प्रमुखा विकल्पसूचिः उद्घाट्यताम्

विकिस्रोतः β

कथासरित्सागरः/लम्बकः १०/तरङ्गः ९

< कथासरित्सागरः‎ | लम्बकः १०

अथान्येद्युः पुनरिमां निशि प्राग्वद्विनोदयन् ।
नरवाहनदत्ताय गोमुखोऽकथयत्कथाम् ।। १
बभूव नगरे क्वापि बोधिसत्त्वांशसंभवः ।
कस्याप्याढ्यस्य वणिजस्तनयो मृतमामृकः ।। २
अन्यजायाप्रसक्तेन पित्रा तत्प्रेरितेन सः ।
निरस्तो वनवासाय सभार्यो निरगाद्गृहात् ।। ३
स्वानुजं तु सहायान्तं तद्वत्पित्रा निराकृतम् ।
अशान्तचित्तमुत्सृज्य सोऽन्येनैव पथा ययौ ।। ४
प्रक्रामंश्च क्रमात्प्राप निस्तोयतृणपादपाम् ।
पाथेयहीनश्चण्डांशुतप्तां मरुमहाटवीम् ।। ५५
तस्यां व्रजन्स सप्ताहं भार्यां क्लान्तां क्षुधा तृषा ।
अजीवयत्स्वमांसास्रैः पापा तान्याहरच्च सा ।। ६
अष्टमेऽह्नि सरिद्वीचिवाचालं गिरिकाननम् ।
प्राप सत्फलसच्छायपादपं स्निग्धशाद्वलम् ।। ७
तत्र संभाव्य भार्यां तां क्लान्तां मूलफलाम्बुभिः ।
अवातरद्गिरिनदीं स्नातुं कल्लोलमालिनीम् ।। ८
तस्यां ददर्श च च्छिन्नहस्तपादचतुष्टयम् ।
ह्रियमाणं जलौघेन पुरुष त्राणकाङ्क्षिणम् ।। ९
बहूपवासक्लान्तोऽपि तां विगाह्य नदीं ततः ।
उज्जहार कृपालुस्तं महासत्त्वः स पूरुषम् ।।
केनेदं ते कृतं भ्रातरिति कारुणिकेन च ।
तेनारोप्य स्थलं पृष्टः स रुण्ड पुरुषोऽभ्यधात् ।। ११
निकृत्तहस्तचरणो नद्यां क्षिप्तोऽस्मि शत्रुभिः ।
दित्सुभिः क्लेशमरणं त्वयाहं तूद्धृतस्ततः ।। १२
एवमुक्तवतस्तस्य स बद्ध्वा व्रणपट्टिकाम् ।
दत्त्वाहारं महासत्त्वः स्नानादि व्यधितात्मनः ।। १३
ततो मूलफलाहारो भार्यायुक्तोऽत्र कानने ।
स तस्थौ बोधिसत्त्वांशो वणिक्पुत्रस्तपश्चरन् ।। १४
एकदा फलमूलार्थं गते तस्मिन्स्मरातुरा ।
तद्भार्या तेन रुण्डेन रेमे रूढव्रणेन सा ।। १५५
तत्सक्ता तेन संमन्त्र्य भर्तुस्तस्य वधैषिणी ।
युक्त्या चकार सान्येद्युर्मान्द्यं दुश्चारिणी मृषा ।। १६
श्वभ्रे दुरवतारेऽथ स्थितां दुस्तरनिम्नगे ।
दर्शयित्वौषधिं पापा पतिं सा तमभाषत ।। १७
जीवाम्यहं त्वयैषा चेन्ममानीता महौषधिः ।
जाने ह्येतामिहस्थां मे स्वप्ने वक्ति स्म देवता ।। १८
तच्छ्रुत्वा स तथेत्येव श्वभ्रे तत्रौषधेः कृते ।
तृणवेष्टितया रज्ज्वावातरत्तरुबद्धया ।। १९
अवतीर्णस्य रज्जुं तां चिक्षेपोन्मुच्य तस्य सा ।
ततः स पतितो नद्यां तया जह्रे महौघया ।। २०
दूराद्दवीयो नीत्वा च तया सुकृतरक्षितः ।
नद्या कस्यापि नगरस्यासन्ने सोऽर्पितस्तटे ।। २१
ततः स स्थलमारुह्य चिन्तयन्स्त्रीविचेष्टितम् ।
जलावगाहनक्लान्तो विशश्राम तरोस्तले ।। २२
तस्मिन्काले च नगरे राजा तत्र मृतोऽभवत् ।
मृते राजनि चानादिर्देशे तत्रेदृशी स्थितिः ।। २२
यन्मङ्गलगजः पौरैर्भ्राम्यमाणः करेण यम् ।
आरोपयति पृष्ठे स्वे सोऽत्र राज्येऽभिषिच्यते ।। २४
स धैर्यतुष्टो धातेव भ्रमन्प्राप्तोऽन्तिकं गजः ।
उत्क्षिप्यारोपयामास स्वपृष्ठे तं वणिक्सुतम् ।। २५
ततः स नगरं नीत्वा राज्ये प्रकृतिभिः क्षणात् ।
वणिक्सुतोऽभिषिक्तोऽभूद्बोधिसत्त्वांशसंभवः ।। २६
स राज्यं प्राप्य करुणामुदिताक्षान्तिभिः सह ।
अरंस्त न तु पापाभिः स्त्रीभिश्चपलवृत्तिभिः ।। २७
तद्भार्या सापि निःशङ्का मत्वा तं च नदीहृतम् ।
बभ्रामेतस्ततो जारं रुण्डं पृष्ठेऽधिरोप्य तम् ।। २८
वैरिकृत्ताङ्घ्रिहस्तोऽयं भर्ता मेऽहं पतिव्रता ।
भिक्षित्वा जीवयाम्येतं तद्भिक्षां मे प्रयच्छत ।। २९
इति सा भिक्षमाणा च ग्रामे ग्रामे पुरे पुरे ।
राज्यस्थस्यात्मनो भर्तुर्नगरं प्राप तस्य तत् ।। ३०
तथैव भिक्षमाणात्र राज्ञस्तस्य क्रमेण सा ।
पतिव्रतेत्यर्च्यमाना पौरैः श्रुतिपथं ययौ ।। ३१
आनाययत्स राजा च तां पृष्ठारूढरुण्डिकाम् ।
