कथासरित्सागरः/लम्बकः १०/तरङ्गः ४
ततो विद्याधरीयुग्मकथामाख्याय गोमुखः ।
नरवाहनदत्तं तमुवाच सचिवाग्रणीः ।। १
केचिदेव सहन्तेऽत्र लोकद्वयहितैषिणः ।
सामान्या अपि कामादेरावेगं कृतबुद्धयः ।। २
तथा च शूरवर्माख्यो बभूव कुलपुत्रकः ।
राज्ञः कुलधराख्यस्य सेवकः ख्यातपौरुषः ।। ३
स ग्रामादागतो जातु प्रविष्टोऽशङ्कितं गृहे ।
भार्यां स्वेनैव मित्रेण ददर्श स्वैरसंगताम् ।। ४
दृष्ट्वा नियम्य स क्रोधं चिन्तयामास धैर्यतः ।
कि मित्रद्रोहिणैतेन पशुना निहतेन मे ।। ७
दुश्चारिण्यानया वापि पापया निगृहीतया ।
किं करोम्यहमप्येनमात्मानं पापभागिनम् ।। ६
इत्यालोच्य परित्यज्य तावुभावप्युवाच सः ।
हन्यामहं तं युवयोर्यं पश्येयं पुनः पुनः ।। ७
नागन्तव्यमितो भूयो मम लोचनगोचरम् ।
इत्युक्त्वा तेन मुक्तौ तौ ययतुः क्वापि दूरतः ।। ८
स त्वन्यां परिणीयाभूच्छूरवर्मा सुनिर्वृतः ।
एवं देव जितक्रोधो न दुःखस्यास्पदीभवेत् ।। ९
कृतप्रज्ञश्च विपदा देव जातु न बाध्यते ।
तिरश्चामपि हि प्रज्ञा श्रेयसे न पराक्रमः ।। 10.4.१०
तथा च शृण्विमां सिंहवृषभादिगतां कथाम् ।
आसीत्कोऽपि वणिक्पुत्रो धनवान्नगरे क्वचित् ।। ११
तस्यैकदा वणिज्यार्थं गच्छतो मथुरां पुरीम् ।
भारवोढा युगं कर्षन्भरेण युगभङ्गतः ।। १२
गिरिप्रस्रवणोद्भूतकर्दमे स्खलितः पथि ।
संजीवकाख्यो वृषभः पपाताङ्गैर्विचूर्णितैः ।। १३
दृष्ट्वाभिघातनिश्चेष्टमसिद्धोत्थापनक्रमः ।
निराशस्तं चिरात्त्यक्त्वा वणिक्पुत्रो जगाम सः ।। १४
स च संजीवको दैवात्समाश्वस्तो वृषः शनैः ।
उत्थाय शष्पान्सुमृदूनश्नन्प्रकृतिमाप्तवान् ।। १५
गत्वा च यमुनातीरं हरितानि तृणानि सः ।
खादन्स्वच्छन्दचारी सन्पुष्टाङ्गो बलवानभूत् ।। १६
व्यचरत्पीनककुदो माद्यन्हरवृषोपमः ।
शृङ्गोत्पाटितवल्मीकः स च तत्रोन्नदन्मुहुः ।। १७
तत्कालं चाभवत्तत्र नातिदूरे वनान्तरे ।
सिंहः पिङ्गलको नाम विक्रमाक्रान्तकाननः ।। १८
मृगराजस्य तस्यास्तां मन्त्रिणौ जम्बुकावुभौ ।
एको दमनको नाम तथा करटकोऽपरः ।। १९
स सिंहो जातु तोयार्थमागच्छन्यमुनातटम् ।
तस्यारान्नादमश्रौषीत्संजीवकककुद्मतः ।। 10.4.२०
श्रुत्वा चाश्रुतपूर्वं तं तन्नादं दिक्षु मूर्च्छितम् ।
स सिंहोऽचिन्तयत्कस्य बत नादोऽयमीदृशः ।। २१
नूनमत्र महत्सत्त्वं किंचित्तिष्ठत्यवैमि तत् ।
तद्धि दृष्ट्वैव मां हन्याद्वनाद्वापि प्रवासयेत् ।। २२
इति सोऽपीतपानीय एव गत्वा वनं द्रुतम् ।
भीतः सिंहो निगूह्यासीदाकारमनुयायिषु ।। २३
अथ प्राज्ञो दमनकः स मन्त्री तस्य जम्बुकः ।
तमवोचत्करटकं द्वितीयं मन्त्रिणं रहः ।। २४
अस्मत्स्वामी पयः पातुं गतोऽपीत्वैव तत्कथम् ।
आगतस्त्वरितं भद्र प्रष्टव्योऽत्रैष कारणम् ।। २५
ततः करटकोऽवादीद्व्यापारोऽस्माकमेष कः ।
श्रुतस्त्वया न वृत्तान्तः किं कीलोत्पाटिनः कपेः ।। २६
नगरे क्वापि केनापि वणिजा देवतागृहम् ।
कर्तुं प्रारब्धमभवद्भूरिसंभृतदारुकम् ।। २७
तत्र कर्मकराः काष्ठं क्रकचोर्ध्वार्धताटितम् ।
दत्तान्तःकीलयन्त्रं ते स्थापयित्वा गृहं ययुः ।। २८
तावदागत्य तत्रैको वानरश्चापलोत्प्लुतः ।
कीलव्यस्तविभागेऽपि काष्ठे तस्मिन्नुपाविशत् ।। २९
नाड्यन्तरे मुखे मृत्योरिव तत्रोपविश्य च ।
कीलमुत्पाटयामास हस्ताभ्यां निष्प्रयोजनम् ।। 10.4.३०
निपत्योत्खातकीलेन सह काष्ठेन तेन च ।
तद्भागद्वयसंघट्टपीडिताङ्गो ममार सः ।। ३१
एवं न यस्य यत्कर्म स तत्कुर्वन्विनश्यति ।
तस्मात्किं मृगराजस्य विज्ञातेनाशयेन नः ।। ३२
एतत्करटकाच्छ्रुत्वा धीरो दमनकोऽब्रवीत् ।
अन्तर्भूय प्रभोः प्राप्यो विशेषः सर्वदा बुधैः ।। ३३
