कथासरित्सागरः/लम्बकः १०/तरङ्गः ६
ततः प्रातः समुत्थाय पितुर्वत्सेश्वरस्य सः ।
नरवाहनदत्तोऽत्र दर्शनायान्तिकं ययौ ।। १
तत्र पद्मावतीदेवी भ्रातरि स्वगृहात्ततः ।
आगते मगधेशस्य तनये सिंहवर्मणि ।। २
तत्स्वागतकथाप्रश्नप्रवादैर्दिवसे गते ।
नरवाहनदत्तः स्वं भुक्त्वा मन्दिरमाययौ ।। ३
तत्र शक्तियशः सोत्कं तं विनोदयितुं निशि ।
ततः स गोमुखो धीमानिमामकथयत्कथाम् ।। ४
बभूव क्वापि सच्छायो महान्न्यग्रोधपादपः ।
शकुन्तशब्दैः पथिकान्विश्रमायाह्वयन्निव ।। ५
तत्रासीन्मेघवर्णाख्यः काकराजः कृतालयः ।
तस्यावमर्दनामाभूदुलूकाधिपती रिपुः ।। ६
स तस्य काकराजस्य तत्र रात्रावुलूकराट् ।
एत्य काकान्बहून्हत्वा कृत्वा परिभवं ययौ ।। ७
प्रातः स काकराजोऽत्र सभाज्योवाच मन्त्रिणः ।
उड्डी व्याडी विसंडीवि प्रडीवि चिरजीविनः ।। ८
स शत्रुः परिभूयास्मांल्लब्धलक्ष्यो बली पुनः ।
आपतेदेव तत्तत्र प्रतीकारो निरूप्यताम् ।। ९
तच्छ्रुत्वाभाषतोड्डीवी शत्रौ बलवति प्रभो ।
अन्यदेशाश्रयः कार्यस्तस्यैवानुनयोऽथवा ।। १०
श्रुत्वैतदाडीव्याह स्म सद्यो न भयमप्यदः ।
पराशयं स्वशक्तिं च वीक्ष्य कुर्मो यथाक्षमम् ।। ११
ततो जगाद संडीवी मरणं देव शोभनम् ।
न तु प्रणमनं शत्रोर्विदेशे वापि जीवनम् ।। १२
योद्धव्यं तेन साकं नः कृतावद्येन शत्रुणा ।
राजा सहायवाञ्शूरः सोत्साहो जयति द्विषः । १३
अथ प्रडीवी वक्ति स्म न जय्यः स बली रणे ।
संधिं कृत्वा तु हन्तव्यः संप्राप्तेऽवसरे पुनः ।। १४
चिरजीवी ततोऽवादीत्कः संधिर्दूत एव कः ।
आसृष्टि वैरं काकानामुलूकैस्तत्र को व्रजेत् ।। १५
मन्त्रसाध्यमिदं मन्त्रो मूलं राज्यस्य चोच्यते ।
श्रुत्वैतत्काकराजस्तं सोऽब्रवीच्चिरजीविनम् ।। १६
वृद्धस्त्वं वेत्सि चेत्तन्मे ब्रूहि त्वं केन हेतुना ।
काकोलूकस्य वैरित्वं मन्त्रं वक्ष्यस्यतः परम् ।। १७
तच्छ्रुत्वा काकराजं तं चिरजीवी जगाद सः ।
वाग्दोषोऽयं श्रुता किं न गर्दभाख्यायिका त्वया ।। १८
केनापि रजकेनैत्य गर्दभः पुष्टये कृशः ।
परसस्येषु मुक्तोऽभूदाच्छाद्य द्वीपिचर्मणा ।। १९
स तानि खादन्द्वीपीति जनैस्त्रासान्न वारितः ।
एकेन ददृशे जातु कार्षिकेण धनुर्भृता ।। २०
स तं द्वीपीति मन्वानः कुब्जीभूय भयानतः ।
कम्बलावेष्टिततनुर्गन्तुं प्रववृते ततः ।। २१
तं च दृष्ट्वा तथायान्तं खरोऽयमिति चिन्तयन् ।
खरस्तं स्वरुतेनोच्चैर्व्याहरत्सस्यपोषितः ।। २२
तच्छ्रुत्वा गर्दभं मत्वा तमुपेत्य स कार्षिकः ।
अवधीच्छरघातेन कृतवैरं स्वया गिरा ।। २३
एवं वाग्दोषतोऽस्माकमुलूकैः सह वैरिता ।
पूर्वं ह्यराजका आसन्कदाचिदपि पक्षिणः ।। २४
ते संभूयारभन्ते स्म पक्षिराजाभिषेचनम् ।
सर्वे कर्तुमुलूकस्य ढौकितच्छत्त्रचामरम् ।। २५
तावच्च गगनायातस्तद्दृष्ट्वा वायसोऽब्रवीत् ।
रे मूढाः सन्ति नो हंसकोकिलाद्या न किं खगाः ।। २६
येन क्रूरदृशं पापमिममप्रियदर्शनम् ।
अभिषिञ्चथ राज्येऽस्मिन्धिगुलूकममङ्गलम् ।। २७
राजा प्रभाववान्कार्यो यस्य नामैव सिद्धिकृत् ।
तथा च शृणुतात्रैकां कथां वो वर्णयाम्यहम् ।। २८
अस्ति चन्द्रसरो नाम महद्भूरिजलं सरः ।
शिलीमुखाख्यस्तत्तीरेऽप्युवास शशकेश्वरः ।। २९ शश-गजोपरि टिप्पणी
तत्रावग्रहशुष्केऽन्यनिपाने गजयूथपः ।
चतुर्दन्ताभिधानोऽम्भः पातुमागात्कदाचन ।। ३०
तस्य यूथेन शशका गाहमानेन तत्र ते ।
शिलीमुखस्य बहवः शशराजस्य चूर्णिताः ।। ३१
