कथासरित्सागरः/लम्बकः १६/तरङ्गः १
इदं गुरुगिरीन्द्रजाप्रणयमन्दरान्दोलना-
त्पुरा किल कथामृतं हरमुखाम्बुधेरुद्गतम् ।
प्रसह्य रसयन्ति ये विगतविघ्नलब्धर्द्धयो
धुरं दधति वैबुधीं भुवि भवप्रसादेन ते ।।
प्रथमस्तरङ्गः
पातु वस्ताण्डवोड्डीनगण्डसिन्दूरमण्डनः ।
वान्तामिपीतप्रत्यूहप्रताप इव विघ्नजित् ।। १
एवं तस्मिन्नृषभके पर्वते तस्य तिष्ठतः ।
नरवाहनदत्तस्य सभार्यस्य समन्त्रिणः ।। २
प्राप्य विद्याधराधीशचक्रवर्तिश्रियं पराम् ।
भुञ्जानस्याययौ पुष्णन्सुखानि मधुरेकदा ।। ३
प्रससाद चिराच्चारु चन्द्रिका मृगलक्ष्मणः ।
नवीनशाद्वलाश्लिष्टा सस्वेदाभूद्वसुंधरा ।। ४
आसन्नालिङ्ग्यमानाश्च मुहुर्मलयमारुतैः ।
कम्पाकुलाः कण्टकिताः सरसा वानराजयः ।। ५
पुष्पचापप्रतीहारश्चूतयष्टिं विलोकयन् ।
क्वणन्मानवतीमानं निषिषेवेव कोकिलः ।। ६
निष्पेतुः पुष्पवल्लीभ्यः सशब्दा भृङ्गराजयः ।
मारवीरधनुर्मुक्ता इव नाराचपङ्क्तयः ।। ७
एवं मधुप्रवृत्तिं तां तदा वीक्ष्य व्यजिज्ञपन् ।
नरवाहनदत्तं तं सचिवा गोमुखादयः ।। ८
देव पश्यान्य एवायं जातः पुष्पमयोऽधुना ।
ऋषभाद्रिर्मधूत्कुल्लकाननालीनिरन्तरः ।। ९
अन्योन्यघट्टितैः पुष्पैः कांस्यतालवतीरिव ।
संगीता इव भृङ्गीनां विरुतैर्वातवेपिताः ।। १०
वसन्तसज्जितोद्यानमन्मथास्थानगामिनीः ।
विलोकय लता राजन्परागपटमालिनीः ।। ११
अलिमालाश्लथज्येयं दृश्यतां चूतमञ्जरी ।
विश्रान्तस्य जगज्जित्वा कामस्येव धनुर्लता ।। १२
तदत्र रुचिरोद्याने देव मन्दाकिनीतटे ।
मधूत्सवमिमं तावदेहि गत्वोपभुङ्ञ्ज्महे ।। १३
इत्युक्तः सचिवैः सोऽथ सावरोधवधूजनः ।
नरवाहनदत्तस्तद्ययौ मन्दाकिनीतटम् ।। १४
तत्र चिक्रीड चोद्याने नानाविहगनादिते ।
एलालवङ्गबकुलाशोकमन्दारमण्डिते ।। १७
उपविष्टश्च विपुले चन्द्रकान्तशिलातले ।
पार्श्वे कृत्वा महादेवीं वामे मदनमञ्चुकाम् ।। १६
अन्यावरोधसहितस्तैस्तैर्विद्याधरेश्वरैः ।
चण्डसिंहामितगतिप्रमुखैः परिवारितः ।। १७
आपानं सेवमानोऽत्र तास्ताः कुर्वन्कथास्तथा ।
विचार्य तमृतुं सम्राट् सचिवान्स्वानुवाच सः ।। १८
सुखस्पर्शो मृदुर्वातो दक्षिणो विमला दिशः ।
पुष्पितानि सुगन्धीनि काननानि पदे पदे ।। १९
मधुराः कोकिलालापाः पानलीलासुखानि च ।
सुखं किं न मधौ प्रेयोवियोगस्त्वत्र दुःसहः ।। २०
अन्यस्यास्तां तिरश्चामप्यत्र कष्टा वियोगिता ।
तथा च विरहक्लान्तामेतां पश्यत कोकिलाम् ।। २१
