प्रमुखा विकल्पसूचिः उद्घाट्यताम्

१-२सम्पाद्यताम्

अथातः कतिधापुरुषीयं शारीरं व्याख्यास्यामः ।। चसं-५,१.१ ।।
इति ह स्माह भगवान् आत्रेयः ।। चसं-५,१.२ ।।
आयुर्वेददीपिका
निदानस्थाने ज्ञातहेत्वादिना तथा विमाने प्रतीतरसदोषादिमानेन कर्तव्यचिकित्साया अधिकरणं शरीरं ज्ञातव्यं भवति; यतोऽप्रतिपन्नेऽशेषविशेषतः शरीरे न शरीरविज्ञानाधीना चिकित्सा साध्वी भवति; अतः शरीरं कारणोत्पत्तिस्थितिवृद्ध्यादिविशेषैः प्रतिपादयितुं शारीरं स्थानमुच्यते| अत्रापि चात्यन्तदुःखोपरममोक्षकारणचिकित्सोपयुक्तपुरुषभेदादिप्रतिपादकतया प्रधानत्वेन कतिधापुरुषीयोऽध्यायोऽभिधीयते||१-२||

३-१५सम्पाद्यताम्

कतिधा पुरुषो धीमन् धातुभेदेन भिद्यते ।
पुरुषः कारणं कस्मात् प्रभवः पुरुषस्य कः ।। चसं-५,१.३ ।।

किम् अज्ञो ज्ञः स नित्यः किं किम् अनित्यो निदर्शितः ।
प्रकृतिः का विकाराः के किं लिङ्गं पुरुषस्य च ।। चसं-५,१.४ ।।

निष्क्रियं च स्वतन्त्रं च वशिनं सर्वगं विभुम् ।
वदन्त्य् आत्मानम् आत्मज्ञाः क्षेत्रज्ञं साक्षिणं तथा ।। चसं-५,१.५ ।।

निष्क्रियस्य क्रिया तस्य भगवन् विद्यते कथम् ।
स्वतन्त्रश् चेद् अनिष्टासु कथं योनिषु जायते ।। चसं-५,१.६ ।।

वशी यद्य् असुखैः कस्माद् भावैर् आक्रम्यते बलात् ।
सर्वाः सर्वगतत्वाच् च वेदनाः किं न वेत्ति सः ।। चसं-५,१.७ ।।

न पश्यति विभुः कस्माच् छैलकुड्यतिरस्कृतम् ।
क्षेत्रज्ञः क्षेत्रम् अथवा किं पूर्वम् इति संशयः ।। चसं-५,१.८ ।।

ज्ञेयं क्षेत्रं विना पूर्वं क्षेत्रज्ञो हि न युज्यते ।
क्षेत्रं च यदि पूर्वं स्यात् क्षेत्रज्ञः स्याद् अशाश्वतः ।। चसं-५,१.९ ।।

साक्षिभूतश् च कस्यायं कर्ता ह्य् अन्यो न विद्यते ।
स्यात् कथं चाविकारस्य विशेषो वेदनाकृतः ।। चसं-५,१.१० ।।

अथ चार्तस्य भगवंस् तिसृणां कां चिकित्सति ।
अतीतां वेदनां वैद्यो वर्तमानां भविष्यतीम् ।। चसं-५,१.११ ।।

भविष्यन्त्या असंप्राप्तिर् अतीताया अनागमः ।
सांप्रतिक्या अपि स्थानं नास्त्य् अर्तेः संशयो ह्य् अतः ।। चसं-५,१.१२ ।।

कारणं वेदनानां किं किम् अधिष्ठानम् उच्यते ।
क्व चैता वेदनाः सर्वा निवृत्तिं यान्त्य् अशेषतः ।। चसं-५,१.१३ ।।

सर्ववित् सर्वसंन्यासी सर्वसंयोगनिःसृतः ।
एकः प्रशान्तो भूतात्मा कैर् लिङ्गैर् उपलभ्यते ।। चसं-५,१.१४ ।।

इत्य् अग्निवेशस्य वचः श्रुत्वा मतिमतां वरः ।
सर्वं यथावत् प्रोवाच प्रशान्तात्मा पुनर्वसुः ।। चसं-५,१.१५ ।।
आयुर्वेददीपिका
कतिधेति कतिप्रकारः| पुरुष इत्यनेन चाविशेषेण पुरुषशब्दाभिधेयोऽर्थोभिधीयते; यतः ‘खादयश्चेतनाषष्ठा’ इत्यादिना, तथा चतुर्विंशतिकभेदभिन्नश्च कर्मपुरुष एव शरीरी वाच्यः, तथा ‘चेतनाधातुरप्येकः स्मृतः पुरुषसञ्ज्ञकः’ इत्यनेनात्मैव शरीररहितः पुरुषशब्दार्थत्वेन वाच्यः| पुरुषधारणाद्धातुः; तेन धातुभेदेनेति पुरुषधारणार्थभेदेन| धीमन्निति विशेषणेन य एव धीमान् स एव पुरुषभेदादिकमिमं वक्ष्यमाणं सुसूक्ष्मं वक्तुं समर्थ इति दर्शयति| पुरुषः कारणं कस्मादिति कस्माद्धेतोः पुरुषः संसारे प्रधानं स्थायिकारणमित्यर्थः| प्रभवत्यस्मादिति प्रभवः कारणम्| योनिष्विति जातिषु| सर्वा इति परपुरुषगता अपि| क्षेत्रज्ञः आत्मा| क्षेत्रम् अव्यक्तवर्जितं सर्वं वक्ष्यमाणम्| ज्ञेयमित्यादि| असति क्षेत्रे क्षेत्रज्ञानाभावान्न क्षेत्रज्ञत्वमुपपद्यते इति भावः| साक्षिभूत इति साक्षिसदृशः| विशेषो वेदनाकृत इति पुत्रादिज्ञानरूपवेदनाजनितो हर्षादिविशेष इत्यर्थः| तिसृणामिति अतीतानागतवर्तमानानां दुःखरूपाणां मध्ये कां चिकित्सति| अतीतामित्यादौ किंशब्दोऽध्याहार्यः, तेन किमतीतां चिकित्सति, किं वर्तमानां, किंवा भविष्यतीमिति योज्यम्| स्थानं नास्तीति क्षणिकत्वेन चिकित्सायाः प्रवृत्तियोग्यकालावस्थानं नास्ति| वेदनानां कारणमधिष्ठानं च यद्यपि दीर्घञ्जीवितीयेऽप्युक्तं, तथाऽपीह प्रकरणवशाद्विशेषप्रतीत्याकाङ्क्षया च विशिष्टाः पुनः प्रश्नाः| प्रश्नार्थाश्चामी उत्तरग्रन्थे आचार्येण प्रपञ्चनीया इति नेह व्याकरणीयाः||३-१५||

१६-१७सम्पाद्यताम्

खादयश् चेतनाषष्ठा धातवः पुरुषः स्मृतः ।
चेतनाधातुर् अप्य् एकः स्मृतः पुरुषसंज्ञकः ।। चसं-५,१.१६ ।।
आयुर्वेददीपिका
खादय इत्यादि| खादयः “खं वायुरग्निरापः क्षितिस्तथा” इति वक्ष्यमाणाः; चेतनाषष्ठा इत्यत्र चेतनाशब्देन चेतनाधारः समनस्क आत्मा गृह्यते; खादिग्रहणेन चेन्द्रियाणि खादिमयान्यवरुद्धानि| अयं च वैशेषिकदर्शनपरिगृहीतश्चिकित्साशास्त्रविषयः पुरुषः; अयमेव “पञ्चमहाभूतशरीरिसमवायः पुरुषः” (सु. सू. १) इत्यनेन सुश्रुतेनाप्युक्तः| स्मृत इति भाषया पूर्वाचार्याणामप्ययं पुरुषशब्दवाच्योऽभिप्रेतो नास्मत्कल्पित इति दर्शयति| पुरि शरीरे शेते इति व्युत्पत्त्या य आत्मा पुरुषशब्देनोच्यते तमाह- चेतनेत्यादि| अत्र पुरुष इति कर्तव्ये [२] यत् ‘पुरुषसञ्ज्ञक’ इति करोति तेन न चेतनाधातुरूपः पुरुषश्चिकित्सायमभिप्रेतः, किन्तु शास्त्रान्तरव्यवहारानुरोधादिहाप्ययं पुरुषशब्देन सञ्ज्ञित इति दर्शयति; चिकित्साविषयस्तु षड्धातुक एव पुरुषः, अत एव तत्र सञ्ज्ञितग्रहणं न कृतम्| अयं च पुरुषशब्दो गवादावपि षड्धातुसमुदाये यद्यपि वर्तते, तथाऽपि सर्वप्रधाने नर एव विशेषेण वर्तते; तेन नातिप्रसिद्धो गवादौ पुरुषशब्दः||१६||

पुनश् च धातुभेदेन चतुर्विंशतिकः स्मृतः ।
मनो दशेन्द्रियाण्य् अर्थाः प्रकृतिश् चाष्टधातुकी ।। चसं-५,१.१७ ।।
आयुर्वेददीपिका
षड्धातुरूपमेव पुरुषं पुनः साङ्ख्यदर्शनभेदाच्चतुर्विंशतिकभेदेनाह- पुनश्चेत्यादि| चतुर्विंशतिकमेव विभजते- मन इत्यादि| यद्यपि पञ्चविंशतितत्त्वमयोऽयं पुरुषः साङ्ख्यैरुच्यते, यदाह- “मूलप्रकृतिरविकृतिर्महदाद्याः प्रकृतिविकृतयः सप्त| षोडशकस्तु विकारो न प्रकृतिर्न विकृतिः पुरुषः” (सां.का.३) इति, तथाऽपीह प्रकृतिव्यतिरिक्तं चोदासीनं पुरुषमव्यक्तत्वसाधर्म्यादव्यक्तायां प्रकृतावेव प्रक्षिप्य अव्यक्तशब्देनैव गृह्णाति; तेन ‘चतुर्विंशतिकः पुरुषः’ इत्यविरुद्धम्| उदासीनस्य हि सूक्ष्मस्य भेदप्रतिपादनमिहानतिप्रयोजनमिति न कृतम्| दशेन्द्रियाणीति पञ्च कर्मेन्द्रियाणि, पञ्च बुद्धीन्द्रियाणि च| अष्टधातुकीति खादिपञ्चकबुद्ध्यव्यक्ताहङ्काररूपा; वक्ष्यति हि- “खादीनि बुद्धिरव्यक्तमहङ्कारस्तथाऽष्टमः” इति||१७||

१८-२३सम्पाद्यताम्

लक्षणं मनसो ज्ञानस्याभावो भाव एव च ।
सति ह्य् आत्मेन्द्रियार्थानां सन्निकर्षे न वर्तते ।। चसं-५,१.१८ ।।

वैवृत्त्यान् मनसो ज्ञानं सान्निध्यात् तच् च वर्तते ।
अणुत्वम् अथ चैकत्वं द्वौ गुणौ मनसः स्मृतौ ।। चसं-५,१.१९ ।।

चिन्त्यं विचार्यम् ऊह्यं च ध्येयं संकल्प्यम् एव च ।
यत् किंचिन् मनसो ज्ञेयं तत् सर्वं ह्य् अर्थसंज्ञकम् ।। चसं-५,१.२० ।।

इन्द्रियाभिग्रहः कर्म मनसः स्वस्य निग्रहः ।
ऊहो विचारश् च ततः परं बुद्धिः प्रवर्तते ।। चसं-५,१.२१ ।।

आयुर्वेददीपिका
मनोगुणमभिधाय मनोविषयमाह चिन्त्यमित्यादि ।चिन्त्यं कर्तव्यतया अकर्तव्यतया वा यन्मनसा चिन्त्यते। विचार्यम् उपपत्त्यनुपपत्तिभ्यां यद्विमृश्यते ।ऊह्यं च यत् सम्भावनया ऊह्यते एवमेतद्भविष्यति इति ।ध्येयं भावनाज्ञानविषयम् ।संकल्प्यं गुणवत्तया दोषवत्तया वावधारणाविषयम्। यत् किंचिदित्यनेन सुखाद्यनुक्तविषयावरोधः।मनसो ज्ञेयमिति इन्द्रियनिरपेक्षमनोग्राह्यम्।एते च मनोऽर्थाः शब्दादिरूपा एव तेन षष्ठार्थकल्पनया न चतुर्विंशतिसंख्यातिरेकः।सुखादयस् तु शब्दादिव्यतिरिक्ता मनोऽर्था बुद्धिभेदग्रहणेनैव ग्राह्याः।मनोविषयमभिधाय मनःकर्माह इन्द्रियेत्यादि।इन्द्रियाभिग्रहः इन्द्रियाधिष्ठानं मनसः कर्म तथा स्वस्य निग्रहो मनसः कर्म मनो ह्य् अनिष्टविषयप्रसृतं मनसैव नियम्यते मनश्च गुणान्तरयुक्तं सद्विषयान्तरान् नियमयति इत्याहुरेके।यदुक्तम् विषयप्रवणं चित्तं धृतिभ्रंशान्न शक्यते ।नियन्तुम् अहिताद् अर्थाद् धृतिर्हि नियमात्मिका इति ।तेन धृत्या कारणभूतया आत्मानं नियमयतीति न स्वात्मनि क्रियाविरोधः ।मनःकर्मान्तरम् आह ऊहो विचारश् चेति ।अत्रोह आलोचनज्ञानं निर्विकल्पकम् विचारो हेयोपादेयतया विकल्पनम् ।चतुर्विधं हि विकल्पकारणं सांख्या मन्यन्ते तत्र बाह्यम् इन्द्रियरूपम् आभ्यन्तरं तु मनोऽहंकारो बुद्धिश्चेति त्रितयम् । तत्रेन्द्रियाण्यालोचयन्ति निर्विकल्पेन गृह्णन्तीत्यर्थः मनस्तु संकल्पयति हेयोपादेयतया कल्पयतीत्यर्थः अहंकारो ऽभिमन्यते ममेदमहमत्राधिकृत इति मन्यत इत्यर्थः बुद्धिर् अध्यवस्यति त्यजाम्येनं दोषवन्तम् उपाददाम्येनं गुणवन्तम् इत्यध्यवसायं करोतीत्यर्थः ।ऊहस् तु यद्यपि बाह्यचक्षुरादिकर्म तथापि तत्रापि मनोऽधिष्ठानम् अस्तीति मनःकर्मतयोक्तः ।वचनं हि सान्तःकरणा बुद्धिः सर्वं विषयम् अवगाहते यस्मात्। तस्मात् त्रिविधं करणं द्वारि द्वाराणि शेषाणि इति ।ततः परं बुद्धिः प्रवर्तत इति ऊहविचारानन्तरं बुद्धिर् अध्यवसायं करोतीत्यर्थः। अहंकारव्यापारश् चाभिमननम् इहानुक्तो ऽपि बुद्धिव्यापारेणैव सूचितो ज्ञेयः।बुद्धिर्हि त्यजाम्येनमुपाददामीति वाध्यवसायं कुर्वती अहंकाराभिमत एव विषये भवति तेन बुद्धिव्यापारेणैवाहंकारव्यापारो ऽपि गृह्यते ।बुद्धौ हि सर्वकरणव्यापारार्पणं भवति ।यदुक्तम् एते प्रदीपकल्पाः परस्परविलक्षणा गुणविशेषाः ।कृत्स्नं पुरुषस्यार्थं प्रकाश्य बुद्धौ प्रयच्छन्ति ।

इन्द्रियेणेन्द्रियार्थो हि समनस्केन गृह्यते ।
कल्प्यते मनसा तूर्ध्वं गुणतो दोषतोऽथवा ।। चसं-५,१.२२ ।।

जायते विषये तत्र या बुद्धिर्निश्चयात्मिका ।
व्यवस्यति तया वक्तुं कर्तुं वा बुद्धिपूर्वकम् ।। चसं-५,१.२३ ।।

