प्रमुखा विकल्पसूचिः उद्घाट्यताम्

ततोऽन्येद्युः पुनर्नक्तं विनोदार्थं स गोमुखः ।
नरवाहनदत्ताय कथामेतामवर्णयत् ।। १
धारेश्वराभिधे शैवे सिद्धक्षेत्रे पुरावसत् ।
उपास्यमानो बहुभिः शिष्यैः कोऽपि महामुनिः ।। २
सोऽब्रवीज्जातु शिष्यान्स्वान्युष्मासु यदि केनचित् ।
अपूर्वमीक्षितं चिच्छ्रुतं वा तन्निवेद्यताम् ।। ३
इत्युक्ते तेन मुनिना शिष्य एको जगाद तम् ।
मया श्रुतमपूर्वं यत्तदाख्यामि निशम्यताम् ।। ४
विजयाख्यं महाक्षेत्रं कश्मीरेष्वस्ति शांभवम् ।
तत्र प्रव्राजकः कश्चिदासीद्विद्याभिमानवान् ।। ५
जयी सर्वत्र भूयासमित्याशंसन्प्रणम्य सः ।
शंभुं प्रतस्थे वादाय प्रव्राट् पाटलिपुत्रकम् ।। ६
गच्छंश्च मार्गेऽतिक्रामन्वनानि सरितो गिरीन् ।
प्राप्याटवीं परिश्रान्तो विशश्राम तरोस्तले ।। ७
क्षणाच्च वापीशिशिरे तत्र दूराध्वधूसरम् ।
ददर्श धार्मिकं दण्डकुण्डिकाहस्तमागतम् ।। ८
कृतत्वं कुत्र यासीति निषण्णोऽत्र च तेन सः ।
प्रव्राजकेन पृष्टस्तमित्यभाषत धार्मिकः ।। ९
आगतोऽहं सखे विद्याक्षेत्रात्पाटलिपुत्रकात् ।
कश्मीरान्यामि तत्रत्याञ्जेतुं वादेन पण्डितान् ।। १०
श्रुत्वैतद्धार्मिकवचः स परिव्राडचिन्तयत् ।
इहैको न जितोऽयं चेन्मया पाटलिपुत्रकः ।। ११
तत्तत्र गत्वा जेष्यामि कथमन्यान्बहूनहम् ।
इत्यालोच्य स तं प्रव्राडाक्षिप्याह स्म धार्मिकम् ।। १२
विपरीतमिदं किं ते वद धार्मिक चेष्टितम् ।
क्व धार्मिको मुमुक्षुस्त्वं क्व वादी व्यसनातुरः ।। १३
वादाभिमानबन्धेन संसारान्मोक्षमिच्छसि ।
शमयस्यग्निनोष्माणं शीतं हंसि हिमेन च ।। १४
उत्तितीर्षसि पाषाणनावा मूढ महोदधिम् ।
वातेन ज्वलितं वह्निं निवारयितुमीहसे ।। ५५
ब्राह्मं शीलं क्षमा नाम क्षात्त्रमापन्नरक्षणम् ।
मुमुक्षुशीलं च शमः कलहो रक्षसां स्मृतम् ।। १६
तस्माच्छान्तेन दान्तेन भवितव्यं मुमुक्षुणा ।
निरस्तद्वन्द्वदुःखेन संसारक्लेशभीरुणा ।। १७
अतः शमकुठारेण च्छिन्धीमं भवपादपम् ।
हेतुवादाभिमानाम्बुसेकं तस्य तु मा स्म दाः ।। १८
इत्युक्तो धार्मिकस्तेन परितुष्टः प्रणम्य तम् ।
गुरुर्भवान्ममेत्युक्त्वा जगाम स यथागतम् ।। १९
प्रव्राड्ढसन्स्थितोऽत्रैव तरुमूले तदन्तरात् ।
यक्षस्यालापमशृणोत्क्रीडतो भार्यया सह ।। २०
कर्णं ददाति यावच्च स प्रव्राट् तावदत्र सः ।
यक्षः पुष्पस्रजा भार्यां नर्मणा तामताडयत् ।। २१
तावच्च मृतकल्पं सा कृत्वात्मानं शठा मृषा ।
तस्थौ तत्परिवारश्च मुक्ताक्रन्दो झगित्यभूत् ।। २२
चिराच्चागतजीवेव सा दृशावुदमीलयत् ।
किं त्वया दृष्टमिति तां यक्षोऽप्राक्षीत्ततः पतिः ।। २३
अथ मिथ्यैव सावोचत्त्वयाहं मालया यदा ।
अभ्याहता तदापश्यं कृष्णं पुरुषमागतम् ।। २४
पाशहस्तं ज्वलन्नेत्रं प्रांशुमूर्ध्वशिरोरुहम् ।