को हि नाम न कुर्वीत केवलोदरपूरणम् ।
एवं दमनकेनोक्ते साधुः करटकोऽब्रवीत् ।। ३४
स्वेच्छयातिप्रवेशो यो न धर्मः सेवकस्य सः ।
इति चोक्तः करटकेनेदं दमनकोऽभ्यधात् ।। ३५
मैवमात्मानुरूपं हि फलं सर्वोऽपि वाञ्छति ।
श्वा तुष्यत्यस्थिमात्रेण केसरी धावति द्विपे ।। ३६
एतच्छ्रुत्वा करटकोऽवादीदेवं कृते यदि ।
कुप्यति प्रत्युत स्वामी तद्विशेषफलं कुतः ।। ३७
अतीव कर्कशाः स्तब्धा हिंस्रैर्जन्तुभिरावृताः ।
दुरासदाश्च विषमा ईश्वराः पर्वता इव ।। ३८
ततो दमनकोऽवादीत्सत्यमेतद्बुधस्तु यः ।
स्वभावानुप्रवेशेन स्वीकरोति शनैः प्रभुम् ।। ३९
एवं कुर्विति तेनोक्तस्ततः करटकेन सः ।
ययौ दमनकस्तस्य सिंहस्य स्वामिनोऽन्तिकम् ।। 10.4.४०
प्रणिपत्योपविष्टश्च सिंहं पिङ्गलकं स तम् ।
स्वामिनं कृतसत्कारं क्षणादेव व्यजिज्ञपत् ।। ४१
अहं क्रमागतस्तावद्देव भृत्यो हितस्तव ।
हितः परोऽपि स्वीकार्यो हेयः स्वोऽप्यहितः पुनः ।। ४२
क्रीत्वान्यतोऽपि मूल्येन मार्जारः पोष्यते हितः ।
अहितो हन्यते यत्नाद्गृहजातोऽपि मूषकः ।। ४३
श्रोतव्यं च हितैषिभ्यो भृत्येभ्यो भूतिमिच्छता ।
अपृष्टैरपि कर्तव्यं तैश्च काले हितं प्रभोः ।। ४४
तद्विश्वसिषि चेद्देव न कुप्यसि न निह्नुषे ।
पृच्छामि तदहं किंचिन्न चोद्वेगं करोषि चेत् ।। ४५
एवं दमनकेनोक्तः सिंहः पिङ्गलकोऽब्रवीत् ।
विश्वासार्होऽसि भक्तोऽसि तन्निःशङ्कं त्वयोच्यताम् ।। ४६
इति पिङ्गलकेनोक्तेऽवोचद्दमनकोऽथ सः ।
देव पानीयपानार्थं तृषितो गतवानसि ।। ४७
तदपीतजलः किं त्वमागतो विमना इव ।
एतत्तद्वचनं श्रुत्वा स मृगेन्द्रो व्यचिन्तयत् ।। ४८
लक्षितोऽस्म्यमुना तत्किं भक्तस्यास्य निगूह्यते ।
इत्यालोच्याब्रवीत्तं स शृणु गोप्यं न तेऽस्ति मे ।। ४९
जलपार्श्वगतेनात्र नादोऽपूर्वः श्रुतो मया ।
स चास्मदधिकस्योग्रो जाने सत्त्वस्य कस्यचित् ।। 10.4.५०
भाव्यं शब्दानुरूपेण प्रायेण प्राणिना यतः ।
प्रजापतेर्विचित्रो हि प्राणिसर्गोऽधिकाधिकः ।। ५१
तेन चेह प्रविष्टेन न शरीरं न मे वनम् ।
तस्मादितो मयान्यत्र गन्तव्यं कानने क्वचित् ।। ५२
इति वादिनमाह स्म सिंहं दमनकोऽथ तम् ।
शूरः सन्नियता देव किं वनं त्यक्तुमिच्छसि ।। ५३
जलेन भज्यते सेतुः स्नेहः कर्णेजपेन तु ।
अरक्षणेन मन्त्रश्च शब्दमात्रेण कातरः ।। ५४
यन्त्रादिशब्दास्ते ते हि भवन्त्येव भयंकराः ।
परमार्थमविज्ञाय न भेतव्यमतः प्रभो ।।५५
तथा च भेरीगोमायुकथेयं श्रूयतां त्वया ।
कोऽपि क्वापि वनोद्देशे गोमायुरभवत्पुरा ।। ५६
स भक्ष्यार्थी भ्रमन्वृत्तयुद्धां प्राप्य भुवं ध्वनिम् ।
गम्भीरमेकतः श्रुत्वा भीतो दृष्टिं ततो ददौ ।। ५७
तत्रादृष्टचरां भेरीमपश्यत्पतितस्थिताम् ।
किमीदृशोऽयं प्राणी स्यात्कोऽप्येवंरूपशब्दकृत् ।। ५८
इति संचिन्तयन्दृष्ट्वा निःस्पन्दां तामुपागतः ।
यावत्पश्यति तावत्स नायं प्राणीत्यबुध्यत ।। ५९
त्रातवेल्लच्छरस्तम्बहतचर्मपुटोद्भवम् ।
शब्दं निरूप्य तस्यां च स गोमायुर्जहौ भयम् ।। 10.4.६०
स्यात्किंचिद्भक्ष्यमत्रान्तरित्युत्पाट्य स पुष्करम् ।
प्रविश्य वीक्षते यावत्केवले दारुचर्मणी ।। ६१
तद्देव शब्दमात्रेण किं बिभ्यति भवादृशाः ।
मन्यसे यदि तत्तत्र तद्विज्ञातुं व्रजाम्यहम् ।। ६२
इत्यूचिवान्दमनको गच्छ शक्तोऽसि चेदिति ।
गदितस्तेन सिंहेन स ययौ यमुनातटम् ।। ६३
तत्र शब्दानुसारेण यावत्स्वैरं स गच्छति ।
तावत्तृणानि खादन्तं वृषभं तं ददर्श सः ।। ६४
उपेत्य चान्तिकं तस्य कृत्वा तेन च संविदम् ।
गत्वा तस्मै स सिंहाय यथावस्तु शशंस तत् ।। ६५
महोक्षः स त्वया दृष्टः संस्तवश्च कृतो यदि ।
