प्रमुखा विकल्पसूचिः उद्घाट्यताम्

ततः कूपस्थितं तत्र गन्धर्वः कोऽप्यवैक्षत ।
नरवाहनदत्तं तं वीणादत्त इति श्रुतः ।। १
परार्थफलजन्मानो न स्युर्मार्गद्रुमा इव ।
तापच्छिदो महान्तश्चेज्जीर्णारण्यं जगद्भवेत् ।। २
यद्दृष्ट्वा तं स सुजनः पृष्ट्वा चान्वयनामनी ।
हस्तेऽवलम्ब्योदहरत्कूपात्तस्मादुवाच च ।। ३
मानुषोऽसि न देवश्चेद्गन्धर्वनगरं कथम् ।
मानुषागम्यमेतत्त्वमागतः कथ्यतामिति ।। ४
विद्याधर्याहमानीय क्षिप्तोऽत्रात्मबलादिति ।
नरवाहनदत्तोऽपि स तं प्रत्यब्रवीत्तदा ।। ५५
ततस्तं वीक्ष्य सच्चक्रवर्तिचिह्नं गुणी गृहम् ।
नीत्वा स वीणादत्तः स्वैरुपचारैरुपाचरत् ।। ६
अन्येद्युस्तत्पुरं दृष्ट्वा वीणाहस्ताखिलप्रजम् ।
नरवाहनदत्तस्तं वीणादत्तं स पृष्टवान् ।। ७
सर्वेऽप्याबालमेते किं वीणाहस्ता जना इति ।
वीणादत्तोऽपि स ततस्तमेवं प्रत्यभाषत ।। ८
राजा सागरदत्ताख्यो गन्धर्वाणामिहास्ति यः ।
तस्य गन्धर्वदत्ताख्या सुतास्ति न्यक्कृताप्सराः ।। ९
धात्रा कृतं सुधाचन्द्रचन्दनाद्यैरिवोचितैः ।
सर्वसुन्दरनिर्माणवर्णकायेव यद्वपुः ।। १०
सततं सा च गायन्ती वीणायां शौरिणा स्वयम् ।
दत्तं स्वगीतकं काष्ठां गान्धर्वे परमां गता ।। ११
यो वादयति वीणायां त्रिभिर्ग्रामैश्च गायति ।
गान्धर्वे कोविदः सम्यग्वैष्णवं स्तुतिगीतकम् ।। १२
स मे पतिः स्यादित्यस्या राजपुत्र्याश्च निश्चयः ।
तेन सर्वेऽत्र वीणासु शिक्षन्ते न च तद्विदुः ।। १३
एतच्छ्रुत्वैव सानन्दो वीणादत्तमुखाद्वचः ।
नरवाहनदत्तोऽसौ राजपुत्रो जगाद तम् ।। १४
अहं कलानां सर्वासां स्वयंवरवृतः पतिः ।
जानामि सर्वं गान्धर्वं त्रैलोक्योदरवर्ति यत् ।। १५
इत्युक्तवन्तं स सुहृद्वीणादत्तो निनाय तम् ।
राज्ञः सागरदत्तस्य पार्श्वं तत्र जगाद् च ।। १६
नरवाहनदत्तोऽयं वत्सराजसुतः किल ।
इह विद्याधरीहस्ताद्विभ्रष्टो नगरे तव ।। १७
गान्धर्वाचार्य एवायं केशवस्तुतिगीतकम् ।
वेत्ति गन्धर्वदत्ताया त्रयोपरि महान्रसः ।। १८
तच्छ्रुत्वा सोऽब्रवीद्राजा सत्यमेतन्मया श्रुतम् ।
गन्धर्वाणां मुखात्पूर्वं तन्मान्योऽयमिहाद्य नः ।। १९
देवांशश्चैष न भ्रान्तिर्देवभूमौ किमन्यथा ।
इह विद्याधरीसङ्गादागच्छेन्मानुषो भवन् ।। २०
आनीयतां तद्गन्धर्वदत्ता वीक्षामहेऽद्भुतम् ।
इति राज्ञोदिते जग्मुरानेतुं तां महत्तराः ।। २१
आगाच्च सा ततः कान्ता कुसुमाभरणोज्ज्वला ।
यौवनेन विघूर्णन्ती वातेनेवार्तवी लता ।। २२
उपविश्य पितुः पार्श्वे तद्वाक्याच्च क्षणान्तरे ।
भृत्यैः कथितवृत्तान्ता वीणायां गीतकं जगौ ।। २३