भयानकं निजच्छायामलिनीकृतदिक्तटम् ।। २५
तेन नीताहमभवं दुष्टेन यममन्दिरम् ।
त्याजितास्मि च तत्रत्यैस्तं निवार्याधिकारिभिः ।। २६
एवं तयोक्ते यक्षिण्या हसन्यक्षो जगाद ताम् ।
अहो विनेन्द्रजालेन स्त्रीणां चेष्टा न विद्यते ।। २७
को मृत्युः कुसुमाघातादावृत्तिः का यमालयात् ।
मूढे पाटलिपुत्रस्त्रीवृत्तान्तोऽनुकृतस्त्वया ।। २८
तस्मिन्हि नगरे राजा योऽस्ति सिंहाक्षनामकः ।
तद्भार्या मन्त्रिसेनानीपुरोहितभिषग्वधूः ।। २९
सहादाय त्रयोदश्यां शुक्लपक्षे कदाचन ।
सनाथीकृततद्देशामागाद्द्रष्टुं सरस्वतीम् ।। ३०
तत्र तन्मागमिलितैः सर्वाः कुब्जान्धपङ्गुभिः ।
व्याधितैरित्ययाच्यन्त भूपालप्रमुखाङ्गनाः ।। ३१
रोगातुराणां दीनानामौषधं नः प्रयच्छत ।
येन मुच्यामहे रोगात्कुरुतार्तानुकम्पनम् ।। ३२
समुद्रलहरीलोलो विद्युत्स्फुरितभङ्गुरः ।
जीवलोको ह्ययं यात्राद्युत्सवक्षणसुन्दरः ।। ३३
तदसारेऽत्र संसारे सारं दीनेषु या दया ।
कृपणेषु च यद्दानं गुणवान्क्व न जीवति ।। ३४
आढ्यस्य किं च दानेन सुहितस्याशनेन किम् ।
किं चन्दनेन शीतालोः किं धनेन हिमागमे ।। ३५
तदेतानुद्धरत नः कृपणानामयापदः ।
इत्युक्ता व्याधितैस्तैस्ता नृपभार्यादयोऽब्रुवन् ।। ३६
सुष्टूपपन्नं जल्पन्ति कृपणा व्याधिता इमे ।
सर्वस्वेनाप्यतोऽस्माभिः कार्यमेषां चिकित्सितम् ।। ३७
एवमन्योन्यमालप्य देवीमभ्यर्च्य योषितः ।
व्याधितांस्तान्स्वभवनान्यानिन्युस्ताः पृथक्पृथक् ।। ३८
स्वभर्तॄन्प्रेर्य तेषां च महासत्त्वान्महौषधैः ।
चिकित्सां कारयामासुर्नोत्तस्थुश्च तदन्तिकात् ।। ३९
सहवासाच्च तैरेव सङ्गमुद्भूतमन्मथैः ।
तथा ययुस्ताः संसारं तन्मयं ददृशुर्यथा ।। ४०
क्व रोगिणोऽमी कृपणा भर्तारः क्व नृपादयः ।
इति न व्यमृशत्तासां मन्मथान्धीकृतं मनः ।। ४१
ततश्च ता असंभाव्यरोगिसंभोगसंभवैः ।
नखदन्तक्षतैर्युक्ताः पतयो ददृशुर्निजाः ।। ४२
ते च भूपालतन्मन्त्रिसेनापतिमुखादयः ।
तदाचख्युः ससंदेहाः परस्परमतन्द्रिताः ।। ४३
ततो राजाब्रवीदन्यान्यूयं संप्रति तिष्ठत ।
अहमद्य निजां भार्यां तावत्पृच्छामि युक्तितः ।। ४४
इत्युक्त्वा तान्विसृज्यैव गत्वा वासगृहं च सः ।
प्रदर्शितस्नेहभयो भार्यां पप्रच्छ तां नृपः ।। ४५
दष्टः केनाधरोऽयं ते क्षतौ केन नखैः स्तनौ ।
सत्यमाख्यासि चेदस्ति श्रेयस्ते नान्यथा पुनः ।। ४६
इत्युक्त्वा तेन राज्ञा सा राज्ञी कृतकमब्रवीत् ।
अवाच्यमप्यधन्याहं वच्म्याश्चर्यमिदं शृणु ।। ४७
चित्रभित्तेरितो रात्रौ पुमांश्चक्रगदाधरः ।
निर्गत्यैवोपभुङ्क्ते मां प्रातश्चात्रैव लीयते ।। ४८
यदङ्गं चन्द्रसूर्याभ्यामपि दृष्टं न जातु मे ।
तत्रेदृगेत्य क्रियते तेनावस्था स्थिते त्वयि ।। ४९
एतत्तस्याः सदुःखाया इव श्रुत्वा वचो नृपः ।
