प्रमुखा विकल्पसूचिः उद्घाट्यताम्

इदं गुरुगिरीन्द्रजाप्रणयमन्दरान्दोलनात्पुरा किल कथामृतं हरमुखाम्बुधेरुद्गतम् ।

प्रसह्य रसयन्ति ये विगतविघ्नलब्धर्द्धयो धुर दधति वैबुधीं भुवि भवप्रसादेन ते ।।

प्रथमस्तरङ्गः

नमताशेषविघ्नौघवारणं वारणाननम् ।
कारणं सर्वसिद्धीनां दुरितार्णवतारणम् ।। १
एवं स शक्तियशसं प्राप्यान्याः प्रथमाश्च ताः ।
रत्नप्रभाद्या देवीं च मुख्यां मदनमञ्चुकाम् ।। २
अतिष्ठद्विहरन्वत्सयुवराजः सुहृद्युतः ।
नरवाहनदत्तोऽथ कौशाम्ब्यां पितृपार्श्वगः ।। ३
एकदा च तमुद्यानगतं देशान्तरागतौ ।
भ्रातरौ राजपुत्रौ द्वावकस्मादभ्युपेयतुः ।। ४
कृतातिथ्यप्रणतयोस्तयोरेकोऽब्रवीच्च तम् ।
वैशाखाख्ये पुरे राज्ञः पुत्रावावां द्विमातृकौ ।। ५
नाम्ना रुचिरदेवोऽहं द्वितीयश्चैष पोतकः ।
जविनी हस्तिनी मेऽस्ति तुरगौ द्वावमुष्य च ।। ६
तन्निमित्तं समुत्पन्नो विवादश्चावयोर्द्वयोः ।
अहं जवाधिकां वच्मि हस्तिनीं तुरगावयम् ।। ७
अहं यदि जितस्तन्मे पणः सैव करेणुका ।
अयं यदि जितो वा स्यात्तदश्वावेव तौ पणौ ।। ८
तेषां जवान्तरं ज्ञातुं क्षमो नान्यस्त्वया विना ।
तदस्मद्गृहमागत्य तत्परीक्षां कुरु प्रभो ।। ९
प्रसीद त्वं हि सर्वार्थप्रार्थनाकल्पपादपः ।
आवां चाभ्यागतौ दूरादेतदर्थं तवार्थिनौ ।। १०
एवं रुचिरदेवेन सोऽर्थितोऽश्ववशारसात् ।
अनुरोधाच्च वत्सेशसूनुस्तत्प्रत्यपद्यत ।। ११
तदुपानीतवाताश्वरथारूढस्तदैव सः ।
प्रतस्थे प्राप वैशाखपुरं ताभ्यां समं च तत् ।। १२
कोऽयं स्यात्किंस्विदप्राप्तरतिः कामो नवोद्भवः ।
किंवा द्वितीयश्चन्द्रोऽयमकलङ्को दिवाचरः ।। १३
उत वा पुरुषाकारो धात्रा कामस्य निर्मितः ।
तरुणीहृदयाकाण्डसमूलोन्मूलनः शरः ।। १४
इत्युन्मदाकुलोत्पक्ष्मलोचनाभिर्विलोक्य सः ।
वर्ण्यमानः पुरस्त्रीभिस्तद्विवेश पुरोत्तमम् ।। १५
शृङ्गारैकमयं तत्र युवराजो ददर्श सः ।
पूर्वैः कृतप्रतिष्ठस्य कामदेवस्य मन्दिरम् ।। १६
तस्मिन्रतिप्रीतिपदे प्रविश्य प्रणिपत्य तम् ।
कामदेवं स विश्रम्य क्षणमध्वश्रमं जहौ ।। १७
ततस्तद्देवसदनाभ्यर्णवर्ति विवेश च ।
प्रीत्या रुचिरदेवस्य मन्दिरं तत्पुरस्कृतः ।। १८
वरवाजिगजाकीर्णं तदागमनसोत्सवम् ।
ऊर्जितश्रि स तत्पश्यन्रेमे वत्सेश्वरात्मजः ।। १९
तैस्तै रुचिरदेवेन सत्कारैः सत्कृतोऽथ सः ।
तत्र तद्भगिनीं कन्यां ददर्शात्यद्भुताकृतिम् ।। २०
तद्रूपशोभाकृष्टेन चक्षुषा मानसेन च ।
न सोऽपश्यत्प्रवासं वा विरहं स्वजनेन वा ।। २१
सापि दृष्ट्येव नीलाब्जमालयेव प्रफुल्लया ।
प्रेमनिक्षिप्तया तस्य चकारेव स्वयंवरम् ।। २२