आयुर्वेददीपिका
एतदेवोहविचारपूर्वकत्वं बुद्धेर् विवृणोति इन्द्रियेणेत्यादि।गृह्यते इति ऊहमात्रेण निर्विकल्पेन गृह्यते ।गुणत इति उपादेयतया ।दोषत इति हेयतया। बुद्ध्यध्यवसायं विवृणोति जायत इत्यादि।विषये तत्रेति मनसा कल्पिते विषये ।निश्चयात्मिकेति स्थिरस्वरूपा अध्यवसायरूपेत्यर्थः।व्यवस्यतीति अनुष्ठानं करोति उद्युक्तो भवतीत्यर्थः बुद्ध्यध्यवसितमर्थं वक्तुं कर्तुं वानुतिष्ठतीति यावत् ।बुद्धिपूर्वकमित्यनेन यदेव बुद्धिपूर्वकम् अनुष्ठानं तद् एवैवंविधं भवति नोन्मत्ताद्यनुष्ठानमिति दर्शयति ।

२४-२६सम्पाद्यताम्

एकैकाधिकयुक्तानि खादीनामिन्द्रियाणि तु ।
पञ्च कर्मानुमेयानि येभ्यो बुद्धिः प्रवर्तते ।। चसं-५,१.२४ ।।

आयुर्वेददीपिका
मनोऽभिधायेन्द्रियाण्यभिधत्ते तत्रापि ज्यायस्त्वाद् बुद्धीन्द्रियाणि प्रागाह एकैकेत्यादि ।। १ ।।

खादीनां मध्ये एकैकेनाधिकेन भूतेन युक्तानीन्द्रियाणि पञ्च चक्षुरादीनि एकैकाधिकपदेन पञ्चापि पाञ्चभौतिकानि परं चक्षुषि तेजोऽधिकमित्याद्युक्तं सूचयति ।। २ ।।

कर्मानुमेयानीति कार्यानुमेयानि कार्यं चक्षुर्बुद्ध्यादि ।। ३ ।।

येभ्यो बुद्धिः प्रवर्तत इति यानि बुद्धीन्द्रियाणि तानीमानि पञ्चेति दर्शयति ।। ४ ।।

यद्यपि च सांख्ये आहंकारिकाणीन्द्रियाणि यदुक्तं सात्त्विक एकादशकः प्रवर्तते वैकृताद् अहंकाराद् इति तथापि मतभेदाद्भौतिकत्वम् इन्द्रियाणां ज्ञेयं किंवा औपचारिकम् एतद्भौतिकत्वम् इन्द्रियाणां ज्ञेयम् उपचारबीजं च यद् गुणभूयिष्ठं यद् इन्द्रियं गृह्णाति तत्तद्भूयिष्ठम् इत्युच्यते चक्षुस्तेजो गृह्णाति तेन तैजसम् उच्यते इत्यादि ज्ञेयम् ।। ५ ।।
)

हस्तौ पादौ गुदोपस्थं वागिन्द्रियमथापि च ।
कर्मेन्द्रियाणि पञ्चैव पादौ गमनकर्मणि ।। चसं-५,१.२५ ।।

पायूपस्थं विसर्गार्थं हस्तौ ग्रहणधारणे ।
जिह्वावागिन्द्रियं वाक् च सत्या ज्योतिस्तमोऽनृता ।। चसं-५,१.२६ ।।

आयुर्वेददीपिका
अथ कर्मेन्द्रियाण्याह हस्ताव् इत्यादि ।। १ ।।

हस्ताव् एकं पादौ चैकमिन्द्रियमेकरूपकर्मकर्तृतया ।। २ ।।

गुदोपस्थं चैकैकम् ।। ३ ।।

वाच उपादानहानार्थं भेदमाह वाक् चेत्यादि ।। ४ ।।

ज्योतिरिव ज्योतिः धर्मकर्तृत्वेनोभयलोकप्रकाशकारित्वात् एतद्विपर्ययेण तमः अनृता ।। ५ ।।
)

२७-३१सम्पाद्यताम्

महाभूतानि खं वायुर् अग्निर् आपः क्षितिस्तथा ।
शब्दः स्पर्शश्च रूपं च रसो गन्धश्च तद्गुणाः ।। चसं-५,१.२७ ।।

आयुर्वेददीपिका
सम्प्रत्युद्देशक्रमानुरोधादर्थे ऽभिधातव्ये ऽर्थानां प्रकृतिग्रहणगृहीतपञ्चभूतगुणतया पराधीनत्वाद् अष्टधातुप्रकृतिगृहीतानि भूतान्येव तावदाह महाभूतानीत्यादि ।। १ ।।

शब्दादयो यथासंख्यं खादीनां नैसर्गिका गुणा ज्ञेयाः ।। २ ।।

यस्तु गुणोत्कर्षो ऽभिधातव्यः स हि अनुप्रविष्टभूतसम्बन्धाद् एव ।। ३ ।।

तेन पृथिव्यां चतुर्भूतप्रवेशात् पञ्चगुणत्वम् एवं जलादाव् अपि चतुर्गुणत्वादि ज्ञेयम् ।। ४ ।।
)

तेषामेकगुणः पूर्वो गुणवृद्धिः परे परे ।
पूर्वः पूर्वगुणश्चैव क्रमशो गुणिषु स्मृतः ।। चसं-५,१.२८ ।।

आयुर्वेददीपिका
नैसर्गिकं गुणमभिधाय भूतान्तरप्रवेशकृतं गुणम् आह तेषाम् इत्यादि ।। १ ।।

एकगुणः पूर्व इति पूर्वो धातुः खरूपः शब्दैकगुणः ।। २ ।।

पुंलिङ्गता च खादीनां धातुरूपताबुद्धिस्थीकृतत्वात् उक्तं हि खादयश् चेतनाषष्ठा धातवः इति ।। ३ ।।

यथा यथा च परत्वं तथा तथा च गुणवृद्धिर् यथासंख्यम् ।। ४ ।।

ननु एतावता ऽप्य् एकगुणत्वद्विगुणत्वादि न नियमेन ज्ञायते को गुणः क्व भूते इत्याह पूर्व इत्यादि ।। ५ ।।

गुणिषु खादिषु धातुषु पूर्वो गुणः क्रमेण यथासंख्यं वर्तते न केवलं पूर्वः किंतु पूर्वस्यापि यो गुणः स च पूर्वगुण उत्तरे भूते वर्तते ।। ६ ।।

तेन खे पूर्वे पूर्वः शब्दगुणो वर्तते वायौ तु स्पर्शः क्रमप्राप्तः पूर्वो भवति पूर्वगुणश्च शब्द इति द्विगुणत्वम् एवमग्न्यादौ च ज्ञेयम् ।। ७ ।।

गन्धस् तूत्तरगुणान्तराभावान्न पूर्वो भवति तथापि गन्धश् च तद्गुणाः इति ग्रन्थे तद्गुणा इतिपदापेक्षया गन्धस्य पूर्वत्वं कल्पनीयं किंवा पूर्व इति छत्त्रिणो गच्छन्तीति न्यायेनोक्तं तेनापूर्वो ऽपि गन्धः क्रमागतः पृथिव्यां ज्ञेयः ।। ८ ।।

खरद्रवचलोष्णत्वं भूजलानिलतेजसाम् ।
आकाशस्याप्रतीघातो दृष्टं लिङ्गं यथाक्रमम् ।। चसं-५,१.२९ ।।

लक्षणं सर्वमेवैतत् स्पर्शनेन्द्रियगोचरम् ।
स्पर्शनेन्द्रियविज्ञेयः स्पर्शो हि सविपर्ययः ।। चसं-५,१.३० ।।

आयुर्वेददीपिका
(

भूतानाम् असाधारणं लक्षणमाह खरेत्यादि ।। १ ।।

अप्रतीघातः अप्रतिहननम् अस्पर्शत्वम् इति यावत् स्पर्शवद्धि गतिविघातकं भवति नाकाशः अस्पर्शवत्त्वात् ।। २ ।।

सर्वमेवैतदिति खरत्वादि ।। ३ ।।

स्पर्शनेन्द्रियगोचरमिति स्पर्शनेन्द्रियज्ञेयम् ।। ४ ।।

कथमेतत्सर्वं स्पर्शनेन्द्रियज्ञेयम् इत्याह स्पर्शनेत्यादि ।। ५ ।।

सविपर्यय इति स्पर्शाभाव इत्यर्थः ।। ६ ।।

यद् इन्द्रियं यद्गृह्णाति तत्तस्याभावमपि गृह्णाति तेन आकाशस्यास्पर्शत्वम् अपि स्पर्शनेन्द्रियग्राह्यम् इति युक्तम् ।। ७ ।।

द्रवत्वं चलत्वं च सांख्यमते स्पर्शनग्राह्यत्वात् स्थूलभूतवातधर्मः स्पर्श एव यद्धि स्पर्शनेन गृह्यते तत् सर्वं महाभूतवातपरिणाम एव ।। ८ ।।

एतानि च खादीनि सूक्ष्माणि तन्मात्ररूपाणि ज्ञेयानि स्थूलभूतानि तु खादीनि विकारतया तत्रोक्तानि ।। ९ ।।

प्रकृतिवर्गे सूक्ष्मरूपास्तन्मात्रा उक्ताः ।। १० ।।

वचनं हि तन्मात्राण्यविशेषास् तेभ्यो भूतानि पञ्च पञ्चभ्यः ।। ११ ।।

एते स्मृता विशेषाः शान्ता घोराश्च मूढाश्च इति तेनेहापि खादीनि तन्मात्रशब्दोक्तानि सूक्ष्माणि बोद्धव्यानि ।। १२ ।।
)

गुणाः शरीरे गुणिनां निर्दिष्टाश्चिह्नमेव च|३१|
आयुर्वेददीपिका-
भूतानां सूक्ष्माणां शरीरस्थानां लिङ्गान्तराण्याह- गुणा इत्यादि| गुणाः शब्दादयः| गुणिनामितिसूक्ष्मरूपभूतानाम्| एवचग्रहणात् शब्दादयश्च व्यक्ताः सूक्ष्माणां शरीरस्थानां भूतानां लक्षणं भवन्तीति वाक्यार्थः|३१|

अर्थाः शब्दादयो ज्ञेया गोचरा विषया गुणाः||३१||
आयुर्वेददीपिका
अर्थानाह- अर्था इत्यादि| अर्थशब्देन तु ये शब्दादयोऽभिधीयन्ते ते स्थूलखादिरूपा एव ज्ञेयाः; येनाकाशपरिणाम एव शब्दः, वातपरिणामः स्पर्श इत्यादि दर्शनम्| शब्दादिग्रहणेनात्राकाशादिग्रहणं यत्, तदाकाशादिपरिणामा एव शब्दादय इति युक्तमेव| एतेन यच्छ्रोत्रग्राह्यं तत् सर्वमाकाशं शब्दश्च, यत् स्पर्शेन गृह्यते तत् सर्वं वायुः स्पर्शश्चेत्यादि ज्ञेयम्||३१||

३२-३५सम्पाद्यताम्

या यदिन्द्रियमाश्रित्य जन्तोर्बुद्धिः प्रवर्तते|
याति सा तेन निर्देशं मनसा च मनोभवा||३२||
भेदात् कार्येन्द्रियार्थानां बह्व्यो वै बुद्धयः स्मृताः|
आत्मेन्द्रियमनोर्थानामेकैका सन्निकर्षजा||३३||
अङ्गुल्यङ्गुष्ठतलजस्तन्त्रीवीणानखोद्भवः|
दृष्टः शब्दो यथा बुद्धिर्दृष्टा संयोगजा तथा||३४||
आयुर्वेददीपिका
सम्प्रति प्रकृतिगणप्रविष्टाया बुद्धेरुपदर्शनार्थं तस्या बुद्धेर्वृत्तिभेदात् ज्ञानविशेषरूपाण्याह- येत्यादि| यदिन्द्रियमाश्रित्येति यदिन्द्रियप्रणालिकामाश्रित्य महच्छब्दाख्यस्य बुद्धितत्त्वस्य वृत्तिविशेषरूपाणि ज्ञानानीन्द्रियप्रणालिकया भवन्ति, तदिन्द्रियजन्यत्वेनैव तानि व्यपदिश्यन्ते- चक्षुर्बुद्धिः, श्रोत्रबुद्धिरित्यादिव्यपदेशेन | मनोभवा च बुद्धिश्चिन्त्यादिविषया मनसा निर्दिश्यते; मनोबुद्धिरिति व्यपदिश्यत इत्यर्थः| इन्द्रियमनोभेदेन षट्त्वं बुद्धीनां प्रतिपाद्य बुद्धिबहुत्वं प्राह- भेदादित्यादि| कार्यस्य इन्द्रियार्थस्य च भेदात् तत्सम्बन्धेन भिद्यमाना बह्व्यो बुद्धयो भवन्ति; कार्यं सुखदुःखभेदाः; सुखदुःखप्रपञ्चेन हि तक्तार्येण कारणं ज्ञानमपि बहु भवति| इदानीं सर्वबाह्यज्ञानसाधनमाह- आत्मेत्यादि| आत्मा अव्यक्तम्| एकैकेति प्रत्येकम्| बुद्धेरनेकात्मादिमेलकजन्यत्वे दृष्टान्तमाह - अङ्गुलीत्यादि| अनेन दृष्टान्तेन शब्दद्वयमाह; अङ्गुल्यङ्गुष्ठतलजशब्द एकः, अयं चाङ्गुष्ठयन्त्रितमध्यमाङ्गुल्याः करतलसंयोगाज्जायमानतलशब्द उच्यते; तन्त्रीवीणानखोद्भवश्च वीणाशब्द एकः; अन्ये त्वेकमेवाङ्गुल्यादिजं वीणाशब्दं वर्णयन्ति| एतेन, यथा शब्दोऽङ्गुलाद्यन्यतमवैकल्येऽपि न भवति, तथा बुद्धिरप्यात्मादीनामन्यतमवैकल्येऽपि न भवतीति दर्शयति||३२-३४||

बुद्धीन्द्रियमनोर्थानां विद्याद्योगधरं परम्|
चतुर्विंशतिको ह्येष राशिः पुरुषसञ्ज्ञकः||३५||
आयुर्वेददीपिका
अत्र च बुद्धिवृत्तीनां ज्ञानानां कथनेनैवाहङ्कारोऽपि सूचित एव; यतोऽहङ्कारोपजीवितैवात्मादिसंवलितेयं बुद्धिः ‘अहं पश्यामि’ इत्यादिरूपा भवति; तेन बुद्धेरहङ्कारस्य चोक्तत्वादवशिष्टमव्यकं कार्यद्वारा ब्रूते- बुद्धीत्यादि| परमिति अव्यक्तम्| बुद्ध्यादीनां योगं मेलकं धरतीति योगधरम्; अव्यक्तं हि प्रकृतिरूपं पुरुषार्थप्रवृत्तं बुद्ध्यादिमेलकं भोगसम्पादकं सृजति| एवं व्युत्पादितं चतुर्विंशतिकमुपसंहरति- चतुर्विंशतिक इत्यादि| यदि वा कर्मेन्द्रियाण्यभिधाय महाभूतानीत्यादिना अर्था एवाश्रयभूतखादिकथनेनोच्यन्ते, या यदिन्द्रियमाश्रित्येत्यादिना तु स्फुटोपलभ्यमाना बुद्धिवृत्तिभेदा उच्यन्ते, बुद्ध्यहङ्कारतन्मात्राण्यव्यक्तानि तु सूक्ष्माणि नोक्तानि, तानि सर्वाण्येव बुद्धीन्द्रियमनोर्थानामित्यादिग्रन्थे परशब्देनोच्यन्ते, तेन योगधरं परमित्यनेन मूलप्रकृतिस्तथा प्रकृतिविकृतयश्च महदादयः सप्तोच्यन्ते; एवं चतुर्विंशतिको राशिर्भवति| परत्वं च विकारापेक्षया प्रकृतीनामुपपन्नमेव||३५||

