प्रमुखा विकल्पसूचिः उद्घाट्यताम्

इदं गुरुगिरीन्द्रजाप्रणयमन्दरान्दोलनात्पुरा किल कथामृतं हरमुखाम्बुधेरुद्गतम् ।

प्रसह्य रसयन्ति ये विगतविघ्नलब्धर्द्धयो धुरं दधति वैबुधीं भुवि भवप्रसादेन ते ।।

तुष्टेन येन देहार्धमप्युमायै समर्पितम् ।
स वो ददात्वभिमतं वरदः पार्वतीपतिः ।। १
निशि विघ्नजितो वोऽव्यात्ताण्डवोद्दण्डितः करः ।
शोणश्चन्द्रातपत्रस्य तन्वन्विद्रुमदण्डताम् ।। २
ततो वत्सेश्वरसुतस्तास्तास्त्रैलोक्यसुन्दरीः ।
भार्या दधानस्तां चाद्यां देवीं मदनमञ्चुकाम् ।। ३
नरवाहनदत्तोऽत्र कौशाम्ब्यां गोमुखादिभिः ।
उवास सह संपूर्णकामः पितृविभूतिभिः ।। ४
तस्याभीष्टवधूसङ्गसुखामृतमनोरमाः ।
नृत्तगीतकथालापरम्यास्ते दिवसा ययुः ।। ५
अथैकदा स तामग्र्यां कान्तां मदनमञ्चुकाम् ।
न ददर्शावरोधान्तर्न वा परिजनं क्वचित् ।। ६
तामनालोकयन्कान्तां स जगाम विवर्णताम् ।
रजनीविरहध्वस्तकान्तिरिन्दुरिवोषसि ।। ७
चित्तं जिज्ञासितुं किं नु च्छन्ना स्यात्क्वापि मे प्रिया ।
 किं वापराधलेशात्सा कुतोऽपि कुपितैव मे ।। ८
माययाच्छादिता केनाप्यथवापहृता नु किम् ।
इत्यनेकविकल्पौघविह्वलोऽथ बभूव सः ।। ९
अन्वेषयन्यदा नैव लभते स्म कुतोऽपि ताम् ।
संतेपे स तदोद्दामतद्वियोगदवाग्निना ।। १०
उपेत्य ज्ञातवृत्तान्तस्तस्य वत्सेश्वरः पिता ।
मातरः सचिवा भृत्याः सर्वे विह्वलतां ययुः ।। ११
हारचन्दनचन्द्रांशुमृणालनलिनीदलैः ।
ववृधे तस्य संतापो न जगाम शमं पुनः ।। १२
कलिङ्गसेना सद्यश्च विहीना सुतया तया ।
विद्याधरीव विभ्रष्टविद्या संमूढतां ययौ ।। १३
अथ तत्राब्रवीदेका वृत्तान्तःपुररक्षिका ।
नरवाहनदत्ताग्रे सर्वेष्वाकर्णयत्स्विदम् ।। १४
हर्म्याग्रे तां तदा कन्यां सतीं मदनमञ्चुकाम् ।
दृष्ट्वावतीर्य नभसः सद्यो विद्याधरो युवा ।। १५
योऽसौ मानसवेगाख्यो नामोक्त्वा समयाचत ।
कलिङ्गसेनामभ्येत्य देह्येतां मे सुतामिति ।। १६
तेनैतया निषिद्धेन सता गत्वा यथागतम् ।
इदानीं गुप्तमागत्य हृता सा किं न मायया ।। १७
परदारगृहं नैव दिव्या यद्यपि कुर्वते ।
तथाप्यमार्गं मार्गं वा रागान्धः को हि पश्यति ।। १८
श्रुत्वैतच्चित्तमाकोपविमर्शविरहोत्प्लुतम् ।
नरवाहनदत्तस्य जज्ञे वीचिष्विवाम्बुजम् ।। १९
रुमण्वानथ वक्ति स्म पुरीयं रक्ष्यतेऽभितः ।
प्रवेशनिर्गमौ नेह विद्येते गमनं विना ।। २०
हरप्रसादाच्चास्त्यस्या नानिष्टं तदिह स्थिता ।
क्वचित्प्रणयकोपात्सा तथा च श्रूयतां कथा ।। २१
मुनिः पुराङ्गिरा नाम विवाहार्थमयाचत ।
अष्टावक्रस्य तनयां सावित्रीं नाम कन्यकाम् ।। २२