ततो जयेन्द्रसेनाख्यां तां स दध्यौ यथा तथा ।
आसतां निशि नार्योऽन्या न निद्रापि जहार तम् ।। २३
अन्येद्युः पोतकानीतमपि वातसमं जवे ।
तदश्वरत्नयुगलं वाहविद्यारहस्यवित् ।। २४
स्वयं रुचिरदेवी यां तामारुह्य करेणुकाम् ।
तद्वेगेन जिगायैव जवाधानबलेन सः ।। २५
ततो रुचिरदेवेन वाजिरत्नयुगे जिते ।
यावत्स वत्सेशसुतो विशत्यभ्यन्तरं ततः ।। २६
तावत्तस्य पितुः पार्श्वाद्दूतोऽन्तिकमुपाययौ ।
स दृष्ट्वा पादयोर्दूतस्तं प्रणम्याब्रवीदिदम् ।। २७
इह प्रयातं बुद्ध्वा त्वां परिवारात्पिता तव ।
राजा मां प्राहिणोत्त्वां प्रत्येवमादिशति स्म च ।। २८
इयद्दूरमनावेद्य यातोऽस्युद्यानतः कथम् ।
अधृतिर्नस्तदायाहि मुक्तव्यासङ्गसत्वरम् ।। २९
इति शृण्वन्पितुर्दूतात्प्रियाप्राप्तिं च चिन्तयन् ।
नरवाहनदत्तोऽभूत्स दोलारूढमानसः ।। ३०
तावत्क्षणाच्च तत्रैकः सार्थवाहोऽतिहर्षलः ।
दूरादेव नमन्नेत्य युवराजमुवाच तम् ।। ३१
जय वीर जयापुष्पकोदण्डकुसुमायुध ।
भाविविद्याधराधीश चक्रवर्तिञ्जय प्रभो ।। ३२
बालो न किं मनोहारी वर्धमानो न किं द्विषाम् ।
वित्रासकारी दृष्टोऽसि देव तस्मादसंशयम् ।। ३३
अचिरादच्युतगुणं त्वां द्रक्ष्यन्त्येव खेचराः ।
आक्रामन्तं क्रमेण द्यां कुर्वन्तं बलिनिर्जयम् ।। ३४
इत्यादि स्तुतवांस्तेन युवराजेन सत्कृतः ।
पृष्टश्चाकथयत्तस्मै स्ववृत्तान्तं महावणिक् ।। ३५५
अस्ति लम्पेति नगरी पृथिवीमौलिमालिका ।
तस्यां कुसुमसाराख्यो वणिगाढ्यो महानभूत् ।। ३६
तस्य धर्मैकवसतेः शंकराराधनार्जितः ।
एकोऽहं चन्द्रसाराख्यः पुत्रो वत्सेशनन्दन ।। ३७
सोऽहं मित्रैः समं जातु देवयात्रामवेक्षितुम् ।
गतस्तत्रापरानाढ्यानद्राक्षं ददतोऽर्थिषु ।। ३८
ततो धनार्जनेच्छा मे प्रदानश्रद्धयोदभूत् ।
असंतुष्टस्य बह्वयापि पित्रुपार्जितया श्रिया ।। ३९
तेन द्वीपान्तरं गन्तुमहमम्बुधिवर्त्मना ।
आरूढवान्प्रवहणं नानारत्नप्रपूरितम् ।। ४०
दैवेनेवानुकूलेन वायुना प्रेरितं च तत् ।
अल्पैरेव दिनैः प्राप तं द्वीपं वहनं मम ।। ४१
तत्राप्रतीतमुद्रिक्तरत्नव्यवहृतिं च माम् ।
बुद्ध्वा राजार्थलोभेन बद्ध्वा कारागृहे न्यधात् ।। ४२
तस्मिन्गृहे दुष्कृतिभिः क्रन्दद्भिः क्षुत्तृडर्दितैः ।
प्रेतैरिव स्थितो यावदहं निरयसंनिभे ।। ४३
तावदस्मत्कुलाभिज्ञस्तन्निवासी महावणिक् ।
महीधराख्यो राजानं मत्कृते तं व्यजिज्ञपत् ।। ४४
लम्पानिवासिनो देव पुत्र एष वणिक्पतेः ।
निर्दोषस्य तदेतस्य बन्धनाद्ययशस्करम् ।। ४५
इत्यादि बोधितस्तेन स मामुन्मोच्य बन्धनात् ।
आनाय्य चान्तिकं राजा सादरं सममानयत् ।। ४६
ततो राजप्रसादेन तन्मित्त्रोपाश्रयेण च ।