ततो गजपतौ तस्मिन्गते सोऽत्र शिलीमुखः ।
दुःखितो विजयं नाम शशं प्राहान्यसंनिधौ ।। ३२
लब्धास्वादो गजेन्द्रोऽयं पुनःपुनरिहैष्यति ।
निःशेषयिष्यत्यस्मांश्च तदुपायोऽत्र चिन्त्यताम् ।। ३३
गच्छ तस्यान्तिकं पश्य युक्तिः काप्यस्ति तेन वा ।
त्वं हि कार्यमुपायं च वेत्सि वक्तुं च युक्तिमान् ।। ३४
यत्र यत्र गतस्त्वं हि तत्र तत्राभवच्छुभम् ।
इति स प्रेषितस्तेन प्रीतस्तत्र ययौ शनैः ।। ३५
मार्गानुसारात्प्राप्तं च वारणेन्द्रं ददर्श तम् ।
यथा तथा च युक्तः स्यात्संगमो बलिनेति सः ।। ३६
शशोऽद्रिशिखरारूढो धीमांस्तमवदद्गजम् ।
अहं देवस्य चन्द्रस्य दूतस्त्वां चैवमाह सः ।। ३७
शीतं चन्द्रसरो नाम निवासोऽस्ति सरो मम ।
तत्रासते शशास्तेषां राजाहं ते च मे प्रियाः ।। ३८
अत एवास्मि शीतांशुः शशी चेति गतः प्रथाम् ।
तत्सरो नाशितं ते च शशका मे हतास्त्वया ।। ३९
भूयः कर्तासि चेदेवं मत्तः प्राप्स्यसि तत्फलम् ।
एतद्दूताच्छशाच्छ्रुत्वा गजेन्द्रः सोऽब्रवीद्भयात् ।। ४०
नैवं करिष्ये भूयोऽहं मान्यो मे भगवाञ्शशी ।
तदेहि दर्शयामस्ते यावत्तं प्रार्थयेः सखे ।। ४१
इत्यूचिवान्स नागेन्द्रमानीय सरसोऽन्तरे ।
तत्र तस्मै शशश्चन्द्रप्रतिबिम्बमदर्शयत् ।। ४२
तद्दृष्ट्वा दूरतो नत्वा भयात्कम्पसमाकुलः ।
वनं द्विपेन्द्रः स ययौ भूयस्तत्र च नाययौ ।। ४३
प्रत्यक्षं तच्च दृष्ट्वा स शशराजः शिलीमुखः ।
संमान्य तं शशं दूतमवसत्तत्र निर्भयः ।। ४४
इत्युक्त्वा वायसो भूयः पक्षिणस्तानभाषत ।
एवं प्रभुः स्वनाम्नैव यस्य कश्चिन्न बाधते ।। ४५
तदुलूको दिवान्धोऽयं क्षुद्रो राज्यं कुतोऽर्हति ।
क्षुद्रश्च स्यादविश्वास्यस्तत्र चैतां कथां शृणु ।। ४६
कदाचित्क्वापि वृक्षेऽहमवसं तत्र चाप्यधः ।
पक्षी कपिञ्जलो नाम वसति स्म कृतालयः ।। ४७
स कदाचिद्गतः क्वापि यावन्न दिवसान्बहून् ।
आयाति तावत्तन्नीडं तमेत्य शशकोऽवसत् ।। ४८
दिनैः कपिञ्जलोऽत्रागात्ततोऽस्य शशकस्य च ।
नीडो मे तव नेत्येवं विवाद उदभूद्द्वयोः ।। ४९
निर्णेतारं ततः सभ्यमन्वेष्टुं प्रस्थितावुभौ ।
तावहं कौतुकाद्द्रष्टुमन्वगच्छमलक्षितः ।। ५०
गत्वा स्तोकं सरस्तीरेऽहिंसाधृतमृषाव्रतम् ।
ध्यानार्धमीलितदृशं मार्जारं तावपश्यताम् ।। ५१
एतमेव च पृच्छावः किं न्याय्यमिह धार्मिकम् ।
इत्युक्त्वा तौ बिडालं तमुपेत्यैवमवोचताम् ।। ५२
शृणु नौ भगवन्न्यायं तपस्वी त्वं हि धार्मिकः ।
श्रुत्वैतदल्पया वाचा बिडालस्तौ जगाद सः ।। ५३
न शृणोमि तपःक्षामो दूरादायात मेऽन्तिकम् ।
धर्मो ह्यसम्यङ् निर्णीतो निहन्त्युभयलोकयोः ।। ५४
इत्युक्त्वाश्वास्य तावग्रमानीय स बिडालकः ।
उभावप्यवधीत्क्षुद्रः साकं शशकपिञ्जलौ ।। ५५
तदेवं नास्ति विश्वासः क्षुद्रकर्मणि दुर्जने ।
तस्मादुलूको राजायं न कर्तव्योऽतिदुर्जनः ।। ५६
इत्युक्ताः पक्षिणस्तेन वायसेन तथेति ते ।
अभिषेकमुलूकस्य निवार्येतस्ततो ययुः ।। ५७
अद्यप्रभृति यूयं च वयं चान्योन्यशत्रवः ।
स्मर यामीत्युलूकस्तं काकमुक्त्वा क्रुधा ययौ ।। ५८
काकोऽपि युक्तमुक्तं तु मत्वा विग्नस्ततोऽभवत् ।
वाङ्मात्रोत्पादितासह्यवैरात्को नानुतप्यते ।। ५९
एवं वाग्दोषसंभूतं वैरं नः कौशिकैः सह ।
इत्युक्त्वा काकराजं तं चिरजीव्यवदत्पुनः ।। ६०
बहवो बलिनस्ते च जेतुं शक्या न कौशिकाः ।
बहवो हि जयन्तीह शृणु चात्र निदर्शनम् ।। ६१