का सा पतिव्रतेत्यारात्परिज्ञाय च पृष्टवान् ।। ३२
साहं पतिव्रता देवेत्यपरिज्ञाय सापि तम् ।
भर्तारमब्रवीत्पापा राजश्रीतेजसा वृतम् ।। ३३
ततः स बोधिसत्त्वांशो हसन्राजा जगाद ताम् ।
दृष्टं पतिव्रतात्वं ते फलेनेदं मयैव च ।। ३४
स्वरक्तमांसं दत्त्वापि स्वीकर्तुं शङ्किता न या ।
स्वेनाविलुप्तहस्तेन भर्त्रा मानुषराक्षसी ।। ३५
सा सदा रक्तमांसानि हरन्ती बत मे कथम् ।
रुण्डेन विकलेनापि स्वीकृत्य वहनीकृता ।। ३६
किंस्विदूढः स भर्ता यो नद्यां क्षिप्तस्त्वयानघः ।
कर्मणा तेन वहसे रुण्डमेतं बिभर्षि च ।। ३७
इत्युद्धाटितवृत्तं तं परिज्ञाय पतिं ततः ।
भयात्सा मूर्च्छितेवाभूल्लिखितेव मृतेव च ।। ३८
किमेतद्ब्रूहि देवेति सोऽथ राजा सकौतुकैः ।
पृष्टोऽमात्यैर्यथावृत्तं तेभ्यः सर्वमवर्णयत् ।। ३९
ततो भर्तृद्रुहं बुद्ध्वा छित्त्वा तां कर्णनासिकम् ।
कृत्वाहं मन्त्रिणो देशात्सरुण्डां निरवासयन् ।। ४०
छिन्ननासिकया रुण्डं बोधिसत्त्वं नृपश्रिया ।
युक्तं सदृशसंयोगं तदा विधिरदर्शयत् ।। ४१
एवं दुरवधार्यैव गतिश्चित्तस्य योषिताम् ।
दैवस्येवाविचारस्य नीचैकाभिमुखस्य च ।। ४२
एवं चात्यक्तशीलानां ससत्वानां जितक्रुधाम् ।
तुष्ट्वेवाचिन्तिता एव स्वयमायान्ति संपदः ।। ४३
इत्याख्याय कथां मन्त्री गोमुखः पुनरेव सः ।
नरवाहनदत्ताय कथामेतामवर्णयत् ।। ४४
कोऽप्यासीद्बोधिसत्त्वांशो वने क्वापि कृतोटजः ।
करुणैकाग्रहृदयो महासत्त्वस्तपश्चरन् ।। ४५
स तत्र जन्तूनापन्नान्पिशाचांश्च समुद्धरन् ।
अपरांश्च जलैरन्नैः स्वप्रभावादतर्पयत् ।। ४६
एकदान्योपकारार्थं भ्रमन्सोऽत्राटवीभुवि ।
महान्तं कूपमद्राक्षीत्तदन्तश्च ददौ दृशम् ।। ४७
तावच्च स्त्री तदन्तःस्था तं दृष्ट्वोच्चैरभाषत ।
भो महात्मन्नहं नारी सिंहः स्वर्णशिखः खगः ।। ४८
भुजगश्चेति चत्वारः कूपेऽत्र रजनौ वयम् ।
पतितास्तदतः क्लेशादुद्धरास्मान्कृपां कुरु ।। ४९
एतच्छ्रुत्वा जगादैतां स्त्रियं यूयं त्रयो यदि ।
तमसान्धा निपतिताः खगोऽत्र पतितः कथम् ।। ५०
तथैवैषोऽपि पतितो व्याधजालेन संयतः ।
इति सापि महासत्त्वं तं नारी प्रत्यभाषत ।। ५१
ततस्तान्स तपःशक्त्या यावदुद्धर्तुमिच्छति ।
तावच्छशाक नोद्धर्तुं सिद्धिस्तस्य त्वहीयत ।। ५२
पापेयं स्त्री ध्रुवं सिद्धिरेतत्संभाषणाद्धि मे ।
नष्टा यतस्त्वत्र तावद्युक्तिमन्यां करोम्यहम् ।। ५३
इति संचिन्त्य रज्ज्वा तांस्तृणावेष्टितयाखिलान् ।
उज्जहार महासत्त्वः स कूपात्कुर्वतः स्तुतिम् ।। ५४
सविस्मयश्च पप्रच्छ सिंहपक्षिभुजंगमान् ।
व्यक्ता वाग्वः कथं कीदृग्वृत्तान्तश्चोच्यतामिति ।। ५५
ततः सिंहोऽब्रवीद्व्यक्तवाचो जातिस्मरा वयम् ।
अन्योन्यबाधकाश्चास्मदवृत्तान्तं च क्रमाच्छृणु ।। ५६
इत्युक्त्वा स स्ववृत्तान्तं सिंहो वक्तुं प्रचक्रमे ।
अस्ति वैदूर्यशृङ्गाख्यं तुषाराद्रौ पुरोत्तमम् ।। ५७
पद्मवेगाभिधानोऽस्ति तत्र विद्याधरेश्वरः ।
वज्रवेगाभिधानश्च पुत्रस्तस्योदपद्यत ।। ५८
स वज्रवेगोऽहंकारी विरोधं येनकेनचित् ।
साकं शौर्यमदाच्चक्रे लोके वैद्याधरे वसन् ।। ५९
निषेधतः पितुस्तस्य यदा नागणयद्वचः ।
तदा पिता तमशपन्मर्त्यलोके पतेति सः ।। ६०
ततो नष्टमदो भ्रष्टविद्यः शापहतो रुदन् ।
वज्रवेगः स पितरं शापान्तं तमयाचत ।। ६१
ततः स तत्पिता पद्मवेगो ध्यात्वाब्रवीत्क्षणात् ।
भुवि विप्रसुतो भूत्वा कृत्वाप्येवं मदं पुनः ।। ६२
पितुः शापात्ततः सिंहो भूत्वा कूपे पतिष्यसि ।
महासत्त्वश्च कृपया कश्चित्त्वामुद्धरिष्यति ।। ६३
तस्य प्रत्युपकारं च विधायापदि मोक्ष्यसे ।
शापादस्मादिति पिता शापान्तं तस्य स व्यधात् ।। ६४
अथेह वज्रवेगोऽसौ विप्रस्याजनि मालवे ।