तत्रासं महतः कुर्वन्व्यवहारानहं सुखी ।। ४७
एकदात्र मधूद्यानयात्रायां दृष्टवानहम् ।
वणिजः शिखराख्यस्य तनयां वरकन्यकाम् ।। ४८
तया कंदर्पदर्पाब्धिलहर्येव हृतस्ततः ।
गत्वैव तत्पितुस्तस्मादहं याचितवांश्च ताम् ।। ४९
स च क्षणं विचिन्त्यान्तस्तत्पिता मामभाषत ।
साक्षान्न युज्यते दातुमेषा मेऽस्त्यत्र कारणम् ।। ५०
तदेतां सिंहलद्वीपमहं मातामहान्तिकम् ।
प्रहिणोम्युपयच्छस्व गत्वैनामर्थितां ततः ।। ५१
संदेक्ष्यामि तथा तत्र यथैतत्तव सेत्स्यति ।
इत्युक्त्वा मां स संमान्य शिखरो व्यसृजद्गृहम् ।। ५२
अन्येद्युश्च स तां कन्यामारोप्य सपरिच्छदाम् ।
यानपात्रेऽब्धिमार्गेण प्राहिणोत्सिंहलान्प्रति ।। ५३
अथ यावदहं तत्र गन्तुमिच्छामि सोत्सुकः ।
तावद्विद्युन्निपातोग्रा वार्ता तत्रोदभूदियम् ।। ५४
शिखरस्य सुता येन याता प्रवहणेन तत् ।
मग्नमब्धौ न चैकोऽपि तत उत्तीर्णवानिति ।। ५५
तद्वार्तावात्यया भग्नधैर्यः प्रवहणाकुलः ।
अहं सद्यो निरालम्बे न्यपतं शोकसागरे ।। ५६
वृद्धैराश्वास्यमानश्च चित्तमाशाभिराक्षिपन् ।
अकार्षं निश्चयं ज्ञातुं तद्द्वीपगमने मतिम् ।। ५७
अथ राजप्रियौऽप्यर्थैस्तैस्तैरुपचितोऽपि सन् ।
आरुह्याम्बुनिधौ पोतं गन्तुमारब्धवानहम् ।। ५८
गच्छतश्च महाशब्दो मुञ्चन्धाराशरावलीः ।
उदतिष्ठन्ममाकस्माद्घोरो वारिदतस्करः ।। ५९
तद्वायुना विरुद्धेन विधिनैव बलीयसा ।
उत्क्षिप्योत्क्षिप्य च मुहुर्भग्नं मे वहनं ततः ।। ६०
मग्नेऽम्बुधौ परिजने धने च विधियोगतः ।
एकं प्रापि महत्काष्ठं पतितेन सता मया ।। ६१
तेन प्रसारितेनेव धात्रा सपदि बाहुना ।
शनैर्वातवशादब्धेः पुलिनं प्राप्तवानहम् ।। ६२
तत्राधिरुह्य दुःखार्तो निन्दन्दैवमशङ्कितम् ।
स्वर्णलेशमहं प्रापं तटोपान्तच्युतस्थितम् ।। ६३
तद्विक्रीयात्र निकटे ग्रामे कृत्वाशनादिकम् ।
क्रीतवस्त्रयुगोऽत्याक्षमब्धिवाहक्लमं मनाक् ।। ६४
ततो दिशमजानानो दयिताविरही भ्रमन् ।
दृष्टवानस्मि सिकताशिवलिङ्गभृतां भुवम् ।। ६५
विचरन्मुनिकन्याया तस्यां चाद्राक्षमेकतः ।
कन्यां लिङ्गार्चनव्यग्रां वनवेषेऽपि शोभिनीम् ।। ६६
अहो प्रिया सुसदृशी काप्येषा सैव किं भवेत् ।
कुतो वैतन्न तादृंशि भागधेयानि यन्मम ।। ६७
इति मां चिन्तयन्तं च सैवेयमिति दक्षिणम् ।
लोचनं वदति स्मैवं साह्लादं प्रस्फुरन्मुहुः ।। ६८
तन्वि प्रासादवासार्हा त्वमरण्येऽत्र का वद ।
इति पृष्टा ततः सा च मया नाह स्म किंचन ।। ६९
मुनिशापभयेनाथ लतागुल्मान्तराश्रितः ।
स्थितवानस्मि तां पश्यन्नवितृप्तेन चक्षुषा ।। ७०
कृतार्चना सा च मुहुः सस्नेहं परिवृत्य माम् ।
