मन्ये कल्याणमेव स्यात्पुरुषस्यासमं विधिः ।
मुहुः परीक्षते गाढं धीरत्वं सुखदुःखयोः () ।। १
यदेककं विदेशेषु तैस्तैर्दारैः पदे पदे ।
नरवाहनदत्तं स योजयित्वा व्ययोजयत् ।। २
अथैतमृष्यमूकाद्रौ स्थितं तस्मिन्प्रभावती ।
नरवाहनदत्तं तं समागत्याब्रवीत्प्रिया ।। ३
मदसनिधिदोषेण लब्ध्वा नीतो भवांस्तदा ।
तां हि मानसवेगेन सभां पापं चिकीर्षुणा ।। ४
तद्बुद्ध्वागत्य तत्कालं देवाविर्भावडम्बरम् ।
कृत्वा विद्याप्रभावेण मयेह प्रापितो भवान् ।। ५
नास्मिन्विद्याधराणां हि गिरो बलवतामपि ।
विद्याप्रपञ्चः क्रमते सिद्धक्षेत्रमिदं यतः ।। ६
ममापि विद्याविभवो नात एवेह सिद्ध्यति ।
तन्मे दुःखं कथं त्वं हि वन्याहारेण वर्त्स्यसि ।।
इत्युक्तवत्या तत्रासीत्कालाकाङ्क्षी तया सह ।
नरवाहनदत्तोऽसौ ध्यायन्मदनमञ्चुकाम् ।।
सस्नौ तत्पर्वतासन्ने पम्पासरसि पावने ।
दिव्यास्वादानि बुभुजे मूलानि च फलानि च ।। ९
मृगमांसोपदंशं च पुण्यं वापीपयः पपौ ।
फलैस्तीरतरुभ्रष्टैः सरसं च सुगन्धि च ।। १०
उवास वृक्षमूलेषु गुहागर्भगृहेषु च ।
रामस्यानुययौ वृत्तं तद्देशवनवासिनः ।। ११
रामाश्रमांश्च दृष्ट्वात्र तस्मै तांस्तान्प्रभावती ।
सा रामायणवृत्तान्तं विनोदार्थमवर्णयत् ।। १२
इह रामः ससौमित्रिः सीतयानुगतो वने ।
उवास तापसैः सार्धं तरुमूले कृतोटजः ।। १३
अनसूयाङ्गरागेण सीतामोदितकानना ।
इहास्त मुनिपत्नीनां मध्ये वल्कलधारिणी ।। १४
अत्र दुन्दुभिदैत्यश्च गुहायां वालिना हतः ।
वालिसुग्रीवयोर्वैरे यदभूत्कारणं पुरा ।। १५
सुग्रीवो हि भ्रमान्मत्वा हतं दैत्येन वालिनम् ।
गुहायाः पर्वतैर्द्वारं पिधाय सभयो ययौ ।। १६
वाली च भित्त्वा तद्द्वारं निर्गत्य निरवासयत् ।
सुग्रीवं राज्यकामोऽत्र मामबध्नादसाविति ।। १७
स सुग्रीवः पलाय्यास्मिन्नृष्यमूके कपीश्वरः ।
हनुमत्प्रमुखैः सार्धमत्र सानौ पदं व्यधात् ।। १८
अथैत्य हेमहरिणव्याजवस्थितचेतसः ।
जहार रामदेवस्य रावणो जनकात्मजाम् ।। १९
ततः सीताप्रवृत्त्यर्थी स वालिनिधनार्थिना ।
सुग्रीवेण समं सख्यमत्र चक्रे रघूद्वहः ।। २०
बिभेद च बलज्ञस्यै तालान्सप्तात्र पत्त्रिणा ।
एकं येष्वभिनत्कच्छ्रात्सोऽपि वाली महाबलः ।। २१
इतो गत्वा च किष्किन्धां हेलामुक्तैकसायकः ।
हत्वा तं वालिनं वीरः सुग्रीवे तच्छ्रियं न्यधात् ।। २२
अथ सीताप्रवृत्त्यर्थं हनुमत्प्रभृतिष्वितः ।
चतुर्दिकं प्रयातेषु सुग्रीवस्यानुयायिषु ।। २३
इह रामेण वर्षासु सह मेघैर्विराविभिः ।
पतद्धाराश्रुतोयैश्च समदुःखैरिवासितम् ।। २४