स्वराञ्श्रुतिषु युञ्जन्त्यास्तस्या ब्राह्म्या इव श्रियः ।
नरवाहनदत्तोऽभूद्गीते रूपे च विस्मितः ।। २४
राजपुत्रि न ते वीणा सुस्वरा प्रतिभाति मे ।
जाने बालः स्थितस्तन्त्र्यामिति सोऽत्र जगाद च ।। २५
ततोऽत्र वीक्ष्यते यावद्बालस्तावदवापि सः ।
तेन सर्वेऽपि ते जग्मुर्गन्धर्वा अपि विस्मयम् ।। २६
राजपुत्र गृहाणेमां कर्णौ सिञ्चामृतेन नः ।
इति राजा सुताहस्ताद्वीणां तस्मै ददौ वदन् ।। २७
सोऽपि तां वादयन्विष्णोरगायद्गीतकं तथा ।
यथा ते तत्र गन्धर्वाश्चित्रन्यस्ता इवाभवन् ।। २८
ततो गन्धर्वदत्ता सा दृष्ट्यैव प्रणयार्द्रया ।
तं वव्रे फुल्लनीलाब्जमालयेवास्तया स्वयम् ।। २९
तदालोक्य तथारूपां तत्प्रतिज्ञां स्मरंश्च सः ।
राजा गन्धर्वदत्तां तां सद्यस्तस्मै सुतां ददौ ।। ३०
दिव्यातोद्यादिकश्चात्र विवाहो यस्तयोरभूत् ।
कोपमा कथ्यते तस्य येनान्यदुपमीयते ।। ३१
ततस्तया समं तत्र तस्थौ गन्धर्वदत्तया ।
नरवाहनदत्तोऽसौ दिव्यैर्भोगैर्नवोढया ।। ३२
एकस्मिंश्च दिने द्रष्टुं निर्गतो नगरश्रियम् ।
तांस्तान्प्रदेशानालोक्य पुरोद्यानं विवेश सः ।। ३३
तत्र व्योम्नोऽवरोहन्तीं सोऽपश्यद्दिव्ययोषितम् ।
समं दुहित्रानभ्रेऽपि सवृष्टिमिव विद्युतम् ।। ३४
वत्सराजसुतः सोऽयं पुत्रि भावी पतिस्तव ।
इति तां वीक्ष्य जल्पन्तीं ज्ञानतस्तां निजां सुताम् ।। ३५
का त्वं किमागतासीति सोऽपृच्छत्तामुपागताम् ।
सापीप्सितोपक्रमिणी दिव्ययोषित्तमब्रवीत् ।। ३६
देवसिंहाभिधानस्य विद्याधरपतेरहम् ।
भार्या धनवती नाम कन्यैषा च सुता मम ।। ५ ३७
चण्डसिंहस्य भगिनी नाम्नेयमजिनावती ।
अस्या भर्ता त्वमादिष्टो गगनोद्गतया गिरा ।। ३८
वेगवत्याऽत्र निक्षिप्तं भाविविद्याधरेश्वरम् ।
बुद्ध्वाहं निजविद्यातस्त्वां प्राप्ता वक्तुमीप्सितम् ।। ३९
न विद्याधरगम्येऽत्र स्थाने युक्त तवासितुम् ।
ते हि द्वेषेण हन्युस्त्वामप्राप्तपदमेककम् ।। ४०
तदेहि तदगम्यां त्वां नयावः सांप्रतं भुवम् ।
नेन्दुः क्षिपति किं कालं परिक्षीणोऽर्कमण्डले ।। ४१
संप्राप्तेऽवसरे चैतां सुतां मे परिणेष्यसि ।
इत्युक्त्वैव तमादाय ससुता सा खमुद्ययौ ।। ४२
श्रावस्त्यां पुरि नीत्वैव निक्षिप्योपवने च तम् ।
समं तयाजिनावत्या सुतया सा तिरोदधे ।। ४३
तत्र प्रसेनजिद्राजा दूरादाखेटकागतः ।
ददर्श राजपुत्रं तमुदाराकारलक्षणम् ।। ४४
स सकौतुकमभ्येत्य पृष्ट्वा नाम कुलं तथा ।
प्रीतः सप्रश्रयं राजा निनायैतं स्वमन्दिरम् ।। ४५
आबद्धवारणघटं वाजिराजिविराजितम् ।
भ्रमणश्रान्तराजश्रीविश्रगितभवनोपमम् ।। ४६
यत्र तत्र स्थितं सोत्का नरं कल्याणभाजनम् ।
