प्रमुखा विकल्पसूचिः उद्घाट्यताम्

ततः प्रातः प्रबुद्धस्तां स शक्तियशसं प्रियाम् ।
नरवाहनदत्तोऽत्र ध्यायन्व्याकुलतां ययौ ।। १
तद्विवाहावधेः शेषं मासस्य युगसंनिभम् ।
मन्वानो न रतिं लेभे नवोढोत्केन चेतसा ।। २
तद्बुद्ध्वा गोमुखमुखात्स्नेहात्तस्य पितान्तिकम् । ।
वत्सराजः स्वसचिवान्प्राहिणोत्सवसन्तकान् ।। ३
तद्गौरवात्तधैर्ये च तस्मिन्वत्सेश्वरात्मजे ।
विदग्धो गोमुखो मन्त्री वसन्तकमुवाच तम् ।। ४
युवराजमनस्तुष्टिकरीमार्यवसन्तक ।
विचित्रां कांचिदाख्याहि कथामभिनवामिति ।। ५५
ततो वसन्तको धीमान्कथां वक्तुं प्रचक्रमे ।
मालवे श्रीधरो नाम प्रख्यातोऽभूद्द्विजोत्तमः ।। ६
उत्पद्येते स्म तस्य द्वौ सदृशौ यमजौ सुतौ ।
ज्येष्ठो यशोधरो नाम तस्य लक्ष्मीधरोऽनुजः ।। ७
यौवनस्थौ च तौ विद्याप्राप्तये भ्रातरावुभौ ।
देशान्तरं प्रतस्थाते सहितौ पितृसंज्ञया ।। ८
क्रमात्पथि व्रजन्तौ च प्रापतुस्तौ महाटवीम् ।
अजलामतरुच्छायां संतप्तसिकताचिताम् ।। ९
तत्र यान्तौ परिक्लान्तावातपेन तृषा च तौ ।
एकं सफलसच्छायं सायं संप्रापतुस्तरुम् ।। १०
मूले तस्य तरोश्चैकां वापीं पृथगवस्थिताम् ।
शीतलस्वच्छसलिलां कमलामोदवासिताम् ।। ११
तस्यां स्नात्वा कृताहारौ पीतशीताम्बुनिर्वृतौ ।
शिलापट्टोपविष्टौ च क्षणं विश्राम्यतः स्म तौ ।। १२
अस्तं गते रवौ संध्यामुपास्य प्राणिनां भयात् ।
नेतुं निशां भ्रातरौ तौ तमारुरुहतुस्तरुम् ।। १३
निशामुखे च तत्राधो वाप्यास्तस्माज्जलान्तरात् ।
उद्गच्छन्ति स्म पुरुषा बहवः पश्यतोस्तयोः ।। १४
तेषां चाशोधयत्कश्चिद्भूमिं तां कश्चिदालिपत् ।
कश्चिच्च तत्र पुष्पाणि पञ्चवर्णान्यवाकिरत् ।। १५५
कश्चित्कनकपर्यङ्कमानीयात्र न्यवेशयत् ।
कश्चित्तस्तार तस्मिंश्च तूलिकां प्रच्छदोत्तराम् ।। १६
केचित्पुष्पाङ्गरागादि पानमाहारमुत्तमम् ।
आनीय स्थापयामासुरेकदेशे तरोस्तले ।। १७
ततो वापीतलात्तस्माद्रूपेण जितमन्मथः ।
उदगात्पुरुषः खड्गी दिव्याभरणभूषितः ।। १८
तस्मिंस्तत्रासनासीने क्लृप्तमाल्यानुलेपनाः ।
सर्वे परिजनास्तस्यां वाप्यामेव ममज्जिरे ।। १९
अथोज्जगार स सुखादेकां भव्याकृतिं प्रियाम् ।
विनीतवेषां मङ्गल्यमाल्याभरणधारिणीम् ।। २०
द्वितीयां चातिरूपाढ्यां सद्वस्त्राभरणोज्ज्वलाम् ।
ते च भार्ये उभे तस्य पश्चिमा वल्लभा पुनः ।। २१
ततोऽत्र रत्नपात्राणि न्यस्य पात्रद्वये तयोः ।
भर्तुः सपन्याश्चाहारं पानं चोपानयत्सती ।। २२
तयोर्भुक्तवतोः सापि बुभुजे सोऽथ तत्पतिः ।
पर्यङ्कशयनं भेजे तया साकं द्वितीयया ।। २३
अनुभूय रतिक्रीडासुखं निद्रां जगाम सः ।
आद्या च भार्या सा तस्य पादसंवाहनं व्यधात् ।। २४
द्वितीया साप्यनिद्रैव तस्याभूच्छयने प्रिया ।
