प्रमुखा विकल्पसूचिः उद्घाट्यताम्

ततोऽन्येद्युः पुनर्नक्तं निजवासगृहे स्थितम् ।
नरवाहनदत्तं तं दयिताप्राप्तिसोत्सुकम् ।। १
वत्सेश्वरसुतं मन्त्री तन्नियोगात्स गोमुखः ।
विनोदयन्कथास्तस्य क्रमादेवमवर्णयत् ।। २
बभूव देवशर्माख्यो ब्राह्मणो नगरे क्वचित् ।
तस्याभूद्देवदत्तेति गेहिनी सदृशान्वया ।। ३
धृतगर्भा च सा तस्य कालेन सुषुवे सुतम् ।
दरिद्रोऽपि स तं मेने निधिं लब्धमिव द्विजः ।। ४
सूतकान्ते च सा तस्य भार्या स्नातुमगान्नदीम् ।
देवशर्मा स तस्थौ तु गृहे रक्षन्सुतं शिशुम् ।। ५
तावदाह्वायिका तस्य राजान्तःपुरतो द्रुतम् ।
चेटिका ब्राह्मणस्यागात्स्वस्तिवाचनजीविनः ।। ६
ततः स दक्षिणालोभान्नकुलं रक्षकं शिशोः ।
स्थापयित्वा ययौ गेहे चिरमाबाल्यवर्धितम् ।। ७
तस्मिन्गतेऽत्राकस्माच्च शिशोस्तस्यान्तिकागतम् ।
सर्पमालोक्य नकुलः स्वामिभक्त्या जघान तम् ।। ८
अथ तं देवशर्माणमागतं वीक्ष्य दूरतः ।
सर्पास्रसिक्तो नकुलो हृष्टोऽस्य निरगात्पुरः ।। ९
स देवशर्मा तद्रूपं तं दृष्ट्वैवाश्मनावधीत् ।
ध्रुवं स बालः पुत्रो मे हतोऽनेनेति संभ्रमात् ।। 10.8.१ ०
प्रविश्य चान्तर्दृष्ट्वा तं भुजगं नकुलाहतम् ।
जीवन्तं च स्थितं बालं ब्राह्मणोऽन्तरतप्यत ।। ११
अविचार्योपकारी स नकुलः किं हतस्त्वया ।
इत्युपालभतायाता भार्यापि तदवेत्य तम् ।। १२
तस्मान्न बुद्धिमान्कुर्यात्सहसा देव किंचन ।
सहसा चेष्टमानो हि हन्यते लोकयोर्द्वयोः ।। १३
कुर्वंश्चाविधिना कर्म विरोधिफलमश्नुते ।
तथा च वायुनाक्रान्तदेहः कोऽप्यभवत्पुमान् ।। १४
बस्त्यर्थमौषधं दत्त्वा बभाषे जातु तं भिषक् ।
त्वं पेषयैतत्स्वगृहं गत्वा यावदुपैम्यहम् ।। १५
एवमुक्त्वा गतो वैद्यो यावच्चिरयति क्षणम् ।
तावत्तदौषधं पिष्ट्वा मूर्खोऽसौ वारिणापिबत् ।। १६
उत्पन्नव्यापदं तेन तमागत्य भिषक्ततः ।
स दत्त्वा वमनं कृच्छ्रान्मृतकल्पमजीवयत् ।। १७
बस्त्यौषधं गुदे मूर्ख दीयते न तु पीयते ।
अहं प्रतीक्षितः किं नेत्युपालभ्यत तेन सः ।। १८
इतीष्टमप्यनिष्टाय जायतेऽविधिना कृतम् ।
तस्मान्न विधिमुत्सृज्य प्राज्ञः कुर्वीत किंचन ।। १९
अप्रेक्षापूर्वकारी च निन्द्यतेऽवद्यकृत्क्षणात् ।
तथा च कुत्रचित्कश्चिज्जडबुद्धिरभूत्पुमान् ।। २०
तस्य देशान्तरं जातु गच्छतोऽन्वागतः सुतः ।
अटव्यां वासिते सार्थे विवेश विहरन्वनम् ।। २१