अष्टावक्रो न तां तस्मै ददावङ्गिरसे सुताम् ।
सगुणायापि सावित्रीमन्यस्मै पूर्वकल्पिताम् ।। २३
ततस्तद्भातृतनयामश्रुतां नाम सोऽङ्गिराः ।
उपयेमे तया साकं स तस्थौ भार्यया सुखम् ।। २४
सा च भार्यास्य वेत्ति स्म सावित्रीं पूर्ववाञ्छिताम ।
एकदा सोऽङ्गिरा मौनी जपन्नासीच्चिरं मुनिः ।। २५
भार्याथ सा तं पप्रच्छ मुहुः सप्रणयाश्रुता ।
चिरं किमार्यपुत्रैवं चिन्तयस्युच्यतामिति ।। २६
प्रिये ध्यायामि सावित्रीमित्युक्ते तेन साश्रुता ।
सावित्रीं तां मुनिसुतां मत्वात्मनि चुकोप ह ।। २७
दुर्भगोऽयमिति त्यक्तुं देहं गत्वा वनं च सा ।
शुभं भर्तुरनुध्याय कण्ठे पाशं समर्पयत् ।। २८
मा पुत्रि साहसं कार्षीः पत्या ध्याता न तेऽङ्गना ।
ध्याताऽहं तेन सावित्रीत्युक्त्वा पाशाद्ररक्ष ताम् ।। २९
प्रकटीभूय गायत्री साक्षसूत्रकमण्डलुः ।
भक्तानुकम्पिनी चैतां समाश्वास्य तिरोदधे ।। ३०
अथैषाङ्गिरसा भर्त्रा संप्राप्तान्विष्यता वनात् ।
तदेवं दुःसहं स्त्रीणामिह प्रणयखण्डनम् ।। ३१
तत्स्वल्पेनापराधेन कुपितेह क्वचित्स्थिता ।
अन्वेष्या शंभुरक्ष्या सा राजपुत्रवधूः पुनः ।। ३२
एवं रुमण्वता प्रोक्ते राजा वत्सेश्वरोऽब्रवीत् ।
एवमेतन्न दुरितं तस्याः संभाव्यते यतः ।। ३३
नरवाहनदत्तस्य भार्या देवविनिर्मिता ।
कामांशस्यावतीर्णैषा रतिर्मदनमञ्चुका ।। ३४
असौ विद्याधरैश्वर्यं दिव्यं कल्पं सहानया ।
करिष्यतीति दिव्या वागब्रवीन्न च तन्मृषा ।। ३५
तदेषान्विष्यतां सम्यगिति राज्ञोदिते स्वयम् ।
नरवाहनदत्तः स तदवस्थोऽपि निर्ययौ ।। ३६
यथायथा हि चिन्वानो न तां प्राप तथातथा ।
तेषु तेषु प्रदेशेषु सोन्माद इव सोऽभ्रमत् ।। ३७
अपेते तत्पुरात्तस्मिन्पिहितद्वारका गृहाः ।
तद्दुःखदर्शनोद्वेगादिव संमीलितेक्षणाः ।। ३८
वनेषु तं च पृच्छन्तं चलत्पल्लवपाणयः ।
न सा दृष्टा तवास्माभिरित्यूचुरिव पादपाः ।। ३९
उद्यानेषूत्पतन्तश्च खगास्तस्मै विचिन्वते ।
इतः सा न गतेत्येवं शशंसुरिव सारसाः ।। ४०
मरुभूतिर्हरिशिखो गोमुखः सवसन्तकः ।
ते ते च सचिवा भ्रेमुस्तामन्वेष्टुं समन्ततः ।। ४१
अत्रान्तरे वेगवती नाम विद्याधरी किल ।
कन्या दृष्टचरोदारवपुर्मदनमञ्चुका ।। ४२
तदीयं रूपमास्थाय तस्थावुपवनान्तरे ।
आगत्यैकाकिनी स्वैरमत्राशोकतरोरधः ।। ४३
तां ददर्श विचिन्वानो मरुभूतिः परिभ्रमन् ।
सद्यो विशल्यकरणीं सशल्यस्येव चेतसः ।। ४४
नरवाहनदत्तं तं गत्वा हृष्टो जगाद सः ।
समाश्वसिहि दृष्टा ते मयोद्याने स्थिता प्रिया ।। ४५
इत्येवोक्तवता तेन साकं तत्क्षणमेव सः ।
नरवाहनदत्तस्तदुद्यानं मुदितो ययौ ।। ४६