दृष्ट्वैतत्तौ विप्रपुत्रौ तरुस्थावूचतुर्मिथः ।। २५
कोऽयं स्यादवतीर्यैतत्पादसंवाहिकामिमाम् ।
एतस्य किल पृच्छावः सर्वे ह्यविकृता अमी ।। २६
अवतीर्याथ तौ यावदाद्यां तामुपसर्पतः ।
यशोधरं तयोस्तावद्द्वितीया सा ददर्श तम् ।। २७
उत्थाय शयनात्पत्युः सुप्तस्योद्दामचापला ।
तमुपेत्य सुरूपं सा मां भजस्वेत्यभाषत ।। २८
पापे त्वं परदारा मे तवाहं परपूरुषः ।
तत्किमेवं ब्रवीषीति तेनोक्ता साब्रवीत्पुनः ।। २९
त्वादृशानां शतेनाहं संगता किं भयं तव ।
न चेत्प्रत्येषि पश्यैतदङ्गुलीयशतं मम ।। ३०
एकैकमङ्गुलीयं हि हृतमेकैकतो मया ।
इत्युक्त्वा स्वाञ्चलात्तस्मायङ्गुलीयान्यदर्शयत् ।। ३१
ततो यशोधरोऽवादीत्संगच्छस्व शतेन वा ।
लक्षेण वा मम त्वं तु माता नाहं तथाविधः ।। ३२
एवं निराकृता तेन सा प्रबोध्य पतिं क्रुधा ।
यशोधरं तं संदर्श्य जगाद रुदती शठा ।। ३३
अनेन पाप्मना सुप्ते त्वय्यहं ध्वंसिता बलात् ।
तच्छ्रुत्वैव स उत्तस्थौ खड्गमाकृष्य तत्पतिः ।। ३४
अथान्या सा सती भार्या तं गृहीत्वैव पादयोः ।
अब्रवीन्मा कृथा मिथ्या पापं शृणु वचो मम ।। ३५
अनया पापया दृष्ट्वा त्वत्पार्श्वोत्थितया हठात् ।
अर्थितोऽयं वचो नास्याः साधुस्तत्प्रत्यपद्यत ।। ३६
माता मम त्वमित्युक्त्वा यदनेन निराकृता ।
प्राबोधयदमर्षात्त्वां वधायैतस्य कोपतः ।। ३७
अनया मत्समक्षं च रात्रिष्विह तरौ स्थिताः ।
हृताङ्गुलीयका भुक्ताः शतसंख्याः प्रभोऽध्वगाः ।। ३८
द्वेषसंभावनभयान्मया चोक्तं न जातु ते ।
अद्य त्वत्पापभीत्यैवमवाच्यमहमब्रवम् ।। ३९
वस्त्राञ्चलेऽङ्गुलीयानि पश्यास्याः प्रत्ययो न चेत् ।
न चैष मे सतीधर्मो यद्भर्तर्यनृतं वचः ।। ४०
सतीत्वप्रत्ययायेमं प्रभावं पश्य मे प्रभो ।
इत्युक्त्वा भस्म चक्रे सा तरुं तं क्रोधवीक्षितम् ।। ४१
प्रसाददृष्टं च पुनस्तं पूर्वाभ्यधिकं व्यधात् ।
तद्दृष्ट्वा स चिराद्भर्ता तुष्टस्तामुपगूढवान् ।। ४२
निरास च द्वितीयां तां छित्त्वा नासां कुगेहिनीम् ।
अङ्गुलीयानि संप्राप्य तद्वस्त्रान्तात्स तत्पतिः ।। ४३
क्षमयामास किल तं दृष्ट्वाध्ययनपाठकम् ।
यशोधर भ्रातृयुतं सनिर्वेदो जगाद च ।। ४४
भार्ये हृदि निधायैते रक्ष्यामीर्ष्यावशात्सदा ।
तथाप्येषा न शकिता पापैका रक्षितुं मया ।। ४५
विद्युतं कः स्थिरीकुर्यात्को रक्षेच्चपलां स्त्रियम् ।
साध्वी यदि परं स्वेन शीलेनैकेन रक्ष्यते ।। ४६
तद्रक्षिता सा भर्तारं रक्षत्युभयलोकयोः ।
यथानया शापवरक्षमयाद्यास्मि रक्षितः ।। ४७
एतत्प्रसादात्कुलटासंगमोऽपगतो मम ।
न चोपनतमत्युग्रं सद्विप्रवधपातकम् ।। ४८
इत्युक्त्वा स तमप्राक्षीदुपवेश्य यशोधरम् ।
आगतौ स्थः कुतः कुत्र व्रजथः कथ्यतामिति ।। ४९
ततो यशोधरस्तस्मै स्ववृत्तान्तं निवेद्य सः ।