संपदोऽभिसरन्त्येव प्रियं जनमिवाङ्गनाः ।। ४७
यत्स तस्मै ददौ राजा गुणलुब्धो निजां सुताम् ।
नरवाहनदत्ताय भगीरथयशोभिधाम् ।। ४८
तया समं च तत्रासीन्महार्हविभवः सुखम् ।
लक्ष्म्येव मूर्तया धात्रा तद्विनोदाय सृष्टया ।। ४९
एकदाभ्युदिते लोकलोचानन्दवर्षिणि ।
रजनीरमणे प्राचीदिग्वधूमुखमण्डने ।। ५०
निरभ्रनिर्मलव्योमदर्पणप्रतिबिम्बिते ।
भगीरथयशोवक्त्र इवामृतमनोरमे ।। ५१
कौमुदीसुधया धौते हर्म्याग्रे स तया सह ।
प्रदोषे प्रियया पानमसेवत तदिच्छया ।। ५२
पपौ प्रियतमावक्त्रप्रतिमालंकृतं मधु ।
रसनाया इवानन्ददायि लोचनयोरपि ।। ५३
प्रियामुखसमं कान्तमिन्दुं मेने तदा न सः ।
तस्य ते समदाताम्रनेत्रभ्रूविभ्रमाः कुतः ।। ५४
सेवितापानलीलश्च प्रविश्याभ्यन्तरं ततः ।
भगीरथयशोयुक्तः स भेजे शयनीयकम् ।। ५५
तत्र प्रियायां सुप्तायां तस्यां सुप्तविनिद्रकः ।
नरवाहनदत्तोऽसौ स्मृत्वाकस्मात्किलाब्रवीत् ।। ५६
भगीरथयशःप्रीतिविस्मृता एव ता मम ।
अन्यभार्याः कथं तत्स्यादिति चात्र विधिः प्रभुः ।। ५७
सचिवा ये च मे दूरे तेभ्योऽपि मरुभूतिकः ।
विक्रमैकरसो नीतिमात्रे हरिशिखः स्थितः ।। ५८
ताभ्यां न सांप्रतं कृत्यं गोमुखश्चतुरः पुनः ।
सर्वावस्थासु मे मित्त्रं विदूरस्थो दुनोति माम् ।। ५९
इत्युल्लपन्स तत्राशु निद्राघ्नं मधुरं मृदु ।
हा दुःखमिति शुश्राव नार्येवोदीरितं वचः ।। ६०
श्रुत्वा च दीप्रदीपेऽत्र सर्वतो यावदीक्षते ।
तावन्नार्या मुखं दिव्यं गवाक्षान्तर्ददर्श सः ।। ६१
समलो व्योम्नि दृष्टोऽद्य चन्द्रोऽनेनेति कौतुकात् ।
अव्योम्नि दर्शितं धात्रा चन्द्रमन्यमिवामलम् ।। ६२
अङ्गं शेषमपश्यंश्च तस्यास्तद्दर्शनोत्सुकः ।
तद्रूपाकृष्टनयनो छगित्येवमचिन्तयत् ।। ६३
आतापिदैत्यो युक्त्या प्राग्ब्रह्मणा सर्गविघ्नकृत् ।
आश्चर्यं पश्य गत्वात्रेत्युक्त्वा प्रैष्यत नन्दनम् ।। ६४
तत्र तेनाद्भुताकारो दृष्टोऽङ्घ्रिः केवलं स्त्रियः ।
विपन्नश्च तदन्याङ्गदिदृक्षाव्यसनेन सः ।। ६५
एवं ममापि धात्रेदं मुखमात्रं विपत्तये ।
सृष्टं स्यादिति यावच्च सोऽत्राकलयति क्षणम् ।। ६६
तावद्गवाक्षाद्दिव्या स्त्री प्रदर्श्य करपल्लवम् ।
इत एहीति साङ्गुल्या संज्ञां तस्याकरोत्तदा ।। ६७
ततः ससुप्तदयितात्स्वैरं निर्गत्य वासकात् ।
तस्याः समीपं संप्राप स सोत्को दिव्ययोषितः ।। ६८
अन्यासक्तं प्रशंसन्ती पतिं मदनमञ्चुके ।
हा हतासीति सा चास्मिन्निकटोपगतेऽब्रवीत् ।। ६९
तच्छ्रुत्वा तां प्रियां स्मृत्वा प्रज्वलद्विरहानलः ।
नरवाहनदत्तस्तां पृच्छति स्म स भामिनीम् ।। ७०
का त्वं कुत्र त्वया दृष्टा प्रिया मदनमञ्चुका ।