तत्रातिविरहक्लान्तो भार्यां मदनमञ्चुकाम् ।
तामपश्यत्स तृषितो वारिधारामिवाध्वगः ।। ४७
दृष्ट्वैवालिङ्गितुं तां च भृशार्तो यावदिच्छति ।
तावत्सा तं जगादैवं धूर्ता परिणयैषिणी ।। ४८
मां त्वं संप्रति मा स्प्राक्षीः शृणु तावद्वचो मम ।
मयोपयाचिता यक्षास्त्वत्प्राप्त्यै प्राग्विवाहतः ।। ४९
विवाहे वः प्रदास्यामि स्वहस्तेन बलीनिति ।
विवाहकाले ते तस्मिन्मम प्राणेश विस्मृताः ।। ५०
तत्कोपात्तैरहमितो यक्षैरपहृताभवम् ।
गच्छ भूयो विवाहं तं कृत्वा दत्त्वा बलिं च नः ।। ५१
निजं पतिमुपेयास्त्वं नान्यथा ते शिवं भवेत् ।
इत्युक्त्वा तैरिहानीय यक्षैर्मुक्तास्मि सांप्रतम् ।। ५२
तन्मां परिणयस्वाशु पुनर्यावद्ददाम्यहम् ।
यक्षेभ्योऽभिमतां पूजां ततः पूरय वाञ्छितम् ।। ५३
तच्छ्रुत्वैव समाहूय शान्तिसोमं पुरोहितम् ।
क्षणात्संभृत्य संभारान्मायामदनमञ्चुकाम् ।। ५४
विद्याधरीं वेगवतीमुपयेमे स तत्क्षणम् ।
नरवाहनदत्तस्तां वियोगक्षणकातरः ।। ५५
प्रहृष्टवत्सराजोऽथ देव्यानन्दी महोत्सवः ।
नन्दत्कलिङ्गसेनोऽभूत्तत्रातोद्यरवाकुलः ।। ५६
ददौ बलिं च यक्षेभ्यो मायामदनमञ्चुका ।
विद्याधरी स्वहस्तेन सा मद्यपिशितादिभिः ।। ५७
नरवाहनदत्तोऽथ वासकस्थस्तया सह ।
पपौ स सोत्सवः पानं पानशौण्डोऽपि तद्गिरा ।। ५८
सिषेवे च तया साकं जीवलोकसुखं ततः ।
छाययेव दिनाधीशः परिवर्तितरूपया ।। ५५३
रहःस्था चाब्रवीत्सा तं सुप्ता नाहं प्रिय त्वया ।
सहसा मुखमुद्घाट्य वीक्षणीयेह संप्रति ।। ६०
तच्छ्रुत्वा स किमेतत्स्यादिति यावत्सकौतुकः ।
सुप्ताया राजपुत्रोऽस्या मुखमन्येद्युरीक्षते ।। ६१
तावदन्यैव सा कापि न सा मदनमञ्चुका ।
स्वापवेलावशध्वस्तमायारूपविवर्तना ।। ६२
ततः स जाग्रदेवासीद्यावत्प्रबुबुधेऽत्र सा ।
का त्वं सत्यं वदेत्येवमथ तां पृच्छति स्म सः ।। ६३
साप्यनिद्रोपविष्टं तं दृष्ट्वा रूपे निजे स्थिता ।
वक्तुं प्रचक्रमे जातप्रतिभेदा मनस्विनी ।। ६४
शृण्विदानीं ब्रवीम्येतद्यथावस्तु तव प्रिय ।
अस्त्याषाढपुरं नाम विद्याधरपुरं गिरिः ।। ६५
तत्र वेगवतो राज्ञः पुत्रो विद्याधराधिपः ।
अस्ति मानसवेगाख्यो राजा भुजबलोद्धतः ।। ६६
तस्य वेगवती नाम भगिन्यस्मि कनीयसी ।
स च भ्राता न मे विद्यां दातुमैच्छदतिद्विषन् ।। ६७
ततो मया ताः क्लेशेन तपोवनगतात्पितुः ।
प्राप्तास्तद्वरतश्चैताः सर्वाधिकबला मम ।। ६८
साहं दृष्टवती दीनामुद्याने रक्षिभिर्वृताम् ।
आषाढाद्रिपुरे तस्मिन्स्थितां मदनमञ्चुकाम् ।। ६९
माययापहृता तेन भ्रात्रा मे दयिता तव ।
रावणेनेव दुःखार्ता रामभद्रस्य जानकी ।। ७०