पाटितो मर्कटैः सोऽत्र कृच्छ्राज्जीवन्नुपेत्य तम् ।
ऋक्षानभिज्ञः पितरं पृच्छन्तमवदज्जडः ।। २२
वनेऽस्मि पाटितः कैश्चिल्लोमशैः फलभक्षिभिः ।
तच्छ्रुत्वा क्रोधकृष्टासिस्तत्पिता तद्वनं ययौ ।। २३
दृष्ट्वा फलान्याददानाञ्जटिलांस्तत्र तापसान् ।
सोऽभ्यधावत्क्षतोऽमीभिः सुतो मे लोमशैरिति ।। २४
ऋक्षैस्ते पाटितः पुत्रो मद्दृष्टैर्मा वधीर्मुनीन् ।
इत्यवार्यत पान्थेन तद्वधात्सोऽथ केनचित् ।। २५
ततः स दैवादुत्तीर्णः पातकात्सार्थमागतः ।
तन्न जातुचिदप्रेक्षापूर्वकारी भवेद्बुधः ।। २६
किमन्यत्सर्वदा भाव्यं जन्तुना कृतबुद्धिना ।
लोकोपहसिताः शश्वत्सीदन्त्येव ह्यबुद्धयः ।। २७
तथा च निर्धनः कश्चित्प्राप्तवानध्वनि व्रजन् ।
सार्थवाहस्य कस्यापि च्युतां हेमभृतां दृतिम् ।। २८
स मूढस्तां गृहीत्वैव न जगामान्यतोऽपि च ।
स्थित्वा तत्रैव संख्यातुमारेभे हेम तच्च तत् ।। २९
तावत्स्मृत्वा हयारूढः प्रत्यागत्य स सत्वरम् ।
सार्थवाहोऽस्य हृष्टस्य हेमभस्त्रां जहार ताम् ।। ३०
ततः स दृष्टनष्टार्थः शोचन्प्रायादधोमुखः ।
प्राप्तोऽप्यर्थः क्षणादेव हार्यते मन्दबुद्धिना ।। ३१
कश्चिच्च पार्वणं चन्द्रं दिदृक्षुः केनचिज्जडः ।
अङ्गुल्यभिमुखं पश्येत्यूचे दृष्टनवेन्दुना ।। ३२
स हित्वा गगनं तस्यैवाङ्गुलिं तां विलोकयन् ।
तस्थौ न चेन्दुमद्राक्षीदद्राक्षीद्धसतो जनान् ।। ३३
प्रज्ञया साध्यतेऽसाध्यं तथा च श्रूयतां कथा ।
काचिद्ग्रामान्तरं नारी गन्तुं प्रावर्ततैकका ।। ३४
पथि सा च जिघृक्षन्तमकस्मादेत्य वानरम् ।
वञ्चयन्ती मुहुर्वृक्षं संश्रिता पर्यवर्तत ।। ३५
स तं तस्यास्तरुं मूढो भुजाभ्यां कपिरावृणोत् ।
साप्यस्य बाहू हस्ताभ्यां तत्रैवापीडयत्तरौ ।। ३६
तावच्च तस्मिन्निःस्पन्दे जातक्रोधे च वानरे ।
पथा तेनागतं कंचिदाभीरं स्त्री जगाद सा ।। ३७
महाभाग गृहाणेमं क्षणं बाह्वोः प्लवंगमम् ।
यावद्वस्त्रं च वेणीं च विस्रस्तां संवृणोम्यहम् ।। ३८
एवं करोमि भजसे यदि मामिति तेन सा ।
उक्तानुमेने तावत्तत्सोऽथ तं कपिमग्रहीत् ।। ३९
ततोऽस्य क्षुरिकां कृष्ट्वा सा स्त्री हत्वा च तं कपिम् ।
एकान्तमेहीत्युक्त्वा तमाभीरं दूरमानयत् ।। ४०
मिलितेष्वथ सार्थेषु तं विहायैव तैः सह ।
सा जगामेप्सितग्रामं प्रज्ञारक्षितविप्लवा ।। ४१
इत्थं प्रज्ञैव नामेह प्रधानं लोकवर्तनम् ।
