालदीपरूपिणी ।
कपालदीपवरदा कपालकज्जलस्थिता ॥ २९॥

कपालमालाजयदा कपालजपतोषिणी ।
कपालसिद्धिसंहृष्टा कपालभोजनोद्यता ॥ ३०॥

कपालव्रतसंस्थाना कपालकमलालया ।
कवित्वामृतसारा च कवित्वामृतसागरा ॥ ३१॥

कवित्वसिद्धिसंहृष्टा कवित्वादानकारिणी ।
कविपृज्या कविगतिः कविरूपा कविप्रिया ॥ ३२॥

कविब्रह्मानन्दरूपा कवित्वव्रततोषिता ।
कविमानससंस्थाना कविवाञ्च्छाप्रपूरिणी ॥ ३३॥

कविकण्ठस्थिता कं ह्रीं कङ्कङ्कं कविपूर्तिदा ।
कज्जला कज्जलादानमानसा कज्जलप्रिया ॥ ३४॥

कपालकज्जलसमा कज्जलेशप्रपूजिता ।
कज्जलार्णवमध्यस्था कज्जलानन्दरूपिणी ॥ ३५॥

कज्जलप्रियसन्तुष्टा कज्जलप्रियतोषिणी ।
कपालमालाभरणा कपालकरभूषणा ॥ ३६॥

कपालकरभूषाढ्या कपालचक्रमण्डिता ।
कपालकोटिनिलया कपालदुर्गकारिणी ॥ ३७॥

कपालगिरिसंस्थाना कपालचक्रवासिनी ।
कपालपात्रसन्तुष्टा कपालार्घ्यपरायणा ॥ ३८॥

कपालार्घ्यप्रियप्राणा कपालार्घ्यवरप्रदा ।
कपालचक्र‍रूपा च कपालरूपमात्रगा ॥ ३९॥

कदली कदलीरूपा कदलीवनवासिनी ।
कदलीपुष्पसम्प्रीता कदलीफलमानसा ॥ ४०॥

कदलीहोमसन्तुष्टा कदलीदर्शनोद्यता ।
कदलीगर्भमध्यस्था कदलीवनसुन्दरी ॥ ४१॥

कदम्बपुष्पनिलया कदम्बवनमध्यगा ।
कदम्बकुसुमामोदा कदम्बवनतोषिणी ॥ ४२॥

कदम्बपुष्पसम्पूज्या कदम्बपुष्पहोमदा ।
कदम्पुष्पमध्यस्था कदम्बफलभोजिनी ॥ ४३॥

कदम्बकाननान्तःस्था कदम्बाचलवासिनी ।
कच्छपा कच्छपाराध्या कच्छपासनसंस्थिता ॥ ४४॥

कर्णपूरा कर्णनासा कर्णाढ्या कालभैरवी ।
कलप्रीता कलहदा कलहा कलहातुरा ॥ ४५॥

कर्णयक्षी कर्णवार्ता कथिनी कर्णसुन्दरी ।
कर्णपिशाचिनी कर्णमञ्जरी कविकक्षदा ॥ ४६॥

कविकक्षाविरूपाढ्या कविकक्षस्वरूपिणी ।
कस्तूरीमृगसंस्थाना कस्तूरीमृगरूपिणी ॥ ४७॥

कस्तूरीमृगसन्तोषा कस्तूरीमृगमध्यगा ।
कस्तूरीरसनीलाङ्गी कस्तूरीगन्धतोषिता ॥ ४८॥

कस्तूरीपूजकप्राणा कस्तूरीपूजकप्रिया ।
कस्तूरीप्रेमसन्तुष्टा कस्तूरीप्राणधारिणी ॥ ४९॥

कस्तूरीपूजकानन्दा कस्तूरीगन्धरूपिणी ।
कस्तूरीमालिकारूपा कस्तूरीभोजनप्रिया ॥ ५०॥

कस्तूरीतिलकानन्दा कस्तूरीतिलकप्रिया ।
कस्तूरीहोमसन्तुष्टा कस्तूरीतर्पणोद्यता ॥ ५१॥

कस्तूरीमार्जनोद्युक्ता कस्तूरीचक्रपूजिता ।
कस्तूरीपुष्पसम्पूज्या कस्तूरीचर्वणोद्यता ॥ ५२॥

कस्तूरीगर्भमध्यस्था कस्तूरीवस्त्रधारिणी ।
कस्तूरीकामोदरता कस्तूरीवनवासिनी ॥ ५३॥

कस्तूरीवनसंरक्षा कस्तूरीप्रेमधारिणी ।
कस्तूरीशक्तिनिलया कस्तूरीशक्तिकुण्डगा ॥ ५४॥

कस्तूरीकुण्डसंस्नाता कस्तूरीकुण्डमज्जना ।
कस्तूरीजीवसन्तुष्टा कस्तूरीजीवधारिणी ॥ ५५॥

कस्तूरीपरमामोदा कस्तूरीजीवनक्षमा ।
कस्तूरीजातिभावस्था कस्तूरीगन्धचुम्बना ॥ ५६॥

कसतूरीगन्धसंशोभाविराजितकपालभूः ।
कस्तूरीमदनान्तःस्था कस्तूरीमदहर्षदा ॥ ५७॥

कस्तूरीकवितानाढ्या कस्तूरीगृहमध्यगा ।
कस्तूरीस्पर्शकप्राणा कस्तूरीविन्दकान्तका ॥ ५८॥

कस्तूर्य्यामोदरसिका कस्तूरीक्रीडनोद्यता ।
कस्तूरीदाननिरता कस्तूरीवरदायिनी ॥ ५९॥

कस्तूरीस्थापनासक्ता कस्तूरीस्थानरञ्जिनी ।
कस्तूरीकुशलप्रश्ना कस्तूरीस्तुतिवन्दिता ॥ ६०॥

कस्तूरीवन्दकाराध्या कस्तूरीस्थानवासिनी ।
कहरूपा कहाढ्या च कहानन्दा कहात्मभूः ॥ ६१॥

कहपूज्या कहाख्या च कहहेया कहात्मिका ।
कहमालाकण्ठभूषा कहमन्त्रजपोद्यता ॥ ६२॥

कहनामस्मृतिपरा कहनामपरायणा ।
कहपरायणरता कहदेवी कहेश्वरी ॥ ६३॥

कहहेतु कहानन्दा कहनादपरायणा ।
कहमाता कहान्तःस्था कहमन्त्रा कहेश्वरी ॥ ६४॥

कहज्ञेया कहाराध्या कहध्यानपरायणा ।
कहतन्त्रा कहकहा कहचर्य्यापरायणा ॥ ६५॥

कहाचारा कहगतिः कहताण्डवकारिणी ।
कहारण्या कहरतिः कहशक्तिपरायणा ॥ ६६॥

कहराज्यनता कर्म्मसाक्षिणी कर्मसुन्दरी ।
कर्मविद्या कर्मगतिः कर्मतन्त्रपरायणा ॥ ६७॥

कर्ममात्रा कर्मगात्रा कर्मधर्मपरायणा ।
कर्मरेखानाशकर्त्री कर्मरेखाविनोदिनी ॥ ६८॥

कर्मरेखामोहकरी कर्मकीर्तिपरायणा ।
कर्मविद्या कर्मसारा कर्म्माधारा च कर्मभूः ॥ ६९॥

कर्मकारी कर्महारी कर्मकौतुकसुन्दरी ।
कर्मकाली कर्मतारा कर्मच्छिन्ना च कर्मदा ॥ ७०॥

कर्मचाण्डालिनी कर्मवेदमाता च कर्मभूः ।
कर्मकाण्डरतानन्ता कर्मकाण्डानुमानिता ॥ ७१॥