प्रत्येति स्म तथा मूर्खो मायामाशङ्क्य वैष्णवीम् ।। ५०
शशंस मन्त्र्यादिभ्यश्च तेभ्यस्तेऽपि तथा जडाः ।
मत्वाच्युतोपभुक्तास्ता भार्यास्तूष्णीं किलाभवन् ।। ५१
इत्यसत्यैकरचनाचतुराः कुस्त्रियः शठाः ।
वञ्चयन्ते जडमतीन्नाहं मूर्खस्तु तादृशः ।। ५२५
इति यक्षो ब्रुवन्भार्यां स विलक्षीचकार ताम् ।
तच्च प्रव्राजकोऽश्रोषीत्सर्वं तरुतले स्थितः ।। ५३
ततः कृताञ्जलिर्यक्षं तं स प्रव्राड् व्यजिज्ञपत् ।
भगवन्नाश्रमप्राप्तस्तवाहं शरणागतः ।। '९४
तत्क्षमस्वापराधं मे त्वद्वचो यन्मया श्रुतम् ।
इत्युक्तः सत्यवचनात्तस्य यक्षस्तुतोष सः ।। ५५
सर्वस्थानगताख्योऽहं यक्षस्तुष्टस्तवास्मि च ।
गृहाण वरमित्यूचे प्रव्राड् यक्षेण तेन सः ।। ५६
मन्युमस्यां स्वभार्यायां मा कृथा एष एव मे ।
वरोऽस्त्विति तमाह स्म स प्रव्राडपि गुह्यकम् ।। ५७
ततः स यक्षोऽवादीत्तं तुष्टोऽस्मि सुतरां तव ।
तदेष ते वरो दत्तो मयान्यः प्रार्थ्यतामिति ।। ५८
ततः प्रव्राजकोऽवादीत्तर्ह्ययं मेऽपरो वरः ।
अद्यप्रभृति पुत्रं मां जानीत दंपती युवाम् ।। ५९
श्रुत्वैतत्स सभार्योऽपि प्रत्यक्षीभूय तत्क्षणम् ।
यक्षस्तमब्रवीद्बाढं पुत्र पुत्रस्त्वमावयोः ।। ६०
अस्मत्प्रसादान्न च ते भविष्यति विपत्क्वचित् ।
विवादे कलहे द्यूते विजयी च भविष्यसि ।। ६१
इत्युक्त्वान्तर्हितं यक्षं तं प्रणम्यातिवाह्य च ।
रात्रिमत्राययौ प्रव्राट् स तं पाटलिपुत्रकम् ।। ६२
तत्र द्वाःस्थमुखेनान्तस्तस्मै सिंहाक्षभूभृते ।
कश्मीरागतमात्मानमाख्याति स्म स वादिनम् ।। ६३
अनुज्ञातप्रवेशश्च तेनासगने महीभुजा ।
प्रविश्यात्र स्थितान्वादायाचिक्षेप स पण्डितान् ।। ६४
जित्वा वादेन तान्यक्षवरमाहात्म्यतोऽखिलान् ।
राजाग्रे स पुनस्तेषां चकाराक्षेपमीदृशम् ।। ६५
चित्रभित्तेर्विनिर्गत्य गदाचक्रधरः पुमान् ।
दष्टाधरौष्ठीं दशनैः क्षतस्तनतटां नखैः ।। ६६
कृत्वोपभुज्य रात्रौ मां तद्भित्तावेव लीयते ।
एतत्किमिति वः पृच्छाम्युत्तरं मेऽत्र दीयताम् ।। ६७
एतच्छ्रुत्वा वचो नात्र बुधाः प्रतिवचो ददुः ।
परमार्थमजानाना अन्योन्याननदर्शिनः ।। ६८
ततो राजा स सिंहाक्षः स्वयमेव तमब्रवीत् ।
यदेतदुक्तं भवता तदाचक्ष्व त्वमेव नः ।। ६९
एतच्छ्रुत्वा स राज्ञेऽस्मै प्रव्राट् सर्वं शशंस तत् ।
तद्भार्याव्याजचरितं यक्षादश्रावि तेन यत् ।। ७०
न तत्कुर्यादभिष्वङ्गं पापज्ञप्त्येकहेतवे ।
स्त्रीभिः कदाचन जनस्तमित्यूचे नृपं च सः ।। ७१
तुष्टस्तस्मै निजं राज्यं राजा दातुमियेष सः ।
स तु स्वदेशैकरतः प्रव्राट् तन्नाग्रहीद्यदा ।। ७२
तदा संमानयामास राजा रत्नोत्करेण तम् ।
आत्तरत्नः स कश्मीरान्प्रव्राट् स्वं देशमागमत् ।। ७३
तत्र यक्षप्रसादेन स निर्दैन्यः सुखं स्थितः ।
इत्याख्याय स शिष्यस्तं महामुनिमभाषत ।। ७४