जीवत्यर्थदरिद्रोऽपि धीदरिद्रो न जीवति ।। ४२
इदानीं शृणु देवैतां विचित्रामद्भुतां कथाम् ।
घटकर्परनामानौ चौरावास्तां पुरे क्वचित् ।। ४३
तयोः स कर्परो जातु बहिर्न्यस्य घटं निशि ।
संधिं दत्त्वा नृपसुतावासवेश्म प्रविष्टवान् ।। ४४
तत्र कोणस्थितं तं सा विनिद्रा राजकन्यका ।
दृष्ट्वैव सद्यः संजातकामा स्वैरमुपाह्वयत् ।। ४५
रन्त्वा च तेन साकं सा दत्त्वा चार्थं तमब्रवीत् ।
दास्याम्यन्यत्प्रभूतं ते पुनरेष्यसि चेदिति ।। ४६
ततो निर्गत्य वृत्तान्तमाख्यायार्थं समर्प्य च ।
व्यसृजत्प्राप्य राजार्थं घटं गेहं स कर्परः ।। ४७
स्वयं तदैवं तु पुनर्विवेशान्तःपुरं स तत् ।
आकृष्टः कामलोभाभ्यामपायं को हि पश्यति ।। ४८
तत्रैष सुरतश्रान्तः पानमत्तस्तया सह ।
राजपुत्र्या समं सुप्तो न बुबोध गतां निशाम् ।। ४९
प्रातः प्रविष्टैर्लब्ध्वा स बद्ध्वान्तःपुररक्षिभिः ।
राज्ञे निवेदितः सोऽपि क्रुधा तस्यादिशद्वधम् ।। ५०
यावत्स नीयते वध्यभुवं तावत्सखास्य सः ।
रात्रावनागतस्यागादन्वेष्टुं पदवीं घटः ।। ५१
तमागतं स दृष्ट्वाथ घटं कर्परकः पुनः ।
हृत्वा राजसुतां रक्षेरित्याह स्म स्वसंज्ञया ।। ५२
घटेनाङ्गीकृतेच्छोऽथ संज्ञयैव स कर्परः ।
नीत्वोल्लम्ब्य तरौ क्षिप्रं वधकैरवशो हतः ।। ५३
ततो गत्वा घटो गेहमनुशोचन्निशागमे ।
भित्त्वा सुरङ्गां प्रायिक्षत्स तद्राजसुतागृहम् ।। ५४
तत्रैककां संयमितां दृष्ट्वोपेत्य जगाद सः ।
त्वत्कृतेऽद्य हतस्याहं कर्परस्य सखा घटः ।। ५५
अपनेतुमितस्त्वां च तत्स्नेहादहमागतः ।
तदेहि यावन्नानिष्टं किंचित्ते कुरुते पिता ।। ५६
इत्युक्ते तेन सा हृष्टा राजपुत्री तथेति तत् ।
प्रतिपेदे स चैतस्या बन्धनानि न्यवारयत् ।। ५७
ततस्तया समं सद्यः समर्पितशरीरया ।
निर्गत्य स ययौ चौरः स्वनिकेतं सुरुङ्गया ।। ५८
प्रातश्च खातदुर्लक्ष्यसुरुङ्गेण निजां सुताम् ।
केनाप्यपहृतां बुद्ध्वा स राजा समचिन्तयत् ।। ५९
ध्रुवं तस्यास्ति पापस्य निगृहीतस्य बान्धवः ।
कश्चित्साहसिको येन हृतैवं सा सुता मम ।। ६०
इति संचिन्त्य नृपतिः स कर्परकलेवरम् ।
रक्षितुं स्थापयामास स्वभृत्यानब्रवीच्च तान् ।। ६१
यः शोचन्निममागच्छेत्कर्तुं दाहादिकं च वः ।
अवष्टभ्यस्ततो लप्स्ये पापां तां कुलदूषिकाम् ।। ६२
इति राज्ञा समादिष्टा रक्षिणोऽत्र तथेति ते ।