हरघोषाभिधानस्य देवघोषाभिधः सुतः ।। ६५
स तत्राप्यकरोद्वैरं बहुभिः शौर्यगर्वतः ।
बहुभिर्मा कृथा वैरमिति तं चावदत्पिता ।। ६६
अकुर्वाणं वचस्तस्य शप्तवान्स पिता क्रुधा ।
शौर्याभिमानी दुर्बुद्धे सिंहस्त्वं भव सांप्रतम् ।। ६७
एवं तस्य पितुः शापाद्देवघोषः पुनश्च सः ।
विद्याधरावतारः सन्सिंहो जातोऽत्र कानने ।। ६८
तमिमं विद्धि मां सिंहं सोऽहं दैवाद्भ्रमन्निशि ।
कूपेऽद्य पतितोऽमुष्मिन्महासत्त्वोद्धृतस्त्वया ।। ६९
तद्यामि तावदापच्च यदा स्यात्क्वापि ते तदा ।
मां स्मरेरुपकारं ते कृत्वा मोक्ष्ये स्वशापतः ।। ७०
इत्युदीर्य गते सिंहे बोधिसत्त्वेन तेन सः ।
पृष्टः सुवर्णचूलोऽथ पक्षी स्वोदन्तमभ्यधात् ।। ७१
अस्ति विद्याधराधीशो वज्रदंष्ट्रो हिमाचले ।
तस्य देव्यामजायन्त पञ्च कन्या निरन्तराः ।। ७२
ततः स हरमाराध्य तपसा प्राप्तवान्सुतम् ।
राजा रजतदंष्ट्राख्यं जीवितादधिकप्रियम् ।। ५
स तेन पित्रा बालोऽपि विद्याः स्नेहेन लम्भितः ।
वृद्धिं रजतदंष्ट्रोऽत्र बन्धुनेत्रेत्सवो ययौ ।। ७४
एकदा भगिनीं ज्येष्ठां नाम्ना सोमप्रभां च सः ।
गौर्याः पुरः पिञ्जरकं वादयन्तीमवैक्षत ।। ७५
देहि पिञ्जरकं मह्यं वादयाम्यहमप्यदः ।
इत्ययाचत तां सोऽथ बालत्वादनुबन्धतः ।। ६
सा तन्नादाद्यदा तस्मै तदा चापलतः स्वयम् ।
तस्यास्तत्सोऽपहृत्यैव पक्षीवोदपतन्नभः ।। ७७
साथ स्वसा तमशपद्यन्मे पिञ्जरकं हठात् ।
हत्वोड्डीनोऽसि तत्पक्षी स्वर्णचूलो भविष्यसि ।। ७८
तच्छ्रुत्वा पादपतितेनैत्य सा तेन याचिता ।
स्वसा रजतदंष्ट्रेण तस्य शापान्तमब्रवीत् ।। ७९
पक्षी भूत्वान्धकूपे त्वं यदा मूढ पतिष्यसि ।
उद्धरिष्यति कश्चिच्च तदा त्वां करुणापरः ।। ८०
तस्य कृत्वोपकारांशं शापमेतं तरिष्यसि ।
इत्युक्तः स तया भ्राता स्वर्णचूलः खगोऽजनि ।। ८१
स एष स्वर्णचूलोऽहं पक्षी भ्रष्टोऽवटे निशि ।
इहोद्धृतोऽस्मि भवता तदिदानीं व्रजाम्यहम् ।। ८२
आपदि त्वं स्मरेर्मां च तव कृत्वा ह्युपक्रियाम् ।
शापान्मोक्ष्येऽहमित्युक्त्वा सोऽपि पक्षी ययौ ततः ।। ८३
ततः स बोधिसत्त्वेन तेन पृष्टो भुंजगमः ।
स्वोदन्तं कथयामास तस्मायत्र महात्मने ।। ८४
पुरा मुनिकुमारोऽहमभूवं कश्यपाश्रमे ।
अभवत्तत्र चैको मे वयस्यो मुनिपुत्रकः ।। ८५५
एकदा चावतीर्णेऽस्मिन्सरः स्नातुं वयस्यके ।
तटस्थितोऽहमद्राक्षं त्रिफणं सर्पमागतम् ।। ८६
तेन भीषयितुं तं च वयस्यं नर्मणा मया ।
तत्संमुखं तटान्ते स बद्धो मन्त्रबलादहिः ।। ८७
क्षणात्स्नात्वा तटं प्राप्तो मद्वयस्यो विलोक्य सः ।
अशङ्कितं महाहि तं त्रस्तो मोहमुपागमत् ।। ८८
चिरादाश्वासितः सोऽथ मया ध्यानादवेत्य तत् ।
मत्कृतं त्रासनं कोपाच्छपति स्म सखापि माम् ।। ८९
गच्छेदृगेव त्रिफणः सर्पो भव महानिति ।
अनुनीतोऽथ शापान्तमृषिपुत्रः स मेऽवदत् ।। ९०
सर्पीभूतं च्युतं कूपे योऽसौ त्वामुद्धरिष्यति ।
तस्योपकृत्यावसरे शापमुक्तो भविष्यसि ।। ९१
इत्युक्त्वैव गते तस्मिन्नेषोऽहं सर्पतां गतः ।
उद्धृतोऽस्मि त्वया चाद्य कूपात्तद्यामि संप्रति ।। ९२
स्मृतश्चैत्योपकारं ते कृत्वा मोक्ष्ये स्वशापतः ।
इत्युक्त्वा भुजगे याते स्त्री स्ववृत्तमवर्णयत् ।। ९३
अहं क्षत्रियपुत्रस्य भार्या राजोपसेविनः ।
शूरस्य त्यागिनो यूनश्चारुरूपस्य मानिनः ।। ९४
कृतोऽन्यपुरुषासङ्गो मया तदपि पापया ।
तद्विज्ञाय स भर्ता मे निग्रहायाकरोन्मतिम् ।। ९५
सखीमुखाच्च तद्बुद्ध्वा तदैवाहं पलायिता ।
रात्रौ वनं प्रविष्टेदं कूपभ्रष्टोद्धृता त्वया ।। ९६
त्वत्प्रसादादिदानीं च गत्वा जीवामि कुत्रचित् ।
भूयात्तन्मे दिनं यत्र कुर्यां ते प्रत्युपक्रियाम् ।। ९७
इत्युक्त्वा बोधिसत्त्वं तं कुलटा निकटात्ततः ।