विश्वासं प्राप्य पप्रच्छ तमप्येवं कुतूहलात् ।। ५०
न रहस्यं महाभाग यदि तद्ब्रूहि मेऽधुना ।
कस्त्वमीदृशि भोगेऽपि किं च ते जलवासिता ।। ५१
तच्छ्रुत्वा श्रूयतां वच्मीत्युक्त्वा स पुरुषस्तदा ।
जलवासी स्ववृत्तान्तमेवं वक्तुं प्रचक्रमे ।। ५२
हिमवद्दक्षिणो देशः कश्मीराख्योऽस्ति यं विधिः ।
स्वर्गकौतूहलं कर्तुं मर्त्यानामिव निर्ममे ।। ५३
यत्र विस्मृत्य कैलासश्वेतद्वीपसुरवस्यितिम् ।
स्वयंभुवौ स्थानशतान्यध्यासाते हराच्युतौ ।। ५४
वितस्ताजलपूतो यः शूरविद्वज्जनाकुलः ।
अजेयश्छलदोषाणां द्विषतां बलिनामपि ।। ५५
तत्राहं भवशर्माख्यो ग्रामवासी किलाभवम् ।
द्विजातिपुत्रः सामान्यो द्विभार्यः पूर्वजन्मनि ।। ५६
सोऽहं कदाचित्संजातसंस्तवो भिक्षुभिः सह ।
उपोषणाख्यं नियमं तच्छास्त्रोक्तं गृहीतवान् ।। ५७
तस्मिन्समाप्तप्राये च नियमे शयने मम ।
पापा हठादुपेत्यैका भार्या सुप्तवती किल ।। ५८
तुर्ये तु यामे विस्मृत्य तद्व्रते तन्निषेवणम् ।
निद्रामोहात्तया साकं रतं सेवितवानहम् ।। ५९
तन्मात्रखण्डिते तस्मिन्व्रतेऽहं जलपूरुषः ।
इहाद्य जातस्ते द्वे च भार्ये जाते इहापि मे ।। ६०
एका सा कुलटा पापा द्वितीयेयं पतिव्रता ।
खण्डितस्यापि तस्येदृक्प्रभावो नियमस्य मे ।। ६१
जातिं स्मरामि यद्यच्च रात्रौ भोगा ममेदृशाः ।
यदि नाखण्डयिष्यं तदिदं स्यान्मे न जन्म तत् ।। ६२
इत्याख्याय स्ववृत्तान्तमतिथी तावपूजयत् ।
समृष्टभोजनैर्दिव्यवस्त्रैश्च भ्रातरावुभौ ।। ६३
ततोऽस्य सा सती भार्या पूर्ववृत्तमवेत्य तत् ।
विन्यस्य जानुनी भूमाविन्दुं पश्यन्त्यभाषत ।। ६४
भो लोकपालाः सत्यं चेदहं साध्वी पतिव्रता ।
तदम्बुवासमुक्तोऽद्य स्वर्गं यात्वेष मे पतिः ।। ६५
इत्युक्तवत्यामेवास्यां खाद्विमानमवातरत् ।
तदारूढौ च तौ स्वर्गं दंपती सह जग्मतुः ।। ६६
असाध्यं सत्यसाध्वीनां किमस्ति हि जगत्त्रये ।
तौ च विप्रौ तदालोक्य विस्मयं ययतुः परम् ।। ६७
नीत्वा च रात्रिशेषं तं प्रभाते स यशोधरः ।
लक्ष्मीधरश्च विप्रौ तौ भ्रातरौ प्रस्थितौ ततः ।। ६८
सायं च निर्जनारण्ये वृक्षमूलमवापतुः ।
जलप्रेप्सू च तस्मात्तौ वृक्षाच्छुश्रुवतुर्गिरम् ।। ६९
हे विप्रौ तिष्ठत तावदहमद्य करोमि वाम् ।
स्नानान्नपानैरातिथ्यं गृहं मे ह्यागतौ युवाम् ।। ७०
इत्युक्त्वा व्यरमद्वाक जज्ञे तत्राम्बुवापिका ।
अथोपतस्थे तत्तीरे विचित्रं पानभोजनम् ।। ७१
किमेतदिति साश्चर्यौ ततस्तौ द्विजपुत्रकौ ।
स्नात्वा वाप्यां यथाकाममाहाराद्यत्र चक्रतुः ।। ७२
ततः संध्यामुपास्यैतौ यावत्तरुतले स्थितौ ।
तावच्च कान्तः पुरुषस्तरोस्तस्मादवातरत् ।। ७३
स चाभिवादितस्ताभ्यां विहितस्वागतः क्रमात् ।
उपविष्टो द्विजातिभ्यां को भवानित्यपृच्छ्यत ।। ७४
ततः स पुरुषोऽवादीत्पुराहं दुर्गतो द्विजः ।