अहं प्रव्राजकात्तस्मादेवं तच्छ्रुतवानिति ।
ततः स विस्मितः सान्यशिष्यश्चिरमभून्मुनिः ।। ७५
इत्युक्त्वा गोमुखो भूयो वत्सेशात्मजमब्रवीत् ।
एवमेतानि कुस्त्रीणां चेष्टितानि च वेधसः ।। ७६
विचित्राणि सदा देव लोकस्य चरितानि च ।
इयं च श्रूयतामन्या नार्येकादशमारिका ।। ७७
ग्रामवासी पुमानासीत्कुटुम्बी कोऽपि मालवे ।
तस्योदपादि दुहिता द्वित्रिपुत्रकनीयसी ।। ७८
तस्यां च जातमात्रायां भार्या तस्य व्यपद्यत ।
ततोऽल्पैर्दिवसैस्तस्य पुत्र एको व्यपादि च ।। ७९
तस्मिन्विपन्ने भ्रातास्य वृषशृङ्गहतो मृतः ।
सोऽथ कन्यां कुटुम्बी तां नाम्ना चक्रे त्रिमारिकाम् ।। ८०
त्रयोऽनया लक्षणया जातया मारिता इति ।
कालेन यौवनस्थां तां पितुस्तस्मादयाचत ।। ८१
त्रिमारिकामाढ्यपुत्रः कश्चित्तद्ग्रामसंभवः ।
पिता च तस्मै प्रादात्तां स यथावत्कृतोत्सवः ।। ८२
तेन भर्त्रा सहारंस्त कालं कमपि तत्र सा ।
अचिराच्च ततस्तस्याः स भर्ता पञ्चतामगात् ।। ८३
दिवसैरेव सा चान्यं चपला पतिमग्रहीत् ।
सोऽप्यल्पेनैव कालेन विपत्तिं प्राप तत्पतिः ।। ८४
ततः सा यौवनोन्मत्ता तृतीयं पतिमाददे ।
सोऽपि तस्या विपन्नोऽभूत्पतिघ्न्याः पतिरन्यवत् ।। ८५
एवं क्रमेण पतयो दश तस्या विपेदिरे ।
ततो हास्येन सा नाम्ना पप्रथे दशमारिका ।। ८६
(डाकिनी भर्तृभक्षेयमिति लोकोऽब्रवीच्च ताम्)।
अथान्यभर्तृस्वीकारात्पित्रा ह्रीतेन वारिता ।
सा वर्ज्यमाना च जनैस्तस्थौ तस्य पितुर्गृहे ।। ८७
एकदा च विवेशात्र पान्थो भव्याकृतिर्युवा ।
एकरात्रिनिवासार्थं तत्पित्रानुमतोऽतिथिः ।। ८८
तं दृष्ट्वा तद्गतमनाः साभवद्दशमारिका ।
पान्थोऽपि तरुणीं दृष्ट्वा सोऽभूत्तदभिलाषुकः ।। ८९
ततः सा मारमुषितत्रपा पितरमभ्यधात् ।
एकमेतमहं तात वृणोमि पथिकं पतिम् ।। ९०
विपत्स्यते चेदेषोऽपि ग्रहीष्यामि ततो व्रतम् ।
एवं शृण्वति पान्थे तां ब्रुवतीं स पिताब्रवीत् ।। ९१
मा पुत्रि लज्जा महती दश ते पतयो मृताः ।
तदेतस्मिन्नपि मृते हसिष्यतितरां जनः ।। ९२
तच्छ्रुत्वैव त्रपां त्यक्त्वा पथिकोऽपि जगाद सः ।
नाहं म्रिये दश मृताः क्रमाद्भार्या ममापि हि ।। ९३
समावावां शमाम्यत्र पादस्पर्शेन धूर्जटेः ।
इत्युक्ते तेन पान्थेन नाचित्रीयत तत्र कः ।। ९४
बुद्ध्वा च मिलितैर्ग्राम्यैर्दत्तानुऽमतया तया ।
दशमारिकया सोऽथ पथिको जगृहे पतिः ।। ९५
तेन साकं च यावत्सा कालं कमपि तिष्ठति ।
तावच्छीतज्वराक्रान्तः सोऽपि तस्याः क्षयं ययौ ।। ९६
ततः सा हासिनी ग्राव्णामप्येकादशमारिका ।
विग्ना गङ्गातटं गत्वा प्रव्रज्यामेव शिश्रिये ।। ९७
इत्युक्त्या हसितं वत्सराजपुत्रं स गोमुखः ।
भूयोऽब्रवीत्कथामन्यां शृण्विमां दान्तजीविनः ।। ९८
पुमान्कश्चिद्दरिद्रोऽभूद्ग्रामे क्वापि कुटुम्बवान् ।