गोत्रवर्धनसंज्ञस्य राज्ञः सा नगरं ययौ ।। ९८
तस्य संगतिमुत्पाद्य परिवारजनैः सह ।
तस्थौ राजमहादेव्या दासीभावाश्रयेण सा ।। ९९
तस्यापि बोधिसत्त्वस्य तस्याः संभाषणात्स्त्रियाः ।
नाविरासीद्वने नष्टसिद्धेर्मूलफलादिकम् ।। १००
ततः क्षुत्तृष्णया क्लान्तः प्राक्स सिंहं तमस्मरत् ।
स्मृतागतः स चैतस्य व्यधाद्वृत्तिं मृगामिषैः ।। १०१
कंचित्कालं स तन्मांसैः प्रकृतिस्थं विधाय तम् ।
केसरी सोऽब्रवीत्क्षीणः सशापो मे व्रजाम्यहम् ।। १०२
इत्युक्त्वा सिंहतां मुक्त्वा भूत्वा विद्याधरश्च सः ।
जगाम तदनुज्ञातस्तमामन्त्र्य निजं पदम् ।। १०३
ततः स बोधिसत्त्वांशो वृत्तिग्लानः पुनः खगम् ।
सस्मार स्वर्णचूलं तमुपागात्सोऽपि तत्स्मृतः ।। १०४
आवेदितार्तिस्तेनासौ गत्वानीय खगः क्षणात् ।
रत्नाभरणसंपूर्णां ददौ तस्मै करण्डिकाम् ।। १०५
उवाच चैतेनार्थेन वृत्तिः स्याच्छाश्वती तव ।
मम जातश्च शापान्तः स्वस्ति ते साधयाम्यहम् ।। १०६
इत्युक्त्वा सोऽपि भूत्वैव विद्याधरकुमारकः ।
स्वलोकं नभसा गत्वा प्राप राज्यं निजात्पितुः ।। १०७
सोऽपि रत्नानि विक्रेतुं बोधिसत्त्वः परिभ्रमन् ।
तत्प्राप नगरं यत्र सा स्त्री कूपोद्धृता स्थिता ।। १०८
तत्रैकस्याश्च वृद्धाया ब्राह्मण्या विजने गृहे ।
निधाय तान्याभरणान्यापणं यावदेति सः ।। १०९
तावद्ददर्श तामेव वने कूपात्समुद्धृताम् ।
स्त्रियं संमुखमायान्तीं सापि स्त्री पश्यति स्म तम् ।। ११०
संभाषणे कृतेऽन्योन्यमथ सा स्त्री कथाक्रमात् ।
स्वं राजमहिषीपार्श्वस्थितमस्मै न्यवेदयत् ।। १११
सोऽपि पृष्टस्ववृत्तान्तस्तया तस्यै शशंस ताम् ।
रत्नाभरणसंप्राप्तिं स्वर्णचूलखगादृजुः ।। ११२
नीत्वा चाभरणं तस्यै वृद्धावेश्मन्यदर्शयत् ।
सापि गत्वा शठा राक्ष्यै स्वस्वामिन्यै शशंस तत् ।। ११३
तस्याश्च राज्ञ्या गेहान्तः स्वर्णचूलेन पक्षिणा ।
नीतं छलेन पश्यन्त्या एवाभरणभाण्डकम् ।। ११४
तच्च सा स्वपुरप्राप्तं राज्ञी तस्या मुखात्स्त्रियाः ।
बुद्ध्वा विदितवेद्याया राजानं तं व्यजिज्ञपत् ।। ११५
राजापि बोधिसत्त्वं तं दर्शितं कुस्त्रिया तया ।
आनाययत्साभरणं भृत्यैर्बद्ध्वा गृहात्ततः ।। ११६
परिपृच्छ्य च वृत्तान्तं सत्यं मत्वापि तद्वचः ।
स्थापयामास बद्धं तं गृहीत्वाभरणान्यपि ।। ११७
स बन्धस्थोऽत्र सस्मार बोधिसत्त्वो भुजंगमम् ।
ऋषिपुत्रावतारं तमुपतस्थे च सोऽपि तम् ।। ११८
दृष्ट्वा च तं स पृष्टार्थः सर्पः साधुमभाषत ।
गत्वाहं वेष्टयाम्येतमा मूर्धान्तं महीपतिम् ।। ११९
न च मुञ्चाम्यमुं यावदागत्योक्तोऽस्मि न त्वया ।
मोक्ष्याम्यहं नृपं सर्पादिति त्वं च वदेरिह ।। १२०
त्वय्यागते त्वद्वचसा मोक्ष्याम्यहमतो नृपम् ।
मन्मुक्तश्चैष राजा ते स्वराज्यार्धं प्रदास्यति ।। १२१
इत्युक्त्वा तं स गत्वैव परिवेष्टितवानहिः ।
राजानमास्त चैतस्य मूर्घ्नि कृत्वा फणत्रयम् ।। १२२
हा हा दष्टोऽहिना राजेत्याक्रन्दति जनेऽथ सः ।
बोधिसत्त्वोऽब्रवीद्रक्षाम्यहं नृपमहेरिति ।। १२३
श्रुतवद्भिश्च तद्वाक्यं विज्ञप्तः सोऽनुजीविभिः ।
आनाय्य बोधिसत्त्वं तं सर्पाक्रान्तोऽब्रवीमृपः ।। १२४
यदि मां मोचयस्यस्मात्सर्पात्तत्ते ददाम्यहम् ।
राज्यार्धमन्तरस्थाश्च तवैते मन्त्रिणोऽत्र मे ।। १२५
तच्छ्रुत्वा बाढमित्युक्ते मन्त्रिभिः स जगाद तम् ।
भुजंगं बोधिसत्त्वांशो मुञ्च राजानमाश्विति ।। १२६
ततस्तेनाहिना मुक्तो राज्यार्धं नृपतिर्ददौ ।
स तस्मै बोधिसत्त्वाय सोऽपि स्वस्थोऽभवत्क्षणात् ।। १२७
सर्पश्च क्षीणशापः सन्भूत्वा मुनिकुमारकः ।
सदस्याख्यातवृत्तान्तो जगाम निजमाश्रमम् ।। १२८
एवं निश्चितमभ्येति शुभमेव शुभात्मनाम् ।