कर्मकाण्डपरीणाहा कमठी कमठाकृतिः ।
कमठाराध्यहृदया कमठाकण्ठसुन्दरी ॥ ७२॥

कमठासनसंसेव्या कमठी कर्मतत्परा ।
करुणाकरकान्ता च करुणाकरवन्दिता ॥ ७३॥

कठोरा करमाला च कठोरकुचधारिणी ।
कपर्दिनी कपटिनी कठिना कङ्कभूषणा ॥ ७४॥

करभोरूः कठिनदा करभा करभालया ।
कलभाषामयी कल्पा कल्पना कल्पदायिनी ॥ ७५॥

कमलस्था कलामाला कमलास्या क्कणत्प्रभा ।
ककुद्मिनी कष्टवती करणीयकथार्चिता ॥ ७६॥

कचार्चिता कचतनुः कचसुन्दरधारिणी ।
कठोरकुचसंलग्ना कटिसूत्रविराजिता ॥ ७७॥

कर्णमक्षप्रिया कन्दा कथाकन्दगतिः कलिः ।
कलिघ्नी कलिदूती च कविनायक-पूजिता ॥ ७८॥

कणकक्षानियन्त्री च कश्चित्कविवरार्चिता ।
कर्त्री च कर्तृका भूषाकारिणी कर्णशत्रुपा ॥ ७९॥

करणेशी करणपा कलवाचा कलानिधिः ।
कलना कलनाधारा कलना कारिका करा ॥ ८०॥

कलगेया कर्कराशिः कर्कराशि-प्रपूजिता ।
कन्याराशिः कन्यका च कन्यकाप्रियभाषिणी ॥ ८१॥

कन्यकादानसन्तुष्टा कन्यकादानतोषिणी ।
कन्यादानकरानन्दा कन्यादानग्रहेष्टदा ॥ ८२॥

कर्षणा कक्षदहना कामिता कमलासना ।
करमालानन्दकर्त्री करमालाप्रपोषिता ॥ ८३॥

करमालाशयानन्दा करमालासमागमा ।
करमालासिद्धिदात्री करमालाकरप्रिया ॥ ८४॥

करप्रिया कररता करदानपरायणा ।
कलानन्दा कलिगतिः कलिपूज्या कलिप्रसूः ॥ ८५॥

कलनादनिनादस्था कलनादवरप्रदा ।
कलनादसमाजस्था कहोला च कहोलदा ॥ ८६॥

कहोलगेहमध्यस्था कहोलवरदायिनी ।
कहोलकविताधारा कहोलऋषिमानिता ॥ ८७॥

कहोलमानसाराध्या कहोलवाक्यकारिणी ।
कर्तृरूपा कर्तृमयी कर्तृमाता च कर्तरी ॥ ८८॥

कनीया कनकाराध्या कनीनकमयी तथा ।
कनीयानन्दनिलया कनकानन्दतोषिता ॥ ८९॥

कनीयककराकाष्ठा कथार्णवकरी करी ।
करिगम्या करिगतिः करिध्वजपरायणा ॥ ९०॥

करिनाथप्रियाकण्ठा कथानकप्रतोषिता ।
कमनीया कमनका कमनीयविभूषणा ॥ ९१॥

कमनीयसमाजस्था कमनीयव्रतप्रिया ।
कमनीयगुणाराध्या कपिला कपिलेश्वरी ॥ ९२॥

कपिलाराध्यहृदया कपिलाप्रियवादिनी ।
कहचक्रमन्त्रवर्णा कहचक्रप्रसूनका ॥ ९३॥

क‍ए‍ईलह्रींस्वरूपा च क‍ए‍ईलह्रींवरप्रदा ।
क‍ए‍ईलह्रींसिद्धिदात्री क‍ए‍ईलह्रींस्वरूपिणी ॥ ९४॥

क‍ए‍ईलह्रींमन्त्रवर्णा क‍ए‍ईलह्रीम्प्रसूकला ।
कवर्गा च कपाटस्था कपाटोद्घाटनक्षमा ॥ ९५॥

कङ्काली च कपाली च कङ्कालप्रियभाषिणी ।
कङ्कालभैरवाराध्या कङ्कालमानसंस्थिता ॥ ९६॥

कङ्कालमोहनिरता कङ्कालमोहदायिनी ।
कलुषघ्नी कलुषहा कलुषार्तिविनाशिनी ॥ ९७॥

कलिपुष्पा कलादाना कशिपुः कश्यपार्चिता ।
कश्यपा कश्यपाराध्या कलिपूर्णकलेवरा ॥ ९८॥

कलेश्वरकरी काञ्ची कवर्गा च करालका ।
करालभैरवाराध्या करालभैरवेश्वरी ॥ ९९॥

कराला कलनाधारा कपर्द्दीशवरप्रदा ।
कपर्द्दीशप्रेमलता कपर्द्दिमालिकायुता ॥ १००॥

कपर्द्दिजपमालाढ्या करवीरप्रसूनदा ।
करवीरप्रियप्राणा करवीरप्रपूजिता ॥ १०१॥

कर्णिकारसमाकारा कर्णिकारप्रपूजिता ।
करिषाग्निस्थिता कर्षा कर्षमात्रसुवर्णदा ॥ १०२॥

कलशा कलशाराध्या कषाया करिगानदा ।
कपिला कलकण्ठी च कलिकल्पलता मता ॥ १०३॥

कल्पलता कल्पमाता कल्पकारी च कल्पभूः ।
कर्पूरामोदरुचिरा कर्पूरामोदधारिणी ॥ १०४॥

कर्पूरमालाभरणा कर्पूरवासपूर्तिदा ।
कर्पूरमालाजयदा कर्पूरार्णवमध्यगा ॥ १०५॥

कर्पूरतर्पणरता कटकाम्बरधारिणी ।
कपटेश्ववरसम्पूज्या कपटेश्वररूपिणी ॥ १०६॥

कटुः कपिध्वजाराध्या कलापपुष्पधारिणी ।
कलापपुष्परुचिरा कलापपुष्पपूजिता ॥ १०७॥

क्रकचा क्रकचाराध्या कथम्ब्रूमा करालता ।
कथङ्कारविनिर्मुक्ता काली कालक्रिया क्रतुः ॥ १०८॥

कामिनी कामिनीपूज्या कामिनीपुष्पधारिणी ।
कामिनीपुष्पनिलया कामिनीपुष्पपूर्णिमा ॥ १०९॥

कामिनीपुष्पपूजार्हा कामिनीपुष्पभूषणा ।
कामिनीपुष्पतिलका कामिनीकुण्डचुम्बना ॥ ११०॥

कामिनीयोगसन्तुष्टा कामिनीयोगभोगदा ।
कामिनीकुण्डसम्मग्ना कामिनीकुण्डमध्यगा ॥ १११॥

कामिनीमानसाराध्या कामिनीमानतोषिता ।
कामिनीमानसञ्चारा कालिका कालकालिका ॥ ११२॥

कामा च कामदेवी च कामेशी कामसम्भवा ।
कामभावा कामरता कामार्ता काममञ्जरी ॥ ११३॥

काममञ्जीररणिता कामदेवप्रियान्तरा ।
कामकाली कामकला कालिका कमलार्चिता ॥ ११४॥

कादिका कमला काली कालानलसमप्रभा ।
कल्पान्तदहना कान्ता कान्तारप्रियवासिनी ॥ ११५॥

कालपूज्या कालरता कालमाता च कालिनी ।
कालवीरा कालघोरा कालसिद्धा च कालदा ॥ ११६॥

कालञ्जनसमाकारा कालञ्जरनिवासिनी ।
कालऋद्धिः कालवृद्धिः कारागृहविमोचिनी ॥ ११७॥

कादिविद्या कादिमाता कादिस्था कादिसुन्दरी ।
काशी काञ्ची च काञ्चीशा काशीशवरदायिनी ॥ ११८॥

क्रां बीजा चैव क्रीं बीजा हृदयाय नमस्स्मृता ।
काम्या काम्यगतिः काम्यसिद्धिदात्री च कामभूः ॥ ११९॥

कामाख्या कामरूपा च कामचापविमोचिनी ।
कामदेवकलारामा कामदेवकलालया ॥ १२०॥

कामरात्रिः कामदात्री कान्ताराचलवासिनी ।
कामरूपा कालगतिः कामयोगपरायणा ॥ १२१॥

कामसम्मर्द्दनरता कामगेहविकासिनी ।
कालभैरवभार्या च कालभैरवकामिनी ॥ १२२॥

कालभैरवयोगस्था कालभैरवभोगदा ।
कामधेनुः कामदोग्ध्री काममाता च कान्तिदा ॥ १२३॥

कामुका कामुकाराध्या कामुकानन्दवर्द्धिनी ।
कार्त्तवीर्य्या कार्त्तिकेया कार्त्तिकेयप्रपूजिता ॥ १२४॥