एषा हि नष्टमन्विष्य कूजन्ती सुचिरं प्रियम् ।
अप्राप्य तं स्थिता चूते मृतेवालीय निःस्वना ।। २२
इत्युक्तवन्तं सम्राजं मन्त्री तं गोमुखोऽब्रवीत् ।
सत्यं कालेऽत्र विरहो दुःसहः सर्वदेहिनाम् ।। २३
तथाहि देव श्रावस्त्यां यद्वृत्तं वच्मि तच्छृणु ।
तत्रैको राजपुत्रोऽभूद्ग्रामभुग्राजसेवकः ।। २४
शूरसेनाभिधानस्य तस्य मालवदेशजा ।
अनुरूपा सुषेणेति भार्याभूज्जीविताधिका ।। २५
स जातु भूपेनाहूतः कटकं गन्तुमुद्यतः ।
शूरसेनोऽनुरागिण्या जगदे भार्यया तया ।। २६
आर्यपुत्र न मुक्त्वा मामेककां गन्तुमर्हसि ।
नहि शक्ष्याम्यहं स्थातुं क्षणमत्र त्वया विना ।। २७
एवं तयोक्तः प्रियया शूरसेनो जगाद ताम् ।
राजाहूतो न गच्छामि कथं तन्वि न वेत्सि किम् ।। २८
राजपुत्रः परायत्तवृत्तिरस्मि हि सेवकः ।
तच्छ्रुत्वा साश्रुनयना सा भार्या तमभाषत ।। २९
गन्तव्यं यद्यवश्यं ते तत्सहिष्ये कथंचन ।
दिनमप्यनतिक्रामन्नुपैष्यसि मधौ यदि ।। ३०
श्रुत्वैतत्सोऽप्यवादीत्तामन्ततो निश्चितं प्रिये ।
त्यक्त्वापि कार्यमेष्यामि चैत्रस्य प्रथमेऽहनि ।। ३१
इत्युक्तवान्कथमपि प्रिययानुमतस्तया ।
राज्ञः समीपं कटकं शूरसेनो जगाम सः ।। ३२
तद्भार्याप्याशया तस्थौ गणयन्ती दिनानि सा ।
तदागमावधिमधुप्रारम्भदिवसेक्षिणी ।। ३३
गतेष्वथ दिनेष्वागात्स मधूत्सववासरः ।
मन्मथाह्वानमन्त्राभविलसत्कोकिलध्वनिः ।।
शुश्रुवे कुसुमामोदमाद्यन्मधुकरारवः ।
कामेनारोप्यमाणस्य कार्मुकस्येव निःस्वनः ।। ३५
सोऽयं मधूत्सवः प्राप्तो ध्रुवमद्यैष्यति प्रियः ।
इति तस्मिन्दिने तस्य शूरसेनस्य सा वधूः ।। ३६
विचिन्त्य विहितस्नाना सुषेणाभ्यर्चितस्मरा ।
उद्वीक्षमाणा तन्मार्गं तस्थौ रचितमण्डना ।। ३७
दिनात्ययेऽपि न यदा स तस्याः पतिराययौ ।
तदा सा निशि नैराश्यविधुरा समचिन्तयत् ।। ३८
मृत्योः कालोऽयमायातो न त्वायातः पतिः स मे ।
परसेवैकसक्तानां को हि स्नेहो निजे जने ।। ३९
इत्येवं चिन्तवन्त्याश्च तस्यास्तद्गतचेतसः ।
निर्ययुः स्मरदावाग्निदह्यमाना इवासवः ।। ४०
तावच्च भूपात्कथमप्यात्मानं प्रतिमोच्य सः ।
शूरसेनोऽनतिक्रामन्दिनं तद्दयितोत्सुकः ।। ४१
आरुह्य करभश्रेष्ठमुल्लङ्घयाध्वानमायतम् ।
आगतः पश्चिमे यामे रात्रेः प्राप निजं गृहम् ।। ४२
तत्रापश्यद्गतप्राणां प्रियां तां कृतमण्डनाम् ।
लतामुत्फुल्लकुसुमां वातेनोन्मूलितामिव ।। ४३
दृष्ट्वैव विह्वलस्यैतां कुर्वतोऽङ्के विनिर्ययुः ।