एवं चातिक्रमो नाम क्लेशाय महतामपि ।। १२९
अविश्वासास्पदं चैव स्त्रीणां स्पृशति नाशयम् ।
प्राणदानोपकारोऽपि किं तासामन्यदुच्यते ।। १३०
इत्याख्याय कथां वत्सराजपुत्र स गोमुखः ।
उवाच कथयाम्येताः पुनर्मुग्धकथाः शृणु ।। १३१
बभूव श्रमणः कश्चिद्विहारे क्वापि मूढधीः ।
स रथ्यायां भ्रमञ्जातु शुना जानुन्यदश्यत ।। १३२
श्वदष्टः स विहारं स्वमुपागत्य व्यचिन्तयत् ।
किं वृत्तं जानुनि तवेत्येकैकः प्रक्ष्यतीह माम् ।। १३३
प्रत्याययिष्याम्येवं च कियतोऽहं कियच्चिरम् ।
तदुपायं करोम्यत्र सर्वान्बोधयितुं सकृत् ।। १३४
इत्यालोच्य समारुह्य स विहारोपरि द्रुतम् ।
गृहीत्वा ग्रन्थिमुसलं मूढो भिक्षुरवादयत् ।। १३५
अकारणमकाले किं ग्रन्थि वादयसीति तम् ।
श्रुत्वाश्चर्येण मिलिताः पप्रच्छुरथ भिक्षव ।। १३६
शुना मे भक्षितं जानु तदैकैकस्य पृच्छतः ।
ब्रुवेऽहं कियदित्येवं यूयं संघटिता मया ।। १३७
तद्बुध्यध्वं समं सर्वे जानु मे पश्यतेति सः ।
भिक्षून्प्रत्यब्रवीदेताञ्श्वदष्टं जानु दर्शयन् ।। १३८
ततः पार्श्वोपपीडं ते समग्रा भिक्षवोऽहसन् ।
कियन्मात्रे कृतोऽनेन संरम्भोऽयं कियानिति ।। १३९
आख्यातः श्रमणो मूर्खष्टक्कमूर्खो निशम्यताम् ।
कदर्यः कोऽप्यभूत्क्वापि मूर्खष्टक्को महाधनः ।। १४० १ टक्को वाहीकदेशोद्भवः पुरुषः.
सभार्यः स सदा भुङ्क्ते सक्तूंल्लवणवर्जितान् ।
अन्यस्यान्नस्य बुबुधे नैव स्वादं स जातुचित् ।। १४१
एकदा प्रेरितो धात्रा स भार्यामब्रवीन्निजाम् ।
क्षीरिणीं प्रति जाता मे श्रद्धा तामद्य मे पच ।। १४२
तथेति तस्य सा भार्या पपाच क्षीरिणीं तदा ।
तस्थौ चाभ्यन्तरे गुप्तं स टक्कः शयनं श्रितः ।। १४३
दृष्ट्वा प्राघुणिकः कश्चिदत्र मे मा स्म भूदिति ।
तावत्तस्य सुहृद्धूर्तष्टक्कस्तत्रैक आययौ ।। १४४
क्व ते भर्तेति पप्रच्छ स च तां तस्य गेहिनीम् ।
साप्यदत्तोत्तरा तस्य प्राविशद्भर्तुरन्तिकम् ।। १४५
आख्यातमित्त्रागमना सोऽपि भार्या जगाद ताम् ।
उपविश्येह रुदती पादावादाय तिष्ठ मे ।। १४६
भर्ता मे मृत इत्येवं वदेश्च सुहृदं मम ।
ततो गतेऽस्मिन्नावाभ्यां भोक्तव्या क्षीरिणी सुखम् ।। १४७
इत्युक्ता तेन यावत्सा प्रवृत्ता रोदितुं तदा ।
तावत्प्रविश्य सोऽपृच्छत्किमेतदिति तां सुहृत् ।। १४८
भर्ता मृतो मे पश्येति तयाक्तः स व्यचिन्तयत् ।
क्व पचन्ती मया दृष्टा सुखिता क्षीरिणामियम् ।। १४९
क्वाधुनैव विपन्नोऽयमेतद्भर्ता विना रुजम् ।
नूनं मां प्राघुणं दृष्ट्वा कृतमाभ्यामिदं मृषा ।। १५०
तन्मया नैव गन्तव्यमित्यालोच्योपविश्य सः ।
धूर्तो हा मित्र हा मित्त्रेत्याक्रन्दस्तत्र तस्थिवान् ।। १५१
श्रुताक्रन्दाः प्रविश्यात्र बान्धवा मृतवत्स्थितम् ।
श्मशानं भौतटक्कं तं नेतुमासन्समुद्यताः ।। १५२
उत्तिष्ठ बान्धवैर्यावदेतैर्नीत्वा न दह्यसे ।
इत्युपांश्ववदत्कर्णमूले भार्या तदा च तम् ।। १५३
मैवं शठोऽयं टक्को मे क्षीरिणीं भोक्तुमिच्छति ।
नोत्तिष्ठामि तदेवस्मिन्नगतेऽहं मृतो यदि ।। १५४
प्राणेभ्योऽप्यन्नमुष्टिर्हि मादृशानां गरीयसी ।
इति प्रत्यब्रवीद्भार्यामुपांश्वेव स तां जडः ।। १५५
ततस्तेन कुमित्त्रेण नीत्वा तैः स्वजनैश्च सः ।
दह्यमानोऽपि निश्चेष्टो ददौ नामरणाद्वचः ।। १५६
एवं स मूढो विजहौ प्राणान्न क्षीरिणीं पुनः ।
क्लेशार्जितं च बुभुजे तस्यान्यैर्हेलया धनम् ।। १५७
श्रुतः कदर्यः श्रूयन्ताममी मार्जारभौतकाः ।
उज्जयिन्यामुपाध्यायो मुग्धः कोऽप्यभवन्मठे ।। १५८
तत्र निद्रा न तस्याभून्मूषकोपद्रवान्निशि ।
तत्खिन्नस्तच्च सुहृदे स कस्मैचिदवर्णयत् ।। १५१
मार्जारं स्थापयानीय सोऽत्र खादति मूषकान् ।
इति सोऽपि सुहृद्विप्रस्तमुपाध्यायमव्रवीत् ।। १६०