कार्य्या कारणदा कार्य्यकारिणी कारणान्तरा ।
कान्तिगम्या कान्तिमयी कात्या कात्यायनी च का ॥ १२५॥

कामसारा च काश्मीरा काश्मीराचारतत्परा ।
कामरूपाचाररता कामरूपप्रियंवदा ॥ १२६॥

कामरूपाचारसिद्धिः कामरूपमनोमयी ।
कार्त्तिकी कार्त्तिकाराध्या काञ्चनारप्रसूनभूः ॥ १२७॥

काञ्चनारप्रसूनाभा काञ्चनारप्रपूजिता ।
काञ्चरूपा काञ्चभूमिः कांस्यपात्रप्रभोजिनी ॥ १२८॥

कांस्यध्वनिमयी कामसुन्दरी कामचुम्बना ।
काशपुष्पप्रतीकाशा कामद्रुमसमागमा ॥ १२९॥

कामपुष्पा कामभूमिः कामपूज्या च कामदा ।
कामदेहा कामगेहा कामबीजपरायणा ॥ १३०॥

कामध्वजसमारूढा कामध्वजसमास्थिता ।
काश्यपी काश्यपाराध्या काश्यपानन्ददायिनी ॥ १३१॥

कालिन्दीजलसङ्काशा कालिन्दीजलपूजिता ।
कादेवपूजानिरता कादेवपरमार्थदा ॥ १३२॥

कर्म्मणा कर्म्मणाकारा कामकर्मणकारिणी ।
कार्म्मणत्रोटनकरी काकिनी कारणाह्वया ॥ १३३॥

काव्यामृता च कालिङ्गा कालिङ्गमर्द्दनोद्यता ।
कालागरुविभूषाढ्या कालागरुविभूतिदा ॥ १३४॥

कालागरुसुगन्धा च कालागरुप्रतर्पणा ।
कावेरीनीरसम्प्रीता कावेरीतीरवासिनी ॥ १३५॥

कालचक्रभ्रमाकारा कालचक्रनिवासिनी ।
कानना काननाधारा कारुः कारुणिकामयी ॥ १३६॥

काम्पिल्यवासिनी काष्ठा कामपत्नी च कामभूः ।
कादम्बरीपानरता तथा कादम्बरीकला ॥ १३७॥

कामवन्द्या च कामेशी कामराजप्रपूजिता ।
कामराजेश्वरीविद्या कामकौतुकसुन्दरी ॥ १३८॥

काम्बोजजा काञ्छिनदा कांस्यकाञ्चनकारिणी ।
काञ्चनाद्रिसमाकारा काञ्चनाद्रिप्रदानदा ॥ १३९॥

कामकीर्तिः कामकेशी कारिका कान्तराश्रया ।
कामभेदी च कामार्तिनाशिनी कामभूमिका ॥ १४०॥

कालानलाशिनी काव्यवनिता कामरूपिणी ।
कायस्था कामसन्दीप्तिः काव्यदा कालसुन्दरी ॥ १४१॥

कामेशी कारणवरा कामेशीपूजनोद्यता ।
काञ्ची-नूपुरभूषाढ्या-कुङ्कुमाभरणान्विता ॥ १४२॥

कालचक्रा कालगतिः कालचक्रामनोभवा ।
कुन्दमध्या कुन्दपुष्पा कुन्दपुष्पप्रिया कुजा ॥ १४३॥

कुजमाता कुजाराध्या कुठारवरधारिणी ।
कुञ्चरस्था कुशरता कुशेशयविलोचना ॥ १४४॥

कुमठी कुररी कुद्रा कुरङ्गी कुटजाश्रया ।
कुम्भीनसविभूषा च कुम्भीनसवधोद्यता ॥ १४५॥

कुम्भकर्णमनोल्लासा कुलचूडामणिः कुला ।
कुलालगृहकन्या च कुलचूडामणिप्रिया ॥ १४६॥

कुलपूज्या कुलाराध्या कुलपूजापरायणा ।
कुलभूषा तथा कुक्षिः कुररीगणसेविता ॥ १४७॥

कुलपुष्पा कुलरता कुलपुष्पपरायणा ।
कुलवस्त्रा कुलाराध्या कुलकुण्डसमप्रभा ॥ १४८॥

कुलकुण्डसमोल्लासा कुण्डपुष्पपरायणा ।
कुण्डपुष्पप्रसन्नास्या कुण्डगोलोद्भवात्मिका ॥ १४९॥

कुण्डगोलोद्भवाधारा कुण्डगोलमयी कुहूः ।
कुण्डगोलप्रियप्राणा कुण्डगोलप्रपूजिता ॥ १५०॥

कुण्डगोलमनोल्लासा कुण्डगोलबलप्रदा ।
कुण्डदेवरता क्रुद्धा कुलसिद्धिकरा परा ॥ १५१॥

कुलकुण्डसमाकारा कुलकुण्डसमानभूः ।
कुण्डसिद्धिः कुण्डऋद्धिः कुमारीपूजनोद्यता ॥ १५२॥

कुमारीपूजकप्राणा कुमारीपूजकालया ।
कुमारीकामसन्तुष्टा कुमारीपूजनोत्सुका ॥ १५३॥

कुमारीव्रतसन्तुष्टा कुमारीरूपधारिणी ।
कुमारीभोजनप्रीता कुमारी च कुमारदा ॥ १५४॥

कुमारमाता कुलदा कुलयोनिः कुलेश्वरी ।
कुललिङ्गा कुलानन्दा कुलरम्या कुतर्कधृक् ॥ १५५॥

कुन्ती च कुलकान्ता च कुलमार्गपरायणा ।
कुल्ला च कुरुकुल्ला च कुल्लुका कुलकामदा ॥ १५६॥

कुलिशाङ्गी कुब्जिका च कुब्जिकानन्दवर्द्धिनी ।
कुलीना कुञ्जरगतिः कुञ्जरेश्वरगामिनी ॥ १५७॥

कुलपाली कुलवती तथैव कुलदीपिका ।
कुलयोगेश्वरी कुण्डा कुङ्कुमारुणविग्रहा ॥ १५८॥

कुङ्कुमानन्दसन्तोषा कुङ्कुमार्णववासिनी ।
कुसुमा कुसुमप्रीता कुलभूः कुलसुन्दरी ॥ १५९॥

कुमुद्वती कुमुदिनी कुशला कुलटालया ।
कुलटालयमध्यस्था कुलटासङ्गतोषिता ॥ १६०॥

कुलटाभवनोद्युक्ता कुशावर्ता कुलार्णवा ।
कुलार्णवाचाररता कुण्डली कुण्डलाकृतिः ॥ १६१॥

कुमतिश्च कुलश्रेष्ठा कुलचक्रपरायणा ।
कूटस्था कूटदृष्टिश्च कुन्तला कुन्तलाकृतिः ॥ १६२॥

कुशलाकृतिरूपा च कूर्चबीजधरा च कूः ।
कुं कुं कुं कुं शब्दरता क्रूं क्रूं क्रूं क्रूं परायणा ॥ १६३॥

कुं कुं कुं शब्दनिलया कुक्कुरालयवासिनी ।
कुक्कुरासङ्गसंयुक्ता कुक्कुरानन्तविग्रहा ॥ १६४॥

कूर्चारम्भा कूर्चबीजा कूर्चजापपरायणा ।
कुचस्पर्शनसन्तुष्टा कुचालिङ्गनहर्षदा ॥ १६५॥

कुमतिघ्नी कुबेरार्च्या कुचभूः कुलनायिका ।
कुगायना कुचधरा कुमाता कुन्ददन्तिनी ॥ १६६॥

कुगेया कुहराभासा कुगेया कुघ्नदारिभा ।
कीर्तिः किरातिनी क्लिन्ना किन्नरा किन्नरीक्रिया ॥ १६७॥

क्रीङ्कारा क्रीञ्जपासक्ता क्रीं हूँ स्त्रीं मन्त्ररूपिणी ।
किर्मीरितदृशापाङ्गी किशोरी च किरीटिनी ॥ १६८॥