३६-४५सम्पाद्यताम्

रजस्तमोभ्यां युक्तस्य संयोगोऽयमनन्तवान्|
ताभ्यां निराकृताभ्यां तु सत्त्ववृद्ध्या निवर्तते||३६||
आयुर्वेददीपिका
सम्प्रत्येवंरूपपुरुषस्य सकारणं संसरणं मोक्षहेतुं चाह- रज इत्यादि| संयोगोऽयमिति चतुर्विंशतिराशिरूपो मेलकः| ताभ्यामिति रजस्तमोभ्याम्| सत्त्ववृद्ध्या कारणभूतया रजस्तमोनिवृत्त्या पुरुषरूपः संयोगो निवर्तते मोक्षो भवतीत्यर्थः| सत्त्वं वृद्धं विशुद्धज्ञानजननाद् रजस्तमसी संसारकारणे विजित्य प्रकृतिपुरुषविवेकज्ञानान्मोक्षमावहति||३६||

अत्र कर्म फलं चात्र ज्ञानं चात्र प्रतिष्ठितम्|
अत्र मोहः सुखं दुःखं जीवितं मरणं स्वता||३७||
एवं यो वेद तत्त्वेन स वेद प्रलयोदयौ|
पारम्पर्यं चिकित्सां च ज्ञातव्यं यच्च किञ्चन||३८||
आयुर्वेददीपिका
पुनश्चतुर्विंशतिके पुरुषे कर्मफलादि दर्शयन् दोषहीने पुरुषे कर्मफलाद्यभावमर्थोद्दर्शयति- अत्रेत्यादि| फलमत्रेति यथोक्तसमुदायपुरुषे| कर्मेति अदृष्टम्| फलमिति अदृष्टफलम्| स्वता ममता| ज्ञानं च यद्यपि चतुर्विंशतितत्त्वातिरिक्तस्योदासीनस्यैव, तथाऽपि तच्चेतनया प्रकृतिरपि चेतनामापद्य चेतनैव भवतीति युक्तम् ‘अत्र ज्ञानम्’ इति| वचनं हि- “तस्मात्तत्संयोगादचेतनं चेतनावदिव लिङ्गम् ” (सां. का. २०) इति| प्रलयोदयाविति जीवितमरणे| पारम्पर्यमिति शरीरपरम्पराम्| चिकित्सां चेति नैष्ठिकी आत्यन्तिकदुःखचिकित्सा मोक्षसाधना ज्ञातव्या| यच्च किञ्चनेत्यनेनानुक्तमपि कृत्स्नं ज्ञेयमवरुणद्धि||३७-३८||

भास्तमः सत्यमनृतं वेदाः कर्म शुभाशुभम्|
न स्युः कर्ता च बोद्धा च पुरुषो न भवेद्यदि||३९||
नाश्रयो न सुखं नार्तिर्न गतिर्नागतिर्न वाक्|
न विज्ञानं न शास्त्राणि न जन्म मरणं न च||४०||
न बन्धो न च मोक्षः स्यात् पुरुषो न भवेद्यदि|
कारणं पुरुषस्तस्मात् कारणज्ञैरुदाहृतः||४१||
न चेत् कारणमात्मा स्याद्भादयः स्युरहेतुकाः|
न चैषु सम्भवेज् ज्ञानं न च तैः स्यात् प्रयोजनम्||४२||
आयुर्वेददीपिका
पुरुषः कारणं कस्मादिति प्रश्नस्योत्तरं- भास्तम इत्यादि| भाः प्रतिभा| तमः मोहः| पुरुष इह प्रकरणे आत्माऽभिप्रेतः| आश्रयः शरीरम्| गतिश्च प्रयोजनानुसन्धानाद्भवति , एवमागतिरपि| कारणं पुरुषस्तस्मादिति भास्तमःसत्यादौ कारणं पुरुष इत्यर्थः| एतदेव भाआदिकारणत्वमात्मन आह- न चेदित्यादि| एवं मन्यते- भास्तमसी धर्माधर्मजन्ये, धर्माधर्मौ चासत्यात्मनि निराश्रयौ न भवितुमर्हतः; तथा सत्यं धर्मजनकतया उपादेयम्, अनृतं चाधर्मजनकतयाऽनुपादेयम्, एतच्चात्मनि स्थिरेऽसति धर्माधर्मजनकत्वं नास्ति, ततश्च सत्यासत्यभेदोऽप्यकिञ्चित्करत्वान्नास्ति; एवं शुभाशुभकर्मण्यपि वाच्यं; तथा कर्ता च कारणप्रतिसन्धाता न भवति, प्रतिसन्धातुरात्मनोऽभावादित्यर्थः; तथा बोद्धा च पूर्वापरावस्थाप्रतिसन्धातैव भवति; शरीरं चात्मनो भोगायतनं नात्मानं विना भवति; एवं सुखादावप्यात्मनः कारणत्वमुन्नेयम्; विज्ञानं शास्त्रार्थज्ञानं, शास्त्राणि प्रतिसन्धात्राऽऽत्मनैव कृतानि| न चैषु सम्भवेज्ज्ञानमिति आत्मानं ज्ञातारं विना न भादिषु ज्ञानं सम्भवेत्, ज्ञातुरात्मनोऽभावादित्यर्थः| न च तैः स्यात् प्रयोजनमिति भादीनामात्मार्थत्वेनासत्यात्मनि भाद्युत्पत्तेः प्रयोजनं न स्यात्, प्रयोजनाभावाच्चोत्पादो न स्यात्; सर्वेषामेव हि भावानामात्मस्थौ धर्माधर्मौ पुरुषभोगार्थमुत्पादकौ, असति भोक्तरि भोज्येनापि न भवितव्यं कारणाभावात्||३९-४२||

कृतं मृद्दण्डचक्रैश्च कुम्भकारादृते घटम्|
कृतं मृत्तृणकाष्ठैश्च गृहकाराद्विना गृहम्||४३||
यो वदेत् स वदेद्देहं सम्भूय करणैः कृतम्|
विना कर्तारमज्ञानाद्युक्त्यागमबहिष्कृतः||४४||
आयुर्वेददीपिका
आत्मानं विना शरीरानुत्पादे दृष्टान्तद्वयं प्रमेयगौरवादाह- कृतं मृद्दण्डेत्यादि| सम्भूय करणैः कृतमित्यात्मनिरपेक्षैर्भूतैः कृतमित्यर्थः| युक्त्या अनुमानरूपया आगमेन च रहितो युक्त्यागमबहिष्कृतः; प्रत्यक्षं चात्र नोक्तं, तस्यात्मानं प्रति प्रायोऽयोग्यत्वात्||४३-४४||

कारणं पुरुषः सर्वैः प्रमाणैरुपलभ्यते|
येभ्यः प्रमेयं सर्वेभ्य आगमेभ्यः प्रमीयते||४५||
आयुर्वेददीपिका
सर्वैः प्रमाणैरिति प्रत्यक्षादिभिः| येभ्य इति करण एवापादानविवक्षया पञ्चमी| आगमयन्ति बोधयन्तीति आगमाः प्रमाणान्येव; अन्ये त्वागमप्रमाणाभ्यां शास्त्राण्येव ब्रुवते||४५|| ====४६-४९ न ते तत्सदृशास्त्वन्ये पारम्पर्यसमुत्थिताः|
सारूप्याद्ये त एवेति निर्दिश्यन्ते नवा नवाः||४६||
भावास्तेषां समुदयो निरीशः सत्त्वसञ्ज्ञकः|
कर्ता भोक्ता न स पुमानिति केचिद्व्यवस्थिताः||४७||
आयुर्वेददीपिका
निरात्मवादिमतमुत्थापयति- न ते इत्यादि| अस्मिञ् शरीरे ते क एव पृथिवीजलादयो भावाः, ये त एवेति व्यपदिश्यन्ते; ते न भवन्ति पूर्वानुभूता नानुभवन्तीत्यर्थः| यदि ते न भवन्ति, कथं तर्हि ‘ते’ इत्यभिज्ञानमित्याह- तत्सदृशास्त्वन्ये पूर्वसदृशा इत्यर्थः| पारम्पर्यसमुत्थिता इति सदृशसन्तानव्यवस्थिताः| सारूप्यादिति सदृशरूपत्वात्| तेषां समुदय इति क्षणभङ्गिनां मेलक इत्यर्थः| निरीश इति स्थाय्यात्मरहितः| सत्त्वसञ्ज्ञक इति प्राणिसञ्ज्ञकः| केचिदिति बौद्धाः| बौद्धा हि निरात्मकं क्षणिकज्ञानादिसमुदायमात्रं शरीरमिच्छन्ति; प्रतिसन्धानं च क्षणिकानामपि ज्ञानादीनां कार्यकारणभावादेकफलसन्तताविच्छन्ति||४६-४७||

तेषामन्यैः कृतस्यान्ये भावा भावैर्नवाः फलम्|
भुञ्जते सदृशाः प्राप्तं यैरात्मा नोपदिश्यते||४८||
आयुर्वेददीपिका
एतद्दूषयति- तेषामित्यादि| तेषां ज्ञानसन्तानवादिनाम्, अन्येन कृतस्यौदनपाकादेः फलमन्नादि अन्ये भुञ्जत इति प्राप्नोति| एतच्चासङ्गतं, यतः फलं भोक्ष्यामीति कृत्वा भाविफलप्रत्याशया प्रवृत्तिर्युक्ता, न त्वन्यस्य भोग्यतां फलस्य पश्यन् कश्चित् प्रवर्तते; योऽपि सूपकारादिः परार्थं प्रवर्तते, सोऽपि परार्थेन स्वार्थं साधयितुकाम एवेति भावः||४८||

करणान्यान्यता दृष्टा कर्तुः कर्ता स एव तु|
कर्ता हि करणैर्युक्तः कारणं सर्वकर्मणाम्||४९||
आयुर्वेददीपिका
परमतं दूषयित्वा स्वमतमाह- करणेत्यादि| करणस्य शरीरस्य परिणामिनोऽन्यान्यता दृष्टा| कर्ता चात्मा, स एव न विनाशीत्यर्थः| अत्रैव दृष्टान्तमाह- कर्ता हीत्यादि| यथाऽनेकशिल्पवित् कर्ता करणैर्वांशीसन्दंशयन्त्रादिभिः काष्ठपाटनलौहघटनादि करोति, तथाऽऽत्माऽपीत्यर्थः||४९||

५०-५२सम्पाद्यताम्

निमेषकालाद्भावानां कालः शीघ्रतरोऽत्यये|
भग्नानां न पुनर्भावः कृतं नान्यमुपैति च||५०||
मतं तत्त्वविदामेतद्यस्मात्तस्मात् स कारणम्|
क्रियोपभोगे भूतानां नित्यः पुरुषसञ्ज्ञकः||५१||
आयुर्वेददीपिका
अथायमात्मसद्भावः स्थिरोऽस्तु, शरीरारम्भकाणां भूतानां का वा गतिरित्याह- निमेषेत्यादि| भावानामिति शरीरादिभावानाम्| अत्यय इति विनाशे; शरीरस्य स्वाग्निपच्यमानस्य निमेषकालादपि शीघ्रं विनाशो भवतीत्यर्थः| अमीषां च भावानां भग्नानां न पुनर्भावः पुनरागमनं नास्तीत्यर्थः| तेन, येन शरीरेण यत् कृतं तच्छरीरं तत्फलं न प्राप्नोतीत्युक्तं भवति| अथ मा भवत्वेवं ततः किमित्याह- कृतमित्यादि|- कृतं कर्म यागादि न फलरूपतयाऽन्यमुपैति, एवं सति देवदत्तकृतेन शुभकर्मणा यज्ञदत्तादयोऽपि सुखभाजः स्युः; तस्मात् क्षणभङ्गिशरीरादतिरिक्तः कर्मकर्ता तत्फलभोक्ता चास्तीति भावः| क्रियोपभोग इति क्रियायां तत्फलभोगे च| भूतानामिति प्राणिनाम्||५०-५१||

अहङ्कारः फलं कर्म देहान्तरगतिः स्मृतिः|
विद्यते सति भूतानां कारणे देहमन्तरा||५२||
आयुर्वेददीपिका
आत्मसद्भावे हेत्वन्तरमाह- अहङ्कार इत्यादि| एतेऽहङ्कारदयः स्थिर एव परमात्मनि भवन्ति, पूर्वापरकालावस्थायिवस्तुधर्मत्वादिति भावः| देहमन्तरेति देहं विना; देहातिरिक्ते कारणे सत्यहङ्कारो भवतीत्यर्थः||५२||

५३-५८सम्पाद्यताम्

प्रभवो न ह्यनादित्वाद्विद्यते परमात्मनः|
पुरुषो राशिसञ्ज्ञस्तु मोहेच्छाद्वेषकर्मजः||५३||
आयुर्वेददीपिका
‘प्रभवः पुरुषस्य कः’ इत्यस्योत्तरं- प्रभव इत्यादि| प्रभवः कारणम्| राशिसञ्ज्ञ इति षड्धातुसमुदायरूपश्चतुर्विंशतिराशिरूपो वा| मोहेच्छाद्वेषजनितकर्मजो मोहेच्छाद्वेषकर्मजः| मोहाद्धि भावेषु इच्छा द्वेषश्च भवति, ततः प्रवृत्तिः, प्रवृत्तेर्धर्माधर्मौ, तौ च शरीरं जनयतो भोगार्थम्||५३||

आत्मा ज्ञः करणैर्योगाज् ज्ञानं त्वस्य प्रवर्तते|
करणानामवैमल्यादयोगाद्वा न वर्तते||५४||
पश्यतोऽपि यथाऽऽदर्शे सङ्क्लिष्टे नास्ति दर्शनम्|
तत्त्वं जले वा कलुषे चेतस्युपहते तथा||५५||
आयुर्वेददीपिका
‘किमज्ञो ज्ञः’ इत्यस्योत्तरम्- आत्मेत्यादि| करणानीह मनोबुद्धीन्द्रियाणि| न वर्तते ज्ञानमिति योजना| ननु यद्ययमात्मा ज्ञः , तत् किमित्यस्य सर्वदा ज्ञानं न भवतीत्याह- पश्यतोऽपीत्यादि| पश्यतोऽपीति चक्षुष्मतोऽपीत्यर्थः| तत्त्वमिति दर्शनविशेषणम्| तेन, म्लाने दर्पणे जले वा दर्शनं भवदप्ययथार्थग्राहितया न तत्त्वरूपं भवतीत्यर्थः| चेतसीत्युपलक्षणं, तेन चक्षुरादावप्युपहत इति ज्ञेयम्||५४-५५||

करणानि मनो बुद्धिर्बुद्धिकर्मेन्द्रियाणि च|
कर्तुः संयोगजं कर्म वेदना बुद्धिरेव च||५६||
नैकः प्रवर्तते कर्तुं भूतात्मा नाश्नुते फलम्|
संयोगाद्वर्तते सर्वं तमृते नास्ति किञ्चन||५७||
आयुर्वेददीपिका
करणप्रस्तावाज् ज्ञाने कर्मणि वेदनायां च यावत् करणमात्मनस्तदाह- करणानीत्यादि| संयोगजमिति कर्मणा वेदनया बुद्ध्या च योज्यम्| नाश्नुते फलमेक इति योज्यम्| एक इति निष्करणः| संयोगाद्वर्तत इति करणसमुदायादुत्पद्यते [१] | तमृत इति संयोगं विना||५६-५७||