रक्षन्तस्तस्थुरनिशं तत्कर्परकलेवरम् ।। ६३
तत्सोऽन्विष्य घटो बुद्ध्वा राजपुत्रीमुवाच ताम् ।
प्रिये बन्धुः सखा योऽभूत्परमः कर्परो मम ।। ६४
यत्प्रसादान्मया प्राप्ता त्वं ससद्रत्नसंचया ।
स्नेहानृण्यमकृत्वास्य नास्ति मे हृदि निर्वृतिः ।। ६५
तत्तं गत्वानुशोचामि प्रेक्षमाणः स्वयुक्तितः ।
क्रमाच्च संस्करोम्यग्नौ तीर्थेऽस्यास्थीनि च क्षिपे ।। ६६
भयं मा भूच्च ते नाहमबुद्धिः कर्परो यथा ।
इत्युक्त्वा तां तदैवाभूत्स महाव्रतिवेषभृत् ।। ६७
स दध्योदनमादाय कर्परे कर्परान्तिकम् ।
मार्गागत इवोपागाच्चक्रेऽत्र स्खलितं च सः ।। ६८
निपात्य हस्ताद्भङ्क्त्वा च तं स दध्यन्नकर्परम् ।
हा कर्परामृतभृतेत्यादि तत्तच्छुशोच सः ।। ६९
रक्षिणो मेनरे तच्च भिन्नभाण्डानुशोचनम् ।
क्षणाच्च गृहमागत्य राजपुत्र्यै शशंस तत् ।। ७०
अन्येद्युश्च वधूवेषं भृत्यं कृत्वैकमग्रतः ।
अन्यं धृतसधत्तूरभक्ष्यभाण्डं च पृष्ठतः ।। ७१
स्वयं च मत्तग्रामीणवेषो भूत्वा दिनात्यये ।
प्रस्खलन्निकटे तेषामगात्कर्पररक्षिणाम् ।। ७२
कस्त्वं केयं च ते भ्रातः क्व यासीति च तत्र तैः ।
पृष्टः स धूर्तस्तानेवमुवाच स्खलिताक्षरम् ।। ७३
ग्राम्योऽहमेषा भार्या मे यामीतः श्वाशुरं गृहम् ।
भक्ष्यकोशलिका चेयमानीता तत्कृते मया ।। ७४
संभाषणाच्च यूयं मे संजाताः सुहृदोऽधुना ।
तदर्धं तत्र नेष्यामि भक्ष्याणामर्धमस्तु वः ।। ७६
इत्युक्त्वा भक्ष्यमेकैकं स ददौ तेषु रक्षिषु ।
ते हसन्तो गृहीत्वैव भुञ्जते स्माखिला अपि ।। ७६
तेन रक्षिषु धत्तूरमोहितेष्वेषु सोऽग्निसात् ।
निशि चक्रे घटो देहं कर्परस्याहृतेन्धनः ।। ७७
गते तस्मिंस्ततः प्रातर्बुद्ध्वा राजा निवार्य तान् ।
विमूढान्स्थापयामास रक्षिणोऽन्यानुवाच च ।। ७८
रक्ष्याण्यस्थीन्यपीदानीं यस्तान्यादातुमेष्यति ।
स युष्माभिर्ग्रहीतव्यो भक्ष्य किंचिच्च नान्यतः ।। ७९
इति राज्ञोदितास्ते च सावधाना दिवानिशम् ।
तत्रासन्रक्षिणस्तं च वृत्तान्तं बुबुधे घटः ।। ८०
ततः स चण्डिकादत्तमोहमन्त्रप्रभाववित् ।
मित्त्रं प्रव्राजकं कंचिच्चकाराश्वासकेतनम् ।। ८१
तत्र गत्वा समं तेन प्रव्राजा मन्त्रजापिना ।
रक्षिणो मोहयित्वा तान्कर्परास्थीनि सोऽग्रहीत् ।। ८२
क्षिप्त्वा च तानि गङ्गायामेत्याख्याय यथाकृतम् ।
राजपुत्र्या समं तस्थौ सुखं प्रव्राजकान्वितः ।। ८३