तदिहानय तं युक्त्या तावत्पश्यामि कीदृशः ।। ६६
इत्युक्त्वा स प्रहृष्टस्तं सिंहः पिङ्गलकस्ततः ।
वृषस्य प्राहिणोत्तस्य पार्श्वं दमनकं पुनः ।। ६७
एह्याह्वयति तुष्टस्त्वामस्मत्स्वामी मृगाधिपः ।
इति गत्वा दमनकेनोक्तः स वृषभो भयात् ।। ६८
यदा न प्रतिपेदे तत्तदा गत्वा पुनर्वनम् ।
तं निजस्वामिनं सिंहं तस्याभयमदापयत् ।। ६९
एत्याभयेन चाश्वास्य ततः संजीवकं स तम् ।
वृषभं तं दमनकोऽनैषीत्केसरिणोऽन्तिकम् ।। 10.4.७०
स चागतं तं प्रणतं दृष्ट्वा सिंहः कृतादरः ।
उवाचेहैव तिष्ठ त्वं मत्पार्श्वे निर्भयोऽधुना ।। ७१
तदेति तेन तत्रस्थेनाहृतः स तथा क्रमात् ।
उक्ष्णा यथान्यविमुखस्तद्वशोऽभूत्स केसरी ।। ७२
ततो दमनकोऽवादीत्खिन्नः करटकं रहः ।
पश्य संजीवकहृतः स्वामी नावामवेक्षते ।। ७३
एक एवामिषं भुङ्क्ते न भागं नौ प्रयच्छति ।
मूढबुद्धिः प्रभुश्चायमुक्ष्णानेनाद्य शिक्ष्यते ।। ७४
कृतो मयैव दोषोऽयं यदेतं वृषमानयम् ।
तत्तथाहं करिष्यामि यथोक्षायं विनङ्क्ष्यति ।। ७५
अस्थानव्यसनाच्चायं निवर्त्स्यति यथा प्रभुः ।
एतद्दमनकाच्छ्रुत्वा वचः करटकोऽथ सः ।। ७६
सखे न कर्तुमधुना शक्ष्यत्येतद्भवानपि ।
ततो दमनकोऽवादीच्छक्ष्यामि प्रज्ञया ध्रुवम् ।। ७७
न स शक्रोति किं यस्य प्रज्ञा नापदि हीयते ।
तथा च मकरस्यैतां बकहन्तुः कथां शृणु ।। ७८
आसीत्कोऽपि बकः पूर्वं मत्स्याढ्ये सरसि क्वचित् ।
मत्स्यास्तत्र पलायन्त तस्य दृष्टिपथाद्भयात् ।। ७९
अप्राप्नुवंश्च मिथ्या तान्स मत्स्यानब्रवीद्बकः ।
इहागतो मत्स्यघाती पुरुषः कोऽपि जालवान् ।। 10.4.८०
स जालेनाचिराद्युष्मान्गृहीत्वा निहनिष्यति ।
तत्कुरुध्वं मम वचो विश्वासो वोऽस्ति चेन्मयि ।। ८१
अस्त्येकान्ते सरः स्वच्छमज्ञातमिह धीवरैः ।
एते तत्र निवासार्थं नीत्वैकैकं क्षिपामि वः ।। ८२
तच्छ्रुत्वा सभयैरूचे मत्स्यैस्तैर्जडबुद्धिभिः ।
एवं कुरुष्व विश्वस्ता वयं त्वय्यखिला इति ।। ८३
ततो बकस्तानेकैकं मत्स्यान्नीत्वा शिलातले ।
विन्यस्य भक्षयामास स बहून्विप्रलम्भकः ।। ८४
दृष्ट्वा मीनान्नयन्तं तं मकरस्तत्सरोगतः ।
एको बकं तं पप्रच्छ नयसि क्व तिमीनिति ।। ८५
ततस्तं स तदेवाह बको मत्स्यानुवाच यत् ।
तेन भीतो झषोऽवोचत्स मामपि नयेति तम् ।। ८६
सोऽपि तन्मांसगर्धान्धबुद्धिरादाय तं बकः ।
उत्पत्य प्रापयति तद्यावद्वध्यशिलातलम् ।। ८७
तावत्तज्जग्धमीनास्थिशकलान्यत्र वीक्ष्य सः ।
तं बुध्यते स्म मकरो बकं विश्वास्य भक्षकम् ।। ८८
ततः शिलातलन्यस्तमात्रस्तस्य स तत्क्षणम् ।
बकस्य मकरो धीमांश्चकर्ताविह्वलः शिरः ।। ८९
गत्वा च शेषमत्स्यानां यथावत्स शशंस तत् ।
ते चाप्यभिननन्दुस्तं तुष्टाः प्राणप्रदायिनम् ।। 10.4.९०
प्रज्ञा नाम बलं तस्मान्निष्प्रज्ञस्य बलेन किम् ।
एतां च सिंहशशयोः कथामत्रापरां शृणु ।। ९१
अभूत्क्वापि वने सिंह एकवीरोऽपराजितः ।
स च यं यं ददर्शात्र सत्त्वं तं तं न्यपातयत् ।। ९२
ततः सोऽभ्यर्थितः सर्वैः संभूयात्र मृगादिभिः ।
आहाराय तवैकैकं प्रेषयामो दिने दिने ।। ९३
सर्वान्नो युगपद्धत्वा स्वार्थहानिं करोषि किम् ।
इति तद्वचनं सिंहः स तथेत्यन्वमन्यत ।। ९४
ततः प्राणिनमेकैकं तस्मिन्नन्वहमश्नति ।
एकदा शशकस्यागाद्वार एकस्य तत्कृते ।। ९५
स सर्वैः प्रेषितो गच्छञ्शशो धीमानचिन्तयत् ।
स धीरो यो न संमोहमापत्कालेऽपि गच्छति ।। ९६
उपस्थितेऽपि मृत्यौ तद्युक्तिं तावत्करोम्यहम् ।
इत्यालोच्य स तं सिंहं विलम्ब्य शशकोऽभ्यगात् ।। ९७
आगतं तु विलम्बेन केसरी निजगाद सः ।
अरे वेला व्यतिक्रान्ता ममाहारे कथं त्वया ।। ९८
वधादप्यधिकं किं वा कर्तव्यं ते मया शठ ।