अभूवं तस्य मे जाता दैवाच्छ्रमणसंगतिः ।। ७५
कुर्वंस्तदुपदिष्टं च जातु व्रतमुपोषणम् ।
शठेन सायं केनापि भोजितोऽस्मि बलात्पुनः ।। ७६
तेनाहं खण्डितात्तस्माद्व्रताज्जातोऽस्मि गुह्यकः ।
पूर्णं यद्यकरिष्यं तदभविष्यं सुरो दिवि ।। ७७
एवं मयोक्तः स्वोदन्तो युवां कथयत तु मे ।
कुतो युवां किमेता च प्रविष्टौ स्थो मरुस्थलीम् ।। ७८
तच्छ्रुत्वा सोऽब्रवीत्तस्मै स्ववृत्तान्तं यशोधरः ।
ततस्तौ ब्राह्मणौ यक्षः पुनरेवमभाषत ।। ७९
यद्येवं तदहं विद्याः स्वप्रभावाद्ददामि वाम् ।
कृतविद्यौ गृहं यातं विदेशभ्रमणेन किम् ।। ८०
इत्युक्त्वा स ददौ ताभ्यां विद्यास्तौ च तदैव ताः ।
तत्प्रभावाज्जगृहतुः सोऽथ यक्षो जगाद तौ ।। ८१
एकामिदानीं याचेऽहं भवद्भ्यां गुरुदक्षिणाम् ।
युवाभ्यां मत्कृते कार्यं व्रतमेतदुपोषणम् ।। ८२
सत्याभिभाषणं ब्रह्मचर्यं देवप्रदक्षिणम् ।
भोजनं भिक्षुवेलायां मनसः संयमः क्षमा ।। ८३
एकरात्रं विधायैतदर्पणीयं फलं मयि ।
पूर्णव्रतफलं येन दिव्यत्वं प्राप्नुयामहम् ।। ८४
इत्यूचिवान्विनम्राभ्यां ताभ्यां यक्षस्तथेति सः ।
विप्राभ्यां प्रतिपन्नार्थस्तत्रैवान्तर्दधे तरौ ।। ८५
तौ चाप्रयाससिद्धार्थौ प्रहृष्टौ भ्रातरावुभौ ।
रात्रिं नीत्वा परावृत्त्य स्वमेवाजग्मतुर्गृहम् ।। ८६
तत्राख्याय स्ववृत्तान्तमानन्द्य पितरौ निजौ ।
उपोषणव्रतं तत्तौ यक्षपुण्याय चक्रतुः ।। ८७
अथैत्य स गुरुर्यक्षो विमानस्थो जगाद तौ ।
युष्मत्प्रसादाद्देवत्वं प्राप्तोऽस्म्युत्तीर्य यक्षताम ।। ८८
तदात्मार्थमिदं कार्यं युवाभ्यामपि तद्गतम् ।
भविता येन देवत्वं देहान्ते युवयोरिति ।। ८९
अक्षीणार्थाविदानीं च वरान्मम भविष्यथः ।
इत्युक्त्वा स विमानेन कामचारी ययौ दिवम् ।। ९०
ततो यशोधरो लक्ष्मीधरश्च भ्रातरावुभौ ।
कृत्वा व्रतं तत्प्राप्तार्थविद्यावास्तां यथासुखम् ।। ९१
एवं धर्मप्रवृत्तानां शीलं कृच्छ्रेऽप्यमुञ्चताम् ।
देवता अपि रक्षन्ति कुर्वन्तीष्टार्थसाधनम् ।। ९२
इत्थं वसन्तकाख्यातकथाद्भुतविनोदितः ।
वत्सेश्वरसुतः प्रेप्सुः स शक्तियशसं प्रियाम् ।। ९३
आहारसमये पित्रा समाहूतस्तदन्तिकम् ।
नरवाहनदत्तोऽथ ययौ स्वसचिवैः सह ।। ९४
अथानुरूपं भुक्त्वा च तत्र सायं स्वमन्दिरम् ।
वयस्यैः स निजैः साकमाययौ गोमुखादिभिः ।। ९५
तत्र तं गोमुखो भूयो विनोदयितुमब्रवीत् ।
श्रूयतामिममन्यं वो देवाख्यामि कथाक्रमम् ।। ९६
आसीद्वलीमुखो नाम परिभ्रष्टः स्वयूथतः ।
उदुम्बरवने तीरे वारिधेर्वानरर्षभः ।। ९७
तस्य भक्षयतो हस्ताश्च्युतमेकमुदुम्बरम् ।
जघास शिशुमारोऽत्र वारिराशिजलाश्रयः ।। ९८
तत्फलास्वादहृष्टश्च स प्रचक्रे कलं रवम् ।
यद्रसात्स बहून्यस्मै फलानि कपिरक्षिपत् ।। ९९