राजापि सोऽस्थिहरणं बुद्ध्वा तद्रक्षिमोहनम् ।
आ सुताहरणात्सर्वं मेने तद्योगिचेष्टितम् ।। ८४
येनेदं योगिनाकारि तनयाहरणादि मे ।
ददामि तस्मै राज्यार्धमभिव्यक्तिं स याति चेत् ।। ८५
इति राजा स्वनगरे दापयामास घोषणाम् ।
तां श्रुत्वा चैच्छदात्मानं घटो दर्शयितुं तदा ।। ८६
मैवं कृथा न कार्योऽस्मिन्विश्वाराश्छद्मघातिनि ।
राज्ञीत्यवार्यत तया राजपुत्र्या ततश्च सः ।। ८७
अथोद्भेदभयात्तेन साकं प्रव्राजकेन सः ।
घटो देशान्तरं यायाद्राजपुत्र्य तया युतः ।। ८८
मार्गे च राजपुत्री सा प्रव्राजं तं रहोऽब्रवीत् ।
एकेन ध्वंसितान्येन भ्रंशितास्म्यमुना पदात् ।। ८९
तच्चौरः स मृतो नायं घटो मे त्वं बहुप्रियः ।
इत्युक्त्वा तेन संगम्य सा विषेणावधीद्घटम् ।। ९०
ततस्तेन समं यान्ती पापा प्रव्राजकेन सा ।
धनदेवाभिधानेन संजग्मे वणिजा पथि ।। ९१
कोऽयं कपाली त्वं प्रेयान्ममेत्युक्त्वा ययौ समम् ।
वणिजा तेन संसुप्तं सा प्रव्राजं विहाय तम् ।। ९२
प्रव्राजकश्च स प्रातः प्रबुद्धः समचिन्तयत् ।
न स्नेहोऽस्ति न दाक्षिण्यं स्त्रीष्वहो चापलादृते ।। ९३
यद्विश्वास्यापि मां पापा हृतार्था च पलायिता ।
सैष लाभोऽथवा यन्न हतोऽस्मि घटवत्तया ।। ९४
इत्यालोच्य निजं देशं ययौ प्रव्राजकोऽथ सः ।
वणिजा सह तद्देशं प्राप्ता राजसुतापि सा ।। ९५
प्रवेशयामि सहसा बन्धकीं किमिमां गृहम् ।
इति स्वदेशप्राप्तश्च धनदेवो विचिन्तयन् ।। ९६
वणिक्तत्र किलैकस्या वृद्धाया वेश्म योषितः ।
प्रविवेश तया साकं राजपुत्र्या दिनात्यये ।। ९७
तत्र नक्तं स वृद्धां तां पप्रच्छापरिजानतीम् ।
धनदेववणिग्गेहवार्तामम्बेह वेत्सि किम् ।। ९८
तच्छ्रुत्वा साब्रवीद्वृद्धा का वार्ता यत्र तत्र सा ।
पुंसा नवनवेनैव तद्भार्या रमते सदा ।। ९९
चर्मपेटा गवाक्षेण रज्ज्वा तत्र हि लम्ब्यते ।
नक्तं विशति यस्तस्यां स एवान्तः प्रवेश्यते ।। १००
निष्काल्यते तथैवात्र पश्चिमायां पुनर्निशि ।
पानमत्ता च सा नैव निभालयति किंचन ।। १०१
एषा च तत्स्थितिः ख्यातिं नगरेऽत्राखिले गता ।
बहुकालो गतोऽद्यापि न चायाति स तत्पतिः ।। १०२
एतद्वृद्धावचः श्रुत्वा धनदेवस्तदैव सः ।
युक्त्या निर्गत्य तत्रागात्सान्तर्दुःखः ससंशयः ।। १०३
दृष्ट्वा स तत्र दासीभिः पेटां रज्ज्ववलम्बिताम् ।
विवेश स ततस्ताभिरुत्क्षिप्यान्तरनीयत ।। १०४