इत्युक्तवन्तं तं सिंहं प्रह्वः स शशकोऽब्रवीत् ।। ९९
न मे देवापराधोऽयं स्ववशो नाहमद्य यत् ।
मार्गे विधार्य सिंहेन द्वितीयेनोज्झितश्चिरात् ।। 10.4.१००
तच्छ्रुत्वास्फाल्य लाङ्गूलं सिंहः क्रोधारुणेक्षणः ।
सोऽब्रवीत्को द्वितीयोऽसौ सिंहो मे दर्श्यतां त्वया ।। १०१
आगत्य दृश्यतां देवेत्युक्त्वा सोऽपि निनाय तम् ।
तथेत्यन्वागतं सिंहं दूरं कूपान्तिकं शशः ।। १०२
इहान्तःस्थं स्थितं पश्येत्युक्तस्तत्र च तेन सः ।
शशकेन क्रुधा गर्जन्सिंहोऽन्तःकूपमैक्षत ।। १०३
दृष्ट्वा स्वच्छे च तोये स्वं प्रतिबिम्बं निशम्य च ।
स्वगर्जितप्रतिरवं मत्वा तत्रातिगर्जितम् ।। १०४
प्रतिसिंहं स कोपेन तद्वधाय मृगाधिपः ।
आत्मानमक्षिपत्कूपे मूढोऽत्रैव व्यपादि च ।। १०५
शशः स प्रज्ञयोत्तीर्य मृत्योरुत्तार्य चाखिलान् ।
मृगान्गत्वा तदाख्याय स्ववृत्तं ताननन्दयत् ।। १०६
एवं प्रज्ञैव परमं बलं न तु पराक्रमः ।
यत्प्रभावेण निहतः शशकेनापि केसरी ।। १०७
तदहं साधयाम्येव प्रज्ञया स्वमभीप्सितम् ।
एवं दमनकेनोक्ते तूष्णीं करटकोऽभवत् ।। १०८
ततो दमनकश्चापि तस्य पिङ्गलकस्य सः ।
सिंहस्य स्वप्रभोरासीदन्तिके दुर्मना इव ।। १०९
पृष्टश्च कारणं तेन तमुवाच जनान्तिकम् ।
बुद्ध्वा न युज्यते तूष्णीं स्थातुं देव वदाम्यतः ।। 10.4.११०
अनियुक्तोऽपि च ब्रूयाद्यदीच्छेत्स्वामिनो हितम् ।
तद्विहायान्यथाबुद्धिं मद्विज्ञप्तिमिमां शृणु ।। १११
वृषः संजीवकोऽयं त्वां हत्वा राज्यं चिकीर्षति ।
मन्त्रिणा हि सतानेन त्वं भीरुरिति निश्चितः ।। ११२
धुनोति त्वां जिघांसुश्च शृङ्गयुग्मं निजायुधम् ।
निर्भया जीवथ सुखं मयि राज्ञि तृणाशने ।। ११३
तदेत हन्मो युक्त्यामुं मृगेन्द्रं मांसभोजनम् ।
आश्वास्योपजपत्येवं प्राणिनश्च वने वने ।। ११४
तदेतं चिन्तय वृषं नास्त्यस्मिन्सति शर्म ते ।
एवं दमनकेनोक्तः स तं पिङ्गलकोऽभ्यधात् ।। ११५
बलीवर्दो वराकोऽयं किं कुर्यात्तृणभुङ्मम ।
दत्ताभयं कथं हन्यामेनं च शरणागतम् ।। ११६
एतच्छ्रुत्वा दमनकः प्राह मा स्मैवमादिश ।
यस्तुल्यः क्रियते राज्ञा न तद्वच्छ्रीः प्रसर्पति ।। ११७
द्वयोर्दत्तपदा सा च तयोरुच्छ्रितयोश्चला ।
न शक्नोति चिरं स्थातुं ध्रुवमेकं विमुञ्चति ।। ११८
प्रभुश्च यो हितं द्वेष्टि सेवते चाहितं सदा ।
स वर्जनीयो विद्वद्भिर्वैद्यैर्दुष्टातुरो यथा ।। ११९
अप्रियस्य प्रथमतः परिणामे हितस्य च ।
वक्ता श्रोता च यत्र स्यात्तत्र श्रीः कुरुते पदम् ।। 10.4.१२०
न शृणोति सतां मन्त्रमसतां च शृणोति यः ।
अचिरेण स संप्राप्य विपदं परितप्यते ।। १२१
तदस्मिन्नुक्ष्णि कः स्नेहस्तव देव किमस्य वा ।
द्रुह्यतोऽभयदानं तच्छरणागतता च का ।। १२२
किं चैतस्य भवत्पार्श्वे नित्यसंनिहितस्य गोः ।
देव कीटाः प्रजायन्ते ये तन्मूत्रपुरीषयोः ।। १२३
ते चेद्विशन्ति मत्तेभदन्ताघातव्रणावृते ।
शरीरे भवतः किं न वृत्तः स्याद्युक्तितो वधः ।। १२४
दुर्जनश्चेत्स्वयं दोषं विपश्चिन्न करोति तत् ।
उत्पद्यते स तत्सङ्गादत्र च श्रूयतां कथा ।। १२५
राज्ञः कस्यापि शयने चिरमासीदलक्षिता ।
यूका कुतश्चिदागत्य नाम्ना मन्दविसर्पिणी ।। १२६
अकस्मात्तत्र चोपेत्य कुतोऽपि पवनेरितः ।
विवेश शयनीयं तट्टीटिभो नाम मत्कुणः ।। १२७
मन्निवासमिमं कस्मादागतस्त्वं व्रजान्यतः ।
इति मन्दविसर्पिण्या स दृष्ट्वा जगदे तया ।। १२८
अपीतपूर्वं पास्यामि राजासृक्तत्प्रसीद मे ।
देहीह वस्तुमिति तामवादीत्सोऽपि टीटिभः ।। १२९
ततोऽनुरोधादाह स्म सा तं यद्येवमास्स्व तत् ।
किं त्वस्य राज्ञो नाकाले दंशो देयस्त्वया सखे ।। 10.4.१३०