मार्जारः कीदृशः क्वास्ते न स दृष्टचरो मया ।
इत्युक्तवत्युपाध्याये तं सुहृत्सोऽब्रवीत्पुनः ।। १६१
काचरे लोचने तस्य वर्णः कपिलधूसरः ।
पृष्ठे च लोमशं चर्म रथ्यास्वटति चेह सः ।। १६२
तदेभिस्त्वमभिज्ञानैरन्विष्यानाययाशु तम् ।
मित्र मार्जारमित्युक्त्वा तत्सुहृत्स ययौ गृहम् ।। १६३
ततः शिष्यानुपाध्यायः स जगाद जडो निजान् ।
अभिज्ञानानि युष्माभिः श्रुतान्येव स्थितैरिह ।। १६४
तदन्विष्यत मार्जारं रथ्यासु तमिह क्वचित् ।
तथेति ते गताः शिष्यास्तत्र भ्रेमुरितस्ततः ।। १६५
तथापि न तु तैर्दृष्टो मार्जारः स कदाचन ।
अथैकं ते बटुं रथ्यामुखादैक्षन्त निर्गतम् ।। १६६
काचरं नेत्रयुगले वर्णे धूसरपिङ्गलम् ।
पृष्ठोपरि दधानं च लोमशं हरिणाजिनम् ।। १६७
दृष्ट्वा तं सैष मार्जारः प्राप्तोऽस्माभिर्यथाश्रुतः ।
इत्यवष्टभ्य तं निन्युरुपाध्यायान्तिकं च ते ।। १६८
उपाध्यायोऽपि मित्त्रोक्तैर्युक्तं मार्जारलक्षणैः ।
दृष्ट्वा तं स्थापयामास रात्रौ तत्र मठान्तरे ।। १६९
मार्जारो नूनमस्तीति मेने सोऽपि बटुर्जडः ।
मार्जाराख्यां कृतां शृण्वन्नात्मनस्तैरबुद्धिभिः ।। १७०
स च भौतो बटुः शिष्यस्तस्य विप्रस्य येन तत् ।
उपाध्यायस्य तस्योक्तं मैत्र्या मार्जारलक्षणम् ।। १७१
प्रातः सोऽत्रागतो विप्रो बटुमन्तर्विलोक्य तम् ।
इह केनायमानीत इति भौतानुवाच तान् ।। १७२
श्रुतोपलक्षणस्त्वत्तो मार्जारोऽस्माभिरेष सः ।
आनीत इत्युपाध्यायो भौतः शिष्याश्च तेऽवदन् ।। १७३
ततो विहस्य सोऽवादीद्विप्रो मूढाः क्व मानुषः ।
क्व च तिर्यक्स मार्जारश्चतुष्पात्पुच्छवानपि ।। १७४
तच्छ्रुत्वा तं बटुं मुक्त्वा तेऽबुवन्मन्दबुद्धयः ।
तर्ह्यन्विष्यानयामस्तं मार्जारं तादृशं पुनः ।। १७५
एवमुक्तवतो मूढाञ्जनस्तत्र जहास तान् ।
अज्ञता नाम कस्येह नोपहासाय जायते ।। १७६
मार्जारभौतः कथितः श्रूयन्तामपरेऽप्यमी ।
आसीद्बहूनां मुग्धानां मुख्यो मुग्धो मठे क्वचित् ।। १७७
स केनचिद्वाच्यमानाद्धमेशास्त्रात्कदाचन ।
तडागकर्तुरश्रौषीदमुत्र सुमहत्फलम् ।। १७८
ततः स धनसंपूर्णो विपुलं वारिपूरितम् ।
तडागं कारयामास नातिदूरे निजान्मठात् ।। १७९
एकदा स तडागं तं द्रष्टुं मुग्धाग्रणीर्गतः ।
केनाप्युत्पाटितान्यस्य पुलिनानि व्यलोकयत् ।। १८०
तथैवागत्य सोऽन्येद्युरुत्खातं तटमन्यतः ।
दृष्ट्वा तस्य तडागस्य सोद्वेगः समचिन्तयत् ।। १८१
प्रातः प्रभातादारभ्य स्थास्यामीहैव वासरम् ।
द्रक्ष्यामि कः करोत्येतदित्यालोच्य ययौ प्रगे ।। १८२
अन्येद्युर्यावदेत्यास्ते तावत्तत्र ददर्श सः ।
दिवोऽवतीर्य शृङ्गाभ्यां खनन्तं वृषभं तटम् ।। १८३
दिव्यो वृषोऽयं तत्किं न दिवं यामि सहामुना ।
इत्युपेत्य वृषस्यास्य हस्ताभ्यां पुच्छमग्रहीत् ।। १८४
ततः पुच्छाग्रलग्नं तं भौतमुत्क्षिप्य वेगतः ।
क्षणान्निनाय कैलासं स्वं धाम भगवान्वृषः ।। १८५
तत्र दिव्यानि भक्ष्याणि मोदकादीन्यवाप्य सः ।
भुञ्जानो न्यवसद्भौतो दिनानि कतिचित्सुखम् ।। १८६
गतागतानि कुर्वाणं स दृष्ट्वा तं महावृषम् ।
अचिन्तयत भौतानां मुख्यो दैवेन मोहितः ।। १८७
गच्छामि वृषपुच्छाग्रलग्नः पश्यामि बान्धवान् ।
कथयित्वाद्भुतमिदं तथैवैष्याम्यहं पुनः ।। १८८
इति संचिन्त्य वृषभस्यैकदोपेत्य तस्य सः ।
आलम्ब्य गच्छतः पुच्छमागाद्भौतो भुवस्तलम् ।। १८९
ततः प्राप्तो मठे भौतैरन्यैराश्लिष्य तत्स्थितैः ।
क्व गतोऽसीति पृष्टस्तं स्ववृत्तान्तं शशंस सः ।। १९०
ततः सर्वे श्रुताश्चर्या भौतास्ते प्रार्थयन्त तम् ।
प्रसीद नय तत्रास्मानपि भोजय मोदकान् ।। १९१
तच्छ्रुत्वा स तथेत्येतान्युक्तिमुक्त्वापरे दिने ।
तडागोपान्तमनयत्स च तत्राययौ वृषः ।। १९२