संपातिवचनोत्तीर्णवारिधेश्च हनूमतः ।
यत्नात्प्रवृत्तौ ज्ञातायां गत्वा कपिबलैः सह ।। २५
बद्ध्वाब्धि सेतुना तेन हत्वा लङ्केश्वरं रिपुम् ।
आनिन्ये जानकी देवी विमानेनामुना पथा ।। २६
एवं प्राप्स्यसि कल्याणमार्यपुत्र भवानपि ।
आपत्सु धीरान्पुरुषान्स्वयमायान्ति संपदः ।। २७
इत्यादि कथयन्त्या स प्रभावत्या तया सह ।
नरवाहनदत्तोऽत्र क्रीडन्नासीदितस्ततः ।। २८
एकदा तं च पम्पायां विद्याधर्यावुभे दिवः ।
धनवत्यजिनावत्याववतीर्योपजग्मतुः ।। २९
याभ्यां स गन्धर्वपुराच्छ्रावस्तीं प्रापितोऽभवत् ।
भगीरथयशा यस्यां तेन सा पर्यणीयत ।। ३०
प्रभावत्याजिनावत्यां मिलितायां स्वसख्यतः ।
नरवाहनदत्तं सा धनवत्येवमब्रवीत् ।। ३१
एषाजिनावती प्राक्ते वाचा दत्ता सुता मया ।
तस्मात्परिणयस्वैनामासन्नोऽभ्युदयो हि ते ।। ३२
एतद्धनवतीवाक्यं सखीस्रेहात्प्रभावती ।
नरवाहनदत्तश्च तथेत्यभिननन्दतुः ।। ३३
ततो धनवती तस्मै ददौ तामजिनावतीम् ।
सा वत्सेश्वरपुत्राय यथार्हविधिना सुताम् ।। ३४
स्वविद्याकल्पितोदारदिव्यसंभारसुन्दरम् ।
निर्वर्तयामास च तत्सा सुतोद्वाहमङ्गलम् ।। ३५
नरवाहनदत्तं सा तमन्येद्युररथाब्रवीत् ।
न पुत्र यत्र तत्रेह स्थातुं युक्तं चिरं तव ।। ३६
मायी विद्याधरजनो न च कार्यमिहास्ति ते ।
तद्गच्छ भार्यायुक्तस्त्वं कौशाम्बीमधुना निजाम् ।। ३७
अहं च तत्रैवैष्यामि चण्डसिंहेन सूनुना ।
सह विद्याधरेन्द्रैश्च स्वकैरभ्युदयाय ते ।। ३८
एवमुक्त्वा धनवती सज्योत्स्नामिव साह्नयपि ।
सितात्मवस्त्रप्रभया कुर्वाणा दिवमुद्ययौ ।। ३९
प्रभावत्यजिनावत्यौ प्रापयामासतुश्च तम् ।
नरवाहनदत्तं ते कौशाम्बीं नभसा पुरीम् ।। ४०
सोऽत्र प्राप्तस्तदुद्यानं तस्यां व्योम्नोऽवतारितः ।
नरवाहनदत्तोऽभूदृष्टः परिजनैर्निजैः ।। ४ १
आगतो राजपुत्रोऽयं दिष्ट्या वर्धामहे वयम् ।
इति तत्रोदभून्नादो जनस्याथ समन्ततः ।। ४२
ततोऽकाण्डसुधासारसंसिक्त इव सोत्सवः ।
वत्सराजोऽथ तद्बुद्ध्वा युक्तो वासवदत्तया ।। ४३
पद्मावत्या वधूभिश्च द्रुतं रत्नप्रभादिभिः ।
यौगन्धरायणाद्याश्च ये वत्सेश्वरमन्त्रिणः ।। ४४
कलिङ्गसेना स्वे चैव सचिवा गोमुखादयः ।
यथार्हं तमुपाजग्मुर्ग्रीष्मे ह्रदमिवाध्वगाः ।। ४५
ददृशुस्ते च मध्ये तं सुदशार्हकुलं द्वयोः ।
पत्न्योः कृष्णमिवासीनं रुक्मिणीसत्यभामयोः ।। ४६
अङ्गेष्वेव न वर्तेरन्फुटत्स्विति भयादिव ।
तेषां तद्दर्शने हर्षबाष्पैः पिदधिरे दृशः ।। ४७
वत्सराजश्च देव्यौ च चिरादालिङ्ग्य तं सुतम् ।