अनिच्छन्ती च सा साध्वी तेनाक्रान्तुं न शक्यते ।
स्त्रीणां हठोपभोगे हि शापस्तस्यास्ति मृत्युजः ।। ७१
ततस्तेन प्रयुक्ताहं कुभ्रात्रा तत्प्रबोधने ।
तस्याः समीपमगमं त्वत्प्रलापमयात्मनः ।। ५
तत्प्रसङ्गाच्च कामाज्ञातुल्ये त्वन्नाम्न्युदीरिते ।
तया साध्व्या त्वदेकाग्रमिदं जातं मनो मम ।। ७३
स ते पतिः स्याद्यन्नाम्नि श्रुते स्मरवशा भवेः ।
इत्याद्यश्च तदा देवीस्वप्नादेशो मया स्मृतः ।। ७४
संस्मृत्य ग्राहयित्वा तां धृतिं मदनमञ्चुकाम् ।
तद्रूपणे मयागत्य युक्त्यात्मेह विवाहितः ।। ७५
तदेहि यत्र त्वद्भार्या स्थिता मदनमञ्चुका ।
तत्रैव तत्कृपाविष्टा प्राणेश त्वां नयाम्यहम् ।। ७६
त्वत्प्रियेति तवेवाहं सपत्न्या अपि किंकरी ।
ममात्मनिरपेक्षा हि कापि त्वत्प्रेमवश्यता ।। ७७
इत्युक्त्वा सा स्वविद्यानां बलाद्वेगवती निशि ।
नरवाहनदत्तं तं गृहीत्वोदपतन्नभः ।। ७८
शनैः प्रयाति सा व्योम्ना यावत्तावददर्शनात् ।
जायापत्योस्तयोः प्राप्तः परिवारोऽत्र चुक्षुभे ।। ७९
तच्च वत्सेश्वरो बुद्ध्वा सह वासवदत्तया ।
पद्मावत्यादिभिश्चाशु वज्राहत इवाभवत् ।। ८०
यौगन्धरायणाद्याश्च संपौरास्तस्य मन्त्रिणः ।
मरुभूतिमुखैः पुत्रैः सहाभूवन्सुविह्वलाः ।। ८१
ततोऽन्तरिक्षतस्तत्र द्वितीय इव भास्करः ।
अवातरत्प्रभाबद्धमण्डलो नारदो मुनिः ।। ८२
विद्याधर्या निजभुवं नीतः शीघ्रमिहैष्यति ।
पुत्रस्ते तव धृत्यर्थं प्रेषितश्चास्मि शूलिना ।। ८३
इत्युक्त्वा वत्सराजाय कृतार्घाय ततो मुनिः ।
स वेगवत्याश्चरितं यथावृत्तं शशंस तत् ।। ८४
ततस्तस्मिन्समाश्वस्ते मुनिः सोऽत्र तिरोदधे ।
अत्रान्तरे वेगवती व्योम्ना प्रापयति स्म सा ।। ८५
नरवाहनदत्तं तं तमाषाढपुरं गिरिम् ।
बुद्ध्वा मानसवेगस्तत्स हन्तुं तावधावत ।। ८६
ततस्तेन समं भ्रात्रा युद्धं विद्याबलोद्धतम् ।
वेगवत्या अभूत्स्त्रीणां पतिः प्राणा न बान्धवाः ।। ८७
अथ निजविद्याबलतो भैरवरूपं विधाय विकटं सा ।
मानसवेगं सहसा संमोह्य तमग्निपर्वते निदधे ।। ८८
तमपि च विद्याहस्ते नरवाहनदत्तमादितो न्यस्तम् ।
नीत्वा गन्धर्वपुरे कूपे चिक्षेप रक्षितुं विजले ।। ८९
तत्र स्थितं च तमुवाच मनागिह त्वं तिष्ठार्यपुत्र भविता च शिवं तवात्र ।
मा चाधृतिं हृदि कृथाः शुभपात्र सर्वविद्याधराधिपतिता तव भाविनीह ।। ९०
यामि प्रसाधयितुमद्य पुनर्यतोऽहं ज्येष्ठव्यतिक्रमणदुर्बलिताः स्वविद्याः ।
त्वामभ्युपैमि नचिरादिति सा तमुक्त्वा विद्याधरी क्वचन वेगवती जगाम ।। ९१
इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे पञ्चलम्बके प्रथमस्तरङ्गः ।