छागं क्रीतं गृहीत्वांसे ग्रामात्कोऽपि व्रजन्द्विजः ।
बहुभिर्ददृशे मार्गे धूर्तैश्छागं जिहीर्षुभिः ।। ६२
एकश्च तेभ्य आगत्य तमुवाच ससंभ्रमम् ।
ब्रह्मन्कथमयं स्कन्धे गृहीतः श्वा त्वया त्यज ।। ६३
तच्छ्रुत्वा तमनादृत्य स द्विजः प्राक्रमद्यदा ।
ततोऽन्यौ द्वावुपेत्याग्रे तद्वदेव तमूचतुः ।। ६४
ततः ससंशयो यावद्याति च्छागं निरूपयन् ।
तावदन्ये त्रयोऽभ्येत्य तमेवमवदञ्शठाः ।। ६५
कथं यज्ञोपवीतं त्वं श्वानं च वहसे समम् ।
नूनं व्याधो न विप्रस्त्वं हंस्यनेन शुना मृगान् ।। ६६
तच्छ्रुत्वा स द्विजो दध्यौ नूनं भूतेन केनचित् ।
भ्रामितोऽहं दृशं हृत्वा सर्वे पश्यन्ति किं मृषा ।। ६७
इति विप्रः स तं त्यक्त्वा छागं स्नात्वा गृहं ययौ ।
धूर्ताश्च नीत्वा तमजं यथेच्छं समभक्षयन् ।। ६८
इत्युक्त्वा चिरजीवी तं वायसेश्वरमब्रवीत् ।
तदेवं देव बहवो बलवन्तश्च दुर्जयाः ।। ६९
तस्माद्बलिविरोधेऽस्मिन्यदहं वच्मि तत्कुरु ।
किंचिल्लुञ्चितपक्षं मां त्यक्त्वास्यैव तरोरधः ।। ७०
यूयं गिरिमिमं यात कृतार्थो यावदेम्यहम् ।
तच्छ्रुत्वा तं तथेत्यत्र क्रुधेवोल्लुञ्चितच्छदम् ।। ७१
कृत्याधस्तं गिरिं प्रायात्काकराजः स सानुगः ।
चिरजीवी तु तत्रासीत्पतित्वा स्वतरोस्तले ।। ७२
ततस्तत्राययौ रात्रौ सानुगः स उलूकराट् ।
अवमर्दो न चापश्यत्तत्रैकमपि वायसम् ।। ७३
तावत्स चिरजीव्यत्र मन्दं मन्दं विरौत्यधः ।
श्रुत्वा चोलूकराजस्तमवतीर्य ददर्श सः ।। ७४
कस्त्वं किमेवंभूतोऽसीत्यपृच्छत्तं सविस्मयः ।
ततः स चिरजीवी तं रुजेवाल्पस्वरोऽवदत् ।। ७५
चिरजीवीत्यहं तस्य सचिवो वायसप्रभोः ।
स च दातुमवस्कन्दमैच्छत्ते मन्त्रिसंमतम् ।। ७६
ततस्तन्मन्त्रिणोऽन्यांस्तान्निर्भर्त्स्याह तमब्रवम् ।
यदि पृच्छसि मां मन्त्रं यदि चाहं मतस्तव ।। ७७
तन्न कार्यो बलवता कौशिकेन्द्रेण विग्रहः ।
कार्यस्त्वनुनयस्तस्य नीतिं चेदनुमन्यसे ।। ७८
श्रुत्वैतच्छत्रुपक्षोऽयमिति क्रोधात्प्रहृत्य मे ।
स काकः स्वैः समं मित्त्रैर्मूर्खोऽवस्थामिमां व्यधात् ।। ७९
क्षिप्त्वा च मां तरुतले क्वापि सानुचरो गतः ।
इत्युक्त्वा चिरजीवी स श्वसन्नासीदधोमुखः ।। ८०
उलूकराजश्च ततः स पप्रच्छ स्वमन्त्रिणः ।
किमेतस्य विधातव्यमस्माभिश्चिरजीविनः ।। ८१
तच्छ्रुत्वा दीप्तनयनो नाम मन्त्री जगाद तम् ।
अरक्ष्यो रक्ष्यते चौरोऽप्युपकारीति सज्जनैः ।। ८२
तथा हि पूर्वं क्वाप्यासीद्वणिक्कोऽपि स कामपि ।
वृद्धोऽप्यर्थप्रभावेण परिणिन्ये वणिक्सुताम् ।। ८३
सा तस्य शयने नित्यं जरातोऽभूत्पराङ्मुखी ।
व्यतीतपुष्पकालेऽत्र भ्रमरीव तरोर्वने ।। ८४
एकदा चाविशच्चौरो निशि शय्यास्थयोस्तयोः ।
तं दृष्ट्वा सा परावृत्य तमाश्लिष्यत्पतिं भयात् ।। ८५
तमभ्युदयमाश्चर्यं मत्वा यावन्निरीक्षते ।
दिशस्तत्र वणिक्तावत्कोणे चौरं ददर्श तम् ।। ८६
उपकार्यसि मे तत्त्वां न भृत्यैर्घातयाम्यहम् ।
इत्युक्त्वा सोऽथ चौरं तं रक्षित्वा प्राहिणोद्वणिक् ।। ८७
एवं रक्ष्योऽयमस्माकं चिरजीव्युपकारकः ।
इत्युक्त्वा दीप्तनयनो मन्त्री तूष्णीं बभूव सः ।। ८८
ततोऽन्यं वक्रनासाख्यं मन्त्रिणं कौशिकेश्वरः ।
स पृच्छति स्म किं कार्यं सम्यग्वक्तुं भवानिति ।। ८९
वक्रनासस्ततोऽवादीद्रक्ष्योऽयं परमर्मवित् ।
अस्माकमेतयोर्वैरं श्रेयसे स्वामिमन्त्रिणोः ।। ९०
निदर्शनकथा देव श्रूयतामत्र वच्मि ते ।