प्रलापैः सह तस्यापि प्राणा विरहिणः क्षणात् ।। ४४
तथा विपन्नौ दृष्ट्वा तौ दंपती कुलदेवता ।
कृपया जीवयामास देवी चण्डी वरप्रदा ।। ४७
ततः प्रत्यागतप्राणौ ततः प्रभृति तावुभौ ।
दृष्टानुरागावन्योन्यमवियुक्तौ बभूवतुः ।। ४६
इत्थं वसन्तसमये मलयानिलवीजितः ।
केषां न देहिनां देव दुःसहो विरहानलः ।। ४७
इत्येवं गोमुखेनोक्ते तदेव किल भावयन् ।
नरवाहनदत्तोऽभूत्सोऽकस्माद्विमना इव ।। ४८
महात्मनां विना हेतोर्दुःस्थितः सुस्थितोऽपि वा ।
सूचयत्यन्तरात्मा हि पुरो भावि शुभाशुभम् ।। ४९
ततो दिने ह्यवसिते सम्राट् संध्यामुपास्य सः ।
वासवेश्मनि विश्रान्तः प्रविश्य शयनीयके ।। ५०
स्वप्ने निशावसाने स्वं पितरं कृष्णया स्त्रिया ।
आकृष्य दक्षिणामाशां नीयमानमवैक्षत ।। ५१
तद्दृष्ट्वैव प्रबुद्धः संस्तातस्यानिष्टशङ्कया ।
ध्यातामुपस्थितां विद्यां प्रज्ञप्तिं नाम पृष्टवान् ।। ५२
ब्रूहि तातस्य वृत्तान्तो वत्सराजस्य को मम ।
तन्निमित्तं हि दुःस्वप्नदर्शनादस्मि शङ्कितः ।। ५३
इत्युक्ता तेन विद्या सा रूपिणी तमभाषत ।
शृणु यद्वत्सराजस्य वृत्तं देव पितुस्तव ।। ५४
स कौशाम्बीस्थितोऽकस्मादुज्जयिन्याः समागतात् ।
दूताच्चण्डमहासेनं विपन्नमशृणोन्नृपम् ।। ५५
तस्याङ्गारवतीं देवीं कृतानुगमनां तथा ।
तस्मादेव स शुश्राव मोहाद्भूमौ पपात च ।। ५६
लब्धसंज्ञश्चिरं चैतौ समं वासवत्तया ।
देव्या शुशोच श्वशुरौ स्वर्गतौ सपरिच्छदः ।। ५७
भङ्गुरेऽस्मिन्भवे कस्य स्थिरता स च भूपतिः ।
अशोच्यो यस्य जामाता भवान्गोपालकः सुतः ।। ५८
नरवाहनदत्तश्च दौहित्र इति मन्त्रिभिः ।
प्रबोध्योत्थापितः सोऽथ ददौ श्वशुरयोर्जलम् ।। ५९
ततः श्वशुर्यं शोकार्तं स्नेहात्पार्श्वस्थिनं तदा ।
गोपालकं स वत्सेशो बाष्पकण्ठोऽभ्यभाषत ।। ६०
उत्तिष्ठोज्जयिनीं गच्छ राज्यं पालय पैतृकम् ।
प्रतीक्षन्ते प्रजा हि त्वामिति दूतमुखाच्छ्रुतम् ।। ६१
तच्छ्रुत्वा स रुदन्वत्सराजं गोपालकोऽब्रवीत् ।
न देव गन्तुं शक्नोमि त्यक्त्वा त्वां भगिनीं तथा ।। ६२
न चोत्सहे तातशून्यां स्वपुरीं द्रष्टुमप्यहम् ।
तत्पालकोऽनुजो मेऽत्र राजास्तु मदनुज्ञया ।। ६३
एवं वदन्यदा नैच्छद्राज्यं गोपालकस्तदा ।
सेनापतिं रुमण्वन्तं विसृज्योज्जयिनीं पुरीम् ।। ६४
वत्सेश्वरः कनिष्ठं तं श्वशुर्यं पालकाभिधम् ।
दत्ताभ्यनुज्ञं ज्येष्ठेन तस्यां राज्येऽभ्यषेचयत् ।। ६५
आलोक्य चास्थिरं सर्वं विरक्तो विषयेषु सः ।