कीटभाषा कीटयोनिः कीटमाता च कीटदा ।
किंशुका कीरभाषा च क्रियासारा क्रियावती ॥ १६९॥

कीङ्कींशब्दपरा क्लां क्लीं क्लूँ क्लैं क्लौं मन्त्ररूपिणी ।
काँ कीं कूँ कैं स्वरूपा च कः फट् मन्त्रस्वरूपिणी ॥ १७०॥

केतकीभूषणानन्दा केतकीभरणान्विता ।
कैकदा केशिनी केशी केशीसूदनतत्परा ॥ १७१॥

केशरूपा केशमुक्ता कैकेयी कौशिकी तथा ।
कैरवा कैरवाह्लादा केशरा केतुरूपिणी ॥ १७२॥

केशवाराध्यहृदया केशवासक्तमानसा ।
क्लैब्यविनाशिनी क्लैं च क्लैं बीजजपतोषिता ॥ १७३॥

कौशल्या कोशलाक्षी च कोशा च कोमला तथा ।
कोलापुरनिवासा च कोलासुरविनाशिनी ॥ १७४॥

कोटिरूपा कोटिरता क्रोधिनी क्रोधरूपिणी ।
केका च कोकिला कोटिः कोटिमन्त्रपरायणा ॥ १७५॥

कोट्यानन्तमन्त्रयुक्ता कैरूपा केरलाश्रया ।
केरलाचारनिपुणा केरलेन्द्रगृहस्थिता ॥ १७६॥

केदाराश्रमसंस्था च केदारेश्वरपूजिता ।
क्रोधरूपा क्रोधपदा क्रोधमाता च कौशिकी ॥ १७७॥

कोदण्डधारिणी क्रौञ्चा कौशल्या कौलमार्गगा ।
कौलिनी कौलिकाराध्या कौलिकागारवासिनी ॥ १७८॥

कौतुकी कौमुदी कौला कुमारी कौरवार्चिता ।
कौण्डिन्या कौशिकी क्रोधा ज्वालाभासुररूपिणी ॥ १७९॥

कोटिकालानलज्वाला कोटिमार्त्तण्डविग्रहा ।
कृत्तिका कृष्णवर्णा च कृष्णा कृत्या क्रियातुरा ॥ १८०॥

कृशाङ्गी कृतकृत्या च क्रः फट्स्वाहास्वरूपिणी ।
क्रौं क्रौं हूँ फट्मन्त्रवर्णा
क्रां ह्रीं ह्रूँ फट् स्वरूपिणी ॥ १८१॥

क्रीङ्क्रींह्रींह्रीं तथा ह्रूँ हूँफट्स्वाहामन्त्ररूपिणी ।
इति श्रीसर्वसाम्राज्यमेधा नामसहस्रकम् ॥ १८२॥

सुन्दरीशक्तिदानाख्यं स्वरूपार्भिधमेव च ।
कथितं दक्षिणाकाल्याः सुन्दर्यै प्रीतियोगतः ॥ १॥

वरदानप्रसङ्गेन रहस्यमपि दर्शितम् ।
गोपनीयं सदा भक्त्या पठनीयं परात्परम् ॥ २॥

प्रातर्मध्याह्नकाले च मध्यार्द्धरात्रयोरपि ।
यज्ञकाले जपान्ते च पठनीयं विशेषतः ॥ ३॥

यः पठेत् साधको धीरः कालीरूपो हि वर्षतः ।
पठेद्वा पाठयेद्वापि श्रृणोति श्रावयेदपि ॥ ४॥

वाचकं तोषयेद्वापि स भवेत् कालिकातनुः ।
सहेलं वा सलीलं वा यश्चैनं मानवः पठेत् ॥ ५॥

सर्वदुःखविनिर्मुक्तस्त्रैलोक्यविजयी कविः ।
मृतवन्ध्या काकवन्ध्या कन्यावन्ध्या च वन्ध्यका ॥ ६॥

पुष्पवन्ध्या शूलवन्ध्या श्रृणुयात् स्तोत्रमुत्तमम् ।
सर्वसिद्धिप्रदातारं सत्कविं चिरजीविनम् ॥ ७॥

पाण्डित्यकीर्तिसंयुक्तं लभते नात्र संशयः ।
यं यं काममुपस्कृत्य कालीं ध्यात्वा जपेत्स्तवम् ॥ ८॥

तं तं कामं करे कृत्वा मन्त्री भवति नाऽन्यथा ।
योनिपुष्पैर्लिङ्गपुष्पैः कुण्डगोलोद्भवैरपि ॥ ९॥

संयोगामृतपुष्पैश्च वस्त्रदेवीप्रसूनकैः ।
कालिपुष्पैः पीठतोयैर्योनिक्षालनतोयकैः ॥ १०॥

कस्तूरीकुङ्कुमैर्देवीं नखकालागरुक्रमात् ।
अष्टगन्धैर्धूपदीपर्यवयावकसंयुतैः ॥ ११॥

रक्तचन्दनसिन्दूरैर्मत्स्यमांसादिभूषणैः ।
मधुभिः पायसैः क्षीरैः शोधितैः शोणितैरपि ॥ १२॥

महोपचारै रक्तैश्च नैवेद्यैः सुरसान्वितैः ।
पूजयित्वा महाकालीं महाकालेन लालिताम् ॥ १३॥

विद्याराज्ञीं कुल्लुकाञ्च जप्त्वा स्तोत्रं जपेच्छिवे ।
कालीभक्तस्त्वेकचित्तः सिन्दूरतिलकान्वितः ॥ १४॥

ताम्बूलपूरितमुखो मुक्तकेशो दिगम्बरः ।
शवयोनिस्थितो वीरः श्मशानसुरतान्वितः ॥ १५॥

शून्यालये बिन्दुपीठे पुष्पाकीर्णे शिवानने ।
शयनोत्थप्रभुञ्जानः कालीदर्शनमाप्नुयात् ॥ १६॥

तत्र यद्यत्कृतं कर्म तदनन्तफलं भवेत् ।
ऐश्वर्ये कमला साक्षात् सिद्धौ श्रीकालिकाम्बिका ॥ १७॥

कवित्वे तारिणीतुल्यः सौन्दर्ये सुन्दरीसमः ।
सिन्धोर्द्धारासमः कार्ये श्रुतौ श्रुतिधरस्तथा ॥ १८॥

वज्रास्त्रमिव दुर्द्धर्षस्त्रैलोक्यविजयास्त्रभृत् ।
शत्रुहन्ता काव्यकर्ता भवेच्छिवसमः कलौ ॥ १९॥

दिग्विदिक्‍चन्द्रकर्ता च दिवारात्रिविपर्य्ययी ।
महादेवसमो योगी त्रैलोक्यस्तम्भकः क्षणात् ॥ २०॥

गानेन तुम्बुरुः साक्षाद्दाने कर्णसमो भवेत् ।
गजाऽश्वरथपत्तीनामस्त्राणामधिपः कृती ॥ २१॥

आयुष्येषु भुशुण्डी च जरापलितनाशकः ।
वर्षषोडशवान् भूयात् सर्वकाले महेश्वरी ॥ २२॥

ब्रह्माण्डगोले देवेशि न तस्य दुर्लभं क्वचित् ।
सर्वं हस्तगतं भूयान्नात्र कार्य्या विचारणा ॥ २३॥

कुलपुष्पयुतं दृष्ट्वा तत्र कालीं विचिन्त्य च ।
विद्याराज्ञीं तु सम्पूज्य पठेन्नामसहस्रकम् ॥ २४॥

मनोरथमयी सिद्धिस्तस्य हस्ते सदा भवेत् ।
परदारान् समालिङ्गय सम्पूज्य परमेश्वरीम् ॥ २५॥

हस्ताहस्तिकया योगं कृत्वा जप्त्वा स्तवं पठेत् ।
योनिं वीक्ष्य जपेत् स्तोत्रं कुबेरादधिको भवेत् ॥ २६॥

कुण्डगोलोद्भवं गृह्यवर्णाक्तं होमयेन्निशि ।
पितृभूमौ महेशानि विधिरेखां प्रमार्जयेत् ॥ २७॥

तरुणीं सुन्दरीं रम्यां चञ्चलां कामगर्विताम् ।
समानीय प्रयत्नेन संशोध्य न्यासयोगतः ॥ २८॥