देयोऽस्य दंशः सुप्तस्य रतासक्तस्य वा लघु ।
तच्छ्रुत्वा टीटिभः सोऽत्र तथेत्युक्त्वा व्यतिष्ठत ।। १३१
नक्तं शय्याश्रितं तं च नृपमाशु ददंश सः ।
उत्तस्थौ च ततो राजा हा दष्टोऽस्मीति स ब्रुवन् ।। १३२
ततः पलायिते तस्मिंस्त्वरितं मत्कुणे शठे ।
विचित्य राजभृत्यैः सा लब्धा यूका व्यपाद्यत ।। १३३
एवं टीटिभसंपर्कान्नष्टा मन्दविसर्पिणी ।
तत्संजीवकसङ्गस्ते न शिवाय भविष्यति ।। १३४
न मे प्रत्येषि चेत्तत्त्वं स्वयं द्रक्ष्यस्युपागतम् ।
शिरो धुनानं दर्पेण शृङ्गयोः शूलशातयोः ।। १३५
इत्युक्त्वा विकृतिं तेन नीतो दमनकेन सः ।
सिंहः पिङ्गलकश्चक्रे वध्यं संजीवकं हृदि ।। १३६
लब्ध्वा तस्याशयं स्वैरं क्षणाद्दमनकस्ततः ।
तस्य संजीवकस्यागात्स विषण्ण इवान्तिकम् ।। १३७
किमीदृगसि किं मित्र शरीरे कुशलं तव ।
इति पृष्टश्च तेनात्र वृषेण स जगाद तम् ।। १३८
किं सेवकस्य कुशलं कश्च राज्ञां सदा प्रियः ।
कोऽर्थी न लाघवं यातः कः कालस्य न गोचरः ।। १३९
इत्युक्तवन्तं पप्रच्छ तं स संजीवकः पुनः ।
किमुद्विग्न इवैवं त्वं वयस्याद्योच्यतामिति ।। 10.4.१४०
ततो दमनकोऽवादीच्छृणु प्रीत्या वदामि ते ।
मृगराजो विरुद्धोऽसौ जातः पिङ्गलकोऽद्य ते ।। १४१
निरपेक्षोऽस्थिरस्नेहो हत्वा त्वां भोक्तुमिच्छति ।
हिंस्रं परिच्छदं चास्य पश्यामि प्रेरकं सदा ।। १४२
वचो दमनकस्यैतत्स पूर्वप्रत्ययादृजुः ।
सत्यं विचिन्त्य वृषभो विमना निजगाद तम् ।। १४३
धिक्सेवाप्रतिपन्नोऽपि क्षुद्रः क्षुद्रपरिग्रहः ।
प्रभुर्वैरित्वमेवैति तथा चेमा कथां शृणु ।। १४४
आसीन्मदोत्कटो नाम सिंहः क्वापि वनान्तरे ।
त्रयस्तस्यानुगाश्चासन्द्वीपिवायसजम्बुकाः ।। १४५
स सिंहोऽत्र वनेऽद्राक्षीददृष्टचरमेकदा ।
करभं सार्थविभ्रष्टं प्रविष्टं हासनाकृतिम् ।। १४६
कोऽयं प्राणीति साश्चर्यं वदत्यस्मिन्मृगाधिपे ।
उष्ट्रोऽयमिति वक्ति स्म देशद्रष्टात्र वायसः ।। १४७
ततो दत्ताभयस्तेन सिंहेनानाय्य कौतुकात् ।
उष्ट्रः सोऽनुचरीकृत्य स्वान्तिके स्थापितोऽभवत् ।। १४८
एकदा व्रणितोऽस्वस्यः स सिंहो गजयुद्धतः ।
उपवासान्बहूंश्चक्रे स्वस्थैस्तैः सहितोऽनुगैः ।। १४९
ततः क्लान्तः स भक्ष्यार्थं भ्रमन्सिंहोऽनवाप्य तत् ।
किं कार्यमित्यपृच्छत्तानुष्ट्रं मुक्त्वानुगान्रहः ।। 10.4.१५०
ते तमूचुः प्रभो वाच्यमस्माभिर्युक्तमापदि ।
उष्ट्रेण साकं किं सख्यं किं नासावेव भक्ष्यते ।। १५१
तृणाशी चायमस्माकं भक्ष्य एवामिषाशिनाम् ।
बहूनामामिषस्यार्थे किं चैकस्त्यज्यते न किम् ।। १५२
दत्ताभयं कथं हन्मीत्युच्यते प्रभुणा यदि ।
दापयामः स्ववाचा तद्युक्त्या तनुममु वयम् ।। १५३
इत्युक्ते तैरनुज्ञातस्तेन सिंहेन वायसः ।
वधाय संविदं कृत्वा करभं तमभाषत ।। १५४
एष स्वामी क्षुधाक्रान्तोऽप्यस्मान्वक्ति न किंचन ।
तदस्यात्मप्रदानोक्त्या प्रियं कुर्मो यथा वयम् ।। १५५
तथा त्वमपि कुर्वीथा येनासौ प्रीयते त्वयि ।
इत्युक्तो वायसेनोष्ट्रः साधुस्तत्प्रत्यपद्यत ।। १५६
उपाययौ च तं सिंहं सह काकेन तेन सः ।
ततः काकोऽब्रवीद्देव स्वायत्तं भुङ्क्ष्व मामिमम् ।। १५७
किं त्वया स्वल्पकायेनेत्युक्ते सिंहेन जम्बुकः ।
मां भुङ्क्ष्वेत्यवदत्तं च स तथैव निराकरोत् ।। १५८
द्वीपी तमब्रवीद्देव मां भुङ्क्ष्वेति तमप्यसौ ।
नाभुङ्क्त हरिरुष्ट्रोऽथ बभाषे भुङ्क्ष्व मामिति ।। १५९
वाक्छलेन स तेनैव हृत्वा कृत्वा च खण्डशः ।
उष्ट्रस्तैर्भक्षितः सद्यः ससिंहैर्वायसादिभिः ।। 10.4.१६०
एवं केनापि पिशुनेनैष पिङ्गलको मयि ।
प्रेरितोऽकारणं राजा प्रमाणमधुना विधिः ।। १६१