प्रविष्टः स तयालिङ्ग्य शय्यां निन्ये मदान्धया ।
अविज्ञातः स्वगेहिन्या हठात्क्षीबत्वमूढया ।। १०५
रिरंसा तस्य यावच्च नास्ति तद्दोषदर्शनात् ।
तावत्सा मददोषेण निद्रां तद्गेहिनी ययौ ।। १०६
निशान्ते च स दासीभिः सत्वरं रज्जुपेटया ।
गवाक्षेण बहिः क्षिप्तः खिन्नो वणिगचिन्तयत् ।। १०७
अलं मे गृहमोहेन गृहे नार्यो निबन्धनम् ।
तासामेवेदृशी वार्ता तस्माच्छ्रेयो वनं परम् ।। १०८
इति निश्चित्य संत्यज्य स तां राजसुतामपि ।
धनदेवः प्रववृते गन्तुं दूरं वनान्तरम् ।। १०९
गच्छतस्तस्य मार्गे च मिलितो मित्त्रतामगात् ।
ब्राह्मणो रुद्रसोमाख्यः प्रवासादागतश्चिरात् ।। ११०
स तेनोक्तः स्ववृत्तान्तं स्वभार्याशङ्कितो द्विजः ।
तेनैव वणिजा साकं सायं स्वग्राममासदत् ।। १११
तत्र स्वभवनोपान्ते गोपं दृष्ट्वा नदीतटे ।
माद्यन्तमिव गायन्तं नर्मणा पृच्छति स्म सः ।। ११२
गोप ते तरुणी काचित्कच्चिदस्त्यनुरागिणी ।
येनैवं गायसि मदान्मन्यमानस्तृणं जगत् ।। ११३
तच्छ्रुत्वा सोऽहसद्गोपो गोप्यं वस्तु क्रियन्मया ।
चिरविप्रोषितस्येह रुद्रसोमद्विजन्मनः ।। ११४
ग्रामाधिपस्य तरुणीमहं भार्यां सदा भजे ।
प्रवेशयति तद्दासी स्त्रीवेषं तद्गृहेऽत्र माम् ।। ऽ १५
एतद्गोपालतः श्रुत्वा मन्युमन्तर्निगृह्य च ।
तत्त्वं जिज्ञासमानस्तं रुद्रसोमो जगाद सः ।। ११६
यद्येवमतिथिस्तेऽहं स्ववेषं देह्यमु मम ।
यावत्त्वमिव तत्राद्य याम्यहं कौतुकं हि मे ।। ११७
एवं कुरु गृहाणेमं मदीयं कालकम्बलम् ।
लगुडं चास्व चैवेह तद्दासी यावदेष्यति ।। ११८
मद्बुद्ध्या च तयाहूय स्वैरं दत्ताङ्गनाम्बरः ।
नक्तं तत्र व्रजाहं च विश्राम्यामि निशामिमाम् ।। ११९
एवमुक्तवतस्तस्माद्गोपाल्लगुडकम्बलौ ।
गृहीत्वा रुद्रसोमोऽत्र तद्वेषेण स तस्थिवान् ।। १२०
गोपश्च वणिजा साकं धनदेवेन तेन सः ।
दूरे तत्र मनाक्तस्थौ दासी सा चाययौ ततः ।। १२१
सा तं तमसि तूष्णीकामेत्य स्त्रीवेषगुण्ठितम् ।
एहीत्युक्त्वा ततो रुद्रसोमं गोपधियानयत् ।। १२२
स च नीतः स्वभार्यां तां दृष्ट्वा गोपालबुद्धितः ।
उत्थायैव कृताश्लेषां रुद्रसोमो व्यचिन्तयत् ।। १२३
संनिकृष्टे निकृष्टेऽपि कष्टं रज्यन्ति कुस्त्रियः ।
पापानुरक्ता यदियं गोपेऽप्यासन्नवर्तिनि ।। १२४
इति ध्यायन्मिषं कृत्वा तदैवास्फुटया गिरा ।
निर्गत्यैव विरक्तात्मा धनदेवान्तिकं ययौ ।। १२५