प्रसूनमञ्चे संस्थाप्य पृथिवीं वशमानयेत् ।
मूलचक्रं तु सम्भाव्य देव्याश्चरणसंयुतम् ॥ २९॥

सम्मूज्य परमेशानीं सङ्कल्प्य तु महेश्वरि ।
जप्त्वा स्तुत्वा महेशानीं प्रणवं संस्मरेच्छिवे ॥ ३०॥

अष्टोत्तरशतैर्योनिं प्रमन्त्र्याचुम्ब्य यत्नतः ।
संयोगीभूय जप्तव्यं सर्वविद्याधिपो भवेत् ॥ ३१॥

शून्यागारे शिवारण्ये शिवदेवालये तथा ।
शून्यदेशे तडागे च गङ्गागर्भे चतुष्पथे ॥ ३२॥

श्मशाने पर्वतप्रान्ते एकलिङ्गे शिवामुखे ।
मुण्डयोनौ ऋतौ स्नात्वा गेहे वेश्यागृहे तथा ॥ ३३॥

कुट्टिनीगृहमध्ये च कदलीमण्डपे तथा ।
पठेत्सहस्रनामाख्यं स्तोत्रं सर्वार्थसिद्धये ॥ ३४॥

अरण्ये शून्यगर्ते च रणे शत्रुसमागमे ।
प्रजपेच्च ततो नाम काल्याश्चैव सहस्रकम् ॥ ३५॥

बालानन्दपरो भूत्वा पठित्वा कालिकास्तवम् ।
कालीं सञ्चिन्त्य प्रजपेत् पठेन्नामसहस्रकम् ॥ ३६॥

सर्वसिद्धीश्वरो भूयाद्वाञ्छासिद्धीश्वरो भवेत् ।
मुण्डचूडकयोर्योनि त्वचि वा कोमले शिवे ॥ ३७॥

विष्टरे शववस्त्रे वा पुष्पवस्त्रासनेऽपि वा ।
मुक्तकेशो दिशावासो मैथुनी शयने स्थितः ॥ ३८॥

जप्त्वाकालीं पठेत् स्तोत्रं खेचरीसिद्धिभाग् भवेत् ।
चिकुरं योगमासाद्य शुक्रोत्सारणमेव च ॥ ३९॥

जप्त्वा श्रीदक्षिणां कालीं शक्तिपातशतं भवेत् ।
लतां स्पृशन् जपित्वा च रमित्वा त्वर्चयन्नपि ॥ ४०॥

आह्लादयन्दिगावासः परशक्तिं विशेषतः ।
स्तुत्वा श्रीदक्षिणां कालीं योनिं स्वकरगाञ्चरेत् ॥ ४१॥

पठेन्नामसहस्रं यः स शिवादधिको भवेत् ।
लतान्तरेषु जप्तव्यं स्तुत्वा कालीं निराकुलः ॥ ४२॥

दशावधानो भवति मासमात्रेण साधकः ।
कालरात्र्यां महारात्र्यां वीररात्र्यामपि प्रिये ॥ ४३॥

महारात्र्यां चतुर्दश्यामष्टम्यां सङ्क्रमेऽपि वा ।
कुहूपूर्णेन्दुशुक्रेषु भौमामायां निशामुखे ॥ ४४॥

नवम्यां मङ्गलदिने तथा कुलतिथौ शिवै ।
कुलक्षेत्रे प्रयत्नेन पठेन्नामसहस्रकम् ॥ ४५॥

सुदर्शनो भवेदाशु किन्नरीसिद्धिभाग्भवेत् ।
पश्मिमाभिमुखं लिङ्गं वृषशून्यं पुरातनम् ॥ ४६॥

तत्र स्थित्वा जपेत् स्तोत्रं सर्वकामाप्तये शिवे ।
भौमवारे निशीथे वा अमावस्यादिने शुभे ॥ ४७॥

माषभक्तबलिं छागं कृसरान्नं च पायसम् ।
दग्धमीनं शोणितञ्च दधि दुग्ध गुडार्द्रकम् ॥ ४८॥

बलिं दत्वा जपेत् तत्र त्वष्टोत्तरसहस्रकम् ।
देव-गन्धर्व-सिद्धौधैः सेवितां सुरसुन्दरीम् ॥ ४९॥

लभेद्देवेशि मासेन तस्य चासन संहतिः ।
हस्तत्रयं भवेदूर्ध्वं नात्र कार्या विचारणा ॥ ५०॥

हेलया लीलया भक्त्या कालीं स्तौति नरस्तु यः ।
ब्रह्मादींस्सतम्भयेद्देवि माहेशीं मोहयेत्क्षणात् ॥ ५१॥

आकर्षयेन्महाविद्यां दशपूर्वान् त्रियामतः ।
कुर्वीत विष्णुनिर्म्माणं यमादीनां तु मारणम् ॥ ५२॥

ध्रुवमुच्चाटयेन्नूनं सृष्टिनूतनतां नरः ।
मेषमाहिषमार्जारखरच्छागनरादिकैः ॥ ५३॥

खङ्गिशूकरकापोतैष्टिट्टिभैः शशकैः पलैः ।
शोणितैः सास्थिमांसैश्च कारण्डैर्दुग्धपायसैः ॥ ५४॥

कादम्बरीसिन्धुमद्यैः सुरारिष्टैश्च सासवैः ।
योनिक्षालिततोयैश्च योनिलिङ्गामृतैरपि ॥ ५५॥

स्वजातकुसुमैः पूज्या जपान्ते तर्पयेच्छिवाम् ।
सर्वसाम्राज्यनाम्ना तु स्तुत्वा नत्वा स्वशक्तितः ॥ ५६॥

शक्त्या लभन् पठेत् स्तोत्रं कालीरूपो दिनत्रयात् ।
दक्षिणाकालिका तस्य गेहे तिष्ठति नान्यथा ॥ ५७॥

वेश्यालतागृहे गत्वा तस्याश्चुम्बनतत्परः ।
तस्या योनौ मुखं दत्वा तद्रसं विलिहञ्जपेत् ॥ ५८॥

तदन्ते नाम साहस्रं पठेद्भक्तिपरायणः ।
कालिकादर्शनं तस्य भवेद्देवि त्रियामतः ॥ ५९॥

नृत्यपात्रगृहे गत्वा मकारपञ्चकान्वितः ।
प्रसूनमञ्चे संस्थाप्य शक्तिन्यासपरायणः ॥ ६०॥

पात्राणां साधनं कृत्वा दिग्वस्त्रां तां समाचरेत् ।
सम्भाव्य चक्रं तन्मूले तत्र सावरणां जपेत् ॥ ६१॥

शतं भाले शतं केशे शतं सिन्दूरमण्डले ।
शतत्रयं कुचद्वन्द्वे शतं नाभौ महेश्वरि ॥ ६२॥

शतं योनौ महेशानि संयोगे च शतत्रयम् ।
जपेत्तत्र महेशानि तदन्ते प्रपठेत्स्तवम् ॥ ६३॥

शतावधानो भवति मासमात्रेण साधकः ।
मातङ्गिनीं समानीय किं वा कापालिनीं शिवे ॥ ६४॥

दन्तमाला जपे कार्या गले धार्या नृमुण्डजा ।
नेत्रपद्मे योनिचक्रं शक्तिचक्रं स्ववक्त्रके ॥ ६५॥

कृत्वा जपेन्महेशानि मुण्डयन्त्रं प्रपूजयेत् ।
मुण्डासनस्थितो वीरो मकारपञ्चकान्वितः ॥ ६६॥

अन्यामालिङ्गय प्रजपेदन्यां सञ्चुम्ब्य वै पठेत् ।
अन्यां सम्पूजयेत्तत्र त्वन्यां सम्मर्द्दयन् जपेत् ॥ ६७॥

अन्ययोनौ शिवं दत्वा पुनः पूर्ववदाचरेत् ।
अवधानसहस्रेषु शक्तिपातशतेषु च ॥ ६८॥

राजा भवति देवेशि मासपञ्चकयोगतः ।
यवनीशक्तिमानीय गानशक्तिपरायणम् ॥ ६९॥

कुलाचारमतेनैव तस्या योनिं विकासयेत् ।
तत्र प्रदाय जिह्वां तु जपेन्नामसहस्रकम् ॥ ७०॥