मामुपेता किमर्थं च भवती कथ्यतामिति ।। ७१
ततो विदूरं नीत्वा तं प्रौढा राजसुतं निशि ।
शृणु सर्वं त्वमित्युक्त्वा साथ वक्तुं प्रचक्रमे ।। ७२
नगर्यां पुष्करावत्यामग्न्याराधनपिङ्गलः ।
अस्ति पिङ्गलगान्धारो नाम विद्याधरेश्वरः ।। ७३
तस्य प्रभावतीं नाम सुतां मां विद्धि कन्यकाम् ।
आराधितप्रसन्नाद्धि वरात्प्राप्तां विभावसोः ।। ७४
साहं तदाषाढपुरं द्रष्टुं वेगवतीं सखीम् ।
अगच्छं न च तां तत्र प्रापं क्वापि तपःस्थिताम् ।। ७५
तन्मातुः पृथिवीदेव्या मुखान्मदनमञ्चुकाम् ।
बुद्ध्वा तां त्वत्प्रियां चात्र स्थितां द्रष्टुमगामहम् ।। ७६
अपश्यं तामनाहारकृशां पाण्डुरधूसराम् ।
बद्धैकवेणीं रुदतीं त्वद्गुणैकप्रलापिनीम् ।। ७७
वृतां विद्याधराधीशकन्यावृन्दैरुदश्रुभिः ।
तद्दर्शनत्वच्छ्रवणप्रोद्यदुःखसुखाकुलैः ।। ७८
तयोक्तत्वत्स्वरूपा च भवदानयनेन ताम् ।
आश्वास्य तत्कृपाक्रान्ता त्वद्गुणाकृष्टमानसा ।। ७९
विद्याप्रभावाद्बुद्ध्वा च संप्रति त्वामिह स्थितम् ।
आगतास्मि तवाभ्याशं तदर्थस्वार्थसिद्धये ।। ८०
विस्मृताद्य प्रियं दृष्ट्वा त्वामिहान्यप्रलापिनम् ।
मया हा दुःखमित्युक्त्वा सा ते भार्यानुशोचिता ।। ८१
इत्युक्तः स तया सोत्को राजपुत्रो जगाद ताम् ।
नय मां तत्र सा यत्र नियुङ्क्ष्व च यथेच्छसि ।। ८२
तच्छ्रुत्वा सा तमादाय खमुत्पत्य प्रभावती ।
विद्याधरी चन्द्रवत्यां गन्तुं प्रववृते निशि ।। ८३
यान्ती क्वाप्यग्निमालोक्य ज्वलन्तं सा प्रदक्षिणम ।
नरवाहनदत्तस्य तस्यादाय करं व्यधात् ।। ८४
तेनोद्वाहविधिं युक्त्या प्रौढा सा निरवर्तयत् ।
संकल्पैकप्रधाना हि दिव्यानामखिलाः क्रियाः ।। ८५५
ततो नभस्तलात्तस्य पृथिवीं वेदिकामिव ।
नदीर्भुजंगीसदृशीर्वल्मीकानिव पर्वतान् ।। ८६
तानि तानि तथान्यानि कौतुकानि पदे पदे ।
दर्शयन्ती प्रियस्यात्र ययौ दूरं क्रमेण सा ।। ८७
आकाशगमनश्रान्ते तृषार्तेऽस्मिञ्जलार्थिनि ।
नरवाहनदत्ते सा व्योममार्गादवातरत् ।। ८८
निनाय च वनान्तं तं चन्द्रांशुधवलाम्भसः ।
राजतेन द्रवेणेव भृतस्य सरसोऽन्तिकम् ।। ८९
तत्र शान्तं जलतृषा तस्य पीताम्भसो वने ।
उत्पन्नं रमणीये तु कान्तासंभोगतृष्णया ।। ९०
ततो हठार्थिता कृच्छ्रात्संभोगे सा प्रभावती ।
सानुक्रोशा कृतश्वासां ध्यात्वा मदनमञ्चुकाम् ।। ९१
नरवाहनदत्तस्य तस्य प्रववृते तदा ।
परार्थप्रतिपन्ना हि नेक्षन्ते स्वार्थमुत्तमाः ।। ९२
जगाद तं च मा मंस्था आर्यपुत्र त्वमन्यथा ।
अभिप्रायो ममास्तीह तथा चात्र कथां शृणु ।। ९३
पुरा पाटलिपुत्रेऽभूत्कापि स्त्री मृतभर्तृका ।