न ह्येको वर्तते भावो वर्तते नाप्यहेतुकः|
शीघ्रगत्वात्स्वभावात्त्वभावो न व्यतिवर्तते||५८||
आयुर्वेददीपिका
अत्रैव सामग्रीजन्यत्वे सर्वकार्याणामुपपत्तिमाह- न ह्येक इत्यादि| एको भावः कारणरूपः सहकारिकारणान्तररहितो न कार्यकरणे वर्तत इत्यर्थः; एवं तावदेकं कारणं कार्ये न वर्तते, कार्यं च हेतुं विना न भवतीत्याह- वर्तते नाप्यहेतुक इति; हेतुं विना भाव उत्पत्तिधर्मा न वर्तते न भवतीत्यर्थः| तेन करणयुक्तात्मजन्यं कार्यं न केवलादात्मनो हेतुरूपाद्भवतीत्युक्तं भवति| अथ हेतुं विना चेद्भावो न भवति, तत् किमभावेऽपि शारीराणां भावानां हेत्वपेक्षा न वेत्याह- शीघ्रगत्वादित्यादि| शीघ्रगत्वात् स्वभावाल्लक्षितोऽभावो न स्वभावं व्यतिवर्तते शीघ्रगत्वस्वभावं न त्यजतीत्यर्थः| तेन, अहेतुक एवाभावो भवति, भावस्तु सहेतुकः| उक्तं हि “उत्पत्तिहेतुर्भावनां न निरोधेऽस्ति कारणम्” (सू.अ.१६) इति| किंवा, शीघ्रगत्वादस्थिरत्वादभावो नावस्थान्तरमात्मनाशं प्रति गच्छतीति ग्रन्थार्थः||५८||

५९-६२सम्पाद्यताम्

अनादिः पुरुषो नित्यो विपरीतस्तु हेतुजः|
सदकारणवन्नित्यं दृष्टं हेतुजमन्यथा||५९||
आयुर्वेददीपिका
‘स नित्यः किमनित्यः’ इत्यस्योत्तरम्- अनादिरित्यादि| अनादिश्च पुरुषोऽव्यक्तरूप आत्मशब्दाभिधेयः| विपरीत इति आदिमान् राशिरूपः पुरुष इत्यर्थः| अत्रैवानादेर्नित्यत्वे शास्त्रान्तरसम्मतिमप्याह- सदित्यादि| सदिति त्रिविधसमये प्रमाणगम्यभावरूपम् | एतेन, प्रागभावस्याकारणवतोऽप्यभावरूपतयाऽनित्यत्वं न व्यभिचारकम्| हेतुजमन्यथेति अत्रापि भावरूपमिति योजनीयम्| तेन, हेतुजन्यस्यापि प्रध्वंसस्याविनाशित्वं परिहृतं भवति||५९||

तदेव भावादग्राह्यं नित्यत्व न कुतश्चन|
भावाज्ज्ञेयं तदव्यक्तमचिन्त्यं व्यक्तमन्यथा||६०||
अव्यक्तमात्मा क्षेत्रज्ञः शाश्वतो विभुरव्ययः|
तस्माद्यदन्यत्तद्व्यक्तं, वक्ष्यते चापरं द्वयम्||६१||
व्यक्तमैन्द्रियकं चैव गृह्यते तद्यदिन्द्रियैः|
अतोऽन्यत् पुनरव्यक्तं लिङ्गग्राह्यमतीन्द्रियम्||६२||
आयुर्वेददीपिका
किं तन्नित्यत्वमित्याह- तदेवेत्यादि| भावादुत्पत्तिधर्मकात्| तन्नित्यत्वं न कुतोऽपि भावाद्भवति, नित्यं हि न कुतोऽपि भवति| ततश्चात्मा भावं प्रति निरपेक्षत्वात् सर्वेभ्यो भावेभ्योऽप्यग्रे नित्यं सदेव| तच्चैवम्भूतं नित्यमव्यक्तं ज्ञेयम्| अचिन्त्यमित्यव्यक्तविशेषणम्| अव्यक्तं च मूलप्रकृतिः| व्यक्तमन्यथेति प्रकृतेरन्यतमकार्यं महदादिकमनित्यम्; आकाशमपि विकाररूपतयाऽनित्यमेव; उदासीनपुरुषस्तु नित्य एवाव्यक्तशब्देनैव लक्षित इत्युक्तमेव| अव्यक्तधर्मान्तरव्यापकान् पर्यायानाह- अव्यक्तमित्यादि| पुनः प्रकारान्तरेण व्यक्ताव्यक्तार्थमाह - वक्ष्यत इत्यादि| अपरं द्वयमिति प्रकारान्तरकृतं व्यक्ताव्यक्तद्वयम्| लिङ्गग्राह्यमिति अनुमानग्रह्यम्| अतीन्द्रियमित्यनेन चेन्द्रियग्रहणायोग्यं यत् केनापि शब्दादिलिङ्गेन गृह्यते न तदव्यक्तं, किन्तु यन्नित्यानुमेयं मनोऽहङ्कारादि तदेवाव्यक्तम्||६०-६२||

६३-६५सम्पाद्यताम्

खादीनि बुद्धिरव्यक्तमहङ्कारस्तथाऽष्टमः|
भूतप्रकृतिरुद्दिष्टा विकाराश्चैव षोडश||६३||
बुद्धीन्द्रियाणि पञ्चैव पञ्च कर्मेन्द्रियाणि च|
समनस्काश्च पञ्चार्था विकारा इति सञ्ज्ञिताः||६४||
आयुर्वेददीपिका
‘प्रकृतिः का विकाराः के’ इत्यस्योत्तरं-खादीनीत्यादि| खादीनि सूक्ष्मभूतखादीनि [१] तन्मात्रशब्दाभिधेयानि| बुद्धिः महच्छब्दाभिधेया| अव्यक्तं मूलप्रकृतिः| अहङ्कारः बुद्धिविकारः; स च त्रिविधः- भूतादिः, तैजसः, वैकारिकश्च| भूतानां स्थावरजङ्गमानां प्रकृतिर्भूतप्रकृतिः| अत्र चाव्यक्तं प्रकृतिरेव परं, बुद्ध्यादयस्तु स्वकारणविकृतिरूपा अपि स्वकार्यापेक्षया प्रकृतिरूपा इह प्रकृतित्वेनोक्ताः| यदुक्तं- “मूलप्रकृतिरविकृतिर्महदाद्याः प्रकृतिविकृतयः सप्त” (सां.का.३) इति| विकारा नाह- विकारा इत्यादि| एवशब्दो भिन्नक्रमेऽवधारणे, तेन विकारा एव षोडश परं न प्रकृतयः| बुद्धेरिन्द्रियाणि बुद्धीन्द्रियाणि| पञ्चार्था इति स्थूला आकाशादयः शब्दादिरूपाः; गुणगुणिनोर्हि परमार्थतो भेदो नास्त्येवास्मिन् दर्शने||६३-६४||

इति क्षेत्रं समुद्दिष्टं सर्वमव्यक्तवर्जितम्|
अव्यक्तमस्य क्षेत्रस्य क्षेत्रज्ञमृषयो विदुः||६५||
आयुर्वेददीपिका
एनमेव प्रकृतिविकारसमूहं क्षेत्रक्षेत्रज्ञभेदेन विभजते- इतीत्यादि| अव्यक्तवर्जितमिति प्रकृत्युदासीनवर्जितं, प्रकृतेश्चोदासीनपुरुषचैतन्येन चैतन्यमस्त्येव||६५||

६६-६९सम्पाद्यताम्

जायते बुद्धिरव्यक्ताद्बुद्ध्याऽहमिति मन्यते|
परं खादीन्यहङ्कारादुत्पद्यन्ते यथाक्रमम्||६६||
ततः सम्पूर्णसर्वाङ्गो जातोऽभ्युदित उच्यते|६७|
आयुर्वेददीपिका
सम्प्रति महाप्रलयान्तरं यथाऽऽदिसर्गे बुद्ध्याद्युत्पादो भवति तदाह- जायत इत्यादि| बुद्ध्याऽहमिति मन्यत इति बुद्धेर्जातेनाहङ्कारेणाहमिति मन्यत इत्यर्थः| खादीनीति खादीनि सूक्ष्माणि तन्मात्ररूपाणि, तथैकादशेन्द्रियाणि| वचनं हि “प्रकृतेर्महांस्ततोऽहङ्कारस्तस्माद्गणश्च षोडशकः” (सां.का.२२) इति| यथाक्रममिति यस्मादहङ्कारादुत्पद्यते तेन क्रमेण; तत्र वैकृतात् सात्त्विकादहङ्कारात्तैजससहायादेकादशेन्द्रियाणि भवन्ति, भूतादेस्त्वहङ्कारात्तामसात्तैजससहायात् पञ्चतन्मात्राणि| यदुक्तं- “सात्विक एकादशकः प्रवर्तते वैकृतादहङ्कारात्| भूतादेस्तन्मात्रः स तामसस्तैजसादुभयम्” (सां.का.२५) इति| तत इति आहङ्कारिककार्यानन्तरं तन्मात्रेभ्य उत्पन्नस्थूलभूतसम्बन्धात्| सम्पूर्णसर्वाङ्गो जात इति आदिसर्गो(र्गे) जातः||६६||

पुरुषः प्रलये चेष्टैः पुनर्भावैर्वियुज्यते||६७||
अव्यक्ताद्व्यक्ततां याति व्यक्तादव्यक्ततां पुनः|
रजस्तमोभ्यामाविष्टश्चक्रवत् परिवर्तते||६८||
येषां द्वन्द्वे परा सक्तिरहङ्कारपराश्च ये|
उदयप्रलयौ तेषां न तेषां ये त्वतोऽन्यथा||६९||
आयुर्वेददीपिका
एवमादिसर्गे प्रकृतेर्महदादिसर्गं दर्शयित्वा महाप्रलये प्रकृतावव्यक्तरूपायां बुद्ध्यादीनां लयमाह- पुरुष इत्यादि| इष्टैर्भावैरिति पुरुषोपभोगार्थमिष्टैर्बुद्ध्यादिभिः| अन्ये तु एवम्भूतसङ्गं जन्मनि , बुद्ध्यादिवियोगं च मरणे ब्रुवते| तन्न, जन्ममरणयोर्बुद्ध्यादीनां विद्यमानत्वात्| उक्तं हि- “अतीन्द्रियैस्तैरतिसूक्ष्मरूपैरात्मा कदाचिन्न विमुक्तपूर्वः| नैवेन्द्रियैर्नैव मनोमतिभ्यां न चाप्यहङ्कारविकारदोषैः” (शा. अ. २) इति| तथाऽन्यत्राप्युक्तं- “पूर्वोत्पन्नमसक्तं नियतं महदादिसूक्ष्मपर्यन्तम्| संसरति निरुपभोगं भावैरधिवासितं लिङ्गम्” (सां. का. ४०) इति| तस्मान्महाप्रलय एव प्रकृतौ लयः, तथाऽऽदिसर्ग एव प्रकृतेर्महदादिसृष्टिरिति| एतदेव प्रपञ्चं लयं च प्रकृतेराह- अव्यक्तादित्यादि| अव्यक्तादिति प्रकृतेः, व्यक्ततामिति महदादिमहाभूतपर्यन्तप्रपञ्चरूपतां याति| व्यक्तादिति महाभूतप्रपञ्चाद्यवस्थातः पुनरव्यक्तरूपतां याति गच्छति; महाप्रलये हि महाभूतानि तन्मात्रेषु लयं यान्ति, तन्मात्राणि तथेन्द्रियाणि चाहङ्कारे लयं यान्ति, अहङ्कारो बुद्धौ, बुद्धिश्च प्रकृताविति लयक्रमः| अयं च लयक्रमो मोक्षेऽपि भवति| परं तु तत्र तं पुरुषं प्रति पुनः सर्गं नारभते प्रकृतिः| अयं संसारः कुतो भवतीत्याह- रज इत्यादि| आविष्टो युक्तः| चक्रवत् परिवर्तत इति पुनः पुनर्लयसर्गाभ्यां युज्यते| द्वन्द्व इति रजस्तमोरूपे मिथुने| अहङ्कारपरा इति अहङ्कारान्ममेदमित्यादिमिथ्याज्ञानपराः| उदयप्रलयौ जन्ममरणे, किंवा लयसर्गौ| अतोऽन्यथेति ये रागद्वेषविमुक्ता निरहङ्काराश्च तेषां नोदयप्रलयौ भवतः||६७-६९||

७०-७४सम्पाद्यताम्

प्राणापानौ निमेषाद्या जीवनं मनसो गतिः|
इन्द्रियान्तरसञ्चारः प्रेरणं धारणं च यत्||७०||
देशान्तरगतिः स्वप्ने पञ्चत्वग्रहणं तथा|
दृष्टस्य दक्षिणेनाक्ष्णा सव्येनावगमस्तथा||७१||
इच्छा द्वेषः सुखं दुःखं प्रयत्नश्चेतना धृतिः|
बुद्धिः स्मृतिरहङ्कारो लिङ्गानि परमात्मनः||७२||
यस्मात् समुपलभ्यन्ते लिङ्गान्येतानि जीवतः|
न मृतस्यात्मलिङ्गानि तस्मादाहुर्महर्षयः||७३||
शरीरं हि गते तस्मिञ् शून्यागारमचेतनम्|
पञ्चभूतावशेषत्वात् पञ्चत्वं गतमुच्यते||७४||
आयुर्वेददीपिका
‘किं लिङ्गं पुरुषस्य च’ इत्यस्योत्तरं- प्राणापानावित्यादि| प्राणापानौ उच्छ्वासनिःश्वासौ| निमेषाद्या इति आद्यशब्दग्रहणेन उन्मेषाद्याः प्रेक्षणविशेषा गृह्यन्ते| मनसो गतिरिति मनसा पाटलिपुत्रगमनादिरूपा| इन्द्रियान्तरसञ्चारोऽपि मनस एव, यथा चक्षुः परित्यज्य मनः स्पर्शनमधितिष्ठतीत्यादि| प्रेरणं च तथा धारणं च मनस एवेति ज्ञेयम्| देशान्तरगतिः स्वप्ने इति छेदः| पञ्चत्वग्रहणं मरणज्ञानम्| सव्येनावगम इति सव्येनाक्ष्णा स एवायं दक्षिणाक्षिदृष्टो घट इत्यवगम इत्यर्थः| चेतना ज्ञानमात्रम्| बुद्धिस्तु ऊहापोहज्ञानम्| अथ कथमेतान्यात्मानं गमयन्तीत्याह- यस्मादित्यादि| जीवत इति पञ्चभूतातिरिक्तात्मसंयुक्तस्य | पञ्चत्वं तु यद्यपि जीवतो न भवति किन्तु मृतस्यैव, तथाऽपि पञ्चत्वं मृतशरीरे दृश्यमानं विपर्ययात् पञ्चत्वाभावाज्जीवच्छरीरलिङ्गं भवतीति ज्ञेयम्| अत्रैवोदाहृताश्च प्राणापानादयो न भूतमात्रे भवन्ति, निरात्मकेष्विष्टकामृतशरीरादिष्वदर्शनात्| न च मन एव भूतातिरिक्तमात्मा भवितुमर्हति, यतस्तस्यापि करणरूपस्य प्रेरणाद्यात्मना कर्त्रा कर्तव्यम्| नापीन्द्रियाण्यात्मत्वेन स्वीकर्तुं पार्यन्ते, यतस्तथा सति इन्द्रियान्तरोपलब्धमर्थं नेन्द्रियाणि यज्ञदत्तोपलब्धमर्थं देवदत्त इव प्रतिसन्धातुं समर्थानि भवेयुः; अस्ति चेन्द्रियान्तरोपलब्धार्थप्रतिसन्धानं, यथा- सुरभिचन्दनं स्पृशामीत्यत्र| तस्मान्मन-इन्द्रिय-भूतातिरिक्त आत्मा तिष्ठतीति ज्ञेयम्| अत्र यद्यपि बुद्धिशब्देन चेतनाधृतिस्मृत्यहङ्काराः प्राप्यन्त एव बुद्धिप्रकारत्वेन, तथाऽपि पृथक्पृथगर्थगमकत्वेन पुनः पृथगुपात्ताः| तथाहि- चेतना गुणत्वेन अचेतनखादिभूतातिरिक्तधर्मेणात्मानं गमयति, धृतिस्तु नियमात्मिका नियन्तारमात्मानं गमयति, बुद्धिस्तु ऊहापोहयोरेकं कारणं गमयत्यात्मानं, स्मृतिस्तु पूर्वानुभूतार्थस्मर्तारं स्थायिनमात्मानं गमयतीत्याद्यनुसरणीयम्| आत्माधिष्ठानाभावे शरीरे प्राणाद्यभावमाह- शरीरमित्यादि| शून्यागारमिव शून्यागारं यथा अधिष्ठातृशून्यम्, एवं मृतशरीरमपि| षड्धातुकं शरीरं, तत्र षष्ठे आत्मनि गते पञ्चभूतात्मकं शरीरं भवति, तेन पञ्चत्वं गतमुच्यते|||७०-७४||