नृकपाले तत्र दीपं जपेत्प्रज्वाल्य यत्नतः ।
महाकविवरो भूयान्नात्र कार्या विचारणा ॥ ७१॥

कामार्तां शक्तिमानीय योनौ तु मूलचक्रकम् ।
विलिख्य परमेशानि तत्र मन्त्रं लिखेच्छिवे ॥ ७२॥

तल्लिहन् प्रजपेद्देवि सर्वशास्त्रार्थतत्ववित् ।
अश्रुतानि च शास्त्राणि वेदादीन् पाठयेद् ध्रुवम् ॥ ७३॥

विना न्यासैर्विना पाठैर्विनाध्यानादिभिः प्रिये ।
चतुर्वेदाधिपो भूत्वा त्रिकालज्ञस्त्रिवर्षतः ॥ ७४॥

चतुर्विधं च पाण्डित्यं तस्य हस्तगतं क्षणात् ।
शिवाबलिः प्रदातव्यः सर्वदा शून्यमण्डले ॥ ७५॥

कालीध्यानं मन्त्रर्चिता नीलसाधनमेव च ।
सहस्रनामपाठश्च कालीनामप्रकीर्तनम् ॥ ७६॥

भक्तस्य कार्यमेतावदन्यदभ्युदयं विदुः ।
वीरसाधनकं कर्म शिवापूजा बलिस्तथा ॥ ७७॥

सिन्दूरतिलको देवि वेश्यालापो निरन्तरम् ।
वेश्यागृहे निशाचारो रात्रौ पर्यटनं तथा ॥ ७८॥

शक्तिपूजा योनिदृष्टिः खङ्गहस्तो दिगम्बरः ।
मुक्तकेशो वीरवेषः कुलमूर्तिधरो नरः ॥ ७९॥

कालीभक्तो भवेद्देवि नान्यथा क्षेममाप्नुयात् ।
दुग्धास्वादी योनिलेही संविदासवघूर्णितः ॥ ८०॥

वेश्यालतासमायोगान्मासात्कल्पलता स्वयम् ।
वेश्याचक्रसमायोगात्कालीचक्रसमः स्वयम् ॥ ८१॥

वेश्यादेहसमायोगात् कालीदेहसमः स्वयम् ।
वेश्यामध्यगतं वीरं कदा पश्यामि साधकम् ॥ ८२॥

एवं वदति सा काली तस्माद्वेश्या वरा मता ।
वेश्या कन्या तथा पीठजातिभेदकुलक्रमात् ॥ ८३॥

अकुलक्रमभेदेन ज्ञात्वा चापि कुमारिकाम् ।
कुमारीं पूजयेद्भक्त्या जपान्ते भवने प्रिये ॥ ८४॥

पठेन्नामसहस्रं यः कालीदर्शनभाग् भवेत् ।
भक्त्या कुमारीं सम्पूज्य वैश्याकुल समुद्भवाम् ॥ ८५॥

वस्त्र हेमादिभिस्तोष्या यत्नात्स्तोत्रं पठेच्छिवे ।
त्रैलोक्य विजयी भूयाद्दिवा चन्द्रप्रकाशकः ॥ ८६॥

यद्यद्दत्तं कुमार्यै तु तदनन्तफलं भवेत् ।
कुमारीपूजनफलं मया वक्तुं न शक्यते ॥ ८७॥

चाञ्चल्याद्दुरितं किञ्चित्क्षम्यतामयमञ्जलिः ।
एका चेत्पूजिता बाला द्वितीया पूजिता भवेत् ॥ ८८॥

कुमार्यः शक्तयश्चैव सर्वमेतचराचरम् ।
शक्तिमानीय तद्गात्रे न्यासजालं प्रविन्यसेत् ॥ ८९॥

वामभागे च संस्थाप्य जपेन्नामसहस्रकम् ।
सर्वसिद्धीश्वरो भूयान्नात्र कार्य्या विचारणा ॥ ९०॥

श्मशानस्थो भवेत्स्वस्थो गलितं चिकुरं चरेत् ।
दिगम्बरः सहस्रं च सूर्यपुष्पं समानयेत् ॥ ९१॥

स्ववीर्येण प्लुतं कृत्वा प्रत्येकं प्रजपन् हुनेत् ।
पूज्य ध्यात्वा महाभक्त्या क्षमापालो नरः पठेत् ॥ ९२॥

नखं केशं स्ववीर्यं च यद्यत्सम्मार्जनीगतम् ।
मुक्तकेशो दिशावासो मूलमन्त्रपुरःसरः ॥ ९३॥

कुजवारे मध्यरात्रे होमं कृत्वा श्मशानके ।
पठेन्नामसहस्रं यः पृथ्वीशाकर्षको भवेत् ॥ ९४॥

पुष्पयुक्ते भगे देवि संयोगानन्दतत्परः ।
पुनश्चिकुरमासाद्य मूलमन्त्रं जपन् शिवे ॥ ९५॥

चितावह्नौ मध्यरात्रे वीर्यमुत्सार्य यत्नतः ।
कालिकां पूजयेत्तत्र पठेन्नाम सहस्रकम् ॥ ९६॥

पृथ्वीशाकर्षणं कुर्यान्नात्र कार्या विचारणा ।
कदली वनमासाद्य लक्षमन्त्रं जपेन्नरः ॥ ९७॥

मधुमत्या स्वयं देव्या सेव्यमानः स्मरोपमः ।
श्रीमधुमतीत्युक्त्वा तथा स्थावरजङ्गमान् ॥ ९८॥

आकर्षिणीं समुच्चार्य ठण्ठं स्वाहा समुच्चरेत् ।
त्रैलोक्याकर्षिणी विद्या तस्य हस्ते सदा भवेत् ॥ ९९॥

नदीं पुरीं च रत्नानि हेमस्त्रीशैलभूरुहान् ।
आकर्षयत्यम्बुनिधिं सुमेरुं च दिगन्ततः ॥ १००॥

अलभ्यानि च वस्तूनि दूराद्भूमितलादपि ।
वृत्तान्तं च सुरस्थानाद्रहस्ये विदुषामपि ॥ १०१॥

राज्ञां च कथयत्येषा सत्यं सत्वरमादिशेत् ।
द्वितीयवर्षपाठेन भवेत्पद्मावती शुभा ॥ १०२॥

ॐ ह्रीम्पद्मावति पदं ततस्त्रैलोक्यनाम च ।
वार्तां च कथय द्वन्द्वं स्वाहान्तो मन्त्र ईरितः ॥ १०३॥

ब्रह्मविष्ण्वादिकानां च त्रैलोक्ये यादृशी भवेत् ।
सर्व वदति देवेशी त्रिकालज्ञः कविश्शुभः ॥ १०४॥

त्रिवर्षं सम्पठन्देवि लभेद्भोगवतीं कलाम् ।
महाकालेन दृष्टोऽपि चितामध्यगतोऽपि वा ॥ १०५॥

तस्या दर्शनमात्रेण चिरञ्जीवी नरो भवेत् ।
मृतसञ्जीविनीत्युक्त्वा मृतमुत्थापय द्वयम् ॥ १०६॥

स्वाहान्तो मनुराख्यातो मृतसञ्जीवनात्मकः ।
चतुर्वर्षं पठेद्यस्तु स्वप्नसिद्धिस्ततो भवेत् ॥ १०७॥

ॐ ह्रीं स्वप्नवाराहि कालिस्वप्ने कथयोच्चरेत् ।
अमुकस्याऽमुकं देहि क्लीं स्वाहान्तो मनुर्मतः ॥ १०८॥

स्वप्नसिद्धा चतुर्वर्षात्तस्य स्वप्ने सदा स्थिता ।
चतुर्वर्षस्य पाठेन चतुर्वेदाधिपो भवेत् ॥ १०९॥

तद्धस्तजलसंयोगान्मूर्खः काव्यं करोति च ।
तस्य वाक्यपरिचयान्मूर्तिर्विन्दति काव्यताम् ॥ ११०॥

मस्तके तु करं कृत्वा वद वाणीमिति ब्रुवन् ।
साधको वाञ्छया कुर्यात्तत्तथैव भविष्यति ॥ १११॥