बालैकपुत्रा तरुणी निर्धना रूपशालिनी ।। ९४
सा चात्मपरितोषाय परपूरुषसंगमम् ।
विदधाना ययौ गेहाद्रात्रौ रात्रौ यतस्ततः ।। ९५
मोदकं पुत्र ते प्रातरानेष्यामीति तं सुतम् ।
बालं चाश्वास्य सायासीत्तं च सान्वहमानयत् ।। ९६
स च बालो गृहे तूष्णीं तयासीन्मोदकाशया ।
एकदा न तयानीतो विस्मृत्यास्य स मोदकः ।। ९७
याचमानं च तं बालं मोदकं सा किलाऽब्रवीत् ।
अहं स्वकामुकं वेद्मि मोदकं नापरं सुत ।। ९८
तच्छ्रुत्वा नानयानीतो मोदको मेऽन्यसक्तया ।
इति तस्य निराशस्य शिशोर्हृदयमस्फुटत् ।। ९९
तदहं प्रिय पूर्वं त्वां सुतरां स्वीकरोमि चेत् ।
तन्मयैव कृताश्वासा त्वत्संगममहोत्सवे ।। १००
मत्त एव निराशा चेद्बुद्ध्वा मदनमञ्चुका ।
भवेत्तद्धृदयं तस्याः स्फुटेत्कुसुमपेशलम् ।। १०१
तदेतेनानृशंस्येन तामनाश्वास्य संप्रति ।
न तथाभिलषामि त्वामपि प्राणाधिकं प्रियम् ।। १०२
इत्युक्तः स प्रभावत्या तया सानन्दविस्मयः ।
नरवाहनदत्तोऽत्र तत्कालं समचिन्तयत् ।। १०३
अहो नवनवाश्चर्यनिर्माणे रसिको विधिः ।
अचिन्त्योदारचरिता येन सृष्टा प्रभावती ।। १०४
इति ध्यायन्स तां प्रेम्णा स्तुत्वा राजसुतोऽब्रवीत् ।
तर्हि मां नय सा यत्र स्थिता मदनमञ्चुका ।। १०५
तच्छ्रुत्वा च गृहीत्वा तं नभसा सा प्रभावती ।
क्षणेन प्रापयामास तमाषाढपुरं गिरिम् ।। १०६
तत्र संगमयामास तेन शुष्यत्तनुं चिरात् ।
पूरेणेव नदीं वृष्टिः सा तां मदनमञ्चुकाम् ।। १०७
सोऽप्यपश्यद्वियोगार्तां कान्तां तां कृशपाण्डुराम् ।
नरवाहनदत्तोऽत्र पर्वणीन्दुकलामिव ।। १०८
स तदा प्राणलाभाय तयोरन्योन्यसंगमः ।
बभूव जगदानन्दी शर्वरीशशिनोरिव ।। १०९
विरहानलसंतप्तावाश्लिष्टौ दंपती च तौ ।
स्वेदच्छलाद्द्रवीभूतावेकतामिव जग्मतुः ।। ११०
ततः प्रभावतीविद्याबलेन निशि कल्पितान् ।
बुभुजातेऽत्र तौ सद्यः स्वैरं भोगानुभावपि ।। १११
न ददर्श च तद्विद्याबलेनैवात्र कश्चन ।
नरवाहनदत्तं तं विना मदनमञ्चुकाम् ।। ११२
प्रातस्तं चात्र मुञ्चन्तमेकवेणीं निजं प्रियम् ।
सा जगादाहितामर्षवशान्मदनमञ्चुका ।। ११३
हते मानसवेगेऽसौ मोक्तव्यार्यसुतेन मे ।
मृतायाः पक्षिभिर्वापि वेणी दाह्याथवाग्निना ।। ११४
इति प्रतिज्ञातमभून्मया साद्य मम त्वया ।
जीवत्यस्मिन्नृपे मुक्ता तेन मे दूयते मनः ।। ११५
क्षिप्तोऽपि न मृतो ह्येष वेगवत्याग्निपर्वते ।
त्वं चादृश्या प्रभावत्या विहितोऽत्र स्वमायया ।। ११६
अन्यथा त्वत्समीपे हि शत्रोरस्यानुशायिनः ।
इहैते संचरन्तोऽद्य त्वां सहेरन्विलोक्य किम् ।। ११७
एवमुक्तस्तया पत्न्या साध्व्या कालानुरोधवान् ।
नरवाहनदत्तोऽत्र सान्त्वयन्स जगाद ताम् ।। ११८