उक्तस्वगृहवृत्तान्तो वणिजं तमुवाच सः ।
त्वया सहाहमप्येमि वनं यातु गृहं क्षयम् ।। १२६
इत्यूचिवान्नुद्रसोमो धनदेववणिक्च सः ।
वनं प्रति प्रतस्थाते तदैव सह तौ ततः ।। १२७
मिलितश्च तयोर्मार्गे धनदेवसुहृच्छशी ।
कथाप्रसङ्गात्तौ तस्मै स्ववृत्तान्तं शशंसतुः ।। १२८
स तच्छ्रुत्वा शशीर्ष्यालुश्चिराद्देशान्तरागतः ।
साशङ्को भूत्स्वगेहिन्या न्यस्तायामपि भूगृहे ।। १२९
प्रक्रामंश्च समं ताभ्यां सायं स स्वगृहान्तिकम् ।
शशी प्राप गृहातिथ्यं तयोः कर्तुमियेष च ।। १३०
तावच्च दुर्गन्धवहं कुष्ठशीर्णकराङ्घ्रिकम् ।
तत्रापश्यत्सशृङ्गारं गायन्तं पुरुषं स्थितम् ।। १३१
विस्मयाच्च तमप्राक्षीदीदृशः को भवानिति ।
कामदेवोऽहमस्मीति कुष्ठी सोऽपि जगाद तम् ।। १३२
का भ्रान्तिः कामदेवस्त्वं रूपशोभैव वक्ति ते ।
इत्युक्तः शशिना भूयः सोऽवादीच्छृणु वच्मि ते ।। १३३
इह धूर्तः शशी नाम दत्तैकपरिचारिकाम् ।
भार्यां निक्षिप्य भूगेहे सेर्ष्यो देशान्तरं गतः ।। १३४
तद्भार्यया विधिवशादिह दृष्टस्य मे तया ।
अर्पितः सद्य एवात्मा मदनाकृष्टचित्तया ।। १३५
तया समं च सततं रात्रौ रात्रावहं रमे ।
पृष्ठे गृहीत्वा तद्दासी प्रवेशयति तत्र माम् ।। १३६
तद्ब्रूहि किं न कामोऽहं प्राप्तिः कस्यान्ययोषिताम् ।
यच्चित्राकारधारिण्या भार्यायाः शशिनः प्रियः ।। १३७
एतत्कुष्ठिवचः श्रुत्वा शशी निर्घातदारुणम ।
दुःखं निगूह्य जिज्ञासुर्निश्चयं तमुवाच सः ।। १३८
सत्यं भवसि कामस्त्वं तदेवं त्वाहमर्थये ।
त्वत्तः श्रुतायामुत्पन्नं तस्या कौतूहलं मम ।। १३९
तदद्यैव निशा तत्र त्वद्वेषेण विशाम्यहम् ।
प्रसीदान्वहलभ्येऽर्थे तवात्र कियती क्षतिः ।। १४०
इत्युक्तः शशिना तेन स कुष्ठी तमभाषत ।
एवमस्तु गृहाणेमं मद्वेषं देहि मे निजम् ।। १४१
तिष्ठाहमिव संवेष्ट्य पाणिपादं च वाससा ।
यावदायाति सा तस्या दासी तमसि जृम्भिते ।। १४२
मद्बुद्ध्या च तया पृष्ठे गृहीतोऽहमिव व्रज ।
अहं हि पादवैकल्याद्गच्छाम्यत्र तथा सदा ।। १४३
इत्युक्तः कुष्ठिना सोऽथ शशी तद्वेषमास्थितः ।
तत्रासीत्तत्सहायौ तौ कुष्ठी चासन्विदूरतः ।। १४४
अथागत्य तया कुष्ठिवेषो दृष्टः स तद्धिया ।
एहीत्युक्त्वा शशी भार्यादास्या पृष्ठेऽध्यरोप्यत ।। १४५
निन्ये च नक्तं स तया स्वभार्यायास्ततोऽन्तिकम् ।