तथैव चाक्षिपन्नित्यं फलानि स तथैव च ।
शिशुमारो रुतं चक्रे जज्ञे सख्यं ततस्तयोः ।। १००
तेनान्वहं तटस्थस्य जलस्थो निकटे कपेः ।
शिशुमारो दिनं स्थित्वा स सायं स्वगृहं ययौ ।। १०१
ज्ञातार्था तस्य भार्या च सदा विरहदं दिवा ।
कपिसख्यमनिच्छन्ती मान्द्यव्याजमशिश्रियत् ।। १०२
ब्रूहि प्रिये किमस्वास्थ्यं तव केन च शाम्यति ।
इत्यार्तस्तं स पप्रच्छ शिशुमारः प्रियां मुहुः ।। १०३
निर्बन्धपृष्टापि यदा न सा प्रतिवचो ददौ ।
रहस्यज्ञा सखी तस्यास्तदा तं प्रत्यभाषत ।। १०४
यद्यपि त्व न कुरुषे नेच्छत्येषा तथाप्यहम् ।
ब्रवीमि विबुधः खेदं जनानां निह्नुते कथम् ।। १०५
स तादृगस्या भार्यायास्तवोत्पन्नो महागदः ।
विना वानरहृत्पद्मयूषं न शममेति यः ।। १०६
इत्युक्तः स प्रियासख्या शिशुमारो व्यचिन्तयत् ।
कष्टं वानरहृत्पद्मं कुतः संप्राप्नुयामहम् ।। १०७
सख्युः करोमि चेद्द्रोहं कपेस्तत्किं ममोचितम् ।
सख्या किमथवा भार्या प्राणेभ्योऽप्यधिकप्रिया ।। १०८
इत्यालोच्य स्वभार्यां तां शिशुमारो जगाद सः ।
तर्ह्यानयाम्यखण्डं ते कपिं किं दूयसे प्रिये ।। १०९
इत्युक्त्वा स ययौ यस्य मित्रस्य निकटं कपेः ।
कथाप्रसङ्गमुत्पाद्य तमेवमवदत्कपिम् ।। ११०
अद्यापि न सखे दृष्टं गृहं भार्या च मे त्वया ।
तदेहि तत्र गच्छावो विश्रमायैकमप्यहः ।। १११
भुज्यते यत्र नान्योन्यं गृहमेत्य निरर्गलम् ।
प्रदृश्यन्ते न दाराश्च कैतवं तन्न सौहृदम् ।। ११२
इति प्रतार्य जलधाववतार्यावलम्ब्य च ।
वानरं शिशुमारस्तं गन्तुं प्रववृतेऽत्र सः ।। ११३
गच्छन्तं तं स दृष्ट्वा च वानरश्चकिताकुलम् ।
सखेऽन्यादृशमद्य त्वां पश्यामीति स पृष्टवान् ।। ११४
निर्बन्धेनाथ पृच्छन्तं मत्वा हस्तस्थितं च तम् ।
प्लवंगमं जगादैवं शिशुमारो जडाशयः ।। ११५
अस्वस्था मे स्थिता भार्या सा च पथ्योपयोगि माम् ।
याचते कपिहृत्पद्मं तेनाद्य विमनाः स्थिता ।। ११६
श्रुत्वैतत्स वचस्तस्य कपिः प्राज्ञो व्यचिन्तयत् ।
हन्तैतदर्थमानीतः पापेनाहमिहामुना ।। ११७
अहो स्त्रीव्यसनाक्रान्तो मिन्नद्रोहेऽयमुद्यतः ।
किं वा दन्तैः स्वमांसानि भूतग्रस्तो न खादति ।। ११८
इत्थं संचिन्त्य च प्राह शिशुमारं स वानरः ।
यद्येवं तत्त्वयैतन्मे किं नोक्तं प्रथमं सखे ।। ११९
आगमिष्यं स्वमादाय हृत्पद्मं त्वत्प्रियाकृते ।
वासोदुम्बरवृक्षे हि तदिदानीं मम स्थितम् ।। १२०
तच्छ्रुत्वा शिशुमारस्तमार्तो मूर्खोऽब्रवीदिदम् ।
तर्ह्येतदानयैहि त्वमुदुम्बरतरोरिति ।। १२१
आनिनायाम्बुधेस्तीरं शिशुमारः पुनः स तम् ।
तत्र तेनान्तकेनेव मुक्तः स च कपिस्तटम् ।। १२२
उत्पत्यारुह्य वृक्षाग्रं शिशुमारमुवाच तम् ।
गच्छ रे मूर्ख हृदयं देहाद्भवति किं पृथक् ।। १२३
मयैवं मोचितो ह्यात्मा न चात्रैष्याम्यहं पुनः ।