ब्रह्माण्डगोलके याश्च याः काश्चिज्जगतीतले ।
समस्ताः सिद्धयो देवि करामलकवत्सदा ॥ ११२॥

साधकस्मृतिमात्रेण यावन्त्यः सन्ति सिद्धयः ।
स्वयमायान्ति पुरतो जपादीनां तु का कथा ॥ ११३॥

विदेशवर्तिनो भूत्वा वर्तन्ते चेटका इव ।
अमायां चन्द्रसन्दर्शश्चन्द्रग्रहणमेव च ॥ ११४॥

अष्टम्यां पूर्णचन्द्रत्वं चन्द्रसूर्याष्टकं तथा ।
अष्टदिक्षु तथाष्टौ च करोत्येव महेश्वरि ॥ ११५॥

अणिमा खेचरत्वं च चराचरपुरीगतम् ।
पादुकाखङ्गवेतालयक्षिणीगुह्यकादयः ॥ ११६॥

तिलकोगुप्ततादृश्यं चराचरकथानकम् ।
मृतसञ्जीविनीसिद्धिर्गुटिका च रसायनम् ॥ ११७॥

उड्डीनसिद्धिर्देवेशि षष्टिसिद्धीश्वरत्वकम् ।
तस्य हस्ते वसेद्देवि नात्र कार्या विचारणा ॥ ११८॥

केतौ वा दुन्दुभौ वस्त्रे विताने वेष्टनेगृहे ।
भित्तौ च फलके देवि लेख्यं पूज्यं च यत्नतः ॥ ११९॥

मध्ये चक्रं दशाङ्गोक्तं परितो नामलेखनम् ।
तद्धारणान्महेशानि त्रैलोक्यविजयी भवेत् ॥ १२०॥

एको हि शतसाहस्रं निर्जित्य च रणाङ्गणे ।
पुनरायाति च सुखं स्वगृहं प्रति पार्वती ॥ १२१॥

एको हि शतसन्दर्शी लोकानां भवति ध्रुवम् ।
कलशं स्थाप्य यत्नेन नामसाहस्रकं पठेत् ॥ १२२॥

सेकः कार्यो महेशानि सर्वापत्तिनिवारणे ।
भूतप्रेतग्रहादीनां राक्षसां ब्रह्मराक्षसाम् ॥ १२३॥

वेतालानां भैरवाणां स्कन्दवैनायकादिकान् ।
नाशयेत् क्षणमात्रेण नात्र कार्या विचारणा ॥ १२४॥

भस्मभिर्मन्त्रितं कृत्वा ग्रहग्रस्तं विलेपयेत् ।
भस्मसङ्क्षेपणादेव सर्वग्रहविनाशनम् ॥ १२५॥

नवनीतं चाभिमन्त्र्य स्त्रीभ्यो दद्यान्महेश्वरि ।
वन्ध्या पुत्रप्रदां देवि नात्र कार्या विचारणा ॥ १२६॥

कण्ठे वा वामबाहौ वा योनौ वा धारणाच्छिवे ।
बहुपुत्रवती नारी सुभगा जायते ध्रुवम् ॥ १२७॥

पुरुषो दक्षिणाङ्गे तु धारयेत्सर्वसिद्धये ।
बलवान्कीर्तिमान धन्योधार्मिकः साधकः कृती ॥ १२८॥

बहुपुत्री रथानां च गजानामधिपः सुधीः ।
कामिनीकर्षणोद्युक्तः क्रीं च दक्षिणकालिके ॥ १२९॥

क्रीं स्वाहा प्रजपेन्मन्त्रमयुतं नामपाठकः ।
आकर्षणं चरेद्देवि जलखेचरभूगतान् ॥ १३०॥

वशीकरणकामो हि हूँ हूँ ह्रीं ह्रीं च दक्षिणे ।
कालिके पूर्वबीजानि पूर्ववत्प्रजपन् पठेत् ॥ १३१॥

उर्वशीमपि वसयेन्नात्र कार्या विचारणा ।
क्रीं च दक्षिणकालिके स्वाहा युक्तं जपेन्नरः ॥ १३२॥

पठेन्नामसहस्रं तु त्रैलोक्यं मारयेद्ध्रुवम् ।
सद्भक्ताय प्रदातव्या विद्या राज्ञि शुभे दिने ॥ १३३॥

सद्विनीताय शान्ताय दान्तायातिगुणाय च ।
भक्ताय ज्येष्ठपुत्राय गुरुभक्तिपराय च ॥ १३४॥

वैष्णवाय प्रशुद्धाय शिवाबलिरताय च ।
वेश्यापूजनयुक्ताय कुमारीपूजकाय च ॥ १३५॥

दुर्गाभक्ताय रौद्राय महाकालप्रजापिने ।
अद्वैतभावयुक्ताय कालीभक्तिपराय च ॥ १३६॥

देयं सहस्रनामाख्यं स्वयं काल्या प्रकाशितम् ।
गुरुदैवतमन्त्राणां महेशस्यापि पार्वति ॥ १३७॥

अभेदेन स्मरेन्मन्त्रं स शिवः स गणाधिपः ।
यो मन्त्रं भावयेन्मन्त्री स शिवो नात्र संशयः ॥ १३८॥

स शाक्तो वैष्णवस्सौरः स एवं पूर्णदीक्षितः ।
अयोग्याय न दातव्यं सिद्धिरोधः प्रजायते ॥ १३९॥

वेश्यास्त्रीनिन्दकायाथ सुरासंवित्प्रनिन्दके ।
सुरामुखो मनुं स्मृत्वा सुराचार्यो भविष्यति ॥ १४०॥

वाग्देवता घोरे आसापरघारे च हूँ वदेत् ।
घोररूपे महाघोरे मुखीभीमपदं वदेत् ॥ १४१॥

भीषण्यमुष्यषष्ठ्यन्तं हेतुर्वामयुगे शिवे ।
शिववह्नियुगास्त्रं हूँ हूँ कवचमनुर्भवेत् ॥ १४२॥

एतस्य स्मरणादेव दुष्टानां च मुखे सुरा ।
अवतीर्णा भवद्देवि दुष्टानां भद्रनाशिनी ॥ १४३॥

खलाय परतन्त्राय परनिन्दापराय च ।
भ्रष्टाय दुष्टसत्वाय परवादरताय च ॥ १४४॥

शिवाभक्ताय दुष्टाय परदाररताय च ।
न स्तोत्रं दर्शयेद्देवि शिवहत्याकरो भवेत् ॥ १४५॥

कालिकानन्दहृदयः कालिकाभक्तिमानसः ।
कालीभक्तो भवेत्सोऽयं धन्यरूपः स एव तु ॥ १४६॥

कलौ काली कलौ काली कलौ काली वरप्रदा ।
कलौ काली कलौ काली कलौ काली तु केवला ॥ १४७॥

बिल्वपत्रसहस्राणि करवीराणि वै तथा ।
प्रतिनाम्ना पूजयेद्धि तेन काली वरप्रदा ॥ १४८॥

कमलानां सहस्रं तु प्रतिनाम्ना समर्पयेत् ।
चक्रं सम्पूज्य देवेशि कालिकावरमाप्नुयात् ॥ १४९॥

मन्त्रक्षोभयुतो नैव कलशस्थजलेन च ।
नाम्ना प्रसेचयेद्देवि सर्वक्षोभविनाशकृत् ॥ १५०॥

तथा दमनकं देवि सहस्रमाहरेद्‍व्रती ।
सहस्रनाम्ना सम्पूज्य कालीवरमवाप्नुयात् ॥ १५१॥

चक्रं विलिख्य देहस्थं धारयेत्कालिकातनुः ।
काल्यै निवेदितं यद्यत्तदंशं भक्षयेच्छिवे ॥ १५२॥

दिव्यदेहधरो भूत्वा कालीदेहे स्थितो भवेत् ।
नैवेद्यनिन्दकान् दुष्टान् दृष्ट्वा नृत्यन्ति भैरवा ॥ १५३॥

योगिन्यश्च महावीरा रक्तपानोद्यताः प्रिये ।
मांसास्थिचर्मणोद्युक्ता भक्षयन्ति न संशयः ॥ १५४॥