७५-७६सम्पाद्यताम्

अचेतनं क्रियावच्च मनश्चेतयिता परः|
युक्तस्य मनसा तस्य निर्दिश्यन्ते विभोः क्रियाः||७५||
चेतनावान् यतश्चात्मा ततः कर्ता निरुच्यते|
अचेतनत्वाच्च मनः क्रियावदपि नोच्यते||७६||
आयुर्वेददीपिका
‘निष्क्रियस्य क्रिया तस्य कथम्’ इत्यस्योत्तरम्- अचेतनमित्यादि| चेतयिता पर इति पर आत्मा चेतयिता परं न तु साक्षात् क्रियावान्| ननु, यद्येवं कथं तस्य क्रियेत्याह- युक्तस्येत्यादि| आत्माधिष्ठितस्यैव मनसः क्रिया उपचारादात्मनः क्रियेत्युच्यत इत्यर्थः| एतदेवोपपादयति- चेतनावानित्यादि| चेतनेन ह्यात्मनाऽधिष्ठितं मनः क्रियासु प्रवर्तते, चेतनानधिष्ठितं तु मनः क्रियासु न प्रवर्तते; तेन यत्कृता सा क्रिया स एव क्रियावानिति व्यपदेष्टुं युज्यते, नत्वचेतनं मनः; तत् पराधीनक्रियत्वेन परमार्थतः क्रियावदपि कर्तृत्वेन नोच्यत इति वाक्यार्थः; नोच्यते इति ‘कर्तृ’ इति शेषः||७५-७६||

७७-७९सम्पाद्यताम्

यथास्वेनात्मनाऽऽत्मानं सर्वः सर्वासु योनिषु|
प्राणैस्तन्त्रयते प्राणी नह्यन्योऽस्त्यस्य तन्त्रकः||७७||
आयुर्वेददीपिका
सम्प्रति स्वतन्त्रत्वेऽप्यनिष्टयोनिगमनमाक्षिप्तं समादधाति- यथास्वेनेत्यादि| सर्वासु नरगोहस्तिकीटादियोनिषु| प्राणैस्तन्त्रयते प्राणैर्योजयति, आत्मनैवायं धर्माधर्मसहायेनात्मानं सर्वयोनिषु नयति, न परप्रेरितो याति; यतो नान्यः पुरुषोऽस्य प्रेरकोऽस्ति ईश्वराभावात्; किंवा सत्यपि ईश्वरे तस्यापि कर्मपराधीनत्वात्| इदमेव चास्यानिष्टयोनिगमने स्वातन्त्र्यं यद् अनिष्टयोनिगमनहेत्वधर्मकरणे स्वातन्त्र्यम्, अधर्मकरणारब्धस्वकर्मणैवायमनिच्छन्नपि नीयत इत्यनिष्टयोनिगमनं भवति; स्वातन्त्र्यं च यथोक्तं भवति||७७||

वशी तत् कुरुते कर्म यत् कृत्वा फलमश्नुते|
वशी चेतः समाधत्ते वशी सर्वं निरस्यति||७८||
आयुर्वेददीपिका
‘वशी यद्यसुखैः कस्माद्भावैराक्रम्यते’ इत्यस्योत्तरं- वशीत्यादि| वशी स्वेच्छाधीनप्रवृत्तिः (इष्टेऽनिष्टे वाऽऽत्मा ,); तेन, वशी सन्नयं तानि कर्माणि करोति शुभान्यशुभानि वा आपातफलरागात्, यानि कृत्वा तत्कर्मप्रभावाच्छुभेनाशुभेन वा फलेन योगमाप्नोति| एतेन कर्तव्ये कर्मण्यस्य वशित्वं, कृतकर्मफलं त्वस्यानिच्छतोऽपि भवति; तेन तत्प्रति नास्य वशित्वम्| अन्यदपि वशित्वफलमाह- वशी चेतः समाधत्त इति| अनिष्टेऽर्थे वशी सन्नयं मनो निवर्तयति; यदि ह्ययं वशी न स्यात्, न मनो निवर्तयितुं शक्नुयात्| अपरमपि वशित्वगमकं कर्माह- वशी सर्वं निरस्यतीति| वशी सन्नयं मोक्षार्थं प्रवृत्तः सर्वारम्भं शुभाशुभफलं त्यजतीत्यर्थः| इह स्वतन्त्रः परात्मना ईश्वरादिना प्रेरितप्रवृत्तिरुच्यते; वशी तु स्वयमपि प्रवर्तमान इच्छावशात् प्रवर्तते, न प्रेरितप्रवृत्तिरूपत्वेनेप्सितेऽनीप्सिते च वर्तते इति स्वातन्त्र्यवशित्वयोर्भेदः||७८||

देही सर्वगतोऽप्यात्मा स्वे स्वे संस्पर्शनेन्द्रिये|
सर्वाः सर्वाश्रयस्थास्तु नात्माऽतो वेत्ति वेदनाः||७९||
आयुर्वेददीपिका
‘सर्वाः सर्वगतत्वाच्च वेदनाः किं न वेत्ति सः’ इत्यस्योत्तरमाह- देहीत्यादि| सर्वगत इति सर्वगतोऽपि सन्, संस्पर्शनेन्द्रिय इति संस्पर्शनयुक्ते शरीरे, वेदनाः सुखदुःखरूपा वेत्ति, सर्वाश्रयस्थास्तु न वेत्तीति योजना| यस्मात् सर्वगतोऽप्यात्मा स्वकीय एव स्पर्शनवति शरीरे परं वेदना वेत्ति, तेन सर्वाश्रयस्थाः सर्ववेदना न वेत्तीति वाक्यार्थः| सर्वाश्रयस्था इति सर्वपरशरीरगताः | परशरीरे चात्मा खकर्मोपार्जितेन्द्रियाभावाद्विद्यमानोऽपि नोपलभते सुखदुःखे| स्वे स्वे शरीर इति वक्तव्ये यत् ‘संस्पर्शनेन्द्रिये’ इति करोति, तेन स्वशरीरेऽपि यत्र केशनखादौ स्पर्शनेन्द्रियं नास्ति तत्र नात्मा किञ्चिदुपलभत इति दर्शयति||७९||

८०-८२सम्पाद्यताम्

विभुत्वमत एवास्य यस्मात् सर्वगतो महान्|
मनसश्च समाधानात् पश्यत्यात्मा तिरस्कृतम्||८०||
नित्यानुबन्धं मनसा देहकर्मानुपातिना|
सर्वयोनिगतं विद्यादेकयोनावपि स्थितम्||८१||
आयुर्वेददीपिका
‘न पश्यति विभुः कस्मात्’ इत्यादिप्रश्नस्योत्तरं वक्तुं प्रवृत्तो विभुत्वसाधकार्थगुणहेतुप्राप्त्या विभुत्वमेव तावदात्मनः साधयति- विभुत्वमित्यादि| विभुत्वं सर्वगतपरिमाणयोगित्वम्| अत एवेति उक्तसर्वगतत्वात्| एतदेव स्पष्टार्थं साक्षाद्ब्रूते- यस्मादित्यादि| सर्वगतत्वं सर्वतोऽप्युपलभ्यमानत्वेन सर्वगताकाशादिपरिमाणस्यप्यस्ति, तेन तद्व्यवच्छेदार्थं ‘महान्’ इति पदं; तेन सर्वत्रोपलभ्यमानं महापरिमाणयोगिद्रव्यं विभुरुच्यत इति फलति| विभुत्वं व्युत्पाद्य कुड्यादितिरोहितज्ञानं नैकान्तेन भवतीति दर्शयन्नाह- मनस इत्यादि| समाधानं समाधिः| अनेन, योगिनः समाधिबलात्तिरोहितमपि पश्यन्तीति दर्शयति| ये तु तिरोहितं न पश्यन्ति तत्राप्युपपत्तिमाह- नित्येत्यादि| सर्वयोनिगतमप्यात्मानं मनसाऽनुबन्धगतमेकयोनाववस्थितं विद्यादिति योज्यम्| देहनिर्वर्तकेन कर्मणा अनुपात आत्मनि सम्बन्धो यस्य, तेन मनसा देहकर्मानुपातिना| एतेन, यद्यप्यात्मा कुड्यादिभिरतिरोहितस्तथाऽपि यदस्योपलब्धिसाधनं मनस्तस्यैकस्मिन्नेव शरीरे व्यवस्थितस्य व्यवधानान्न पश्यत्ययं तिरस्कृतमित्युक्तं भवति||८०-८१||

आदिर्नास्त्यात्मनः क्षेत्रपारम्पर्यमनादिकम्|
अतस्तयोरनादित्वात् किं पूर्वमिति नोच्यते||८२||
आयुर्वेददीपिका
‘क्षेत्रज्ञः क्षेत्रमथवा’ इत्यादिप्रश्नस्योत्तरम्- आदिरित्यादि| क्षेत्रपारम्पर्यमिति क्षेत्रस्याव्यक्तवर्जितस्य महदादित्रयोविंशतिकस्य परम्परासन्ततेरनादित्वेनैव क्षेत्रक्षेत्रज्ञयोरिदं प्रथममिति व्यपदेशो नैव भवतीत्यर्थः| ननु यदि क्षेत्रपरम्पराऽप्यनादिस्तदा तस्यात्मवदुच्छेदो न प्राप्नोति, यदनादि तन्नित्यं भवति, यथा- आत्मेति दृष्टं? ब्रूमः- अनादित्वेऽपि यत् स्वरूपेनैवानादि तन्नोच्छिद्यते, यथा- आत्मा; यत्तु उच्छित्तिधर्मकं बुद्ध्यादि, तदुच्छिद्यत एव; सन्तानस्तु परमार्थतः सन्तानिभ्योऽतिरिक्तो नास्त्येव, यदनादिः स्यात्; तेन, सन्तानस्यानादित्वं भाक्तमेव| किञ्चैवम्भूतस्य बुद्ध्यादिसन्तानस्योच्छेदे मोक्षप्रतिपादक आगम एव प्रमाणत्वेन ज्ञेयः||८२||

ज्ञः साक्षीत्युच्यते नाज्ञः साक्षी त्वात्मा यतः स्मृतः|
सर्वे भावा हि सर्वेषां भूतानामात्मसाक्षिकाः||८३||
आयुर्वेददीपिका
‘साक्षिभूतश्च कस्यायम्’ इत्यस्योत्तरं ज्ञ इत्यादि| ज्ञो ज्ञानवान् साक्षीति लोके कथ्यते, नत्वज्ञः पाषाणादिः| तेन, ज्ञत्वेनासत्यप्यन्यस्मिन् कर्तरि साक्षीत्युच्यते इति वाक्यार्थः| सर्वेषामिति खादिभूतानाम्|सर्वे भावा इति सर्वे भूतधर्मा दर्शनयोग्याः| आत्मसाक्षिका इति आत्मोपलभ्यमानाः||८३||

८३-८५सम्पाद्यताम्

ज्ञः साक्षीत्युच्यते नाज्ञः साक्षी त्वात्मा यतः स्मृतः|
सर्वे भावा हि सर्वेषां भूतानामात्मसाक्षिकाः||८३||
आयुर्वेददीपिका
‘साक्षिभूतश्च कस्यायम्’ इत्यस्योत्तरं- ज्ञ इत्यादि| ज्ञो ज्ञानवान् साक्षीति लोके कथ्यते, नत्वज्ञः पाषाणादिः| तेन, ज्ञत्वेनासत्यप्यन्यस्मिन् कर्तरि साक्षीत्युच्यते इति वाक्यार्थः| सर्वेषामिति खादिभूतानाम्| सर्वे भावा इति सर्वे भूतधर्मा दर्शनयोग्याः| आत्मसाक्षिका इति आत्मोपलभ्यमानाः||८३||

नैकः कदाचिद्भूतात्मा लक्षणैरुपलभ्यते|
विशेषोऽनुपलभ्यस्य तस्य नैकस्य विद्यते||८४||
संयोगपुरुषस्येष्टो विशेषो वेदनाकृतः|
वेदना यत्र नियता विशेषस्तत्र तत्कृतः||८५||
आयुर्वेददीपिका
‘स्यात् कथं चाविकारस्य’ इत्यादिप्रश्नस्योत्तरं- नैक इत्यादि| अविकारस्य परमात्मनो वेदनाकृतो विशेषो नास्त्येव [१] , यत्र तु वेदनाकृतो विशेषः स राशिरूपः परमात्मव्यतिरिक्त एवेति वाक्यार्थः| भूतानामधिष्ठाता आत्मा भूतात्मा, अयं भूतात्मा एको भूतव्यतिरिक्तो न लक्षणैः प्राणापानादिभिरुक्तैरुपलभ्यते| कुतो नोपलभ्यत इत्याह- विशेष इत्यादि| एकस्य भूतरहितस्य; यदात्मनो विशेषो वेदनादिर्नोपलभ्यत एव, तेनानुपलब्धिरेवात्र प्रमाणमित्यर्थः| संयोगपुरुषः चतुर्विंशतिकः| नन्वेवमपि चतुर्विंशत्यन्तर्निविष्टस्य भूतात्मनोऽपि वेदनाकृतविशेषेण भवितव्यं, यतः समुदायधर्मः समुदायिनामेव भवति, यथा- माषराशेर्गुरुत्वं प्रत्येकं माषाणामेव गौरवेण भवतीत्याह- वेदनेत्यादि| वेदना सुखदुःखरूपा| यत्र बुद्ध्यादिसमूहे नियता व्यवस्थिता वेदना, तत्रैव तत्कृतो दैन्यहर्षादिविशेषोऽपि नियतः; तत्रैव बुद्ध्यादिराशौ वर्तते नात्मनीति भावः| बुद्ध्यादिगतेन गुणत्रयपरिणामरूपेण सुखदुःखादिना असुखदुःख एवात्मा तत्सम्बन्धात् सुखदुःखादिमान् भवति||८४-८५||