किमत्र न श्रुता मूर्ख गर्दभाख्यायिका त्वया ।। १२४
आसीद्गोमायुसचिवः सिंहः कोऽपि वने क्वचित् ।
......... ।। १२५
स जात्वाखेटकायातेनात्र भूपेन केनचित् ।
आहतो हेतिभिर्जीवन्कथमप्यविशद्गुहाम् ।। १२६
तत्र स्थितं गते तस्मिन्राज्ञ्यनाहारनिःसहम् ।
तच्छेषामिषवृत्तिः सन्गोमायुः सचिवोऽभ्यधात् ।। १२७
निर्गत्य किं यथाशक्ति नाहारं चिनुषे प्रभो ।
सीदत्येव शरीरं ते समं परिजनेन यत् ।। १२८
इत्युक्तः स सृगालेन तेन सिंहो जगाद तम् ।
सखे नाहं व्रणाक्रान्तः शक्नोमि भ्रमितुं क्वचित् ।। १२९
खरस्य कर्णहृदयं भक्ष्यं प्राप्नोमि चेदहम् ।
तन्मे व्रणानि रोहन्ति प्रकृतिस्थो भवामि च ।। १३०
तदानय कुतोऽपि त्वं गत्वा गर्दभमाशु मे ।
इत्युक्तस्तेन गोमायुः स तथेति ययौ ततः ।। १३१
भ्रमञ्जलान्तिके लब्ध्वा रजकस्य स गर्दभम् ।
प्रीत्येवोपेत्य वक्ति स्म दुर्बलः किं भवानिति ।। १३२
कृशीभूतोऽस्मि रजकस्यास्य भारं वहन्सदा ।
इत्युक्तवन्तं च खरं तमुवाच स जम्बुकः ।। १३३
इह किं वहसि क्लेशमेहि त्वां प्रापयाम्यहम् ।
वनं स्वर्गसुखं यत्र खरीभिः सह वर्धसे ।। १३४
तच्छ्रुत्वा स तथेत्युक्त्वा गर्दभो भोगलोलुपः ।
वनं सिंहस्य तस्यागात्तेन गोमायुना सह ।। १३५
तं च दृष्ट्वैव तस्यैत्य पृष्ठतो गर्दभस्य सः ।
सिंहो ददौ कराघातं प्राणवैक्लव्यदुर्बलः ।। १३६
स तेन वीक्षितस्त्रस्तः पलाय्य सहसा खरः ।
आगच्छन्न च तं सिंहोऽप्यपतद्विह्वलाकुलः ।। १३७
सिहस्त्वसिद्धकार्यः स्वां त्वरितं प्राविशद्गुहाम् ।
ततस्तं जम्बुको मन्त्री सोपालम्भमभाषत ।। १३८
न हतो गर्दभोऽप्येष वराकश्चेत्त्वया प्रभो ।
हरिणादिवधे का तद्वार्ता तव भविष्यति ।। १३९
तच्छ्रुत्वा सोऽब्रवीत्सिंहो यथा वेत्सि तथा पुनः ।
तमानय खरं तावत्सज्जो भूत्वा निहन्म्यहम् ।। १४०
इति स प्रेषितस्तेन पुनः सिंहेन जम्बुकः ।
गत्वा खरं तमवदद्विद्रुतः किं भवानिति ।। १४१
अहं सत्त्वेन केनापि ताडितोऽत्रेति वादिनम् ।
तं च भूयः स गोमायुर्विहस्य खरमब्रवीत् ।। १४२
मिथ्यैव विभ्रमो दृष्टस्त्वया न त्वत्र तादृशम् ।
सत्त्वमस्ति सुखं ह्यत्र वसाम्यहमपीदृशः ।। १४३
तदेह्येव मया साकं तन्निर्बाधसुखं वनम् ।
इति तद्वचसा मूढस्तत्रागात्स खरः पुनः ।। १४४
आगतं तं च दृष्ट्वैव स निर्गत्य गुहामुखात् ।
निपत्य पृष्ठे न्यवधीन्मृगारिर्दारितं नखैः ।। १४५
निकृत्य गर्दभं तं च स्थापयित्वा च रक्षकम् ।
तस्य तं जम्बुकं श्रान्तः सिंहः स्नातुं जगाम सः ।। १४६
तत्कालं जम्बुकस्तस्य स मायावी खरस्य तत् ।
भक्षयामास हृदयं कर्णौ चाप्यात्मतृप्तये ।। १४७
स्नात्वागतस्तथाभूतं तं दृष्ट्वा गर्दभं हरिः ।
क्व कर्णौ हृदयं चास्येत्यपृच्छत्तं च जम्बुकम् ।। १४८
जम्बुकः सोऽप्यवादीत्तमकर्णहृदयः प्रभो ।