तस्मान्न निन्दयेद्देवि मनसा कर्मणा गिरा ।
अन्यथा कुरुते यस्तु तस्य नाशो भविष्यति ॥ १५५॥

क्रमदीक्षायुतानां च सिद्धिर्भवति नान्यथा ।
मन्त्रक्षोभश्च वा भूयात् क्षीणायुर्वा भवेद्ध्रुवम् ॥ १५६॥

पुत्रहारी स्त्रियोहारी राज्यहारी भवेद्ध्रुवम् ।
क्रमदीक्षायुतो देवि क्रमाद्राज्यमवाप्नुयात् ॥ १५७॥

एकवारं पठेद्देवि सर्वपापविनाशनम् ।
द्विवारं च पठेद्यो हि वाञ्छां विन्दति नित्यशः ॥ १५८॥

त्रिवारं च पठेद्यस्तु वागीशसमतां व्रजेत् ।
चतुर्वारं पठेद्देवि चतुर्वर्णाधिपो भवेत् ॥ १५९॥

पञ्चवारं पठेद्देवि पञ्चकामाधिपो भवेत् ।
षड्वारं च पठेद्देवि षडैश्वर्याधिपो भवेत् ॥ १६०॥

सप्तवारं पठेत्सप्तकामनां चिन्तितं लभेत् ।
वसुवारं पठेद्देवि दिगीशो भवति ध्रुवम् ॥ १६१॥

नववारं पठेद्देवि नवनाथसमो भवेत् ।
दशवारं कीर्त्तयेद्यो दशार्हः खेचरेश्वरः ॥ १६२॥

विंशतिवारं कीर्तयेद्यः सर्वैश्वर्यमयो भवेत् ।
पञ्चविंशतिवारैस्तु सर्वचिन्ताविनाशकः ॥ १६३॥

पञ्चाशद्वारमावर्त्य पञ्चभूतेश्वरो भवेत् ।
शतवारं कीर्त्तयेद्यः शताननसमानधीः ॥ १६४॥

शतपञ्चकमावर्त्य राजराजेश्वरो भवेत् ।
सहस्रावर्तनाद्देवि लक्ष्मीरावृणुते स्वयम् ॥ १६५॥

त्रिसहस्रं समावर्त्य त्रिनेत्रसदृशो भवेत् ।
पञ्च साहस्रमावर्त्य कामकोटि विमोहनः ॥ १६६॥

दशसाहस्रमावर्त्य भवेद्दशमुखेश्वरः ।
पञ्चविंशतिसाहस्रै च चतुर्विंशतिसिद्धिधृक् ॥ १६७॥

लक्षावर्तनमात्रेण लक्ष्मीपतिसमो भवेत् ।
लक्षत्रयावर्त्तनात्तु महादेवं विजेष्यति ॥ १६८॥

लक्षपञ्चकमावर्त्य कलापञ्चकसंयुतः ।
दशलक्षावर्त्तनात्तु दशविद्याप्तिरुत्तमा ॥ १६९॥

पञ्चविंशतिलक्षैस्तु दशविद्येश्वरो भवेत् ।
पञ्चाशल्लक्षमावृत्य महाकालसमो भवेत् ॥ १७०॥

कोटिमावर्त्तयेद्यस्तु कालीं पश्यति चक्षुषा ।
वरदानोद्युक्तकरां महाकालसमन्विताम् ॥ १७१॥

प्रत्यक्षं पश्यति शिवे तस्या देहो भवेद्ध्रुवम् ।
श्रीविद्याकालिकातारात्रिशक्तिविजयी भवेत् ॥ १७२॥

विधेर्लिपिं च सम्मार्ज्य किङ्करत्वं विसृज्य च ।
महाराज्यमवाप्नोति नात्र कार्या विचारणा ॥ १७३॥

त्रिशक्तिविषये देविक्रमदीक्षा प्रकीर्तिता ।
क्रमदीक्षायुतो देवि राजा भवति निश्चितम् ॥ १७४॥

क्रमदीक्षाविहीनस्य फलं पूर्वमिहेरितम् ।
क्रमदीक्षायुतो देवि शिव एव न चापरः ॥ १७५॥

क्रमदीक्षासमायुक्तः काल्युक्तसिद्धिभाग्भवेत् ।
क्रमदीक्षाविहीनस्य सिद्धिहानिः पदे पदे ॥ १७६॥

अहो जन्मवतां मध्ये धन्यः क्रमयुतः कलौ ।
तत्रापि धन्यो देवेशि नामसाहस्रपाठकः ॥ १७७॥

दशकालीविद्यौ देवि स्तोत्रमेतत्सदा पठेत् ।
सिद्धिं विन्दति देवेशि नात्र कार्या विचारणा ॥ १७८॥

काकी काली महाविद्या कलौ काली च सिद्धिदा ।
कलौ काली च सिद्धा च कलौ काली वरप्रदा ॥ १७९॥

कलौ काली साधकस्य दर्शनार्थं समुद्यता ।
कलौ काली केवला स्यान्नात्र कार्या विचारणा ॥ १८०॥

नान्यविद्या नान्यविद्या नान्यविद्या कलौ भवेत् ।
कलौ कालीं विहायाथ यः कश्चित्सिद्धिकामुकः ॥ १८१॥

स तु शक्तिं विना देवि रतिसम्भोगमिच्छति ।
कलौ कालीं विना देवि यः कश्चित्सिद्धिमिच्छति ॥ १८२॥

स नीलसाधनं त्यक्त्वा परिभ्रमति सर्वतः ।
कलौ काली विहायाथ यः कश्चिन्मोक्षमिच्छति ॥ १८३॥

गुरुध्यानं परित्यज्य सिद्धिमिच्छति साधकः ।
कलौ काली विहायाथ यः कश्चिद्राज्यमिच्छति ॥ १८४॥

स भोजन परित्यज्य भिक्षुवृत्तिमभीप्सति ।
स धन्यः स च विज्ञानी स एव सुरपूजितः ॥ १८५॥

स दीक्षितः सुखी साधुः सत्यवादी जितेन्द्रियः ।
स वेदवक्ता स्वाध्यायी नात्र कार्या विचारणा ॥ १८६॥

शिवरूपं गुरुं ध्यात्वा शिवरूपं गुरुं स्मरेत् ।
सदाशिवः स एव स्यानात्र कार्या विचारणा ॥ १८७॥

स्वस्मिन् कालीं तु सम्भाव्य पूजयेज्जगदम्बिकाम् ।
त्रैलोक्यविजयी भूयान्नात्र कार्य्या विचारणा ॥ १८८॥

गोपनीयं गोपनीयं गोपनीयं प्रयत्नतः ।
रहस्यातिरहस्यं च रहस्यातिरहस्यकम् ॥ १८९॥

श्लोकार्द्धं पादमात्रं वा पादादर्धं च तदर्धकम् ।
नामार्धं यः पठेद्देवि न वन्ध्यदिवसं न्यसेत् ॥ १९०॥

पुस्तकं पूजयेद्भक्त्या त्वरितं फलसिद्धये ।
न च मारीभयं तत्र न चाग्निर्वायुसम्भवम् ॥ १९१॥

न भूतादिभयं तत्र सर्वत्र सुखमेधते ।
कुङ्कुमाऽलक्तकेनैव रोचनाऽगरुयोगतः ॥ १९२॥

भूर्जपत्रे लिखेत् पुस्तं सर्वकामार्थसिद्धये ।
इति सङ्क्षेपतः प्रोक्तं किमन्यच्छ्रोतुमिच्छसि ॥ १९३॥

इति गदितमशेषं कालिकावर्णरूपं ।
प्रपठति यदि भक्त्या सर्वसिद्धीश्वरः स्यात् ॥ १९४॥

अभिनवसुखकामः सर्वविद्याभिरामो
भवति सकलसिद्धिधः सर्ववीरासमृद्धिः ॥ १९५॥

॥ इति श्रीमदादिनाथमहाकालविरचितायां महाकालसंहितायां
कालकालीसंवादे सुन्दरीशक्तिदानाख्यं कालीस्वरूप
मेधासाम्राज्यप्रदं सहस्रनामस्तोत्रं सम्पूर्णम् ॥