एक एव बलीवर्दस्तस्य चाभूद्गृहे धनम् ।। ९९
स निःसत्त्वोऽशनाभावात्सीदत्यपि कुटुम्बके ।
सोपवासोऽपि तं दान्तं व्यक्रीणीत न लोभतः ।। १००
गत्वा तु विन्ध्यवासिन्याः पुरतो दर्भसंस्तरे ।
पतित्वा स तपश्चक्रे निराहारोऽर्थकाम्यया ।। १०१
उत्तिष्ठैको बलीवर्दः सर्वदा धनमस्ति ते ।।
अतस्तमेव विक्रीय जीविष्यसि सदा सुखम् ।। १०२
इत्यादिष्टस्तया स्वप्ने देव्या प्रातः प्रबुध्य सः ।
उत्थाय पारणं किंचित्कृत्वा स्वगृहमाययौ ।। १०३
एत्याप्यधीरो विक्रेतुं नोक्षाणं तं शशाक सः ।
विक्रीतेऽस्मिन्नहं निःस्वो नैव वर्तेय जात्विति ।। १०४
अथ तं कथितस्वप्नदेव्यादेशं प्रसङ्गतः ।
उपवासकृशं कश्चिदुवाच सुमतिः सुहत् ।। १०५
एक एवास्ति दान्तस्ते तं त्वं विक्रीय सर्वदा ।
जीविष्यसीति देव्योक्तं तज्ज्ञातं मूढ न त्वया ।। १०६
तद्विक्रीयैतमुक्षाणं निर्वाहय कुटुम्बकम् ।
ततो भविष्यत्यन्यस्ते ततश्चान्यस्ततोऽपरः ।। १०७
इत्युक्तस्तेन मित्रेण ग्रामीणः स तथाकरोत् ।
एकैकवृषपण्याच्च जिजीव सततं सुखी ।। १०८
एवं फलति सर्वस्य विधिः सत्त्वानुसारतः ।
तत्सुसत्त्वो भवेत्सत्त्वहीनं न वृणते श्रियः ।। १०९
शृणुतान्यां कथां चेमां धूर्तस्यालीकमन्त्रिणः ।
आसीत्पृथ्वीपतिर्नाम नगरे दक्षिणापथे ।। ११०
तद्राष्ट्रे कोऽप्यभूद्धूर्तः परवञ्चनजीविकः ।
स चैकदा महेच्छत्वादसंतुष्टो व्यचिन्तयत् । १११
धूर्तत्वेनेदृशा किं मे यदाहारादिमात्रकृत् ।
प्राप्यते महती येन श्रीस्तादृङ् न करोमि किम् ।। ११२
इत्यालोच्य वणिग्वेषमत्युदारं विधाय सः ।
उपासर्पत्प्रतीहारं गत्वा द्वारं महीपतेः ।। ११३
तन्मुखेन प्रविश्यान्तः प्राभृतं चोपनीय सः ।
एकान्ते मेऽस्ति विज्ञप्तिरिति व्यज्ञापयन्नृपम् ।। ११४
राज्ञापि वेषभ्रान्तेन प्राभृतावर्जितेन च ।
तथेति रचितैकान्तस्तमेवं स व्यजिज्ञपत् ।। ११५५
दिने दिने मया साकमास्थाने सर्वसंनिधौ ।
भूत्वैकान्ते कथालापं क्षणमेकं कुरु प्रभो ।। ११६
तावताहं प्रतिदिनं दीनारशतपञ्चकम् ।
ददाम्युपायनं देवस्यार्थये न तु किंचन ।। ११७
तच्छ्रुत्वाचिन्तयद्राजा को दोषः किमयं मम ।
गृहीत्वा याति दीनारान्ददाति प्रत्युतान्वहम् ।। ११८
महता वणिजा सार्धं कथालापेन का त्रपा ।
इति स प्रतिपद्यैतद्राजा तस्य कथाकरोत् ।। ११९
सोऽपि तस्मै ददौ राज्ञे दीनारांस्तान्यथोदितान् ।
लोकस्तं च महामन्त्रिपदं प्राप्तममन्यत ।। १२०
एकस्मिंश्च दिने धूर्तो मुहुः पश्यन्नियोगिनः ।
साकूतं मुखमेकस्य चक्रे राज्ञा समं कथाम् ।। १२१
निर्गतश्च बहिस्तेन मुखालोकनकारणम् ।
एत्याधिकारिणा पृष्टः स स्वैरं तं मृषावदत् ।। १२२
देशो मे लुण्ठितोऽनेनेत्येवं ते कुपितो नृपः ।
मयातस्ते मुखं दृष्टं शमयिष्याम्यहं च तम् ।। १२३
इत्युक्तस्तेन सोऽलीकमन्त्रिणा सभयो गृहम् ।