कुष्ठिजारप्रतीक्षिण्यास्तस्यास्तद्भूगृहान्तरम् ।। १४६
तत्रान्धकारे शोचन्तीमङ्गस्पर्शेन तां ध्रुवम् ।
स्वभार्यामेव निश्चित्य स वैराग्यमगाच्छशी ।। १४७
ततस्तस्यां प्रसुप्तायां निर्गत्यादृष्ट एव सः ।
जगाम धनदेवस्य रुद्रसोमस्य चान्तिकम् ।। १४८
आख्याय च स्ववृत्तान्तं तयोः खिन्नो जगाद सः ।
हा धिङ्निम्नाभिपातिन्यो लोला दूरान्मनोरमाः ।। १४९
सुक्षोभ्या न स्त्रियः शक्याः पातुं श्वभ्रापगा इव ।
यदेषा भूगृहस्थापि भार्या मे कुष्ठिनं गता ।। १५०
तन्ममापि वनं श्रेयो धिग्गृहानिति स ब्रुवन् ।
समदुःखवणिग्विप्रयुतस्तामनयन्निशाम् ।। १५१
प्रातस्त्रयोऽपि सहिताः प्रस्थितास्ते वनं प्रति ।
सवापीकतलं प्रापुर्दिनान्ते पथि पादपम् ।। १५२
भुक्तपीताश्च ते रात्रौ तत्रारुह्य तरौ स्थिताः ।
अपश्यन्पान्थमागत्य सुप्तमेकं तरोरधः ।। १५३
क्षणाच्च ददृशुर्वापीमध्यादपरमुद्गतम् ।
पुरुषं वदनोद्गीर्णसस्त्रीकशयनीयकम् ।। १५४८
उपभुज्य स्त्रियं तां स सुष्वाप शयनीयके ।
स्त्री च दृष्ट्वैव संजग्मे पान्थेनोत्थाय तेन सा ।। १५५
कौ युवामिति पृष्टा च रतान्ते तेन साब्रवीत् ।
नाग एषोऽहमेतस्य भार्येयं नागकन्यका ।। १५६
माभूद्भयं च ते यस्मात्पान्थानां नवतिर्मया ।
नवाधिकोपभुक्तैव पूरितं तु शतं त्वया ।। १५७
एवं वदन्तीं तां तं च पान्थं देवात्प्रबुध्य सः ।
नागो दष्ट्वा मुखाज्ज्वेलां मुक्त्वा भस्मीचकार तौ ।। १५८
न शक्या रक्षितुं यत्र देहान्तर्निहिता अपि ।
स्त्रियस्तत्र गृहे तासां का वार्ता धिग्धिगेव ताः ।। १५९
इति नागे गते वापीं ब्रुवन्तस्ते त्रयो निशाम् ।
शशिप्रभृतयो नीत्वा निर्वृताः प्रययुर्वनम् ।। १६०
तस्मिन्मैत्र्याद्यविकलचतुर्भावनाभ्यासशान्तैश्चित्तैः सम्यङ्नियतमतयः सर्वभूतेषु सौम्याः ।
प्राप्ताः सिद्धिं निरुपमपरानन्दभूमौ समाधौ जग्मुर्मोक्षं क्षपिततमसस्ते त्रयोऽपि क्रमेण ।। १६१
ता योषितस्तु तेषां निजपापविपाकजनितकष्टदशाः ।
अचिरादेव विनष्टा दुष्टा लोकद्वयभ्रष्टाः ।। १६२
एवं मोहप्रभवो रागो न स्त्रीषु कस्य दुःखाय ।
तास्वेव विवेकभृतां भवति विरागस्तु मोक्षाय ।। १६३
इति गोमुखतः कथाविनोदं सचिवाच्छक्तियशःसमागमोत्कः ।
पुनरेव स वत्सराजसूनुश्चिरमाकर्ण्य शनैर्जगाम निद्राम् ।। १६४
इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे शक्तियशोलम्बकेऽष्टमस्तरङ्गः ।