संपत्स्यतेऽयं कामस्ते हनिष्याम्यचिरादमुम् ।
शत्रुं विद्याः समासाद्य प्रतीक्षस्व मनाक्प्रिये ।। ११९
इत्याद्युक्त्वा समाश्वास्य स तां मदनमञ्चुकाम् ।
नरवाहनदत्तोऽत्र तस्थौ वैद्याधरे पुरे ।। १२०
अथ प्रभावती तस्य चक्रे विद्याप्रभावतः ।
अतर्क्यं रूपमात्मीयं स्वयमन्तर्हिता सती ।। १२१
स तद्रूपेण तत्रासीद्राजपुत्रो यथासुखम् ।
अशङ्कितः प्रकाशोऽपि तद्विद्यासिद्धभोगभुक् ।। १२२
वेगवत्या वयस्येयमेतां मदनमञ्चुकाम् ।
उपाचरति तत्प्रीत्या निजसख्यवशेन च ।। १२३
इति प्रभवतीत्येनं तद्रूपच्छन्नविग्रहम् ।
मन्वानाः सर्व एवोचुस्तत्र मानसवेगतः ।। १२४
अथैकदा प्रसङ्गेन तस्मै मदनमञ्चुका ।
नरवाहनदत्ताय स्ववृत्तान्तं शशंस सा ।। १२५
तदा मानसवेगो मामिहानीय स्वमायया ।
प्रवर्तयितुमभ्यैच्छद्भाययन्क्रूरकर्मभिः ।। १२६
तावच्च प्रकटीभूय भगवान्भैरवाकृतिः ।
उद्धृतासिर्ललज्जिह्वः कृत्वा हुंकारमभ्यधात् ।। १२७
इयं विद्याधरेन्द्राणां भाविनश्चक्रवर्तिनः ।
भार्या कथं त्वयास्मासु स्थितेषु परिभूयते ।। १२८
एवमुक्तो भगवता पपात धरणीतले ।
पापो मानसवेगोऽसौ मुखेन रुधिरं वमन् ।। १२९
ततस्तिरोहिते देवे समाश्वस्तः क्षणादसौ ।
गतः स्वमन्दिरं भूयो मयि क्रौर्यान्न्यवर्तत ।। १३०
अथ भीतां वियोगार्तां प्राणत्यागोन्मुखीमिह ।
एत्यान्तःपुरचेट्यो मां सान्त्वयन्त्योऽब्रुवन्निदम् ।। १३१
मुनिकन्यां पुरा कांचिद्दृष्ट्वा रूपवतीं हठात् ।
हरन्मानसवेगोऽयं तद्बन्धुभिरशप्यत ।। १३२
परनारीमनिच्छन्तीं यदा पाप गमिष्यसि ।
तदा ते शतधा मूर्धा विदलिष्यत्यसाविति ।। १३३
अतो नैष बलाद्गच्छेत्परस्त्रीं मा भयं कृथाः ।
देवादेशाच्च भर्त्रा ते भूयो भाव्येव संगमः ।। १३४
एवं ममोक्ते चेटीभिः क्षणाद्वेगवती स्वसा ।
सास्य मानसवेगस्य संबोधयितुमागमत् ।। १३५
मद्दर्शनकृपाविष्टा सा त्वदानयनेन माम् ।
आश्वास्य त्वां यथा प्राप्ता तथैव विदितं तव ।। १३६
अथ ज्योत्स्नासितैर्वस्त्रैश्चान्द्री तनुरिवामला ।
दर्शनेनैव सौम्येन सिञ्चन्ती सुधयेव माम् ।। १३७
उपेता पृथिवीदेवी माता साध्वी दुरात्मनः ।
अस्य मानसवेगस्य सस्नेहमिदमब्रवीत् ।। १३८
त्यक्त्वाहारं शुभोदर्कं किमात्मानमुपेक्षसे ।
शत्रोरन्नं कथं भोक्ष्य इति मा च कृथा हृदि ।। १३९
दुहितुर्वेगवत्या मे राज्येऽस्मिन्पितृकल्पितः ।
भागोऽस्ति सा च भर्त्रा ते परिणीता सखी तव ।। १४०
तद्धनं भर्तृसंबन्धि तव चात्मीयमेव च ।
तदेतद्भुङ्क्ष्व विद्यातो ज्ञात्वा सत्यं वदामि ते ।। १४१
एवमुक्त्वा सशपथं भोजितास्मि तया तदा ।