गृध्रोऽपि हि वरं राजा सेव्यो हंसपरिच्छदः ।
न गृध्रपरिवारस्तु हंसोऽपि किमुतापरः ।। १६२
एतत्संजीवकाच्छ्रुत्वावादीद्दमनकोऽनृजुः ।
धैर्येण साध्यते सर्वं शृणु वच्म्यत्र ते कथाम् ।। १६३
कोऽप्यासीट्टिट्टिभः पक्षी सभार्यो वारिधेस्तटे ।
धृतगर्भा सती भार्या टिट्टिभी निजगाद तम् ।। १६४
एहि क्वाप्यन्यतो यावः प्रसूताया ममेह हि ।
हरेदपत्यान्यम्भोधिः कदाचिदयमूर्मिभिः ।। १६५
एतद्भार्यावचः श्रुत्वा टिट्टिभः स जगाद ताम् ।
न शक्नोति मया साकं विरोधं कर्तुमम्बुधिः ।। १६६
तच्छ्रुत्वा टिट्टिभी प्राह मैवं का ते तुलाब्धिना ।
हितोपदेशोऽनुष्ठेयो विनाशः प्राप्यतेऽन्यथा ।। १६७
तथा च कम्बुग्रीवाख्यः कूर्मः क्वापि सरस्यभूत् ।
तस्यास्तां सुहृदौ हंसौ नाम्ना विकटसंकटौ ।। १६८
एकदावग्रहक्षीणजले सरसि तत्र तौ ।
हंसावन्यत्सरो गन्तुकामौ कूर्मो जगाद सः ।। १६९
युवां यत्रोद्यतौ गन्तुं नयत तत्र मामपि ।
तच्छ्रुत्वा तावुभौ हंसौ कूर्मं तं मित्त्रमूचतुः ।। 10.4.१७०
सरो दूराद्दवीयस्तद्यत्रावां गन्तुमुद्यतौ ।
तत्रागन्तुं तवेच्छा चेत्कार्यमस्मद्वचस्त्वया ।। १७१
अस्मद्धृतां गृहीत्वैव दन्तैर्यष्टिं दिवि व्रजन् ।
निरालापोऽवतिष्ठेथा भ्रष्टो व्यापत्स्यसेऽन्यथा ।। १७२
तथेति तेन दन्तात्तयष्टिना सह तौ नभः ।
कूर्मेणोत्पेततुर्हंसौ प्रान्तयोरात्तयष्टिकौ ।। १७३
क्रमाच्च तत्सरोभ्यर्णं प्राप्तौ तौ कूर्महारिणौ ।
ददृशुस्तदधोवर्तिनगराश्रयिणो जनाः ।। १७४
किमेतन्नीयते चित्रं हंसाभ्यामिति तैर्जनैः ।
क्रियमाणं कलकलं स कूर्मश्चपलोऽशृणोत् ।। १७५
कुतः कलकलोऽधस्तादिति वक्त्राद्विहाय ताम् ।
यष्टिं स पृच्छन्हंसौ तौ भ्रष्टो जघ्ने जनैर्भुवि ।। १७६
एवं बुद्धिच्युतो नश्येत्कूर्मो यष्टिच्युतो यथा ।
इत्थं तयोक्तष्टिट्टिभ्या टिट्टिभः स जगाद ताम् ।। १७७
सत्यमेतत्प्रिये किं तु त्वमप्येतां कथां शृणु ।
नद्यन्तःस्थे ह्रदेऽभूवन्क्वापि मत्स्याः पुरा त्रयः ।। १७८
अनागतविधातैकः प्रत्युत्पन्नमतिस्तथा ।
तृतीयो यद्भविष्यश्च त्रयस्ते सहचारिणः ।। १७९
ते दाशानां वचो जातु तेन मार्गेण गच्छताम् ।
अहो अस्मिन्ह्रदे मत्स्याः सन्तीति किल शुश्रुवुः ।। 10.4.१८०
तेनाशङ्क्य वधं दाशैर्नदीस्रोतः प्रविश्य सः ।
अनागतविधाताथ बुद्धिमानन्यतो ययौ ।। १८१
प्रत्युत्पन्नमतिस्त्वासीत्स तत्रैवाविकम्पितः ।
अहं प्रतिविधास्यामि भयं चेदापतेदिति ।। १८२
यन्मे भविष्यतीत्यासीद्यद्भविष्यस्तु तत्र सः ।
अथागत्याक्षिपञ्जालं तत्र ते धीवरा ह्रदे ।। १८३
जालोत्क्षिप्तस्तु तैः सद्यः प्रत्युत्पन्नमतिः सुधीः ।
कृत्वा निस्पन्दमात्मानं तिष्ठति स्म मृतो यथा ।। १८४
स्वयं मृतोऽयमिति तेष्वघ्नत्सु तिमिघातिषु ।
पतित्वा स नदीस्रोतस्यगच्छद्द्रुतमन्यतः ।। १८५
यद्भविष्यस्तु जालान्तरुद्वर्तनविवर्तने ।
कुर्वन्गृहीत्वा निहतो मन्दबुद्धिः स धीवरैः ।। १८६
तस्मात्प्रतिविधास्येऽहं न यास्याम्यम्बुधैर्भयात् ।
इत्युक्त्वा टिट्टिभो भार्यां तत्रैवासीत्स्वनीडके ।। १८७
तत्राश्रौषीद्वचस्तस्य साहंकारं महोदधिः ।
दिवसैश्च प्रसूता सा तद्भार्या तत्र टिट्टिभी ।। १८८
जहार स ततोऽण्डानि तस्या जलधिरूर्मिणा ।
पश्यामि टिट्टिभोऽयं मे किं कुर्यादिति कौतुकात् ।। १८९
प्राप्तं तदेतद्व्यसनं यन्मयोक्तमभूत्तव ।
इत्याह रुदती सा तं टिट्टिभी टिट्टिभं पतिम् ।। 10.4.१९०
ततः स टिट्टिभो धीरस्तां स्वभायामभाषत ।
पश्येह किं करोम्यस्य पापस्य जलधेरहम् ।। १९१
इत्युक्त्वा पक्षिणः सर्वान्संघाट्योक्तपराभवः ।
गत्वा तैः सह चक्रन्द शरणं गरुडं प्रभुम् ।। १९२
अब्धिनाण्डापहारेण वयं नाथे सति त्वयि ।