प्रागेवासीत्कथं गत्वाप्यागच्छेदन्यथा ह्ययम् ।। १४९
तच्छ्रुत्वा स तथैवैतन्मत्वा केसर्यभक्षयत् ।
तन्मांसमन्यत्तच्छेषं जम्बुकोऽपि चखाद सः ।। १५०
इत्याख्याय कपिर्भूयः शिशुमारमुवाच तम् ।
तन्नात्रैष्याम्यहं भूयः करिष्यामि खरायितम् ।। १५१
एवं तस्मात्कपेः श्रुत्वा शिशुमारो ययौ गृहम् ।
मोहादसिद्धं भार्यार्थं शोचन्मित्त्रं च हारितम् ।। १५२
तत्सख्यापगमाच्चास्य भार्या प्रकृतिमाययौ ।
कपिः सोऽप्यम्बुधेस्तीरे चचार च यथासुखम् ।। १५३
तदेवं विश्वसेन्नैव बुद्धिमान्दुर्जने जने ।
दुर्जने कृष्णसर्पे च कुतो विश्वासतः सुखम् ।। १५४
इत्याख्याय कथां मन्त्री गोमुखः पुनरेव सः ।
नरवाहनदत्तं तं निजगाद विनोदयन् ।। १५५
शृण्विदानीं क्रमादन्यानुपहास्यानिमाञ्जडान् ।
तत्रेमं शृणु गान्धर्वपरितोषकरं जडम् ।। १५६
कश्चिद्गान्धर्विकेनाढ्यो गीतवाद्येन तोषितः ।
भाण्डागारिकमाहूय तत्समक्षमभाषत ।। १५७
देहि गान्धर्विकायास्मै द्वे सहस्रे पणानिति ।
एवं करोमीत्युक्त्वा च स भाण्डागारिको ययौ ।। १५८
गान्धर्विकोऽथ गत्वा तान्पणांस्तस्मादयाचत ।
न चास्मै स्थितसंवित्तान्पणान्भाण्डारिको ददौ ।। १५९
अथाढ्यस्तेन विज्ञप्तस्तत्कृते वैणिकेन सः ।
उवाच किं त्वया दत्तं येन प्रतिददानि ते ।। १६०
वीणावाद्येन मे क्षिप्रं त्वया श्रुतिसुखं कृतम् ।
तथैव दानवाक्येन कृतं क्षिप्रं मयापि ते ।। १६१
तच्छ्रुत्वा विहताशोऽपि हसित्वा वैणिको ययौ ।
कीनाशोक्त्यानया किं न हासो ग्राव्णोऽपि जायते ।। १६२
भौतशिष्यद्वयं चेदं देवेदानीं निशम्यताम् ।
गुरोः कस्याप्यभूतां द्वौ शिष्यावन्योन्यमत्सरौ ।। १६३
तयोरेको गुरोस्तस्य दक्षिणं पादमन्वहत् ।
अभ्यञ्जन्क्षालयामास वामं पादं तथेतरः ।। १६४
दक्षिणाभ्यञ्जके जातु ग्रामं संप्रेषिते गुरुः ।
अभ्यक्तवामपादं तं द्वितीयं शिष्यमभ्यधात् ।। १६५
त्वमेव दक्षिणं पादमभ्यज्य क्षालयाद्य मे ।
श्रुत्वैतन्मूर्खशिष्योऽसौ गुरुं स्वैरमभाषत ।। १६६
प्रतिपक्षस्य संबन्धी न पादोऽभ्यङ्ग्य एष मे ।
एवमुक्तवतश्चास्य निर्बन्धं सोऽकरोद्गुरुः ।। १६७
ततो विपक्षतच्छिष्यरोषादादाय तस्य तम् ।
गुरोः शिष्यः स चरणं बलाद्ग्राव्णा च भग्नवान् ।। १६८
मुक्ताक्रन्दे गुरौ तस्मिन्कुशिष्योऽन्यैः प्रविश्य सः ।
ताड्यमानः सशोकेन गुरुणा तेन मोचितः ।। १६९
अन्येद्युः सोऽपरः शिष्यः प्राप्तो ग्रामाद्विलोक्य ताम् ।
अङ्घ्रिपीडां गुरोः पृष्टवृत्तान्तः प्रज्वलन्क्रुधा ।। १७०
नाहं भनज्मि किं पादं तस्य संबन्धिनं द्विषः ।
इत्याकृष्य द्वितीयाङ्घ्रिं गुरोस्तस्य बभञ्ज सः ।। १७१
ततोऽत्र ताड्यमानोऽन्यैरपि भग्नोभयाङ्घ्रिणा ।
गुरुणा तेन कृपया दुःशिष्यः सोऽप्यमोच्यत ।। १७२