कश्चित्प्रतिग्रहेण द्वे गावौ प्राप द्विजोत्तमः ।। ९१
तस्य दृष्ट्वाथ चौरस्ते गावौ नेतुमचिन्तयत् ।
तत्कालं राक्षसः कोऽपि तमैच्छत्खादितुं द्विजम् ।। ९२
तदर्थं निशि गच्छन्तौ दैवात्तौ चौरराक्षसौ ।
मिलित्वान्योन्यमुक्तार्थौ तत्र प्रययतुः समम् ।। ९३
अहं धेनू हराम्यादौ त्वद्गृहीतो ह्ययं द्विजः ।
सुप्तो यदि प्रबुद्धस्तद्धरेयं गोयुगं कथम् ।। ९४
मैवं हराम्यहं पूर्वं विप्रं नो चेद्वृथा मम ।
भवेद्गोखुरशब्देन प्रबुद्धेऽस्मिन्परिश्रमः ।। ९५
इति प्रविश्य तद्विप्रसदनं चौरराक्षसौ ।
यावत्तौ कलहायेते तावत्प्राबोधि स द्विजः ।। ९६
उत्थायात्तकृपाणे च तस्मिन्रक्षोघ्नजापिनि ।
ब्राह्मणे जग्मतुश्चौरराक्षसौ द्वौ पलाय्य तौ ।। ९७
एवं तयोर्यथा भेदो हितायाभूद्द्विजन्मनः ।
तथा भेदो हितोऽस्माकं काकेन्द्रचिरजीविनोः ।। ९८
इत्युक्तो वक्रनासेन कौशिकेन्द्रः स्वमन्त्रिणम् ।
तं च प्राकारकर्णाख्यमपृच्छत्सोऽप्युवाच तम् ।। ९९
चिरजीव्यनुकम्प्योऽयमापन्नः शरणागतः ।
शरणागतहेतोः प्राक्स्वमामिषमदाच्छिबिः ।। १००
प्राकारकर्णाच्छ्रुत्वैतत्सचिवं क्रूरलोचनम् ।
उलूकराजः पप्रच्छ सोऽपि तद्वदभाषत ।। १०१
ततो रक्ताक्षनामानं सचिवं कौशिकेश्वरः ।
तथैव परिपप्रच्छ सोऽपि प्राज्ञोऽब्रवीदिदम् ।। १०२
राजन्नपनयेनैतैर्मन्त्रिभिर्नाशितो भवान् ।
प्रतीयन्ते न नीतिज्ञाः कृतावज्ञस्य वैरिणः ।। १०३
मूर्खो दृष्टव्यलीकोऽपि व्याजसान्त्वेन तुष्यति ।
तथा हि तक्षा कोऽप्यासीद्भार्याभूत्तस्य तु प्रिया ।। १०४
तां चान्यपुरुषासक्तां तक्षा बुद्ध्वान्यलोकतः ।
तत्त्वं जिज्ञासमानस्तां भार्यामवददेकदा ।। १०५
प्रिये राजाज्ञया दूरं स्वव्यापाराय याम्यहम् ।
तत्त्वया मम सक्त्वादि पाथेयं दीयतामिति ।। १०६
तथेति दत्तपाथेयस्तया निर्गत्य गेहतः ।
सशिष्यो गुप्तमागत्य तत्रैव प्रविवेश सः ।। १०७
तददृष्टस्तु खट्वायास्तस्थौ शिष्ययुतस्थले ।
साप्यथानाययत्तं स्वं तद्भार्या परपूरुषम् ।। १०८
तेन साकं च खट्वायां रममाणा पतिं पदा ।
स्पृष्ट्वा कथंचित्तं पापा मेने तत्रस्थमेव तम् ।। १०९
क्षणाच्चोपपतिस्तत्र व्याकुलः पृच्छति स्म ताम् ।
ब्रूहि प्रिये किमधिकं प्रियोऽहं तव किं पतिः ।। ११०
तच्छ्रुत्वा कूटकुशला तं जारं निजगाद सा ।
प्रियो मम पतिस्तस्य कृते प्राणांस्त्यजाम्यहम् ।। १११
इदं तु चापलं स्त्रीणां सहजं क्रियतेऽत्र किम् ।
अमेध्यमपि भक्ष्यं स्यान्नासां स्युर्यदि नासिकाः ।। ११२
एतत्तस्या वचः श्रुत्वा कुलटायाः स कृत्रिमम् ।
तुष्टः शय्यातलात्तक्षा निर्गतः शिष्यमभ्यधात् ।। ११३
दृष्टं त्वयाद्य साक्षी त्वं मम भक्तेयमीदृशी ।
अमुमेवाश्रिता कान्तं तदेतां मूर्ध्न्यहं वहे ।। ११४
इत्युक्त्वा सहसोत्क्षिप्य खट्वास्थावेव तावुभौ ।
सशिष्यः स जडो जायातज्जारौ शिरसावहन् ।। ११५
इत्थं प्रत्यक्षदृष्टेऽपि दोषे कपटसान्त्वतः ।
मूर्खस्तुष्यति हास्यत्वं निर्विवेकश्च गच्छति ।। ११६
तदेष चिरजीवी ते रक्ष्यो नारिपरिग्रहः ।
उपेक्षितो ह्ययं देव हन्याद्रोग इव द्रुतम् ।। ११७
इति रक्ताक्षतः श्रुत्वा कौशिकेन्द्रोऽब्रवीत्स तम् ।
कुर्वन्नस्मद्धितं साधुः प्राप्तोऽवस्थामिमामयम् ।। ११८
तत्कथं स्यान्न संरक्ष्यः किं कुर्यादेककश्च नः ।
इति तत्स निराचक्रे मन्त्रिवाक्यमुलूकराट् ।। ११९
आश्वासयामास च तं वायसं चिरजीविनम् ।
ततः स चिरजीवी तमुलूकेशं व्यजिज्ञपत् ।। १२०