पश्यन्ती विमृशन्ती च किंचित्प्रायात्ततः शनैः ।। ७१
गतायां दृक्पथात्तस्यां तमोन्धाः पश्यतो दिशः ।
निशाचक्राह्वसदृशी काप्यवस्था ममाभवत् ।। ७२
क्षणाच्चाशङ्कितायातां तेजसार्कप्रभानिभाम् ।
सुतां मतङ्गस्य मुनेराबाल्याद्ब्रह्मचारिणीम् ।। ७३
यमुनाख्यां तपःक्षामशरीरां दिव्यचक्षुषम् ।
साक्षाद्धृतिमिवापश्यमहं कल्याणदर्शनाम् ।। ७४
सा मामवददालम्ब्य चन्द्रसार धृतिं शृणु ।
शिखराख्यो वणिग्योऽसावस्ति द्वीपान्तरे महान् ।। ७५
स रूपवत्यां जातायां कन्यायां सुहृदा किल ।
जिनरक्षितसंज्ञेन ज्ञानिनावादि भिक्षुणा ।। ७६
स्वयं त्वया न देयेयं कन्यैषा ह्यन्यमातृका ।
दोषः स्यात्ते स्वयं दाने विहितं तादृशं हितम् ।। ७७
इत्युक्तो भिक्षुणा सोऽथ तां प्रदेयां सुतां वणिक् ।
तन्मातामहहस्तेन दातुमैच्छत्त्वदर्थिताम् ।। ७८
अतः सा सिंहलद्वीपं तेन मातामहान्तिकम् ।
पित्रा विसृष्टा वहने भग्ने न्यपतदम्बुधौ ।। ७९
आयुर्बलेव चानीय दैवेनेव महोर्मिणा ।
वेलातटे समुद्रेण निक्षिप्ता सा वणिक्सुता ।। ८०
तावत्पिता मे भगवान्मतङ्गमुनिरम्बुधौ ।
सशिष्यः स्नातुमायातो मृतकल्पां ददर्श ताम् ।। ८१
स दयालुः समाश्वास्य तां स्वमाश्रममानयत् ।
यमुने तव पाल्येयमिति च न्यस्तवान्मयि ।। ८२
वेलातटादियं प्राप्ता मयेति स महामुनिः ।
नाम्ना तामकरोद्वेलां बालां मुनिजनप्रियाम् ।। ८३
तत्स्नेहेन च चित्तं मेऽपत्यस्नेहकृपामयः ।
ब्रह्मचर्यनिरस्तोऽपि हा संसारोऽद्य बाधते ।। ८४
आपाणिग्रहणां तां च नवयौवनशोभिनीम् ।
दूयते चन्द्रसारैतां दर्शं दर्शं मनो मम ।। ८५
सा च प्राग्जन्मभार्या ते बुद्ध्वा च त्वामिहागतम् ।
प्रणिधानादहं पुत्र संप्राप्तैषा तवान्तिकम् ।। ८६
तदागच्छोपयच्छस्व वेलां तामस्मदर्पिताम् ।
क्लेशोऽनुभूतः साफल्यं भजतां युवयोरयम् ।। ८७
इत्यानन्द्य गिरानभ्रवृष्ट्येव नयति स्म सा ।
यमुना मां भगवती मतङ्गस्याश्रमं पितुः ।। ८८
विज्ञप्तश्च तया तत्र तां मतङ्गमुनिः स मे ।
ददौ वेलां मनोराज्यसंपत्तिमिव रूपिणीम् ।। ८९
ततस्तया समं तत्र वेलयाहं सुखस्थितः ।
एकदा तद्युतोऽकार्षं जलकेलिं सरोम्भसि ।। ९०
अपश्यता सवेलेनाप्यवेलं क्षिपता जलम् ।
सिक्तः स्नानप्रवृत्तोऽत्र स मतङ्गमुनिर्मया ।। ९१
स तेन कुपितः शापं सभार्ये मय्यपातयत् ।
वियोगो भविता पापौ दंपत्योर्युवयोरिति ।। ९२
ततस्तया दीनगिरा वेलया पादलग्नया ।
प्रार्थितः स मुनिर्ध्यात्वा शापान्तं नौ समादिशत् ।। ९३
जेता करेणुवेगेन योऽश्वरत्नयुगं बली ।
नरवाहनदत्तं तं भाविविद्याधरेश्वरम् ।। ९४
चन्द्रसार यदा द्रक्ष्यस्याराद्वत्सेश्वरात्मजम् ।