आगत्याधिकृतः स्वर्णसहस्रं तस्य दत्तवान् ।। १२४
अन्येद्युश्च समं राज्ञा कथां कृत्वा तथैव सः ।
निर्गत्य धूर्तोऽवादीत्तं नियोगिनमुपागतम् ।। १२५
युक्तियुक्तेर्मया वाक्यैस्तव राजा प्रसादितः ।
धीरो भवाधुनाहं ते सर्वच्छिद्रेषु रक्षकः ।। १२६
इति स्वीकृत्य तं युक्त्या विससर्ज च सोऽपि तम् ।
अधिकारी सदा तैस्तैरुपचारैरुपाचरत् ।। १२७
एवं क्रमेण सर्वेभ्यो नियोगिभ्यः स बुद्धिमान् ।
राजभ्यो राजपुत्रेभ्यः सेवकेभ्यश्च युक्तिभिः ।। १२८
बह्वीभिराददानोऽर्थानर्जयामास सर्वतः ।
पञ्च कोटीः सुवर्णस्य कुर्वन्राजा समं कथाः ।। १२९
ततो रहसि राजानं धूर्तमन्त्री जगाद सः ।
देव दत्त्वापि नित्यं ते दीनारशतपञ्चकम् ।। १३०
त्वत्प्रसादान्मया प्राप्ताः पञ्च काञ्चनकोटयः ।
तत्प्रसीद गृहाणैतत्स्वं स्वर्णमहमत्र कः ।। १३१
इत्युक्त्वा प्रकटं राज्ञे कनकं तन्न्यवेदयत् ।
राजापि कृच्छ्रात्तत्तस्य जग्राहार्धं ततो धनात् ।। १३२
तुष्टस्य स्थापयामास महामन्त्रिपदे स तम् ।
सोऽपि प्राप्य श्रियं धूर्तो दानभोगैरमानयत् ।। १३३
एवं प्राप्नोति महतः प्राज्ञोऽर्थान्नातिपापतः ।
कूपखानकवत्प्राप्ते फले दोषं निहन्ति च ।। १३४
इत्युक्त्वा गोमुखः प्राह वत्सराजसुतं पुनः ।
एकामिदानीमुद्वाहसोत्सुकः शृण्विमां कथाम् ।। १३५
बभूव दुर्मदारातिकरीन्द्रकुलकेसरी ।
रत्नाकराख्ये नगरे नाम्ना बुद्धिप्रभो नृपः ।। १३६
रत्नरेखाभिधानायां राज्ञ्या तस्योदपद्यत ।
कन्या हेमप्रभा नाम सर्वलोकैकसुन्दरी ।। १३७
सा च विद्याधरी शापादवतीर्णा यदा तदा ।
नभोविहारसंस्कारमदाच्चिक्रीड दोलया ।। १३८
पातभीत्या निषिद्धापि सा ततो न चचाल यत् ।
तत्तस्याः स पिता राजा चपेटं कुपितो ददौ ।। १३९
तावता सावमानेन राजपुत्री वनैषिणी ।
विहारव्यपदेशेन जगामोपवनं बहिः ।। १४०
पानमत्तेषु भृत्येषु संचरन्ती च तत्र सा ।
प्रविश्य वृक्षगहनं तेषां दृष्टिपथाद्ययौ ।। १४१
गत्वा चैकाकिनी दूरं वनं विरचितोटजा ।
फलमूलाशिनी तस्थौ हराराधनतत्परा ।। १४२
तत्पितापि स राजा तां बुद्ध्वा क्वापि ततो गताम् ।
अन्वियेष न च प्राप महद्दुःखमुवाह च ।। १४३
चिरात्किंचित्तनूभूतदुःखश्चित्तं विनोदयन् ।
बुद्धिप्रभः स निरगान्मृगयायै महीपतिः ।। १४४
भ्रमंश्च दैवात्तत्प्राप सुदूरं स वनान्तरम् ।
तपस्यन्ती सुता सास्य यत्र हेमप्रभा स्थिता ।। १४५
उटजं तत्र दृष्ट्वा स राजाभ्येत्य तदन्तरे ।
अशङ्कितं तपःक्षामां तां ददर्श निजां सुताम् ।। १४६
सापि दृष्ट्वा तमुत्थाय पादयोः सहसाग्रहीत् ।
आलिङ्ग्य स पिता तां च साश्रुरङ्के न्यवेशयत् ।। १४७
तौ चान्योन्यं चिराद्दृष्ट्वा तथा रुरुदतुस्ततः ।
उदश्रवो यथा तत्र वनेऽभूवन्मृगा अपि ।। १४८
ततः शनैः समाश्वास्य राजावोचत्स तां सुताम् ।