किं ममैतदवस्थस्य जीवितेन प्रयोजनम् ।
तन्मे दापय काष्ठानि यावदग्निं विशाम्यहम् ।। १२१
उलूकयोनिं च वरं प्रार्थयेऽहं हुताशनम् ।
तर्तुं वायसराजस्य तस्य वैरप्रतिक्रियाम् ।। १२२
इत्युक्तवन्तं विहसन्रक्ताक्षो निजगाद तम् ।
अस्मत्प्रभोः प्रसादात्त्वं स्वस्थ एव किमग्निना ।। १२३
न च त्वं कौशिको भावी यावत्काकत्वमस्ति ते ।
यादृशो यः कृतो धात्रा भवेत्तादृश एव सः ।। १२४
तथा च प्राङ्मुनिः कश्चिच्छयेनहस्तच्युतं शिशुम् ।
मूषिकां प्राप्य कृपया कन्यां चक्रे तपोबलात् ।। १२५
वर्धितामाश्रमे तां च स दृष्ट्वा प्राप्तयौवनाम् ।
मुनिर्बलवते दातुमिच्छन्नादित्यमाह्वयत् ।। १२६
बलिने दित्सितामेतां कन्यां परिणयस्व मे ।
इत्युवाच स चर्षिस्तं ततस्तं सोऽब्रवीद्रविः ।। १२७
मत्तोऽपि बलवान्मेघः स मां स्थगयति क्षणात् ।
तच्छ्रुत्वा तं विसृज्यार्कं मेघमाहूतवान्मुनिः ।। १२८
तं तथैव च सोऽवादीत्तेनाप्येवमवादि सः ।
मत्तोऽपि बलवान्वायुर्यो विक्षिपति दिक्षु माम् ।। १२९
इत्युक्ते तेन स मुनिर्वायुमाह्वयति स्म तम् ।
स तथैव च तेनोक्तस्तमेवमवदन्मरुत् ।। १३०
मयापि ये न चाल्यन्ते मत्तस्ते बलिनोऽद्रयः ।
श्रुत्वैतदेकं शैलेन्द्रमाह्वयन्मुनिसत्तमः ।। १३१
तथैव यावत्तं वक्ति तावत्सोऽद्रिर्जगाद तम् ।
मूषका बलिनो मत्तो ये मे छिद्राणि कुर्वते ।। १३२
इति क्रमेण प्रत्युक्तो दैवतैर्ज्ञानिभिः स तैः ।
महर्षिराजुहावैकं मूषकं वनसंभवम् ।। १३३
कन्यां वहैतामित्युक्तस्तेनोवाच स मूषकः ।
कथं प्रवेक्ष्यति बिलं ममैषा दृश्यतामिति ।। १३४
पूर्ववन्मूषिकैवास्तु वरमित्यथ स ब्रुवन् ।
मुनिस्तां मूषिकां कृत्वा तस्मै प्रायच्छदाखवे ।। १३५
एवं सुदूरं गत्वापि यो यादृक्तादृगेव सः ।
तदुलूको न जातु त्वं चिरजीविन्भविष्यसि ।। १३६
इत्युक्तश्चिरजीवी स रक्ताक्षेण व्यचिन्तयत् ।
नीतिज्ञस्य न चैतस्य राज्ञानेन कृतं वचः ।। १३७
शेषा मूर्खा इमे सर्वे तत्कार्यं सिद्धमेव मे ।
इति संचिन्तयन्तं तमादाय चिरजीविनम् ।। १३८
अविचार्यैव रक्ताक्षवाक्यं तद्बलगर्वितः ।
उलूकराजः स ययाववमर्दो निजं पदम् ।। १३९
चिरजीवी च तद्दत्तमांसाद्यशनपोषितः ।
तत्पार्श्वस्थोऽचिरेणैव बर्हीवाभूत्सुपक्षतिः ।। १४०
एकदा तमुलूकेन्द्रमवदद्देव याम्यहम् ।
आश्वास्य काकराजं तमानयामि स्वमास्पदम् ।। १४१
येन रात्रौ निपत्याद्य युष्माभिः स निहन्यते ।
अहं भजामि चैतस्य त्वत्प्रसादस्य निष्कृतिम् ।। १४२
यूयं तृणाद्यैराच्छाद्य द्वारं नीडगृहान्तरे ।
दिवा तदापातभयात्सर्वे तिष्ठन्तु रक्षिताः ।। १४३
इत्युक्त्वा तृणपर्णादिच्छन्नद्वारगुहागतान् ।
कृत्वोलूकान्ययौ पार्श्वं चिरजीवी निजप्रभोः ।। १४४
तद्युक्तश्चाययावात्तवह्निदीप्तचितोल्मुकः ।
चञ्च्वा प्रलम्बितैकैककाष्ठिकैः सह वायसैः ।। १४५
आगत्यैव दिवान्धानां तेषां छन्नं तृणादिभिः ।
उलूकानां गुहाद्वारं ज्वालयामास वह्निना ।। १४६
प्राक्षिपत्तद्वदेकैकस्तदानीं ताश्च काष्ठिकः ।
समिध्याग्निं ददाहात्र तानुलूकान्सराजकान् ।। १४७
विनाश्य शत्रुं काकेन्द्रस्तद्युक्तोऽथ तुतोष सः ।
समं काककुलेनागान्निजं न्यग्रोधपादपम् ।। १४८
तत्राख्याय द्विषन्मध्यवासवृत्तान्तमात्मनः ।
काकेन्द्रं मेघवर्णं तं चिरजीव्यब्रवीदिदम् ।। १४९
रक्ताक्ष एव सन्मन्त्री तस्यासीत्त्वद्रिपोः प्रभो ।