८६-९७सम्पाद्यताम्

चिकित्सति भिषक् सर्वास्त्रिकाला वेदना इति|
यया युक्त्या वदन्त्येके सा युक्तिरुपधार्यताम्||८६||
पुनस्तच्छिरसः शूलं ज्वरः स पुनरागतः|
पुनः स कासो बलवांश्छर्दिः सा पुनरागता||८७||
एभिः प्रसिद्धवचनैरतीतागमनं मतम्|
कालश्चायमतीतानामर्तीनां पुनरागतः||८८||
तमर्तिकालमुद्दिश्य भेषजं यत् प्रयुज्यते|
अतीतानां प्रशमनं वेदनानां तदुच्यते||८९||
आपस्ताः पुनरागुर्मा याभिः शस्यं पुरा हतम्|
यथा प्रक्रियते सेतुः प्रतिकर्म तथाऽऽश्रये||९०||
पूर्वरूपं विकाराणां दृष्ट्वा प्रादुर्भविष्यताम्|
या क्रिया क्रियते सा च वेदनां हन्त्यनागताम्||९१||
पारम्पर्यानबन्धस्तु दुःखानां विनिवर्तते|
सुखहेतूपचारेण सुखं चापि प्रवर्तते||९२||
न समा यान्ति वैषम्यं विषमाः समतां न च|
हेतुभिः सदृशा नित्यं जायन्ते देहधातवः||९३||
युक्तिमेतां पुरस्कृत्य त्रिकालां वेदनां भिषक्|
हन्तीत्युक्तं चिकित्सा तु नैष्ठिकी या विनोपधाम्||९४||
आयुर्वेददीपिका
‘अथवाऽऽर्तस्य’ इत्यादिप्रश्नस्योत्तरमाह- चिकित्सतीत्यादि| अतीतवेदनाचिकित्सा न मुख्या, किन्तु लोकप्रसिद्धोपचारेणोच्यत इति वाक्यार्थः| प्रसिद्धवचनैरिति लोकप्रसिद्धवचनैः| प्रतिकर्म चिकित्सा| आश्रय इति शरीरे| पूर्वरूपमित्यादिना अनागतवेदनाचिकित्सां समर्थयति| पूर्वरूपं यद्यपि भविष्यतामेव भवति रोगाणां, तथाऽपि भविष्यतामिति पदेन भूतेऽपि व्याधौ यानि रूपाणि भवन्ति तानि निराकरोति| उक्तं हि- “प्राक्सन्तापात्, अपि चैनं सन्तापार्तमनुबध्नन्ति” (नि. अ. १) इत्यनेन रोगावस्थायामपि पूर्वरूपसद्भावः| एवमतीतानागतवेदनाचिकित्सा व्युत्पादिता| वर्तमानचिकित्सामपि दर्शयन् पारमार्थिकं मतमाह- पारम्पर्येत्यादि| पारम्पर्यानुबन्धः सन्तानन्यायेनानुबन्धः| दुःखानामिति रोगाणाम्| सुखहेतूपचारेणेति आरोग्यहेतुचिकित्सासेवया| सुखमिति आरोग्यम्| एवं मन्यते- यदा चिकित्सा सुखहेतुः सेव्यते तदा दुःखहेतुसेवाभावाद्दुःखं नोत्पद्यते, उत्पन्नं च दुःखं रोगरूपं क्षणभङ्गित्वेन स्वयमेव नश्यति, सुखहेतुसान्निध्यात् सुखमारोग्यमुत्पद्यते; तेन चिकित्सया अनागतं दुःखं हेतुप्रतिबन्धान्निरुध्यते, सुखं च जन्यते इति सिद्धान्तः | एतदेवाह- न समा इत्यादि| समाश्च विषमाश्च क्षणभङ्गित्वस्वभावान्न वैषम्यावस्थां साम्यावस्थां वा यान्तीत्यर्थः| हेतुभिः सदृशा इति समहेतोः समाः, तथा विषमहेतोश्च विषमाः| एतच्चिकित्साप्राभृतीयेऽध्याये प्रपञ्चितमेव| चिकित्साप्रस्तावेन सकलदुःखहारिणीं चिकित्सां मोक्षफलामाह- चिकित्सा त्वित्यादि| निष्ठा अत्यन्तदुःखमोक्षो मोक्षरूपः, तदर्थं भूता नैष्ठिकी| विनोपधामिति तृष्णां विना, तृष्णाशून्या प्रवृत्तिर्मोक्षफला भवतीत्यर्थः||८६-९४||

उपधा हि परो हेतुर्दुःखदुःखाश्रयप्रदः|
त्यागः सर्वोपधानां च सर्वदुःखव्यपोहकः||९५||
कोषकारो यथा ह्यंशूनुपादत्ते वधप्रदान् |
उपादत्ते तथाऽर्थेभ्यस्तृष्णामज्ञः सदाऽऽतुरः||९६||
यस्त्वग्निकल्पानर्थाञ् ज्ञो ज्ञात्वा तेभ्यो निवर्तते|
अनारम्भादसंयोगात्तं दुःखं नोपतिष्ठते||९७||
आयुर्वेददीपिका
परो हेतुरिति मूलकारणम्| दुःखरूपेणैव दुःखाश्रयः शरीरम्| भोगतृष्णया हि प्रवर्तमानो धर्माधर्मान् दुःखशरीरोत्पादकानुपादत्ते, सर्वोपधात्यागात्तु न रागद्वेषाभ्यां क्वचित् प्रवर्तते, अप्रवर्तमानश्च न धर्माधर्मानुपादत्ते, एवमनागतधर्माधर्मोपरमः, उपात्तधर्माधर्मयोस्तु रागद्वेषशून्यस्योपभोगादेव क्षयः ; तेन सर्वथा कर्मक्षयाद्दुःखशरीराभाव इति भावः| अत्रैव तृष्णाया दुःखकारणत्वे दृष्टान्तमाह- कोषकार इत्यादि| कोषकारः स्वनामप्रसिद्धः कीटः| सदाऽऽतुर इति सदा संसारदुःखगृहीतः| अनारम्भादिति रागद्वेषपूर्वकारम्भविरहात्| असंयोगादिति आरम्भशून्यत्वेन धर्माधर्मोच्छेदकृताच्छरीरासंयोगात्; शरीराभावे च निराश्रयमकारणकं दुःखं न भवतीति भावः||९५-९७||

९८-११७सम्पाद्यताम्

धीधृतिस्मृतिविभ्रंशः सम्प्राप्तिः कालकर्मणाम्|
असात्म्यार्थागमश्चेति ज्ञातव्या दुःखहेतवः||९८||
आयुर्वेददीपिका
‘कारणं वेदनानां किम्’ इत्यस्योत्तरमाह- धीधृतीत्यादि| अयं चार्थः प्रकरणागतत्वादुच्यमानो न पुनरुक्ततामावहति| धीधृतिस्मृतयः प्रज्ञाभेदाः| एते च शिष्यव्युत्पत्त्यर्थं प्रज्ञाभेदत्वेनान्यथा व्युत्पाद्य इहोच्यन्ते| सम्प्राप्तिः कालकर्मणामिति कालस्य सम्प्राप्तिस्तथा कर्मणश्च सम्प्राप्तिः| कर्मसम्प्राप्तिः पच्यमानकर्मयोगः| कालसम्प्राप्तिग्रहणेन चेह ये कालव्यक्तास्ते गृह्यन्ते, नावश्यं कालजन्याः; यतः स्वाभाविकानपि कालजन्यान् तथा तृतीयकादीनप्यासात्म्येन्द्रियार्थादिजन्यान् कालजत्वेनैवेहाभिधास्यति| कर्मजास्तु प्रज्ञापराधजन्या एवेह कर्मजन्यत्वेन विशेषेण शिष्यव्युत्पत्त्यर्थं पृथगुच्यन्ते, कालव्यञ्च्यत्वेन च कर्मजा इह कालसम्प्राप्तिजन्येष्ववरोद्धव्याः| प्रज्ञापराधावरोधश्च यथा कर्मजानां, तथा प्रथमाध्याय एवोक्तम्| किञ्चाचार्येणोन्मादनिदाने स्वयमेवोक्तं यत्- “प्रज्ञापराधात् सम्भूते व्याधौ कर्मज आत्मनः” (नि. ७) इत्यादि, तथा जनपदोद्ध्वंसनीये च विमाने पुनरुक्तं- “वाय्वादीनां यद्वैगुण्यमुत्पद्यते तस्य मूलमधर्मः, तन्मूलं वाऽसत्कर्म पूर्वकृतं, तयोर्योनिः प्रज्ञापराध एव” (वि. ३) इति| तस्मादिह सम्प्राप्तिः कालकर्मणामित्यनेन न कालजन्या गदा उच्यन्ते, किं तु कालव्यञ्ज्याः||९८||

विषमाभिनिवेशो यो नित्यानित्ये हिताहिते|
ज्ञेयः स बुद्धिविभ्रंशः समं बुद्धिर्हि पश्यति||९९||
आयुर्वेददीपिका
धीविभ्रंशं विवृणोति- विषमेत्यादि| विषमाभिनिवेशः अयथाभूतत्वेनाध्यवसानं नित्येऽनित्यमिति, एवं हितेऽहितमहिते वा हितमिति या बुद्धिः स बुद्धिभ्रंशः| अथ कथमयं बुद्धिविभ्रंशशब्देनोच्यत इत्याह- समं बुद्धिर्हि पश्यति; उचिता बुद्धिः समं यथाभूतं यस्मात् पश्यति, तस्मादसमदर्शनं बुद्धिविभ्रंश उचित एवेत्यर्थः||९९||

विषयप्रवणं सत्त्वं धृतिभ्रंशान्न शक्यते|
नियन्तुमहितादर्थाद्धृतिर्हि नियमात्मिका||१००||
आयुर्वेददीपिका
धृतिभ्रंशमाह- विषयेत्यादि| विषयप्रवणं विषयेषु प्रसज्जत्| नियन्तुमिति व्यावर्तयितुम्| धृतिर्हि नियमात्मिकेति यस्माद् धृतिरकार्यप्रसक्तं मनो निवर्तयति स्वरूपेण, तस्मान्मनोनियमं कर्तुमशक्ता धृतिः स्वकर्मभ्रष्टा भवतीत्यर्थः||१००||

तत्त्वज्ञाने स्मृतिर्यस्य रजोमोहावृतात्मनः|
भ्रश्यते स स्मृतिभ्रंशः स्मर्तव्यं हि स्मृतौ स्थितम्||१०१||
आयुर्वेददीपिका
स्मृतिभ्रंशं विवेचयति- तत्त्वेत्यादि| तत्त्वज्ञाने स्मृतिर्यस्य भ्रश्यत इति योजना| स्मर्तव्यं हि स्मृतौ स्थितमिति स्मर्तव्यत्वेन सम्मतस्यार्थस्य स्मरणं प्रशस्तस्मृतिधर्मः| तत्र च तत्त्वज्ञानस्य शिष्टानां स्मर्तव्यत्वेन सम्मतस्य यदस्मरणं, तत् स्मृत्यपराधाद्भवतीत्यर्थः||१०१||

धीधृतिस्मृतिविभ्रष्टः कर्म यत् कुरुतेऽशुभम्|
प्रज्ञापराधं तं विद्यात् सर्वदोषप्रकोपणम्||१०२||
उदीरणं गतिमतामुदीर्णानां च निग्रहः|
सेवनं साहसानां च नारीणां चातिसेवनम्||१०३||
कर्मकालातिपातश्च मिथ्यारम्भश्च कर्मणाम्|
विनयाचारलोपश्च पूज्यानां चाभिधर्षणम्||१०४||
ज्ञातानां स्वयमर्थानामहितानां निषेवणम्|
परमौन्मादिकानां च प्रत्ययानां निषेवणम्||१०५||
अकालादेशसञ्चारौ मैत्री सङ्क्लिष्टकर्मभिः|
इन्द्रियोपक्रमोक्तस्य सद्वृत्तस्य च वर्जनम्||१०६||
ईर्ष्यामानभयक्रोधलोभमोहमदभ्रमाः|
तज्जं वा कर्म यत् क्लिष्टं क्लिष्टं यद्देहकर्म च||१०७||
यच्चान्यदीदृशं कर्म रजोमोहसमुत्थितम्|
प्रज्ञापराधं तं शिष्टा ब्रुवते व्याधिकारणम् ||१०८||
आयुर्वेददीपिका
एवं बुद्ध्यादिभ्रंशत्रयरूपप्रज्ञापराधजन्यं कर्म प्रज्ञापराधत्वेन दर्शयन्नाह- धीत्यादि| सर्वदोषशब्देन वातादयो रजस्तमसी च गृह्यन्ते| कर्मकालातिपातः चिकित्साकालातिवर्तनम्| मिथ्यारम्भ इति अयोगातियोगमिथ्यायोगरूपः| विनयाचारलोपेनैव प्राप्तमपि यत् पुनः पूज्यानामभिधर्षणाद्यभिधीयते, तद्विशेषेण प्रकोपकत्वख्यापनार्थमुदाहरणार्थं च| सङ्क्लिष्टकर्मभिरिति पतितैः| क्लिष्टमिति निन्दितम्||१०२-१०८||

बुद्ध्या विषमविज्ञानं विषमं च प्रवर्तनम्|
प्रज्ञापराधं जानीयान्मनसो गोचरं हि तत्||१०९||
आयुर्वेददीपिका
सङ्क्षेपेण प्रज्ञापराधलक्षणमाह- बुद्ध्येत्यादि| विषममिति अनुचितं, विषमविज्ञानं स्वरूपत एव प्रज्ञापराधः| विषमप्रवर्तनं च प्रज्ञापराधकार्यत्वेन प्रज्ञापराधशब्देनोच्यते| मनसो गोचरं हि तदिति तद्विषमप्रवर्तनं विषमज्ञानं च मनःकार्यप्रज्ञाविषयत्वेन मनसो गोचरमित्यर्थः| विषमप्रवर्तनं च मनोगोचरजन्यत्वेनोपचारादुक्तं, विसदृशमनोविषयज्ञानाद्विषमवाग्देहप्रवृत्तिरपि भवति||१०९||

निर्दिष्टा कालसम्प्राप्तिर्व्याधीनां व्याधिसङ्ग्रहे|
चयप्रकोपप्रशमाः पित्तादीनां यथा पुरा||११०||
मिथ्यातिहीनलिङ्गाश्च वर्षान्ता रोगहेतवः|
जीर्णभुक्तप्रजीर्णान्नकालाकालस्थितिश्च या||१११||
पूर्वमध्यापराह्णाश्च रात्र्या यामास्त्रयश्च ये|
एषु कालेषु नियता ये रोगास्ते च कालजाः||११२||
आयुर्वेददीपिका
व्याधीनां कालसम्प्राप्तिमाह- निर्दिष्टेत्यादि| व्याधिसङ्ग्रह इति कियन्तःशिरसीये “चयप्रकोपप्रशमाः पित्तादीनां यथाक्रमम्| भवन्त्येकैकशः षट्सु कालेष्वभ्रगमादिषु” (सू. १७) इत्यनेन तथा [२] ह्युदाहरणेन च| तेन, कालसम्प्राप्तिर्व्याधीनां यथा- चयप्रकोपप्रशमाः पित्तादीनां पुरा निर्दिष्टा इति योज्यम्| उदाहरणान्तरमाह- मिथ्येत्यादि| जीर्णेत्यादौ जीर्णाद्यवस्थात्रयविशिष्टस्यान्नस्य कालः, तथाऽन्नस्याकालोऽजीर्णाद्यवस्थालक्षितः| प्रजीर्णं [३] विदग्धम्| रात्रेर्यामास्त्रयश्च य इति त्रयो भागाः पूर्वरात्रमध्यरात्रापररात्ररूपाः, न तु यामः प्रहर इति ज्ञेयम्| अन्यत्रापि च भागत्रये यामविभागं कृत्वा अभिधानशास्त्रे त्रियामा निशाऽभिधीयते| तेषु कालेष्विति जीर्णान्नकालादिषु; जीर्णे अपराह्णे रात्रिशेषे च वातिका गदाः, भुक्तमात्रे पूर्वाह्णे पूर्वरात्रे च कफजा गदाः, प्रजीर्णे मध्याह्ने मध्यरात्रे च पित्तजा नियता रोगाः| अन्नाकाले चाजीर्णलक्षणे भोजनात् त्रयोऽपि दोषा भवन्तीति ज्ञेयम्| किंवा, ‘जीर्णभुक्तप्रजीर्णान्नकाला’ इति च्छेदः, तेन जीर्णाद्यवस्थायुक्तान्नकालाः पूर्ववदेव ज्ञेयाः; तथा ‘कालस्थितिश्च या’ इति योजना; कालस्थितिशब्देन बाल्यादिवयस्त्रैविध्यमुच्यते| तत्र बाल्ये श्लैष्मिकाः, यौवने पैत्तिकाः, वार्धक्ये वातिका गदा वर्धन्त [४] इति ज्ञेयम्||११०-११२||

अन्येद्युष्को द्व्यहग्राही तृतीयकचतुर्थकौ|
स्वे स्वे काले प्रवर्तन्ते काले ह्येषां बलागमः||११३||
आयुर्वेददीपिका
विषमज्वरानपि कालविशेषप्रवर्तमानमात्रत्वेन [१] कालजे दर्शयन्नाह- अन्येद्युष्क इत्यादि| द्व्यहग्राही चतुर्थकविपर्ययः| वक्ष्यति हि- “विषमज्वर एवान्यश्चतुर्थकविपर्ययः| मध्ये अहनी ज्वरयत्यादावन्ते च मुञ्चति” (चि. ३) इति| कथं स्वकीय एव काले प्रवर्ततन्त इत्याह- काले ह्येषां बलागम इति| उक्त एव काले यस्माद् बलवन्तो भवन्ति, तस्मात्तत्रैव सञ्जातबलाः सन्तो व्यज्यन्त इत्यर्थः||११३||