अवस्थोचितमाहारं सुतासंबन्धबद्धया ।। १४२
ततस्त्वया सहागत्य वेगवत्यैष निर्जितः ।
भ्रातेह रक्षितस्त्वं च शेषमत्र न वेद्म्यहम् ।। १४३
अथ वेगवतीसिद्धिं तद्दैवतवचोऽप्यहम् ।
स्मरन्ती नामुचं प्राणांस्त्वत्प्राप्त्याशावलम्बितान् ।। १४४
ततो महानुभावायाः प्रभावत्याः प्रभावतः ।
त्वं शत्रुसंकटेऽप्यस्मिन्प्राप्तस्तावन्मयाधुना ।। १४५
चिन्ता तु मे विलुप्ता चेद्भवेदत्र प्रभावती ।
नश्येच्च तव तद्रूपं ततोऽस्माकं नु किं भवेत् ।। १४६
इत्यादि ब्रुवतीं धीरीकुर्वन्मदनमञ्चुकाम् ।
नरवाहनदत्तोऽसौ वीरोऽत्रास्त तया सह ।। १४७
एकदा च प्रभावत्यां यातायां भवनं पितुः ।
प्रभातसमये नष्टतद्रूपं तदसंनिधेः ।। १४८
नरवाहनदत्तं तं दृष्ट्वा पुरुषरूपिणम् ।
पारदारिक एषोऽत्र प्रविष्ट इति साकुलः ।। १४९
भयाद्राजकुले गत्वा सर्वः परिजनोऽभ्यधात् ।
वारयन्तीमपास्यैव भीतां मदनमञ्जुकाम् ।। १५०
ततो मानसवेगोऽत्र स राजा स्वबलान्वितः ।
नरवाहनदत्तं तं धावित्वा पर्यवेष्टयत् ।। १५१
अथ तं पृथिवीदेवी माता सत्वरमेत्य सा ।
राजानमब्रवीत्पुत्र हन्तव्योऽयं न ते न मे ।। १५२
न पारदारिको ह्येष वत्सराजात्मजो ह्ययम् ।
नरवाहनदत्तोऽत्र निजां भार्यामुपागतः ।। १५३
विद्याबलेन जानेऽहं कोपान्धः किं न वीक्षसे ।
जामाता चायमस्माकं पूज्यः शशिकुलोद्भव ।। १५४
एवमुक्तस्तया मात्रा तर्हि शत्रुरयं मम ।
इति मानसवेगोऽसौ जातामर्षो जगाद ताम् ।। १५५
ततः सा तं पुनर्माता जामातृस्नेहतोऽभ्यधात् ।
नाधर्मो लभ्यते कर्तुं लोके वैद्याधरे सुत ।। १५६
इह विद्याधराणां हि धर्मार्था विद्यते सभा ।
तत्रास्य तत्प्रधानाग्रे दोषं शिरसि पातय ।। १५७
ततो यत्क्रियतेऽमुष्य शोभते तदतोऽन्यथा ।
विद्याधरा विकुर्वीरन्न सहेरंश्च देवताः ।। १५८
एतत्तस्या वचो मातुर्गौरवात्प्रतिपद्य सः ।
सभां मानसवेगस्तं नेष्यन्बन्द्धुं प्रचक्रमे ।। १५९
स च बन्धासहिष्णुः सन्स्तम्भमुत्पाट्य तोरणात् ।
नरवाहनदत्तोऽत्र तद्भृत्यानवधीद्बहून् ।। १६०
तन्मध्यात्खड्गमेकस्य हतस्यासाद्य तत्क्षणात् ।
जघान सोऽन्यानपि तान्वीरो दिव्यपराक्रमः ।। १६१
ततो मानसवेगस्तं दिव्यया निजविद्यया ।
बबन्ध भार्यानुगतं नयति स्म च तां सभाम् ।। १६२
तत्र भेरीमहाशब्दसमाहूता इतस्ततः ।
विद्याधरा मिलन्ति स्म सुधर्मायां यथा सुराः ।। १६३
आगत्योपाविशच्चात्र रत्नसिंहासनोपरि ।
राजा वायुपथो नाम सभ्यो विद्याधरैर्वृतः ।। १६४
व्याधुन्वद्भिरिवाधर्मं वीज्यमानस्य चामरैः ।
तस्य मानसवेगोऽग्रे स्थित्वा पापोऽब्रवीदिदम् ।। १६५
मर्त्योऽप्यन्तःपुरध्वंसकारी विध्वंसकः स्वसुः ।