जग्राह तस्य लाङ्गूलं मुख्यः पाणिद्वयेन सः ।
तस्याप्यगृह्णाच्चरणावन्यस्तस्यापि चेतरः ।। १९३
इत्यन्योन्याङ्घ्रिलग्नैस्तैर्भौतैर्यावच्च शृङ्खला ।
रचिता स वृषस्तावदुत्पपात जवान्नभः ।। १९४
याति तस्मिंश्च वृषभे लाङ्गूलालम्बिभौतके ।
मुख्यभौतं तमप्राक्षीदेको भौतोऽथ दैवतः ।। १९५
श्रद्धामाख्याहि नस्तावद्यथेष्ठसुलभा दिवि ।
कियत्प्रमाणा भवता मोदका भक्षिता इति ।। १९६
ततो भ्रष्टानुसंधानो वृषपुच्छं विमुच्य तम् ।
पद्माकारौ करौ कृत्वा संश्लिष्टौ भौतनायकः ।। १९७
इयत्प्रमाणा इत्याशु यावत्तान्प्रतिवक्ति सः ।
तावत्सोऽन्ये च ते सर्वे खान्निपत्य विपेदिरे ।। १९८
वृषः प्रायाच्च कैलासं जनो दृष्ट्वा जहास च ।
दोषाय निर्विमर्शैवं भौतप्रश्नोत्तरक्रिया ।। १९९
श्रुता द्युगामिनो भौताः श्रूयतामपरोऽप्ययम् ।
कश्चिद्भौतो विसस्मार मार्गं मार्गान्तरं व्रजन् ।। २००
तरोर्नदीतटस्थस्य गच्छास्योपरिवर्त्मना ।
इत्युच्यते स्म पन्थानं परिपृच्छञ्जनैश्च सः ।। २०१
ततस्तस्य तरोः पृष्ठं गत्वारूढः स मूढधीः ।
एतत्पृष्ठेन मे पन्था उपदिष्टो जनैरिति ।। २०२
तत्पृष्ठे सर्पतश्चास्य भरात्पर्यन्तवर्तिनी ।
शाखा ननाम यत्नेन पपातालम्ब्य नैष ताम् ।। २०३
तामालम्ब्य स्थितो यावत्तावत्तेनाययौ पथा ।
आरोहेणोपरिस्थेन नद्यां पीतजलः करी ।। २०४
तं दृष्ट्वा तरुशाखाग्रलम्भी भौतः स दीनवाक् ।
महात्मन्मां गृहाणेति हस्त्यारोहमुवाच तम् ।। २०५
हस्त्यारोहश्च भौतं तमवतारयितुं तरोः ।
पादयोरग्रहीद्द्वाभ्यां पाणिभ्यामुज्झिताङ्कुशः ।। २०६
तावच्च निर्गत्य गते गजे भौतस्य तस्य स ।
ललम्बे पादयोर्हस्तिपको वृक्षाग्रलम्बिनः ।। २०७
ततः स त्वरयन्भौतो हस्त्यारोहं तमभ्यधात् ।
यदि जानासि तच्छीघ्रं यत्किंचिद्गीयतां त्वया ।। २०८
इतोऽवतारयेज्जातु यच्छ्रुत्वागत्य नौ जनः ।
पतितावन्यथाधस्ताद्धरेदावामियं नदी ।। २०९
इत्युक्तः स गजारोहस्तेन मञ्जु तथा जगौ ।
यथा स एव भौतोऽत्र परितोषमगात्परम् ।। २१०
साधुवादं च स ददद्विस्मृत्योज्झितपादपः ।
दातुं प्रावर्तत द्वाभ्यां हस्ताभ्यां छोटिकां जडः ।। २११
तत्क्षणं विनिपत्यैव सहस्त्यारोह एव सः ।
नद्यां विपेदे मूर्खैर्हि सङ्गः कस्यास्ति शर्मणे ।। २१२
इत्याख्याय कथां भूयो वत्सेश्वरसुताय सः ।
गोमुखः कथयामास हिरण्याक्षकथामिमाम् ।। २१३
अस्तीह हिमवत्कुक्षौ देशः पृध्वीशिरोमणिः ।
कश्मीर इति विद्यानां धर्मस्य च निकेतनम् ।। २१४
तत्राधिष्ठानमभवद्धिरण्यपुरनामकम् ।
कनकाक्ष इति ख्यातस्तस्मिन्राजा बभूव च ।। २१५
तस्य रत्नप्रभादेव्यां शंकराराधनोद्भवः ।
पुत्रो हिरण्याक्ष इति क्ष्मापतेरुदपद्यत ।। २१६
स जातु गुलिकाक्रीडां कुर्वन्गुलिकया छलात् ।
तापसीं राजतनयो मार्गायातामताडयत् ।। २१७
सा तापसी जितक्रोधा राजपुत्रं विहस्य तम् ।
योगीश्वरी हिरण्याक्षमुवाच विकृतानना ।। २१८
स्वयौवनादिकैरीदृग्दर्पश्चेत्तव तां यदि ।
मृगा लेखामाप्नोषि भार्यां तत्कीदृशो भवेत् ।। २१९
तच्छ्रुत्वा क्षमयित्वा तां राजपुत्रः स पृष्टवान् ।
कैषा मृगाङ्कलेखाख्या भगवत्युच्यतामिति ।। २२०
ततस्तं साब्रवीदस्ति शशितेजा इति श्रुतः ।
विद्याधरेन्द्रो हिमवत्यचलेन्द्रे महायशाः ।। २२१
मृगाङ्कलेखा तस्यास्ति तनया वरकन्यका ।
रूपेण द्युचरेन्द्राणां निशासून्निद्रकप्रदा ।। २२२
सा चानुरूपा भार्या ते तस्यास्त्वमुचितः पतिः ।
इत्युक्तः सिद्धतापस्या हिरण्याक्षो जगाद ताम् ।। २२३
कथं भगवति प्राप्या मया सा तर्हि कथ्यताम् ।
तच्छ्रुत्वा सा हिरण्याक्षं तं योगेश्वर्यभाषत ।। २२४
गत्वाहं त्वत्कथाख्यानादुपलप्स्ये तदाशयम् ।
आगत्य चाहमेव त्वां तत्र नेष्याम्यतः परम् ।। २२५