अनाथवत्पराभूता इत्यूचुस्तं च ते खगाः ।। १९३
ततः क्रुद्धेन तार्क्ष्येण विज्ञप्तो हरिरम्बुधिम् ।
आग्नेयास्त्रेण संशोष्य टिट्टिभाण्डान्यदापयत् ।। १९४
तस्मादत्यक्तधैर्येण भाव्यमापदि धीमता ।
उपस्थितमिदानीं तु युद्धं पिङ्गलकेन ते ।। १९५
यदैवोत्क्षिप्तलाङ्गूलश्चतुर्भिश्चरणैः समम् ।
उत्थास्यति स ते विद्याः प्रजिहीर्षुं तदैव तम् ।। १९६
सज्जो नतशिरा भूत्वा शृङ्गाभ्यामुदरे च तम् ।
हत्वाभिपतितं कुर्याः कीर्णान्त्रनिकरं रिपुम् ।। १९७
एवमुक्त्वा दमनकः संजीवकवृषं स तम् ।
गत्वा करटकायोभौ सिद्धभेदौ शशंस तौ ।। १९८
ततः संजीवकः प्रायाच्छनैः पिङ्गलकान्तिकम् ।
जिज्ञासुरिङ्गिताकारैश्चित्तं तस्य मृगप्रभोः ।। १९९
ददर्शोत्क्षिप्तलाङ्गूलं युयुत्सुं तं समाङ्गिकम् ।
सिंहं सिंहोऽप्यपश्यत्तं शङ्कोद्धूतस्वमस्तकम् ।। 10.4.२००
ततः प्राहरदुत्पत्य स सिंहोऽस्मिन्वृषे नखैः ।
वृषोऽपि तस्मिञ्शृङ्गाभ्यां प्रावर्तिष्टाहवस्तयोः ।। २०१
तच्च दृष्ट्वा दमनकं साधुः करटकोऽब्रवीत् ।
किं स्वार्थसिद्ध्यै व्यसनं प्रभोरुत्पादितं त्वया ।। २०२
संपत्प्रजानुतापेन मैत्री शाठ्येन कामिनी ।
पारुष्येणाहृता मित्र न चिरस्थायिनी भवेत् ।। २०३
अलं वा यो बहु ब्रूते हितवाक्यावमानिनः ।
स तस्माल्लभते दोषं कपेः सूचीमुखो यथा ।। २०४
पूर्वमासन्वने क्वापि वानरा यूथचारिणः ।
ते शीते जातु खद्योतं दृष्ट्वाग्निरिति मेनिरे ।। २०५
तस्मिंश्च तृणपर्णानि विन्यस्याङ्गमतापयन् ।
एकस्तु तेषां खद्योतमधमत्तं मुखानिलैः ।। २०६
तद्दृष्ट्वा तत्र तं प्राह पक्षी सूचीमुखाभिधः ।
नैषोऽग्निरेष खद्योतो मा क्लेशमनुभूरिति ।। २०७
तच्छ्रुत्वाप्यनिवृत्तं तं पक्षी सोऽभ्येत्य वृक्षतः ।
न्यवारयद्यन्निर्बन्धात्कपिस्तेन चुकोप सः ।। २०८
क्षिप्तया शिलया तं च सूचीमुखमचूर्णयत् ।
तस्मान्न तस्य वक्तव्यं यः कुर्यान्न हितं वचः ।। २०९
अतः किं वच्मि दोषाय भेदस्तावत्कृतस्त्वया ।
दुष्टया क्रियते यच्च बुद्ध्या तन्न शुभं भवेत् ।। 10.4.२१०
तथा चाभवतां पूर्वं भ्रातरौ द्वौ वणिक्सुतौ ।
धर्मबुद्धिस्तथा दुष्टबुद्धिः क्वचन पत्तने ।। २११
तावर्थार्थं पितुर्गेहाद्गत्वा देशान्तरं सह ।
कथंचित्स्वर्णदीनारसहस्रद्वयमापतुः ।। २१२
तद्गृहीत्वा स्वनगरं पुनराजग्मतुश्च तौ ।
वृक्षमूले च दीनारान्भूतले तान्निचख्नतुः ।। २१३
शतमेकं गृहीत्वा च दीनाराणां विभज्य च ।
परस्परं समांशेन तस्थतुः पितृवेश्मनि ।। २१४
एकदा दुष्टबुद्धिः स गत्वा तरुतलात्ततः ।
एक एवाग्रहीत्स्वैरं दीनारांस्तानसद्व्ययी ।। २१५
मासमात्रे गते तं च धर्मबुद्धिमुवाच सः ।
एह्यार्य विभजावस्तान्दीनारानस्ति मे व्ययः ।। २१६
तच्छ्रुत्वा धर्मबुद्धिस्तां गत्वा भूमिं तथेति सः ।
चखान तेनैव समं दीनारान्यत्र तान्न्यधात् ।। २१७
संप्राप्ता न यदा ते च दीनाराः खातकात्ततः ।
तदा स दुष्टबुद्धिस्तं धर्मबुद्धिं शठोऽब्रवीत् ।। २१८
नीतास्ते भवता तन्मे स्वमर्धं दीयतामिति ।
न ते नीता मया नीतास्त्वयेत्याह स्म तं च सः ।। २१९
एवं प्रवृत्ते कलहे सोऽश्मनाताडयच्छिरः ।
दुष्टबुद्धी राजकुलं धर्मबुद्धिं निनाय च ।। 10.4.२२०
तत्रोक्तस्वस्वपक्षौ तावनासादितनिर्णयैः ।
स्थापितावा दिनच्छेदमुभौ राजाधिकारिभिः ।। २२१
यस्य मूले न्यधीयन्त दीनारास्ते वनस्पतेः ।
स साक्षी वक्ति यन्नीतास्तेऽमुना धर्मबुद्धिना ।। २२२
इत्युवाचाथ तान्दुष्टबुद्धी राजाधिकारिणः ।
प्रक्ष्यामस्तर्हि तं प्रातरिच्यूचुस्तेऽतिविस्मिताः ।। २२३
ततस्तैर्धर्मबुद्धिश्च दुष्टबुद्धिश्च तावुभौ ।
दत्तप्रतिभुवौ मुक्तौ विभिन्नौ जग्मतुर्गृहम् ।। २२४