तस्यैवाकुर्वता वाक्यं मदान्धेनास्त्युपेक्षितः ।। १५०
यदस्याकारणं मत्वा वचनं नाकरोच्छठः ।
अतः सोऽपनयी मूर्खो मया विश्वास्य वञ्चितः ।। १५१
व्याजानुवृत्त्या विश्वास्य मण्डूका अहिना यथा ।
वृद्धः कश्चित्सुखं प्राप्तुमशक्तः पुरुषाश्रये ।। १५२
भेकानहिः सरस्तीरे तस्मिंस्तस्थौ सुनिश्चलः ।
तथास्थितं च तं भेकाः पप्रच्छुर्दूरवर्तिनः ।। १५३
ब्रूहि किं पूर्ववन्नास्मानश्नात्यद्य भवानिति ।
इति पृष्टस्तदा भेकैः स तैः प्रोवाच पन्नगः ।। १५४
मया ब्राह्मणपुत्रस्य मण्डूकमनुधावता ।
भ्रान्त्या दष्टो बताङ्गुष्ठः स च पञ्चत्वमाययौ ।। १५५
तत्पित्रा चास्मि शापेन भेकानां वाहनीकृतः ।
तद्युष्मान्कथमश्नामि प्रत्युताहं वहामि वः ।। १५६
तच्छ्रुत्वा तत्र भेकानां राजा वाहसमुत्सुकः ।
जलादुत्तीर्य तत्पृष्ठमारोहद्गतभीर्मुदा ।। १५७
ततस्तं वाहनसुखैरावर्ज्य सचिवैर्युतम् ।
कृत्वावसन्नमात्मानमुवाच स सकैतवः ।। १५८
आहारेण विना देव न गन्तुमहमुत्सहे ।
तन्मे देह्यशनं भृत्यो ह्यवृत्तिर्वर्तते कथम् ।। १५९
तच्छ्रुत्वा भेकराजस्तमवोचद्वाहनप्रियः ।
कांश्चित्परिमितांस्तर्हि भुङ्क्ष्व मेऽनुचरानिति ।। १६०
ततः क्रमात्स मण्डूकानहिः स्वेच्छमभक्षयत् ।
तद्वाहनाभिमानान्धः सेहे भेकपतिः स तत् ।। १६१
एवं मध्यप्रविष्टेन मूर्खः प्राज्ञेन वञ्च्यते ।
मयाप्यनुप्रविश्यैवं देव त्वद्रिपवो हताः ।। १६२
तस्मान्नीतिविदा राज्ञा भवितव्यं कृतात्मना ।
यथेच्छं भुज्यते भृत्यैर्हन्यते च परैर्जडः ।। १६३
श्रीरियं च सदा देव द्यूतलीलेव सच्छला ।
वारिवीचीव चपला मदिरेव विमोहिनी ।। १६४
सा धीरस्य सुमन्त्रस्य राज्ञो निर्व्यसनस्य च ।
विशेषज्ञस्य सोत्साहा पाशबद्धेव तिष्ठति ।। १६५
तदिदानीमवहितस्त्वं विद्वद्वचने स्थितः ।
निहतारातिसुखितः शाधि राज्यमकण्टकम् ।। १६६
इत्युक्तो मन्त्रिणा मेघवर्णः स चिरजीविना ।
संमान्य तं काकराजश्चक्रे राज्यं तथैव तम् ।। १६७
इत्युक्त्वा गोमुखो भूयो वत्सेशसुतमभ्यधात् ।
तदेवं प्रज्ञया राज्यं तिर्यग्भिरपि भुज्यते ।। १६८
निष्प्रज्ञास्त्ववसीदन्ति लोकोपहसिताः सदा ।
तथा च जडधीर्भृत्यो बभूवाढ्यस्य कस्यचित् ।। १६९
सोऽजानन्नपि तस्याङ्गे जानामीत्यभिमानतः ।
स्फारं ददौ मौर्ख्यबलात्प्रभोस्त्वचमपाटयत् ।। १७०
ततस्तेन परित्यक्तः स्वामिनावससाद सः ।
अजानानो हठात्कुर्वन्प्राज्ञमानी विनश्यति ।। १७१
इदं च श्रूयतामन्यन्मालवे भ्रातरावुभौ ।
विप्रावभूतामद्वैधं तयोः पित्र्यमभूद्धनम् ।। १७२
विभज्यमाने चार्थेऽस्मिन्न्यूनाधिकविवादिनौ ।
स्थेयीकृत उपाध्यायश्छान्दसस्तावभाषत ।। १७३
वस्तु वस्तु समे द्वे द्वे अर्धे कृत्वा विभज्यताम् ।
युवाभ्यां येन नैव स्यान्न्यूनाधिककृतः कलिः ।। १७४
तच्छ्रुत्वा वेश्मशय्यादिभाण्डं सर्वं पशूनपि ।
एकमेकं द्विधा कृत्वा मूढौ विभजतः स्म तौ ।। १७५
एका दासी तयोरासीत्सापि ताभ्यां द्विधा कृता ।
तद्बुद्ध्वा दण्डितौ राज्ञा सर्वस्वं तावुभावपि ।। १७६
द्वौ लोकौ नाशयन्त्येवं मूर्खा मूर्खोपदेशतः ।
तस्मान्मूर्खान्न सेवेत प्राज्ञः सेवेत पण्डितान् ।। १७७
असंतोषोऽपि दोषाय तथा चेदं निशम्यताम् ।
आसन्प्रव्राजकाः केचिद्भिक्षासंतोषपीवराः ।। १७८
तान्दृष्ट्वा पुरुषाः केचिदन्योन्यं सुहृदोऽब्रुवन् ।
अहो भिक्षाशिनोऽप्येते पीनाः प्रव्राजका इति ।। १७९
एकस्तेषु ततोऽवादीत्कौतुकं दर्शयामि वः ।