एते चान्ये च ये केचित् कालजा विविधा गदाः|
अनागते चिकित्स्यास्ते बलकालौ विजानता||११४||
आयुर्वेददीपिका
एतेषां चिकित्साक्रममाह- एते चेत्यादि| अन्ये चेत्यनेनान्यानपि कालविशेषप्राप्तिप्रादुर्भाविनः| शोथकुष्ठादीन् सूचयति||११४||

कालस्य परिणामेन जरामृत्युनिमित्तजाः|
रोगाः स्वाभाविका दृष्टाः स्वभावो निष्प्रतिक्रियः||११५||
आयुर्वेददीपिका
स्वाभाविकानपि कालपरिणामव्यज्यमानतया इह कालजेऽवरोधयितुमाह- कालस्येत्यादि| जरामृत्युरूपान्निमित्ताज्जाता जरामृत्युनिमित्तजाः, मृत्युशब्देनेह युगानुरूपायुःपर्यवसानभवकालमृत्युर्ग्राह्यः [१] ; किंवा जरामृत्य्वोर्यन्निमित्तं तस्माज्जाता जरामृत्युनिमित्तजाः, जरामृत्युनिमित्तं च प्राणिनां साधारणदेहनिवर्तकभूतस्वभावोऽदृष्टं च| अथ स्वाभाविकानां का चिकित्सेत्याह- स्वभाव इत्यादि| निष्प्रतिक्रिय इति साधारणचिकित्सया रसायनवर्ज्यया न प्रतिक्रियते, रसायनेन तु प्रतिक्रियत एव; तेन, “अस्य प्रयोगाच्च्यवनः सुवृद्धोऽभूत् पुनर्युवा” (चि. १ पा. १) इत्यादिरसायनप्रयोगेण [२] समं न विरोधः; किंवा, स्वाभाविका जरादयो रसायनजनितप्रकर्षादुत्तरकालं पुनरवश्यं भवन्तीति निष्प्रतिक्रियत्वेनोक्ताः||११५||

निर्दिष्टं दैवशब्देन कर्म यत् पौर्वदेहिकम्|
हेतुस्तदपि कालेन रोगाणामुपलभ्यते||११६||
आयुर्वेददीपिका
सम्प्रति कर्मसम्प्राप्तिकृतमपि गदं कालविशेषव्यज्यमानतया दर्शयन्नाह- निर्दिष्टमित्यादि| कालेनेति पच्यमानतालक्षितेन कालेन (युक्तं [१] सत्) कर्म कारणं भवतीत्यर्थः||११६||

न हि कर्म महत् किञ्चित् फलं यस्य न भुज्यते|
क्रियाघ्नाः कर्मजा रोगाः प्रशमं यान्ति तत्क्षयात्||११७||
आयुर्वेददीपिका
कर्मणः फलसम्बन्धिनियममाह- न हीत्यादि| महदिति विशेषणेन किञ्चिदमहत् कर्म प्रायश्चित्तबाधनीयफलं न ददात्यपि फलमिति दर्शयति| कर्मजानामचिकित्स्यत्वमाह- क्रियाघ्ना इत्यादि| तत्क्षयादिति कर्मक्षयात्; कर्मक्षयश्च कर्मफलोपभोगादेव परं भवति||११७||

११८-१२९सम्पाद्यताम्

अत्युग्रशब्दश्रवणाच्छ्रवणात् सर्वशो न च|
शब्दानां चातिहीनानां भवन्ति श्रवणाज्जडाः||११८||
परुषोद्भीषणाशस्ताप्रियव्यसनसूचकैः|
शब्दैः श्रवणसंयोगो मिथ्यासंयोग उच्यते||११९||
असंस्पर्शोऽतिसंस्पर्शो हीनसंस्पर्श एव च|
स्पृश्यानां सङ्ग्रहेणोक्तः स्पर्शनेन्द्रियबाधकः||१२०||
यो भूतविषवातानामकालेनागतश्च यः|
स्नेहशीतोष्णसंस्पर्शो मिथ्यायोग स उच्यते||१२१||
रूपाणां भास्वतां दृष्टिर्विनश्यत्यतिदर्शनात्|
दर्शनाच्चातिसूक्ष्माणां सर्वशश्चाप्यदर्शनात्||१२२||
द्विष्टभैरवबीभत्सदूरातिश्लिष्टदर्शनात् |
तामसानां च रूपाणां मिथ्यासंयोग उच्यते||१२३||
अत्यादानमनादानमोकसात्म्यादिभिश्च यत्|
रसानां विषमादानमल्पादानं च दूषणम्||१२४||
अतिमृद्वतितीक्ष्णानां गन्धानामुपसेवनम्|
असेवनं सर्वशश्च घ्राणेन्द्रियविनाशनम्||१२५||
पूतिभूतविषद्विष्टा गन्धा ये चाप्यनार्तवाः|
तैर्गन्धैर्घ्राणसंयोगो मिथ्यायोगः स उच्यते||१२६||
इत्यसात्म्यार्थसंयोगस्त्रिविधो दोषकोपनः|१२७|
आयुर्वेददीपिका
क्रमागतमसात्म्येन्द्रियार्थसंयोगं विवृणोति- अत्युग्रेत्यादि| सर्वशो न चेति सर्वथोग्रशब्दाश्रवणात् | स्पृश्यानामिति स्पृश्यत्वेनोक्तानां शास्त्रेऽभ्यङ्गोत्सादनादीनाम्| भूताः सविषिक्रिमिपि शाचादयः| यो भूतविषवातादीनां संस्पर्शः, तथाऽकालेनागतः स्नेहशीतोष्णसंस्पर्शश्चेति योजना| तत्राकाले स्नेहसंस्पर्शो यथा- अजीर्णे कफवृद्धिकाले अभ्यङ्गस्पर्शः, एवं शीते शीतस्पर्शः, उष्णे चोष्णस्पर्शोऽकालेनागतो ज्ञेयः| सर्वशश्चाप्यदर्शनादिति भास्वतां सूक्ष्माणां च सर्वथाऽदर्शनात्| अतिश्लिष्टमिति नेत्रप्रत्यासन्नम्| तामसानां च रूपाणां दर्शनाद्विनश्यति दृष्टिरिति सम्बन्धः| मिथ्यायोगः स इति द्विष्टभैरवादिदर्शनरूपः| अतिसूक्ष्मदर्शनं च मिथ्यायोग एव ज्ञेयः| ओकसात्म्यादिभिरिति विषमादानमिति सम्बन्धः| ओकसात्म्यादिवैषम्येण च राशिदोषवर्जं प्रकृत्यादिसप्तदोषा ग्रहीतव्याः| त्रिविध इति अयोगातियोगमिथ्यायोगरूपः||११८-१२६||

असात्म्यमिति तद्विद्याद्यन्न याति सहात्मताम्||१२७||
आयुर्वेददीपिका
असात्म्यार्थं दर्शयति- असात्म्यमित्यादि| सहेति मिलितं शरीरेण| आत्मताम् अविकृतरूपतां न याति; एतेन, यदुपयुक्तं प्राकृतरूपोपधातकं भवति, तदसात्म्यमिति||१२७||

मिथ्यातिहीनयोगेभ्यो यो व्याधिरुपजायते|
शब्दादीनां स विज्ञेयो व्याधिरैन्द्रियको बुधैः||१२८||
आयुर्वेददीपिका
इत्थमसात्म्यार्थजस्य व्याधेरिन्द्रियद्वारभूतत्वेनैन्द्रियकत्वं दर्शयन्नाह- मिथ्येत्यादि| हीनयोगेनेहायोगो ग्राह्यः| ऐन्द्रियक इति इन्द्रियद्वारभूतः||१२८||

वेदनानामशान्तानामित्येते हेतवः स्मृताः| सुखहेतुः समस्त्वेकः समयोगः सुदुर्लभः||१२९|| आयुर्वेददीपिका दुःखरूपवेदनाहेतुं प्रपञ्चोक्तमुपसंहरति- वेदनानामित्यादि| अशान्तानामिति दुःखानाम्| अथ सुखरूपवेदनाहेतुः क इत्याह- सुखेत्यादि| समयोग इति कालबुद्धीन्द्रियार्थानां सम्यग्योगः| सुदुर्लभ इति कालादिसम्यग्योगस्य अयोगादिविरहत्वेन सुदुर्लभत्वात्| प्रायो हि कालादीनां मध्ये अन्यतरेणाप्ययोगादिना पुरुषः सम्बध्यते; तेन च नित्यातुरा एव पुरुषा भवन्ति, अल्पं च रोगमनादृत्य स्वस्थव्यपदेशः पुरुषाणां क्रियत इति भावः||१२९||

१३०-१३७सम्पाद्यताम्

नेन्द्रियाणि न चैवार्थाः सुखदुःखस्य हेतवः|
हेतुस्तु सुखदुःखस्य योगो दृष्टश्चतुर्विधः||१३०||
सन्तीन्द्रियाणि सन्त्यर्था योगो न [१] च न चास्ति रुक्|
न सुखं, कारणं तस्माद्योग एव चतुर्वधः||१३१||
आयुर्वेददीपिका
सम्प्रति सम्यग्योगस्योपादेयतामयोगादीनां च हेयतां दर्शयितुं योगमेव चतुर्विधं कारणत्वेन दर्शयन्नाह- नेन्द्रियाणीत्यादि| ननु कथमिन्द्रियार्थयोः सुखदुःखकारणत्वेनोपलभ्यमानयोरप्यकारणत्वमित्याह- सन्तीत्यादि| योगो न चेति इन्द्रियार्थयोः सम्बन्धो न च| न सुखमिति च्छेदः| इन्द्रियार्थयोर्योगाभावे अकारणत्वेन, सति तु योगे कारणत्वेन, योग एवान्वयव्यतिरेकाभ्यां कारणमवधार्यत इति भावः| अयं च योग इन्द्रियार्थावधिकृत्य स्पष्टत्वेनोक्तः; तेन, प्रज्ञाकालयोरपि बोद्धव्यः| एतच्छेन्द्रियमर्थं चानुपादेयं कृत्वा चतुर्विधयोगस्य कारणत्वं योगानामेव हेयोपादेयत्वोपदर्शनार्थं कृतम्||१३०-१३१||

नात्मेन्द्रियं मनो बुद्धिं गोचरं कर्म वा विना|
सुखदुःखं, यथा यच्च बोद्धव्यं तत्तथोच्यते||१३२||
आयुर्वेददीपिका
परमार्थतस्त्वात्मेन्द्रियमनोबुद्ध्यर्थादृष्टान्येव तथायुक्तानि सुखदुःखकारणानीति दर्शयन्नाह- नात्मेत्यादि| गोचर इन्द्रियार्थः| कर्म अदृष्टम्| तत्र आत्मानं विना न लोष्टादौ सुखदुःखे भवतः| इन्द्रियार्थादीनां च सुखदुःखकारणत्वं स्पष्टमेव| कर्मापि च शुभं सुखकारणम्, अशुभं च दुःखकारणम्| यद्यात्मादय एव कारणं, तर्हि किमर्थं कालाद्ययोगातियोगादय इहोच्यन्त इत्याह- यथेत्यादि| यद् बोद्धव्यं सुखदुःखं यथा बोद्धव्यं कार्यवशाद्भवति, तत्तथैवोच्यते नान्यथा| तेन सात्म्यासात्म्येन्द्रियार्थजन्यत्वेन सुखदुःखे इह प्रतीयमाने चिकित्सायामुपयुक्ते भवतः, नात्मादिजन्यत्वेनेह सुखदुःखे अभिधीयेते; न ह्यात्मादयो दुःखहेतुतया प्रतिपन्ना अपीह हेयतया प्रतिपाद्यन्ते; किन्त्वसात्म्येन्द्रियार्थयोगादय एव दुःखहेतवस्त्यज्यन्ते, सुखहेतवः सात्म्येन्दियार्थयोगादयस्तूपादीयन्त इति भावः||१३२||

स्पर्शनेन्द्रियसंस्पर्शः स्पर्शो मानस एव च|
द्विविधः सुखदुःखानां वेदनानां प्रवर्तकः||१३३||
आयुर्वेददीपिका
इदानीं सकलकारणव्यापकं योगं व्युत्पादयितुमैन्द्रियकं मानसं च स्पर्शं दर्शयितुमाह- स्पर्शनेत्यादि| स्पर्शनेन्द्रियसंस्पर्श इत्यनेनेन्द्रियाणामर्थेन सम्बन्धं स्पर्शनेन्द्रियकृतं दर्शयति; चक्षुरादीन्यपि स्पृष्टमेवार्थं जानन्ति; यदि ह्यस्पृष्टमेव चक्षुः श्रोत्रं घ्राणं वा गृह्णाति, तदा विदूरमपि गृह्णीयात्, न च गृह्णाति, तस्मात् स्पृष्ट्वैवेन्द्रियाण्यर्थं प्रतिपद्यते; मानसस्तु स्पर्शश्चिन्त्यादिनाऽर्थेन समं सूक्ष्मोऽस्त्येव, येन मनः किश्चिदेव चिन्तयति, न सर्वं; तेन यन्मनसा स्पृश्यते तदेव मनो गृह्णातीति स्थितिः||१३३||

इच्छाद्वेषात्मिका तृष्णा सुखदुःखात् प्रवर्तते|
तृष्णा च सुखदुःखानां कारणं पुनरुच्यते||१३४||
उपादत्ते हि सा भावान् वेदनाश्रयसञ्ज्ञकान्|
स्पृश्यते नानुपादाने नास्पृष्टो वेत्ति वेदनाः||१३५||
आयुर्वेददीपिका
सुखदुःखोत्पत्तिक्रममाह- इच्छेत्यादि| सुखादिच्छारूपा तृष्णा, दुःखाच्च द्वेषरूपा तृष्णा प्रवर्तते| इयं चोत्पन्ना तृष्णा ईप्सितेऽर्थे प्रवर्तयन्ती द्विष्टे च निवर्तयन्ती प्रवृत्तिनिवृत्तिविषयस्य सुखदुःखहेतुतामपेक्ष्य सुखदुःखे जनयतीति वाक्यार्थः| यथोक्तं तृष्णायाः सुखदुःखहेतुत्वं दर्शयन्नाह- उपादत्ते हीत्यादि| वेदनाश्रयसञ्ज्ञकानिति वेदनाकारणत्वेनोक्तान् कालाद्ययोगादिरूपान्| अथ तृष्णा चेत् सुखदुःखकारणं, तत् किमिन्द्रियार्थेनापरेण कारणेनेत्याह- स्पृश्यत इत्यादि| अनुपादान इति अविद्यमानार्थरूपे [२] स्पर्शकारणे अर्थं विना नार्थस्य स्पर्शो भवति| अथ न भवत्वर्थस्पर्शः, ततः किमित्याह- नास्पृष्टो वेत्ति वेदना इति; अर्थस्पर्शशून्यः सन् न सुखदुःखे अनुत्पन्नत्वादेव वेत्तीत्यर्थः||१३४-१३५||