शत्रुर्ममायं वध्योऽद्य स्वाम्यकामः किलैष नः ।। १६६
तच्छ्रुत्वा तेन सभ्येन पृष्टः प्रत्युत्तरं प्रति ।
नरवाहनदत्तोऽत्र वीरो विस्रब्धमब्रवीत् ।। १६७
सा सभा यत्र सभ्योऽस्ति स सभ्यो धर्ममाह यः ।
स धर्मो यत्र सत्यं स्यात्तत्सत्यं यत्र न च्छलम् ।। १६८
बद्धोऽहं माययात्रैव स्थितो भूमावयं पुनः ।
आसनस्थश्च मुक्तश्च को विवादः समोऽत्र नौ ।। १६९
एतद्वायुपथः श्रुत्वा तमुपावेशयत्क्षितौ ।
न्यायान्मानसवेगं स तं मुक्तं चाप्यकारयत् ।। १७०
ततः सर्वेषु शृण्वत्सु तत्र वायुपथाग्रतः ।
नरवाहनदत्तोऽसावेवं प्रतिवचोऽभ्यधात् ।। १७१
हृतानीतामनेनैतां भार्यां मदनमञ्चुकाम् ।
निजां प्राप्तोऽस्मि चेत्कस्य शुद्धान्तो ध्वंसितो मया ।। १७२
अस्या रूपेण चाभ्येत्य विप्रलभ्य कृतो यदि ।
अहं भर्ता भगिन्यास्य तत्र का मेऽपराधिता ।। १७३
स्वाम्यकामोऽस्मि चेत्कामः कस्य कुत्र न जायते ।
एतच्छ्रुत्वा विमृश्याथ राजा वायुपथोऽब्रवीत् ।। १७४
धर्म्यमाह महात्मायं भविष्यत्सुमहोदयः ।
अस्मिन्मानसवेगत्वमधर्मं भद्र मा कृथाः ।। १७५
इत्युक्ते तेन नाधर्मान्मोहान्धो यन्न्यवर्तत ।
सोऽत्र मानसवेगस्तत्क्रोधं वायुपथो ययौ ।। १७६
ततो मानसवेगेन सह सनद्धसैनिकः ।
बभूव तस्य संक्षोभस्तत्र धर्मानुरोधिनः ।। १७७
धर्मासनोपविष्टा हि दुर्बलं बलिनं परम् ।
आत्मीयं बत जानन्ति धीरा न्यायैकदर्शिनः ।। १७८
विहाय मायां युध्यस्व स्पष्टमेव मया सह ।
यावदेकप्रहारेण हन्मि त्वां पश्य पौरुषम् ।। १७९
इति मानसवेगं च तदावोचद्विलोकयन् ।
नरवाहनदत्तोऽत्र दिव्यकन्याः सकौतुकाः ।। १८०
अन्योन्यजातकलहेषु च तत्र तेषु विद्याधरेषु सहसैव सभान्तरस्थात् ।
स्तम्भोत्तमाट्टसदिति प्रविभिन्नमध्याद्देवोऽथ भैरववपुः किल निर्जगाम ।। १८१
व्याप्ताम्बरोऽञ्जननिभश्च विनिह्नुतार्को विद्युल्लतातरलदीप्रविलोचनार्चिः ।
दन्तप्रभाविततपङ्क्तिपतद्बलाको गर्जन्महाप्रलयमेघ इव प्रचण्डः ।। १८२
न भाविविद्याधरचक्रवर्तिनः पराभवोऽस्यास्ति शठेति स ब्रुवन् ।
अधोमुखं मानसवेगमीश्वरो निराकरोद्वायुपथं प्रहर्षयन् ।। १८३
आदाय तं च भुजयोर्भगवान्भुजाभ्यां संरक्षणाय नरवाहनदत्तमाशु ।
प्रापय्य पर्वतवरं शुभमृष्यमूकमास्थापयत्स किल तत्र ततस्तिरोऽभूत् ।। १८४
प्रशशाम परस्परं सभायामथ विद्याधरसंभ्रमः स तस्याम् ।
स च वायुपथो यथागतं तैः सहितः स्वैरपरैस्ततो जगाम ।। १ ८५
सोऽपि च मानसवेगः कृत्वा तां मदनमञ्चुकां पुरतः ।
हर्षविषादाकुलितामाषाढपुरं निजं ययौ विग्नः ।। १८६
इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे पञ्चलम्बके द्वितीयस्तरङ्गः ।