न शेकुर्मोक्तुमङ्गेषु प्रोतं कण्टकितेष्विव ।। ४०
ततः प्रहततूर्येऽत्र वर्तमाने महोत्सवे ।
नरवाहनदत्तस्य भार्या वेगवतः सुता ।। ४९
स्वसा मानसवेगस्य द्युमार्गेणावतीर्य सा ।
आगाद्वेगवती बुद्ध्वा सिद्धविद्याप्रभावतः ।। ५०
पतित्वा पादयोः श्वश्रूश्वशुराणां निजं पतिम् ।
नरवाहनदत्तं सा जगाद चरणानता ।। ५१
त्वत्कृते दुर्बलीभूताः साधयित्वा तपोवने ।
विद्या पुनरहं प्राप्ता तव कल्याणिनोऽन्तिकम् ।। ५२
एवमुक्तवती पत्या तैश्चान्यैरभिनन्दिता ।
प्रभावत्यजिनावत्यौ सख्यावुपजगाम सा ।। ५३
ताभ्यामाश्लिष्य सा मध्ये यावदत्रोपवेश्यते ।
तावन्माताजिनावत्या आययौ धनवत्यपि ।। ५४
आजग्मुश्च तया साकं ते ते विद्याधराधिपाः ।
आच्छादिताम्बरतलैर्मेघैरिव बलैर्वृताः ।। ५५
तस्या एव सुतो वीरश्चण्डसिंहो महाभुजः ।
तथामितगतिर्नाम तद्बन्धुः सुमहाबलः ।। ५६
स च पिङ्गलगान्धारः प्रभावत्याः पिता बली ।
सोऽपि वायुपथः पूर्वप्रतिपन्नः सभापतिः ।। ५७
स च हेमप्रभः शूरो राजा रत्नप्रभाषिता ।
वज्रप्रभेण पुत्रेण साकं बलसमन्वितः ।। ५८
गन्धर्वराजो गन्धर्वदत्तया सुतया युतः ।
आगात्सागरदत्तोऽपि सह चित्राङ्गदेन सः ।। ५९
उपागताश्च ते सम्यग्वत्सराजेन पूजिताः ।
सपुत्रेणासनेष्वत्र यथोचितमुपाविशन् ।। ६०
अथ पिङ्गलगान्धारो राजा जामातरं क्षणात् ।
नरवाहनदत्तं तं जगाद सदसि स्थितम् ।। ६१
त्वं चक्रवर्ती सर्वेषामस्माकं देवनिर्मितः ।
अतिस्नेहवशात्त्वां च वयं सर्वेऽभ्युपागताः ।। ६२
इयं धनवती देवी श्वश्रूस्ते नियतव्रता ।
दिव्यज्ञानवती साक्षसूत्रा कृष्णाजिनाम्बरा ।। ६३
रक्षितुं त्वां कृतोद्योगा साक्षाद्भगवती यथा ।
सावित्री सिद्धविद्या वा वन्द्या विद्याधरोत्तमैः ।। ६४
तदस्ति कार्यसिद्धिस्ते किं तु यद्वच्मि तच्छृणु ।
इह विद्याधराणां द्वौ वेद्यर्धौ स्तो हिमाचले ।। ६५
उत्तरो दक्षिणश्चैव नानातच्छृङ्गभूमिगौ ।
परतः किल कैलासादुत्तरोऽर्वाक्तु दक्षिणः ।। ६६
तत्रोत्तराधिपत्यार्थमिदानीं दुश्चरं तपः ।
एषोऽमितगतिः कृत्वा शंकरं पर्यतोषयत् ।। ६७
नरवाहनदत्तस्ते चक्रवर्ती समीहितम् ।
करिष्यतीति तेनायमादिष्टस्त्वामुपागतः ।। ६८
तत्र मन्दरदेवाख्यो मुख्यो राजास्ति दुर्मतिः ।
बलवानपि नासाध्यः प्राप्तविद्यस्य सोऽत्र ते ।। ६९
यस्तु दक्षिणमध्येऽस्ति गौरिमुण्ड इति श्रुतः ।
राजा विद्याप्रभावेण स दुष्टात्मातिदुर्जयः ।। ७०
स च मानसवेगस्य शत्रोस्ते परमः सुहृत् ।
यावन्न साधितः सोऽत्र तावत्कार्यं न सिद्ध्यति ।। ७१
तत्त्वं साधय सोत्कर्षं शीघ्रं विद्याबलं महत् ।