अहं कृशीकरोम्येतान्भुञ्जानानपि पूर्ववत् ।। १८०
इत्युक्त्वा स निमन्त्र्यैतान्क्रमात्प्रव्राजकान्गृहे ।
एकाहं भोजयामास षड्रसाहारमुत्तमम् ।। १८१
तेऽथ मूर्खास्तदास्वादं स्मरन्तो भैक्षभोजनम् ।
न तथाभिलषन्ति स्म तेन दुर्बलतां ययुः ।। १८२
ततः प्रदर्श्य सुहृदां दृष्ट्वा तत्संनिधौ च तान् ।
प्रव्राजकांस्तदाहारदायी स पुरुषोऽब्रवीत् ।। १८३
तदा भैक्षेण संतुष्टा हृष्टपुष्टा इमेऽभवन् ।
अधुना तदसंतोषदुःखाद्दुर्बलतां गताः ।। १८४
तस्मात्प्राज्ञः सुखं वाच्छन्संतोषे स्थापयेन्मनः ।
लोकद्वयेऽप्यसंतोषो दुःसहाश्रान्तदुःखदः ।। १८५
इति तेनानुशिष्टास्ते सुहृदो दुष्कृतास्पदम् ।
असंतोषं जहुः कस्य सत्सङ्गो न भवेच्छुभः ।। १८६
अयं सुवर्णमुग्धश्च देवेदानीं निशम्यताम् ।
पुमान्कश्चिज्जलं पातुं तडागमगमद्युवा ।। १८७
स जडोऽनोकहस्थस्य स्वर्णचूडस्य पक्षिणः ।
सुवर्णवर्णं तत्राम्भस्यपश्यत्प्रतिबिम्बकम् ।। १८८
सुवर्णमिति मत्वा तद्ग्रहीतुं प्रविवेश तम् ।
तडागं न च तत्प्राप दृष्टनष्टं चले जले ।। १८९
आरुह्मारुह्य च जले स तत्पश्यन्प्रविश्य तत् ।
पुनःपुनस्तडागाम्भो जिघृक्षुर्नाप किंचन ।। १९०
पित्रा च स्वेन दृष्टोऽथ पृष्टो निन्ये गृहं जडः ।
तां दृष्ट्वा प्रतिमां तोये खगं विद्राव्य बोधितः ।। १९१
निर्विमर्शा मृषाज्ञानैर्मुह्यन्त्येवमबुद्धयः ।
उपहास्याः परेषां च शोच्याः स्वेषां भवन्ति च ।। १९२
अयं चान्यो महामूर्खवृत्तान्तोऽत्र निशम्यताम् ।
कस्याप्युष्ट्रोऽवसन्नोऽभूद्भारेण वणिजोऽध्वनि ।। १९३
स भृत्यानब्रवीत्कंचिदुष्ट्रं गत्वान्यमानये ।
क्रीत्वाहं योऽस्य करभस्यार्धं भारादितो हरेत् ।। १९४
मेघागमे यथावस्त्रपेटास्वेतासु न स्पृशेत् ।
अम्भश्चर्माणि युष्माभिस्तथा कार्यमिह स्थितैः ।। १९५
इत्युष्ट्रपार्श्वेऽवस्थाप्य भृत्यांस्तस्मिंस्ततो गते ।
वणिज्यकस्मादुन्नम्य प्रारेभे वर्षितुं घनः ।। १९६
तथा कार्यं यथा नाम्भः पेटाचर्माणि संस्पृशेत् ।
इति नः स्वामिना प्रोक्तमित्यालोच्याथ ते जडाः ।। १९७
कृष्ट्वा वस्त्राणि पेटाभ्यस्तैस्ते तान्यभ्यवेष्टयन् ।
चर्माणि तेन वस्त्राणि विनेशुस्तेन वारिणा ।। १९८
पापाः किमत्र सकलो वस्त्रौघो नाशितोऽम्भसा ।
इत्यागतोऽथ स वणिक्क्रुद्धो भृत्यानभाषत ।। १९९
त्वयैवादिष्टमुदकात्पेटाचर्माभिरक्षणम् ।
दोषस्तत्र च कोऽस्माकमिति तेऽपि तमभ्यधुः ।। २००
चर्मस्वार्द्रेषु नश्यन्ति वस्त्राणीति मयोदितम् ।
वस्त्राणामेव रक्षार्थमुक्तं वो न तु चर्मणाम् ।। २०१
इत्युक्त्वा चान्यकरभन्यस्तभारो वणिक्ततः ।
स गत्वा स्वगृहं भृत्यान्सर्वस्वं तानदण्डयत् ।। २०२
एवमज्ञातहृदया मूर्खाः कृत्वा विपर्ययम् ।
घ्नन्ति स्वार्थं परार्थं च तादृग्ददति चोत्तरम् ।। २०३
अयं चापूपिकामुग्धः संक्षेपेण निशम्यताम् ।
क्रीणाति स्माध्वगः कश्चित्पणेनाष्टावपूपकान् ।। २०४
तेषां च यावत्षड्भुङ्क्ते तावन्मेने न तृप्तताम् ।
सप्तमेनाथ भुक्तेन तृप्तिस्तस्योदपद्यत ।। २०५
ततश्चक्रन्द स जडो मुषितोऽस्मि न किं मया ।
एष एवादितो भुक्तोऽपूपो येनास्मि तर्पितः ।। २०६
नाशिताः किं वृथैवान्ये मया हस्ते न किं कृताः ।
इति शोचन्क्रमात्तृप्तिमजानञ्जहसे जनैः ।। २०७
......... ।
. ... ।। २०८
कश्चिद्दासो हि वणिजा मूर्खः केनाप्यभण्यत ।
रक्षेस्त्वं विपणीद्वारं क्षणं गेहं विशाम्यहम् ।। २०९