संगंस्यसे तदा शापप्रशमाद्भार्ययानया ।। ९५
इत्युक्त्वा स मतङ्गर्षिः कृत्वा स्नानादिकां क्रियाम् ।
दर्शनाय हरेर्व्योम्ना श्वेतद्वीपं गतोऽभवत् ।। ९६
विद्याधरेण पादाग्राद्यः प्राप्तो धूर्जटेः पुरा ।
तस्मान्मया च बालत्वादात्तो यश्चूतपादपः ।। ९७
सोऽयं सद्रत्ननिचितो दत्तो वामधुना मया ।
इत्युक्त्वा मां सभार्यं सा तत्रैव यमुनाप्यगात् ।। ९८
अथाहं प्राप्तदयितो निर्विण्णो वनवासतः ।
वियोगभीतेरभवं स्वं देशं प्रति सोत्सुकः ।। ९९
ततः प्रवृत्तश्चागन्तुमहं प्राप्याम्बुधेस्तटम् ।
लब्धे वणिक्प्रवहणे भार्यामारोपयं पुरः ।। १००
स्वयं चारोढुमिच्छामि यावत्तावत्समीरणः ।
मुनिशापात्सुहृत्पोतं तं दूरमहरन्मम ।। १०१
पोतेन हृतभार्यस्य मोहोऽपि विनिपत्य मे ।
लब्धच्छिद्र इवाहार्षीच्चेतनां विह्वलात्मनः ।। १०२
ततोऽत्र तापसः कश्चिदागतो वीक्ष्य मूर्च्छितम् ।
कृपया मां समाश्वास्य नीतवानाश्रमं शनैः ।। १०३
पृष्ट्वा चात्र यथावृत्तं श्रुत्वा शापविजम्भितम् ।
बुद्ध्वा च सावधिं शापं धृतिबन्धं व्यधात्स मे ।। १०४
ततोऽब्धौ भग्नवहनोत्तीर्णं प्राप्य वर्णितम् ।
सखायं मिलितोऽभूवमन्विष्यंस्तां प्रियां पुनः ।। १०५
शापक्षयाशया दत्तहस्तालम्बश्च दुर्गमान् ।
तांस्तानुल्लङ्घयन्देशान्दिवसांश्च बहूनहम् ।। १०६
क्रमाच्च वैशाखपुरं संप्राप्येदं श्रुतो मया ।
त्वं वत्सेश्वरसद्वंशमुक्तामणिरिहागतः ।। १०७
दृष्टे च दूराद्धस्तिन्या विजिताश्वयुगे त्वयि ।
उज्झितः स मया शापभारो लघ्वन्तरात्मना ।। १०८
क्षणाच्च संमुखायातामद्राक्षमिह तां प्रियाम् ।
वेलां वणिग्भिरानीतां तेन पोतेन साधुभिः ।। १०९
ततस्तयाहं यमुनाप्रत्तसद्रत्नहस्तया ।
मिलितस्त्वत्प्रसादेन तीर्णशापमहार्णवः ।। ११०
अतः प्रणन्तुं त्वामस्मि वत्सराजसुतागतः ।
निर्वृतो यामि चेदानीं स्वदेशं दयितायुतः ।। १११
इति स वणिजि तस्मिन्नात्मवृत्तान्तमुक्त्वा गतवति चरितार्थे चन्द्रसारे प्रणम्य ।
अभवदतिविनम्रो वत्सराजात्मजेऽस्मिन्स किल रुचिरदेवो दृष्टमाहात्म्यहृष्टः ।। ११२
प्रादाच्च तां स्वभगिनीमुपचारवृत्तिमालम्ब्य युक्तिमनुरागहृताय तस्मै ।
प्राग्दित्सितां सुसदृशीं स जयेन्द्रसेनां सद्यः करेणुतुरगोत्तमयुग्मयुक्ताम् ।। ११३
स च तामादाय वधूं साश्ववशां रुचिरदेवमामन्त्र्य ।
नरवाहनदत्तः स्वां कौशाम्बीमाययौ नगरीम् ।। ११४
तस्यामास्त च विहरन्नन्दितवत्सेश्वरस्तया सहितः ।
अन्याभिश्च स सुखितो देवीभिर्मदनमञ्चुकाद्याभिः ।। ११५
इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे वेलालम्बके प्रथमस्तरङ्गः ।

समाप्तश्चायं वेलालम्बक एकादशः ।