इति पिङ्गलगान्धारेणोक्ते धनवती जगौ ।। ७२
एवं पुत्र यथायं ते राजा वदति तत्तथा ।
सिद्धक्षेत्रमतो गत्वा विद्यासिद्ध्यर्थमीश्वरम् ।। ७३
आराधय प्रकर्षो हि तत्प्रसादं विना कुतः ।
मिलिताश्चात्र रक्षन्ति राजानस्त्वाममी इति ।। ७४
ततश्चित्राङ्गदोऽवादीदेवमेतदहं पुनः ।
सर्वेषामग्रयाय्येष विजयः क्रियतामिति ।। ७५
अथैतदेव निश्चित्य कृत्वा प्रस्थानमङ्गलम् ।
पित्रोरुद्बाष्पयोः पादौ गुरूणां च प्रणम्य सः ।। ७६
दत्ताशीस्तैः समारुह्य भार्याभिः सचिवैस्तथा ।
सहामितगतिप्रज्ञाकल्पितां शिबिकोत्तमाम् ।। ७७
नरवाहनदत्तोऽतः प्रतस्थे स्थगयन्नभः ।
कल्पान्तपवनोद्धूतसागराम्भोनिभैर्बलैः ।। ७८
सेनानादप्रतिश्रुद्भिर्दिगन्तेषु द्युचारिणाम् ।
आगतश्चक्रवर्तीव इति संवादयन्निव ।। ७९
क्षणात्तैश्च स गन्धर्वपतिविद्याधरेश्वरैः ।
धनवत्या च नीतोऽभूत्तं सिद्धक्षेत्रपर्वतम् ।। ८०
तत्रादिष्टव्रतः सिद्धैः प्रातःस्नायी फलाशनः ।
भूमिशायी तपश्चक्रे शंकराराधनाय सः ।। ८१
परिवार्य च तं तस्थू राजानस्ते द्युचारिणाम् ।
सर्वतः कृतसंरक्षा दिवानिशमतन्द्रिताः ।। ८२
विद्याधरकुमार्योऽत्र तपस्यन्तं समुत्सुकाः ।
नेत्रप्रभाभिः संवीतकृष्णाजिनमिव व्यधुः ।। ८३
तच्चिन्तान्तर्मुखैर्नेत्रैः करैश्चोरःस्थलार्पितैः ।
अदर्शयन्निवान्यास्तं प्रविष्टं हृदि तत्क्षणम् ।। ८४
पञ्चापराश्च दृष्ट्वा तं सद्विद्याधरकन्यकाः ।
मदनानलसंतप्ताश्चक्रिरे समयं मिथः ।। ८५
अयं पञ्चभिरस्माभिः सखीभिर्युगपत्पतिः ।
वरणीयो विवाहश्च तद्वत्कार्यो न भेदतः ।। ८६
एका यदि पृथक्कुर्याद्विवाहममुना ततः ।
प्रवेष्टव्योऽग्निरन्याभिस्तामुद्दिश्य सखीद्रुहम् ।। ८७
इति दिव्यासु कन्यासु क्षुभ्यतीषु विभाव्य तम् ।
तत्राकस्मान्महोत्पाताः प्रादुरासंस्तपोवने ।। ८८
ववौ वायुर्महारौद्रो भद्रानुन्मूलयन्द्रुमान् ।
एवं शूराः पतिष्यन्ति रणेऽत्रेति वदन्निव ।। ८९
किमत्र स्यादिति भयादिव भूमिरकम्पत ।
भीतावकाशदानार्थमिवादीर्यन्त सानवः ।। ९०
विद्याधराः प्रभुं यत्नादमुं रक्षत रक्षत ।
इत्यब्रवीदिवानभ्रं घोरशब्दं नभस्तलम् ।। ९१
नरवाहनदत्तश्च सोऽस्मिन्नुत्पातसंभ्रमे ।
ध्यायन्निष्कम्प एवासीद्भगवन्तं त्रिलोचनम् ।। ९२
संनद्धास्ते च गन्धर्वराजविद्याधरेश्वराः ।
अनिष्टाशङ्किनो वीरास्तं रक्षन्तोऽवतस्थिरे ।। ९३
मुमुचुः सिंहनादांश्च व्याधूतासिलतावनाः ।
भर्त्सयन्त इवोत्पातानहितागमशंसिनः ।। ९४
ततोऽन्येद्युरकस्माच्च कल्पान्ताम्बुदमेदुरम् ।
विद्याधरबलं व्योम्नि घोरनादमदृश्यत ।। ९५