त्यक्त्वा राजश्रियं पुत्रि किमिदं विहितं त्वया ।। १४९
तदेहि जननीपार्श्वं वनवासमिमं त्यज ।
इत्यूचिवांसं जनकं सा तं हेमप्रभाभ्यधात् ।। १५०
दैवेनैव नियुक्तास्मि शक्तिस्तात ममात्र का ।
नचैष्यामि गृहं भोक्तुं न त्यजामि तपःसुखम् ।। १५१
इति ब्रुवाणा सा तस्मान्निश्चयान्न चचाल यत् ।
तद्राजाकारयत्तस्या वने तत्रैव मन्दिरम् ।। १५२
गत्वा च राजधानीं स्वां प्रेषयामास सोऽन्वहम् ।
तस्या अतिथिपूजार्थं पक्वान्नानि धनानि च ।। १५३
सा च हेमप्रभा तत्र धनैरन्नैश्च तैः सदा ।
पूजयन्त्यतिथीनासीत्फलमूलाशिनी स्वयम् ।। १५४
एकदा चाययौ तस्या राजपुत्र्यास्तमाश्रमम् ।
प्रव्राजिकैका भ्राम्यन्ती कौमारब्रह्मचारिणी ।। १५
स तयाभ्यर्चिता हेमप्रभया स्वकथान्तरे ।
प्रव्रज्याकारणं पृष्टा बालप्रव्राजिकाब्रवीत् ।। १५६
संवाहयन्ती चरणावहं कन्या सती पितुः ।
सीदत्करयुगाभूवं निद्राकुलितलोचना ।। १५७
किं निद्रासीति पादेन ततः पित्राहमाहता ।
तन्मन्युना प्रव्रजिता निर्गत्यैवास्मि तद्ग्रहात् ।। १५८
इति प्रव्राजिकामुक्तवतीं हेमप्रभाथ सा ।
समानशीलप्रीता तौ वनवाससखी व्यधात् ।। १५९
एकदा तामवोचत्सा प्रातः प्रव्राजिकां सखीम् ।
सखि स्वप्नेऽद्य जानेऽहमुत्तीर्णां विपुलां नदीम् ।। १६०
आरूढास्मि ततः श्वेतं गजं तदनु पर्वतम् ।
तत्राश्रमे मया दृष्टो भगवानम्बिकापतिः ।। १६१
तदग्रे प्राप्य वीणां च गायन्त्यहमवादयम् ।
ततोऽद्राक्षं च पुरुषं दिव्याकारमुपागतम् ।। १६२
तं दृष्ट्वा च त्वया साकमहमुत्पतिता नभः ।
इयद्दृष्ट्वा प्रबुद्धास्मि व्यतिक्रान्ता च यामिनी ।। १६३
एतच्छ्रुत्वैव तां हेमप्रभामाह स्म सा सखी ।
शापावतीर्णा कापि त्वं दिव्या कल्याणि निश्चितम् ।। १६४
प्रत्यासन्नं च शापान्तं तव स्वप्नो वदत्यसौ ।
श्रुत्वैतदभ्यनन्दत्सा राजपुत्री सखीवचः ।। १६५
ततो भूयिष्ठमुदिते जगद्दीपे दिवाकरे ।
आययौ तुरगारूढो राजपुत्रोऽत्र कश्चन ।। ९६६
स तां हेमप्रभां दृष्ट्वा तापसीवेषधारिणीम् ।
जातप्रीतिरुपागत्य ववन्दे मुक्तवाहनः ।। १६७
सापि तं रचितातिथ्या कृतासनपरिग्रहम् ।
संजातप्रणयाप्राक्षीन्महात्मन्को भवानिति ।। १६८
राजपुत्रोऽथ सोऽवादीन्महाभागे महीपतिः ।
प्रतापसेन इत्यस्ति शुभनामानुकीर्तनः ।। १६९
स तप्यमानः पुत्रार्थं हरस्याराधनं तपः ।
तेनादिश्यत देवेन प्रादुर्भूय प्रसादिना ।। १७०
विद्याधरावतारस्ते पुत्र एको भविष्यति ।
स च शापक्षये लोकं निजमेव प्रपत्स्यते ।। १७१
द्वितीयस्तु सुतो भावी वंशराज्यधरस्तव ।
इत्युक्तः शंभुनोत्थाय हृष्टश्चक्रे स पारणम् ।। १७२
कालेन जातस्तस्यैको लक्ष्मीसेनाभिधः सुतः ।
शूरसेनाभिधानश्च द्वितीयो नृपतेः क्रमात् ।। १७३
तदिमं मां विजानीहि लक्ष्मीसेनं वरानने ।
आनीतमिह वाताश्वेनाकृष्याखेटनिर्गतम् ।। १७४