इत्युक्तवति यातेऽस्मिन्वणिजि द्वारपट्टकम् ।
विपणीतो गृहीत्वांसे दासो द्रष्टुमगान्नटन् ।। २१०
आगच्छंश्च ततो दृष्ट्वा वणिजा तेन भर्त्सितः ।
त्वदुक्तं रक्षितं द्वारं मयेदमिति सोऽब्रवीत् ।। २११
इत्यनर्थाय शब्दैकपरोऽतात्पर्यविज्जडः ।
एवं च महिषीमुग्धमपूर्वं शृणुताधुना ।। २१२
कस्यचिन्महिषः कैश्चिद्ग्राम्यैर्ग्रामस्य बाह्यतः ।
नीत्वा वटतलं भिल्लवाटे व्यापाद्य भक्षितः ।। २१३
तेन गत्वाथ विज्ञप्तो महिषस्वामिना नृपः ।
ग्राम्यानानाययामास स तान्महिषभक्षकान् ।। २१४
तत्समक्षं स राजाग्रे महिषस्वाम्यभाषत ।
तडागनिकटे देव नीत्वा वटतरोरधः ।। २१५
एभिर्मे महिषो हत्वा भक्षितः पश्यतो जडैः ।
तच्छ्रुत्वान्येषु तेष्वेको वृद्धमूर्खोऽब्रवीदिदम् ।। २१६
तडाग एव नास्त्यस्मिन्ग्रामे न च वटः क्वचित् ।
मिथ्या वक्त्येष महिषः क्व हतो भक्षितोऽस्य वा ।। २१७
श्रुत्वैतन्महिषस्वामी सोऽब्रवीन्नास्ति किं वटः ।
तडागश्च स पूर्वस्यां दिशि ग्रामस्य तस्य वः ।। २१८
अष्टम्यां च स युष्माभिर्भक्षितो महिषोऽत्र मे ।
इत्युक्तस्तेन स पुनर्वृद्धमूर्खोऽब्रवीदिदम् ।। २१९
पूर्वा दिगेव नास्त्यस्मद्ग्रामे नाप्यष्टमी तिथिः ।
एतच्छ्रुत्वा हसन्राजा तमाहोत्साहयञ्जडम् ।। २२०
त्वं सत्यवादी नासत्यं किंचिद्वदसि तन्मम ।
सत्यं ब्रूहि स युष्माभिः किं भुक्तो महिषो न वा ।। २२१
एतच्छ्रुत्वा जडोऽवादीन्मृते पितरि वत्सरैः ।
त्रिभिर्जातोऽस्मि तेनैव शिक्षितोऽस्म्युक्तिपाटवम् ।। २२२
तदसत्यं महाराज न कदाचिद्वदाम्यहम् ।
भुक्तोऽस्य महिषोऽस्माभिरन्यद्वक्ति मृषा ह्यसौ ।। २२३
श्रुत्वैतत्सानुगो राजा हासं रोद्धुं स नाशकत् ।
निर्यात्य महिषं तस्य तांश्च ग्राम्यानदण्डयत् ।। २२४
इत्यगुह्यं निगूहन्ते गुह्यं प्रकटयन्ति च ।
मौर्ख्याभिमानेनादातुं मूर्खाः प्रत्ययमात्मनि ।। २२५
कंचिद्दरिद्रं गृहिणी चण्डी मूर्खमभाषत ।
प्रातः पितृगृहं यास्याम्युत्सवेऽस्मि निमन्त्रिता ।। २२६
तत्त्वयोत्पलमालैका नानीता चेत्कुतोऽपि मे ।
तन्न भार्यास्मि तेनापि भर्ता मम भवानिति ।। २२७
ततस्तदर्थं रात्रौ स राजकीयसरो ययौ ।
तत्प्रविष्टश्च कोऽसीति दृष्ट्वापृच्छ्यत रक्षकैः ।। २२८
चक्राह्वोऽस्मीति च वदन्बद्ध्वा नीतः प्रगे स तैः ।
राजाग्रे पृच्छ्यमानश्च चक्रवाकरुतं व्यधात् ।। २२९
ततः स राज्ञा कथितः स्वयं पृष्टोऽनुबन्धतः ।
मूर्खः कथितवृत्तान्तो मुक्तो दीनो दयालुना ।। २३०
कश्चिच्च मूढधीर्वैद्यः केनाप्यूचे द्विजन्मना ।
ककुदं मम पुत्रस्य कुब्जस्याभ्यन्तरं नय ।। २३१
एतच्छ्रुत्वाब्रवीद्वैद्यो दश देहि पणान्मम ।
ददामि ते दशगुणान्साधयामि न चेदिदम् ।। २३२
एवं कृत्वा पणं तस्माद्गृहीत्वा तान्पणान्द्विजात् ।
स तं स्वेदादिभिः कुब्जमरुजत्केवलं भिषक् ।। २३३
न चाशकत्स्पष्टयितुं ददौ दशगुणान्पणान् ।
को हि कुब्जमृजूकर्तुं शक्नुयादिह मानुषम् ।। २३४
हासायैवमशक्यार्थप्रतिज्ञानविकत्थनम् ।
तदीदृशैर्मूढमार्गैः संचरेत न बुद्धिमान् ।। २३५
इति भद्रमुखात्स गोमुखाख्यात्सचिवान्मुग्धकथां निशम्य रात्रौ ।
नरवाहनदत्तराजपुत्रः सुमतिः प्रीतमनास्तुतोष तस्मै ।। २३६
अभजच्च स तत्कथाविनोदाच्छनकैः शक्तियशःसमुत्सुकोऽपि ।
शयनीयमुपागतोऽथ निद्रां सवयोभिः सहितो निजैर्वयस्यैः ।। २३७
इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे शक्तियशोलम्बके षष्ठस्तरङ्गः ।