सोऽयं मानसवेगेन गौरिमुण्डः सहागतः ।
इत्युवाच स्मरन्ती स्वां विद्यां धनवती तदा ।। ९६
ततो विद्याधरेन्द्रांस्तान्सगन्धर्वानुदायुधान् ।
समं मानसवेगेन गौरिमुण्डोऽभ्यधावत ।। ९७
क्व मानुषोऽयं क्व वयं तदेतत्पक्षपातिनाम् ।
दर्पं वः शमयाम्यद्य द्युचरा इति वादिनम् ।। ९८
चित्राङ्गदोऽथ तं क्रोधाद्धावन्प्रत्यभियुक्तवान् ।
राजा सागरदत्तश्च गन्धर्वाणामधीश्वरः ।। ९९
चण्डसिंहामितगती राजा वायुपथस्तथा ।
किं च पिङ्गलगान्धारः सर्वे विद्याधरेश्वराः ।। १००
पापं मानसवेगं तमभ्यधावन्महारथाः ।
सिंहा इवाभिगर्जन्तः सेनासमुदयान्विताः ।। १०१
सैन्यरेणुघनाकीर्णं शस्त्रज्वालातडिल्लतम् ।
पतद्रक्ताम्बु तदभूद्धोरं समरदुर्दिनम् ।। १०२
शोणितासवसंपूर्णं कीर्णशत्रुशिरोबलिम् ।
चक्रुर्भूतमहायागमिव चित्राङ्गदादयः ।। १०३
कबन्धग्राहसंकीर्णा वहदायुधपन्नगाः ।
प्रावर्तन्त मिलन्मेदोडिण्डीरा रुधिरापगाः ।। १०४
हतसैन्यो वधप्राप्तो गौरिमुण्डस्ततश्च सः ।
पूर्वाराधितसुप्रीतां गौरीविद्यां समस्मरत् ।। १०५
आविर्भूय च सा साक्षात्त्रिनेत्रा त्रिशिखायुधा ।
नरवाहनदत्तीयान्प्रवीरांस्तानमोहयत् ।। १०६
ततो लब्धबलो बाहुयुद्धायाभ्यपतन्नदन् ।
नरवाहनदत्तं तं गौरिमुण्डः प्रधाव्य सः ।। १०७
तद्बाहुयुद्धविद्धश्च मायी सस्मार तां पुनः ।
सद्विद्यां तद्बलात्तं च बाह्वोरादाय खं ययौ ।। १०८
हन्तुं धनवतीविद्याबलात्तं तु स नाशकत् ।
गौरिमुण्डो नृपसुतं चिक्षेप त्वग्निपर्वते ।। १०९
सोऽपि मानसवेगस्तांस्तत्सखीन्गोमुखादिकान् ।
गृहीत्वोत्पत्य गगनं दिक्षु प्रास्थदनास्थया ।। ११०
उत्क्षिप्तास्ते च रक्षित्वा धनवत्या प्रयुक्तया ।
रूपिण्या विद्यया भिन्नाः स्थाप्यन्ते स्म महीतले ।। १११
सिद्धकार्यं कुशलिनं शीघ्रं प्राप्स्यथ तं प्रभुम् ।
इत्याश्वास्यैकशस्तान्सा विद्या तेषां तिरोदधे ।। ११२
ततो विजितमस्माभिरिति मत्वा यथागतम् ।
सह मानसवेगेन गौरिमुण्डो ययौ गृहान् ।। ११३
नरवाहनदत्तो वः सिद्धकार्यः समेष्यति ।
न तस्यानिष्टमस्तीति धनवत्याभ्युदीरिते ।। ११४
तेऽप्यस्तमोहा गन्धर्वनाथ विद्याधरेश्वराः ।
चित्राङ्गदादयः स्वानि जग्मुः स्थानानि संप्रति ।। ११५
सापि तत्र सपत्नीभिः सहितामजिनावतीम् ।
स्वसुतां तां गृहीत्वा स्वं ययौ धनवती गृहम् ।। ११६
सोऽपि मानसवेगस्तां गत्वा मदनमञ्चुकाम् ।
उवाच स हतो भर्ता तव तद्भज मामिति ।। ११७
स वो हन्ता न तं हन्यात्कश्चिद्देवविनिर्मितम् ।
इति सा तत्पुरस्थापि हसन्ती प्रत्युवाच तम् ।। ११८