सर्वद्वेष्योपहास्यौ तौ शिष्यौ द्वौ ययतुस्ततः ।
गुरुश्च स्वक्षमाश्लाघ्यः स्वस्थः सोऽप्यभवत्क्रमात् ।। १७३
एवमन्योन्यविद्विष्टो मूर्खः परिजनः प्रभो ।
स्वामिनोऽर्थं निहन्त्येव न चात्महितमश्नुते ।। १७४
अयं च द्विशिरःसर्पवृत्तान्तोऽप्यवधार्यताम् ।
कस्याप्यहेर्द्वे शिरसी अभूतामग्रपुच्छयोः ।। १७५
पौच्छं शिरस्त्वभूदन्धं चक्षुष्मत्प्रकृतं पुनः ।
अहं मुख्यमहं मुख्यमित्यासीदाग्रहस्तयोः ।। १७६
सर्पस्तु प्रकृतेनेव मुखेन विचचार सः ।
एकदास्य शिरः पौच्छं मार्गे कष्टमवाप तत् ।। १७७
वेष्टयित्वा दृढं तच्च सर्पस्यास्यारुणद्गतिम् ।
ततस्तद्बलवन्मेने सर्पोऽग्रशिरोजयि ।। १७८
तेनैव चान्धेन ततः स मुखेन भ्रमन्नहिः ।
अवटेऽग्नौ परिभ्रष्टो मार्गादृष्टेरदह्यत ।। १७९
एवं गुणस्य येऽल्पस्य बहवो नान्तरं विदुः ।
ते हीनगुणसङ्गेन मूढा यान्ति पराभवम् ।। 10.7.१८०
इमं च शृणुतेदानीं भौतं तण्डुलभक्षकम् ।
आगात्कश्चित्पुमान्मूर्खः प्रथमं श्वाशुरं गृहम् ।। १८१
स तत्र तण्डुलाञ्श्वश्र्वा पाकार्थं स्थापितान्सितान् ।
दृष्ट्वा भक्षयितुं तेषां मुष्टिं प्राक्षिपदानने ।। १८२
तत्क्षणादागतायां च श्वश्र्वां मूर्खः स तण्डुलान् ।
नाशकत्तान्निगिरितुं न चाप्युद्गिरितुं ह्रिया ।। १८३
तत्पीनोच्छूनगल्लं च निरालापमवेत्य तम् ।
तद्रोगशङ्कयाहूय तच्छ्वश्रूः पतिमानयत् ।। १८४
सोऽप्यालोक्य निनायाशु वैद्यं वैद्योऽप्यपाटयत् ।
शोफशङ्की हनुं तस्य मूढस्याक्रम्य मस्तकम् ।। १८५
निर्ययुर्लोकहासेन समं तस्य च तण्डुलाः ।
इत्यकार्यं करोत्यज्ञो न च जानाति गूहितुम् ।। १८६
केचिच्च दारका मूर्खा दृष्टदोहा गवादिषु ।
गर्दभं प्राप्य संरुध्य दोग्धुमारेभिरे रसात् ।। १८७
कश्चिद्दुदोह कश्चिच्च क्षीरकुण्डमधारयत् ।
अहं प्रथमिकान्येषां पयः पातुमवर्तत ।। १८८
न च ते लेभिरे क्षीरं कुर्वन्तोऽपि परिश्रमम् ।
अवस्तुनि कृतक्लेशो मूर्खो यात्यवहास्यताम् ।। १८९
कश्चिच्च देव मूर्खोऽभूद्विप्रपुत्रः पिता च तम् ।
सायं जगाद गन्तव्यो ग्रामः पुत्र त्वया प्रगे ।। 10.7.१९०
श्रुत्वेत्यपृष्ट्वा कार्यं तं पितरं प्रातरेव सः ।
गत्वा वृथैव तं ग्रामं सायमागात्कृतश्रमः ।। १९१
ग्रामं गत्वाहमायात इत्याह पितरं च सः ।
गते त्वयि न किं सिद्धमिति चाह स तत्पिता ।। १९२
तदेति निरभिप्रायचेष्टितो लोकहास्यताम् ।
मूर्खोऽनुभवति क्लेशं न कार्यं कुरुते पुनः ।। १९३
इत्याकर्ण्य कथां प्रधानसचिवाच्छिक्षावतीं गोमुखा-
दात्मानं च निवेद्य शक्तियशसः संप्राप्तिबद्धस्पृहम् ।
भूयिष्ठां च गतामवेत्य रजनीं वत्सेश्वरस्यात्मजो
निद्रामुद्रितलोचनः स शयनं भेजे वयस्यैर्यतः ।। १९४
इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे शक्तियशोलम्बके सप्तमस्तरङ्गः ।