इत्युक्ता तेन साप्युक्त्वा स्वोदन्तं तस्य पृच्छतः ।
सद्यो हेमप्रभा जातिं स्मृत्वा हृष्टा जगाद तम् ।। १७५
त्वयि दृष्टे मया जातिर्विद्याभिः सह संस्मृता ।
साकं सख्यानया शापच्युता विद्याधरी ह्यहम् ।। १७६
त्वं च विद्याधरः शापच्युतः स्वसचिवान्वितः ।
भर्ता मे त्वं च मत्सख्या अस्यास्त्वत्सचिवश्च सः ।। १७७
क्षीणश्च ससखीकायाः स शापो मम सांप्रतम् ।
लोके वैद्याधरे भूयः सर्वेषा नः समागमः ।। १७८
इत्युक्त्वा दिव्यरूपत्वं प्राप्य सख्या समं तया ।
हेमप्रभा खमुत्पत्य सा स्वलोकमगात्तदा ।। १७९
लक्ष्मीसेनश्च यावत्स साश्चर्योऽत्र स्थितः क्षणात् ।
तावत्स सचिवस्तस्य चिन्वानो मार्गमाययौ ।। १८०
तस्मै स राजपुत्रश्च सख्ये यावद्ब्रवीति तत् ।
तावद्बुद्धिप्रभोऽप्यागात्स राजा स्वसुतोत्सुकः ।। १८१
सोऽदृष्ट्वैव सुतां दृष्ट्वा लक्ष्मीसेनं च पृष्टवान् ।
तस्याः प्रवृत्तिं सोऽप्यस्मै यथादृष्टं शशंस तत् ।। १८२
ततो बुद्धिप्रभे विप्रे लक्ष्मीसेनः समन्त्रिकः ।
स्मृत्वा शापक्षयाज्जातिं स्वलोकं नभसा ययौ ।। १८३
प्राप्य हेमप्रभां भार्यामागत्य च तया सह ।
बुद्धिप्रभं तमामन्त्र्य व्यसृजत्स निजं पुरम् ।। १८४
गत्वा च प्राप्तभार्येण तेन सख्या समं ततः ।
पित्रे प्रतापसेनाय स्ववृत्तान्तमवर्णयत् ।। १८५
तेन दत्तं क्रमप्राप्तं राज्यं दत्त्वानुजन्मने ।
शूरसेनाय स ययौ वैद्याधरपुरं निजम् ।। १८६
तत्र विद्याधरैश्वर्यसुखं हेभप्रभायुतः ।
लक्ष्मीसेनः स भुङ्क्ते स्म सख्या तेनान्वितश्चिरम् ।। १८७
इत्थं कथा निगदिताः किल गोमुखेन शृण्वन्क्रमात्स नरवाहनदत्तदेवः ।
आसन्नवर्तिनवशक्तियशोविवाहसूत्कोऽपि तां क्षणमिव क्षणदां निनाय ।। १८८
एवं विनोद्य च दिनानि स राजपुत्रः प्राप्ते विवाहदिवसे पितुरन्तिकस्थः ।
वत्सेश्वरस्य नभसः सहसावतीर्णं वैद्याधरं तपनदीप्ति बलं ददर्श ।। १८९
तन्मध्ये च स्वकदुहितरं दित्सितां तां गृहीत्वा
प्रीत्या प्राप्तं स्फटिकयशसं वीक्ष्य विद्याधरेन्द्रम् ।।
प्रत्युद्गम्य श्वशुर इति तं पूजयामास हर्षा-
द्वत्सेशेन प्रथमविहितातिथ्यमर्घ्यादिना सः ।। १९०
सोऽप्यावेद्य यथार्थमम्बरचराधीशः क्षणात्कल्पिता-
शेषस्वोचितदिव्यवैभवविधिः सिद्धिप्रभावात्ततः ।
रत्नौघप्रतिपूरिताय विधिवद्वत्सेशपुत्राय तां
तस्मै स्वां विततार शक्तियशसं पूर्वप्रदिष्टां सुताम् ।। १९१
स च नरवाहनदत्तो भार्यां विद्याधरेन्द्रतनयां ताम् ।
संप्राप्य शक्तियशसं पद्म इवार्कद्युतिं व्यरुचत् ।। १९२
स्फटिकयशस्युपयाते कौशाम्ब्यां पुरि स वत्सराजसुतः ।
शक्तियशोवदनाम्बुजसक्तेक्षणषट्पदस्तदा तस्थौ ।। १९३
इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे शक्तियशोलम्बके दशमस्तरङ्गः ।
समाप्तश्चायं शक्तियशोलम्बको दशमः ।