इहास्ति योऽमरेशाख्यो देवस्तत्केतने त्वया ।
प्रातः प्राप्यास्मि नित्यं हि तमर्चितुमुपैम्यहम् ।। २२६
इत्युक्त्वा नभसा प्रायात्तापसी सा स्वसिद्धितः ।
तस्या मृगाङ्कलेखाया निकटं तुहिनाचलम् ।। २२७
तत्र तस्यै हिरण्याक्षगुणान्युक्त्या शशंस सा ।
तथा यथा दिव्यकन्या सात्युत्कैवमुवाच ताम् ।। २२८
तादृशं चेन्न भर्तारं प्राप्नुयां भगवत्यहम् ।
तन्निष्फलेन किं कार्यममुना जीवितेन मे ।। २२९
इत्यारूढस्मरावेशा नीत्वा तत्कथया दिनम् ।
मृगाङ्कलेखा तापस्या सहोवास तया निशाम् ।। २३०
तावत्सोऽपि हिरण्याक्षस्तच्चिन्तानीतवासरः ।
सुप्तः कथंचिज्जगदे गौर्या स्वप्ने निशाक्षये ।। २३१
विद्याधरः सन्प्राप्तस्त्वं मुनिशापेन मर्त्यताम् ।
तापस्याः करसंस्पर्शादेतस्या मोक्ष्यसे ततः ।। २३२
मृगाङ्कलेखां च ततस्तामाशु परिणेष्यसि ।
तच्चिन्ता नात्र कार्या ते पूर्वभार्या हि सा तव ।। २३३
इत्यादिश्यैव सा देवी तिरोऽभूत्तस्य सोऽपि च ।
प्रबुध्य प्रातरुत्थाय चक्रे स्नानादिमङ्गलम् ।। २३४
ततोऽवरेश्वरस्याग्रे गत्वा तस्थौ प्रणम्य तम् ।
यत्र संकेतकं तस्य तापस्या विहितं तया ।। २३५
अत्रान्तरे च कथमप्याप्तनिद्रां स्वमन्दिरे ।
मृगाङ्कलेखामपि तां गौरी स्वप्ने समादिशत् ।। २३६
क्षीणशापं हिरण्याक्षं जातं विद्याधरं पुनः ।
करस्पर्शेन तापस्याः पतिं प्राप्स्यस्यलं शुचा ।। २३७
इत्युक्त्वान्तर्हितायां च देव्यां प्रातः प्रबुध्य सा ।
मृगाङ्कलेखा तापस्यै तस्यै स्वप्नं शशंस तम् ।। २३८
सा तच्छ्रुत्वैव चागत्य भूलोकं सिद्धतापसी ।
स्थितं क्षेत्रेऽमरेशस्य हिरण्याक्षं तमभ्यधात् ।। २३९
एहि वैद्याधरं लोकं पुत्रेत्युक्त्वा करेण सा ।
प्रणतं तं समादाय बाहावुदपतन्नभः ।। २४०
तावत्स च हिरण्याक्षो भूत्वा विद्याधरेश्वरः ।
स्मृत्वा शापक्षयाज्जातिं तापसीं तामभाषत ।। २४१
हिमाद्रौ वज्रकूटाख्ये पुरे जानीहि मामियम् ।
विद्याधराणां राजानं नाम्नाप्यमृततेजसम् ।। २४२
सोऽहमुल्लङ्घनक्रोधाच्छापं प्राप्य पुरा मुनेः ।
मर्त्ययोनिमुपागच्छं त्वत्करस्पर्शनावधिम् ।। २४३
शप्तस्य मे तदा भार्या या दुःखादजहत्तनुम् ।
सैषा मृगाङ्कलेखाद्य जाता पूर्वप्रिया मम ।। २४४
इदानीं च त्वया सार्धं गत्वा प्राप्स्यामि तामहम् ।
त्वत्करस्पर्शपूतस्य शान्तः शापो हि सोऽद्य मे ।। २४५
इति ब्रुवंस्तया साकं तापस्या गगनेन सः ।
जगामामृततेजास्तं हिमाद्रिं द्युचराधिपः ।। २४६
मृगाङ्कलेखामुद्यानस्थितां तत्र ददर्श सः ।
साप्यपश्यत्तमायान्तं तापस्यावेदितं तया ।। २४७
चित्रं श्रुतिपथेनादौ प्रविश्यान्योन्यमानसम् ।
अनिर्गत्याप्यविशतां दृष्टिमार्गेण तौ पुनः ।। २४८
विवाहसिद्धये पित्रे त्वयेदं कथ्यतामिति ।
ऊचे मृगाङ्कलेखात्र तापस्या प्रौढया तया ।। २४९
ततो लज्जानतमुखी सा गत्वा पितरं निजम् ।
सखीमुखेन तत्सर्वं बोधयामास तत्क्षणम् ।। २५०
सोऽपि स्वप्नेऽम्बिकादिष्टस्तत्पिता खेचरेश्वरः ।
तमनैषीत्स्वभवनं संमान्यामृततेजसम् ।। २५१
ददौ मृगाङ्कलेखां च तस्मै तां स यथाविधि ।
कृतोद्वाहश्च तं वज्रकूटं स्वं प्रययौ पुरम् ।। २५२
तत्र सोऽमृततेजाः स्वं राज्यं प्राप्य सभार्यकम् ।
आनीतं सिद्धतापस्या मर्त्यत्वात्पितरं निजम् ।। २५३
कनकाक्षं तमभ्यर्च्य भोगैः प्रापय्य भूतलम् ।
मृगाङ्कलेखया साकं तामृद्धिं बुभुजे चिरम् ।। २५४
इति पूर्वकर्मविहितं भवितव्यं जगति यस्य जन्तोर्यत् ।
तदयत्नेन स पुरतः पतितं प्राप्नोत्यसाध्यमपि ।। २५५
एवं गोमुखकथितां शक्तियशस्युत्सुको निशम्य कथाम् ।
शयने निशि नरवाहनदत्तो निद्रामसौ भेजे ।। २५६
इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे शक्तियशोलम्बके नवमस्तरङ्गः ।