नरवाहनदत्तं च तद्द्विषा वह्निपर्वते ।
क्षिप्यमाणं तदागत्य दिव्यः कोऽप्यग्रहीत्पुमान् ।। ११९
निनाय चाशु रक्षित्वा शीतं मन्दाकिनीतटम् ।
को भवानिति पृष्टश्च तेनाश्वास्य जगाद तम् ।। १२०
अमृतप्रभनामाहं देव विद्याधराधिपः ।
प्रेषितश्च हरेणाहं रक्षार्थं भवतोऽधुना ।। १२१
अयं च तन्निवासोऽद्रिः कैलासस्ते स्थितोऽग्रतः ।
अत्राराध्य शिवं श्रेयो निर्विघ्नं त्वमवाप्स्यसि ।। १२२
तदेह्यत्र नयामि त्वामित्युक्त्वा तत्र तत्क्षणात् ।
प्रापय्यामन्त्र्य च ययौ सोऽथ विद्याधरोत्तमः ।। १२३
नरवाहनदत्तोऽपि कैलासं समवाप्य सः ।
तपसा तोषयामास तत्राग्रस्थं विनायकम् ।। १२४
तेन दत्ताभ्यनुज्ञश्च प्रविश्य गिरिजापतेः ।
आश्रमं नियमक्षामो ददर्श द्वारि नन्दिनम् ।। १२५
कृतप्रदक्षिणं चैतं स नन्दी सदयोऽब्रवीत् ।
प्रायः सिद्धोऽसि विघ्ना हि प्रशान्तास्ते तवाधुना ।। १२६
तदिहस्थस्तपस्य त्वं भगवत्तोषणावधि ।
दुरितघ्नतपःशुद्धिसव्यपेक्षा हि सिद्धयः ।। १२७
इत्युक्ते नन्दिना ध्यायन्देवं देवीं च पार्वतीम् ।
नरवाहनदत्तोऽग्रं तपस्तेपेऽनिलाशनः ।। १२८
तपस्तुष्टश्च भगवान्स दत्त्वा दर्शनं शिवः ।
देव्या गिरिजया सार्धमेव प्रह्वं तमादिशत् ।। १२९
विद्याधराणां सर्वेषां चक्रवर्ती भवाधुना ।
सर्वाः सर्वातिशायिन्यो विद्याः प्रादुर्भवन्तु ते ।। १३०
अस्मत्प्रभावाच्छत्रूणामविजेयो भविष्यसि ।
अच्छेद्यश्चाप्यभेद्यश्च हनिष्यस्यखिलान्रिपून् ।। १३१
दृष्टे त्वयि न विद्याश्च प्रभविष्यन्ति ते द्विषाम् ।
तद्गच्छ गौरीविद्यापि त्वदायत्ता भविष्यति ।। १३२
इति गौर्या समं दत्त्वा वरं तस्मै ददौ हरः ।
चक्रवर्तिमहापद्मविमानं ब्रह्मनिर्मितम् ।। १३३
ततस्तस्याविरासंस्ता विद्याः सर्वाः सविग्रहाः ।
किमादिशसि यत्कुर्म इत्याज्ञासाधनोत्सुकाः ।। १३४
इति नरवाहनदत्तः सिद्धवरौघः प्रणम्य परमेशौ ।
अधिरुह्य तच्च दिव्यं पद्मविमानं तदभ्यनुज्ञातः ।। १३५
प्रथमं तावदयासीदमितगतेस्तस्य वक्रपुरसंज्ञम् ।
पुरमावेदितमार्गो विद्याभिः सिद्धचारणोद्गीतः ।। १३६
सोऽप्यारूढविमानं व्योम्ना प्राप्तं विलोक्य तं दूरात् ।
अमितगतिः समुपेत्य स्वगृहं प्रावेशयत्कृतप्रणतिः ।। १३७
प्रददौ च तत्र वर्णितनिजसिद्धिप्राप्तये मुदा तस्मै ।
नरवाहनदत्ताय स सुलोचनाख्यामुपायनं स्वसुताम् ।। १३८
सोऽत तया सह विद्याधरलक्ष्म्येवाप्तया तदाऽपरया ।
नयति स्म चक्रवर्ती ततोत्सवं प्रीतिमांस्तदहः ।। १३९
इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे पञ्चलम्बके तृतीयस्तरङ्गः ।