वेदनानामधिष्ठानं मनो देहश्च सेन्द्रियः|
केशलोमनखाग्रान्नमलद्रवगुणैर्विना||१३६||
आयुर्वेददीपिका
‘वेदनानां किमधिष्ठानम्’ इत्यस्योत्तरमाह- वेदनानामित्यादि| देहः सेन्द्रिय इति अनेन निरिन्द्रियो देहो केशलेमादिको निरस्तः| तदेव स्पष्टार्थं विवृणोति- केशेत्यादि| किंवा, इन्द्रियाण्यपि प्राधान्यख्यापनार्थं प्रथग् वेदनाश्रयत्वेनेन्द्रियग्रहणेनोच्यन्ते| वेदनाया देहेन्द्रियगतत्वं तदाधारत्वेन प्रतीयमानत्वाज्ज्ञेयम्| द्रवं मूत्रम्| गुणाः शब्दादयः| शरीरगता एते हि केशादयो न वेदनाधारा इत्यनुभव एव प्रमाणम्| या तु मूत्रपुरीषगता वेदना ग्रहणीमूत्रकृच्छ्रादौ वक्तव्या, सा मूत्रपुरीषाधारशरीरप्रदेशस्यैव बोध्या||१३६||

योगे मोक्षे च सर्वासां वेदनानामवर्तनम्|
मोक्षे निवृत्तिर्निःशेषा योगो मोक्षप्रवर्तकः||१३७||
आयुर्वेददीपिका
‘क्व चैता वेदनाः सर्वा’ इत्यादिप्रश्नस्योत्तरं- योग इत्यादि| योगः ‘अनारम्भात्’ इत्यादिग्रन्थवक्ष्यमाणः| मोक्ष आत्यन्तिकशरीराद्युच्छेदः| निःशेषेति न पुनर्भवति| एतेन, योगे निवृत्ता वेदना पुनर्भवतीति सूचयति| मोक्षप्रवर्तक इति मोक्षकारणम्| किंवा, ‘योगमोक्षौ निवर्तकौ’ इति पाठः; तदा अस्मिन् पक्षे यद्यपि योगमोक्षयोर्वेदनानिवर्तकत्वं ‘योगे मोक्षे च’ इत्यादिना श्लोकार्धेनोक्तं, तथाऽपि योगमोक्षयोरिह कर्तृता [१] वेदनानिवृत्तिं प्रति दृश्यत इति न पौनरुक्त्यम्||१३७||

१३८-१४२सम्पाद्यताम्

आत्मेन्द्रियमनोर्थानां सन्निकर्षात् प्रवर्तते|
सुखदुःखमनारम्भादात्मस्थे मनसि स्थिरे||१३८||
निवर्तते तदुभयं वशित्वं चोपजायते|
सशरीरस्य योगज्ञास्तं योगमृषयो विदुः||१३९||
आयुर्वेददीपिका
यथा योगो वेदनानिवर्तको भवति, यश्च योगस्तमाह- आत्मेत्यादि| अनारम्भादिति विषयोपादानार्थं मनसाऽनारम्भात् [१] | आत्मस्थे मनसीति विषये निवृते केवलात्मज्ञानस्थे| स्थिरे इति अचले, आत्मज्ञानप्रसक्त एवेति यावत्| तदुभयमिति सुखदुःखे| योगे योगधर्मान्तरप्राप्तिमाह- वशित्वमित्यादि| वशित्वं वक्ष्यमाणमष्टविधमैश्वर्यबलम्| सशरीरस्येतिपदेन शरीरेण सहैव वशित्वं भवतीति दर्शयति||१३८-१३९||

आवेशश्चेतसो ज्ञानमर्थानां छन्दतः क्रिया|
दृष्टिः श्रोत्रं स्मृतिः कान्तिरिष्टतश्चाप्यदर्शनम्||१४०||
इत्यष्टविधमाख्यातं योगिनां बलमैश्वरम्|
शुद्धसत्त्वसमाधानात्तत् सर्वमुपजायते||१४१||
आयुर्वेददीपिका
आवेश इत्यादि| आवेशः परपुरप्रवेशः| चेतसो ज्ञानमिति परचित्तज्ञानम्| अर्थानां छन्दतः क्रियेति अर्थानामिच्छातः करणम्| दृष्टिः अतीन्द्रियदर्शनम्| श्रोत्रम् अतीन्द्रियश्रवणम्| स्मृतिः सर्वभावतत्त्वस्मरणम्| कान्तिः अमानुषी कान्तिः| इष्टतश्चाप्यदर्शनमिति यदेच्छति तदा दर्शनयोग्य एव न दृश्यते, यदा चेच्छति तदा दृश्यते| किंवा, आवेशश्चेतस इति परचेतसः प्रवेशः, ज्ञानमिति सर्वमतीतानागतादिज्ञानं, शेषं पूर्ववत्| ऐश्वरमिति मोक्षो रजस्तमोऽभावात् बलवत्कर्मसङ्क्षयात्|
वियोगः सर्वसंयोगैरपुनर्भव उच्यते||१४२||
आयुर्वेददीपिका
अथ कथं मोक्षो भवति, कश्चेत्याह- मोक्ष इत्यादि| बलवत्कर्मसङ्क्षयादिति अवश्यभोक्तव्यफलस्य कर्मणः क्षयात्| सर्वसंयोगैरिति सर्वैरात्मसम्बन्धिभिः शरीरबुद्ध्यहङ्कारादिभिः| न पुनः शरीरादिसम्बन्धो भवतीत्यपुनर्भवः [१] ||१४२|| योगप्रभावादुपपन्नैश्वर्यकृतम्| शुद्धसत्त्वसमाधानादिति नीरजस्तमस्कस्य मनस आत्मनि सम्यगाधानात्||१४०-१४१||

१४३-१४९सम्पाद्यताम्

सतामुपासनं सम्यगसतां परिवर्जनम्|
व्रतचर्योपवासौ च नियमाश्च पृथग्विधाः||१४३||
धारणं धर्मशास्त्राणां विज्ञानं विजने रतिः|
विषयेष्वरतिर्मोक्षे व्यवसायः परा धृतिः||१४४||
कर्मणामसमारम्भः कृतानां च परिक्षयः|
नैष्क्रम्यमनहङ्कारः संयोगे भयदर्शनम्||१४५||
मनोबुद्धिसमाधानमर्थतत्त्वपरीक्षणम्|
तत्त्वस्मृतेरुपस्थानात् सर्वमेतत् प्रवर्तते||१४६||
आयुर्वेददीपिका
प्रस्तावान्मोक्षोपायमाह- सतामित्यादि| परा धृतिरिति अतिशयितं मनोनियमनम्| कर्मणामसमारम्भ इति अनागतधर्माधर्मसाधनानामकरणम्| कृतानां च परिक्षय इति जन्मान्तरैः कृतानां कर्मणां फलोपभोगात् परिक्षयः| नैष्कम्यं संसारनिष्क्रमणेच्छा| अनहङ्कार इति ममेदम्, अहं ‘करोमि’ इत्यादिबुद्धिवर्जनम्| संयोग इति आत्मशरीरादिसंयोगे| मनोबुद्धिसमाधानमिति मनोबुद्ध्योरात्मनि समाधानम्| सर्वमेतदिति ‘कर्मणामसमारम्भः’ इत्याद्युक्तम् | तत्त्वस्मृतिः आत्मादीनां यथाभूतानुस्मरणं ; सा च नात्मा शरीराद्युपकार्यः, शरीरादयश्चामी आत्मव्यतिरिक्ताः, इत्यादिस्मरणरूपस्मृतिः||१४३-१४६||

स्मृतिः सत्सेवनाद्यैश्च धृत्यन्तैरुपजायते|
स्मृत्वा स्वभावं भावानां स्मरन् दुःखात् प्रमुच्यते||१४७||
आयुर्वेददीपिका
अथ स्मृतिः कथं दुःखप्रमोषे कारणमित्याह- स्मृत्वेत्यादि| स्वभावमिति प्रत्यात्मनियतरूपम्| गुरुवचनाद्धि प्रथमप्रतिपन्नमात्मादीनां रूपं परस्परभिन्नं परस्परानुपकारकत्वेन व्यवस्थितं स्मरन् न क्वचिदपि प्रवर्तते, अप्रवर्तमानश्च न दुःखेन प्रवृत्तिजन्येन युज्यत इत्यर्थः||१४७||

वक्ष्यन्ते कारणान्यष्टौ स्मृतिर्यैरुपजायते|
निमित्तरूपग्रहणात् सादृश्यात् सविपर्ययात्||१४८||
सत्त्वानुबन्धादभ्यासाज्ज्ञानयोगात् पुनः श्रुतात्|
दृष्टश्रुतानुभूतानां स्मारणात् स्मृतिरुच्यते||१४९||
आयुर्वेददीपिका
इदानीं स्मृतिप्रस्तावात् स्मृतिकारणान्याह- वक्ष्यन्त इत्यादि| निमित्तग्रहणं कारणज्ञानं, कारणं हि दृष्ट्वा कार्यं स्मरति| रूपग्रहणम् आकारग्रहणम् | यथा- वने गवयं दृष्ट्वा गां स्मरति| सादृश्याद् यथा- पितुः सदृशं पुरुषं दृष्ट्वा पितरं स्मरति| सविपर्ययादिति अत्यर्थवैसादृश्यादपि स्मरणं भवति; यथा- अत्यर्थकुरूपं दृष्ट्वा प्रतियोगिनमत्यर्थसुरूपं स्मरति| सत्त्वानुबन्धादिति मनसः प्रणिधानात्, स्मर्तव्यस्मरणाय प्रणिहितमनाः स्मर्तव्यं स्मरति| अभ्यासादिति अभ्यस्तमर्थमभ्यासबलादेव स्मरति| ज्ञानयोगादिति तत्त्वज्ञानयोगात्; उपजाततत्त्वज्ञानो हि तद्बलादेव सर्वं स्मरति| पुनः श्रुतादिति श्रुतोऽप्यर्थो विस्मृतः पुनरेकदेशं श्रुत्वा स्मर्यते| स्मृतिकारणमभिधाय स्मृतिरूपमाह- दृष्टेत्यादि|- दृष्टं प्रत्यक्षोपलक्षणं, श्रुतं त्वागमप्रतीतं , तेन सर्वपूर्वानुभूतावरोधः| क्वचित्, ‘स्मरणं स्मृतिरुच्यते’ इति पाठः, तत्रापि नार्थभेदः||१४८-१४९||

१५०-१५६सम्पाद्यताम्

एतत्तदेकमयनं मुक्तैर्मोक्षस्य दर्शितम्|
तत्त्वस्मृतिबलं, येन गता न पुनरागताः||१५०||
अयनं पुनराख्यातमेतद्योगस्य योगिभिः|
सङ्ख्यातधर्मैः साङ्ख्यैश्च मुक्तैर्मोक्षस्य चायनम्||१५१||
आयुर्वेददीपिका व्याख्या
एवं स्मृतिं सामान्येन प्रतिपाद्य तत्त्वस्मृतेर्मोक्षसाधकत्वं दर्शयन्नाह- एतदित्यादि| एकमयनमिति श्रेष्ठः [१] पन्थाः| मुक्तैरिति जीवन्मुक्तैरिति ज्ञेयं, सर्वथामुक्तानां शरीराभावेनोपदर्शकत्वाभावात्| तत्त्वस्मृतिबलमिति तत्त्वस्मृतिरूपं बलं; किंवा, तत्त्वस्मृतिर्बलं यत्र मोक्षसाधनमार्गे तत्तत्त्वस्मृतिबलम्| येनेति येन यथा| गता इति मोक्षं गताः न पुनरागता इति मुक्तिं याता न पुनरागच्छन्ति||१५०-१५१||

सर्वं कारणवद्दुःखमस्वं चानित्यमेव च|
न चात्मकृतकं तद्धि तत्र चोत्पद्यते स्वता||१५२||
यावन्नोत्पद्यते सत्या बुद्धिर्नैतदहं यया|
नैतन्ममेति विज्ञाय ज्ञः सर्वमतिवर्तते||१५३||
आयुर्वेददीपिका
इदानीं सङ्क्षेपेण संसारहेतुमज्ञानं, तथा मोक्षहेतुं च सम्यगज्ञानं दर्शयन्नाह - सर्वमित्यादि| सर्वं कारणवदिति सर्वमुत्पद्यमानं बुद्ध्यहङ्कारशरीरादि| दुःखमिति दुःखहेतुरेव| अस्वमिति सर्वं कारणवदेवात्मव्यतिरिक्तं परमार्थतः| न चात्मकृतकमिति न चात्मनोदासीनेन कृतम्| तत्रेति कारणवति बुद्धिशरीरादौ| स्वतेति ममता ‘ममेयं बुद्धिः’ इत्यादिरूपा| अथ कियन्तं कालमियं भ्रान्त्या युतोत्पद्यते इत्याह- यावदित्यादि| सत्या बुद्धिः सम्यगज्ञानम्| यया सत्यया बुद्ध्या| नैतद् बुद्ध्याद्यहं, किन्तु भिन्न एवाहं; तथा नैतद् बुद्ध्यादि मम, किन्तु प्रकृतेः प्रपञ्च इति विज्ञाय| ज्ञः तत्त्वसाक्षात्कारवान्| सर्वमतिवर्तत इति सर्वं बुद्ध्यादि त्यजति||१५२-१५३||

तस्मिंश्चरमसन्न्यासे समूलाः सर्ववेदनाः|
ससञ्ज्ञाज्ञानविज्ञाना निवृत्तिं यान्त्यशेषतः||१५४||
आयुर्वेददीपिका
चरमसन्न्यास इति पश्चाद्भाविसकलकर्मसन्न्यासे| प्रथमं हि मोक्षोपयोगित्वेन गुरुवचनात् क्रियासन्न्यासः कृत एव, परं खानुभवविरक्तेन न कृतः; अभ्यासादुद्भूतेन ज्ञानेन साक्षाद्दृष्टभावस्वभावेन यः सर्वसन्न्यासः क्रियते, तत्र समूलाः सर्ववेदना ज्ञानादयश्च शरीरोपरमादेवोपरमन्ते| समूला इति सकारणाः, कारणं च बुद्ध्यादयः| सञ्ज्ञा आलोचनं निर्विकल्पकं, ज्ञानं सविकल्पकं, विज्ञानं बुद्ध्यवसायः; किंवा, सञ्ज्ञा नामोल्लेखेन ज्ञानं, विज्ञानं शास्त्रज्ञानम्| तत्त्वज्ञानमपि हि मोक्षं जनयित्वा निवर्तत एव, कारणाभावात्||१५४||

अतः परं ब्रह्मभूतो भूतात्मा नोपलभ्यते|
निःसृतः सर्वभावेभ्यश्चिह्नं यस्य न विद्यते|
ज्ञानं ब्रह्मविदां चात्र नाज्ञस्तज्ज्ञातुमर्हति||१५५||
आयुर्वेददीपिका
‘सर्वविद्’ इत्यादिप्रश्नस्योत्तरम्- अतः परमित्यादि| ब्रह्मभूत इति प्रकृत्यादिरहितः| चिह्नं यस्य न विद्यते इत्यनेन मुक्तात्मनः प्राणापानाद्यात्मलिङ्गाभावाद्गमकं चिह्नं नास्त्येवेति दर्शद्यति| न क्षरति अन्यथात्वं न गच्छतीत्यक्षरम्| अविद्यमानं लक्षणं यस्येति अलक्षणम्| एतस्यैव मोक्षस्येतरपुरुषाज्ञेयतां दर्शयति- ज्ञानमित्यादि| ब्रह्मविदामेवात्र मनः प्रत्येति, नाज्ञानामहङ्कारादिवासनागृहीतानामित्यर्थः||१५५||

तत्र श्लोकः-
प्रश्नाः पुरुषमाश्रित्य त्रयोविंशतिरुत्तमाः|
कतिधापुरुषीयेऽस्मिन्निर्णीतास्तत्त्वदर्शिना||१५६||
आयुर्वेददीपिका
सङ्ग्रहो व्यक्तः||१५६||

इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते शारीरस्थाने कतिधापुरुषीयं शारीरं नाम प्रथमोऽध्यायः||१||
आयुर्वेददीपिका
इति श्रीचक्रपाणिदत्तविरचितायां चरकतात्पर्यटीकायामायुर्वेददीपिकायां शारीरस्थाने कतिधापुरुषीयं शारीरं नाम प्रथमोऽध्यायः||१||

चरकसंहिता/शारीरस्थानम् चरकसंहिता शारीरस्थान