दुष्टबुद्धिस्तु वस्तूक्त्वा दत्त्वार्थं पितरं रहः ।
भव मे वृक्षगर्भान्तः स्थित्वा साक्षीत्यभाषत ।। २२५
बाढमित्युक्तवन्तं च नीत्वा महति कोटरे ।
निवेश्य तं तरौ तत्र रात्रौ स गृहमाययौ ।। २२६
प्रातश्च राजाधिकृतैः सह तौ भ्रातरौ तरुम् ।
गत्वा पप्रच्छतुः कस्तान्दीनारान्नीतवानिति ।। २२७
दीनारान्धर्मबुद्धिस्तान्नीतवानिति स स्फुटम् ।
तद्वृक्षकोटरान्तःस्थस्ततोऽभाषत तत्पिता ।। २२८
तदसंभाव्यमाकर्ण्य निश्चितं दुष्टबुद्धिना ।
अत्रान्तः स्थापितः कोऽपीत्युक्त्वाधिकृतकाश्च ते ।। २२९
तरुगर्भे ददुर्धूमं येनाध्मातः स निःसरन् ।
निपत्याधोगतः क्ष्मायां दुष्टबुद्धिपिता मृतः ।। 10.4.२३०
तद्दृष्ट्वा वस्तु बुद्ध्वा च राजाधिकृतकैः स तैः ।
दापितो दुष्टबुद्धिस्तान्दीनारान्धर्मबुद्धये ।। २३१
निकृत्तहस्तजिह्वश्च तैः स निर्वासितस्ततः ।
दुष्टबुद्धिर्यथार्थाख्यो धर्मबुद्धिश्च मानितः ।। २३२
एवमन्याय्यया बुद्ध्या कृतं कर्माशुभावहम् ।
तस्मात्तन्न्याय्यया कुर्याद्बकेनाहेः कृतं यथा ।। २३३
पूर्वं बकस्य कस्यापि जातं जातमभक्षयत् ।
भुजगोऽपत्यमागत्य स संतेपे ततो बकः २३४
झषोपदेशात्तेनाथ बकेन नकुलालयात् ।
आरुह्याहिबिलं यावन्मत्स्यमांसं व्यकीर्यत ।। २३५
निर्गत्य नकुलस्तच्च खादंस्तदनुसारतः ।
दृष्ट्वा बिलं प्रविष्टस्तं सापत्यमवधीदहिम् ।। २३६
एवं भवत्युपायेन कार्यमन्यच्च मे शृणु ।
आसीत्कोऽपि तुलाशेषः पित्र्यार्थात्प्राग्वणिक्सुतः ।। २३७
अयःपलसहस्रेण घटिता तां तुलां च सः ।
कस्यापि वणिजो हस्ते न्यस्य देशान्तरं ययौ ।। २३८
आगतश्च ततो यावत्तस्मान्मृगयते तुलाम् ।
आखुभिर्भक्षिता सेति तावत्तं सोऽब्रवीद्वणिक् ।। २३९
सत्यं सुस्वादु तल्लोहं तेन जग्धं तदाखुभिः ।
इति सोऽपि तमाह स्म वणिक्पुत्रो हसन्हृदि ।। 10.4.२४०
प्रार्थयामास च ततो वणिजोऽस्मात्स भोजनम् ।
सोऽपि संतुष्य तत्तस्मै प्रदातुं प्रत्यपद्यत ।। २४१
ततः स सह कृत्वास्य वणिजः पुत्रमर्भकम् ।
स्नातुं वणिक्सुतः प्रायाद्दत्तामलकमात्रकम् ।। २४२
स्नात्वार्भकं तं निक्षिप्य गुप्तं क्वापि सुहृद्गृहे ।
एक एवाययौ तस्य स धीमान्वणिजो गृहम् ।। २४३
अर्भकः क्व स इत्येवं पृच्छन्तं वणिजं च तम् ।
श्येनेन सोऽर्भको नीतः खान्निपत्येत्युवाच सः ।। २४४
छादितो मे त्वया पुत्र इति क्रुद्धेन तेन च ।
नीतः स वणिजा राजकुलेऽप्याह स्म तत्तथा ।। २४५
असंभाव्यमिदं श्येनो नयेत्कथमिवार्भकम् ।
इति सभ्यैश्च तत्रोक्ते वणिक्पुत्रो जगाद सः ।। २४६
मूषकैर्भक्ष्यते लौही देशे यत्र महातुला ।
तत्र द्विपमपि श्येनो नयेत्किं पुनरर्भकम् ।। २४७
तच्छ्रुत्वा कौतुकात्पृष्टवृत्तान्तैस्तस्य दापिता ।
सभ्यैस्तुला सा तेनापि स आनीयार्पितोऽर्भकः ।। २४८
इत्युपायेन घटयन्त्यभीष्टं बुद्धिशालिनः ।
त्वया तु साहसेनैव संदेहे प्रापितः प्रभुः ।। २४९
एतत्करटकाच्छ्रुत्वावादीद्दमनको हसन् ।
मैवं किमुक्षयुद्धेऽस्ति सिंहस्य जयसंशयः ।। 10.4.२५०
मत्तेभदशनाघातघनव्रणविभूषणः ।
क्व केसरी क्व दान्तश्च प्रतोदक्षतविग्रहः ।। २५१
इत्यादि जल्पतो यावज्जम्बुकौ तौ परस्परम् ।
तावत्संजीवकवृषं युद्धे पिङ्गलकोऽववीत् ।। २५२
तस्मिन्हते स किल पिङ्गलकस्य तस्य पार्श्वे समं करटकेन मृगाधिपस्य ।
तस्थौ ततो दमनको मुदितश्चिराय मन्त्रित्वमप्रतिहतं समवाप्य भूयः ।। २५३
इति नरवाहनदत्तो नीतिमतो बुद्धिविभवसपन्नाम् ।
मन्त्रिवराद्गोमुखतः श्रुत्वा चित्रां कथां जहर्ष भृशम् ।। २५४
इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे शक्तियशोलम्बके चतुर्थस्तरङ्गः ।