यौगन्धरायणादिभ्यः सचिवेभ्योऽब्रवीदिदम् ।। ६६
असारेऽस्मिन्भवे तावद्भावाः पर्यन्तनीरसाः ।
कृतं च राज्यमस्माभिर्भुक्ता भोगा जिता द्विषः ।। ६७
विद्याधराधिराजत्वं प्राप्तो दृष्टः सुतस्तथा ।
इदानीं च वयोऽतीतमस्माकं बान्धवैः सह ।। ६८
मृत्यवे दातुमात्ताश्च केशेषु जरसा वयम् ।
क्लीबराज्यमिवाक्रान्तं शरीरं वलिभिश्च नः ।। ६९
तस्मात्कालंजरगिरौ गत्वा देहमशाश्वतम् ।
त्यक्त्वेमं साधयाम्यत्र यथोक्तं शाश्वतं पदम् ।। ७०
इत्युक्तास्तेन सचिवा राज्ञा सर्वे विचार्य तत् ।
दॆवी वासवदत्ता च समचित्तास्तमब्रुवन् ।। ७१
यथाभिरुचितं देव भवतस्त्वत्प्रसादतः ।
वयमप्युपयास्यामः परत्राप्युत्तमां गतिम् ।। ७२
इत्यात्मतुल्यैरुक्तस्तैः स राजा कृतनिश्चयः ।
गोपलकं तं तत्रस्थं श्वशुर्यं धुर्यमभ्यधात् ।। ७३
नरवाहनदत्तश्च त्वं च तुल्यौ सुतौ मम ।
तदेतां रक्ष कौशाम्बीं राज्यं तुभ्यं मयार्पितम् ।। ७४
एवं वत्सेश्वरेणोक्तस्तं स गोपालकोऽब्रवीत् ।
युष्माकं या गतिः सा मे नाहं वस्त्यक्तुमुत्सहे ।। ७५
एतदेवानुबन्धेन स जल्पन्स्वसृवत्सलः ।
वत्सराजेन जगदे कोपं कृत्वैव कृत्रिमम् ।। ७६
अद्यैव त्वमनायत्तो जातो मिथ्यानुवृत्त मे ।
खपदाच्च्यवमानस्य कस्याज्ञां को हि मन्यते ।। ७७
इत्युक्तोऽवाङ्मुखो राज्ञा रूक्षं गोपालको रुदन् ।
वनाय कृतबुद्धिः सन्संप्रत्यत्र न्यवर्तत ।। ७८
ततो राजा गजारूढो देव्या वासवदत्तया ।
पद्मावत्या च सहितः स प्रतस्थे समन्त्रिकः ।। ७९
कौशाम्ब्या निर्गतं तस्याः साक्रन्दाः साश्रुदुर्दिनाः ।
सयोषिद्बालवृद्धाश्च पौरास्तमनु निर्ययुः ।। ८०
गोपालको वः पातेति तानाश्वास्य कथंचन ।
निवर्त्य च स वत्सेशः प्रायात्कालंजरं गिरिम् ।। ८१
प्राप्य तं च समारुह्य प्रणम्य च वृषध्वजम् ।
सर्वकालप्रियां वीणां कृत्वा घोषवतीं करे ।। ८२
पार्श्वगाभ्यां स देवीभ्यामन्वितो मन्त्रिभिः सह ।
यौगन्धरायणाद्यैस्तैः पतितोऽभूत्प्रपाततः ।। ८३
पतन्नेव विमानेन भास्वरेण स भूपतिः ।
आगतेनानुगैः सार्धं द्योतमानो दिवं गतः ।। ८४
एतद्विद्यामुखाच्छ्रुत्वा हा तातेत्यभिधाय सः ।
नरवाहनदत्तोऽत्र पपात भुवि मूर्च्छितः ।। ०५
लब्धसंज्ञश्च पितरं मातरं पितृमन्त्रिणः ।
अन्वशोचन्निजामात्यैः प्रमीतपितृकैः सह ।। ८६
स्वरूपज्ञोऽपि संसारस्यैतस्य क्षणभङ्गिनः ।
इन्द्रजालोपमानस्य कथं देव विमुह्यसि ।। ८७
अनुशोचसि चाशोच्यान्कृतकृत्यान्पितॄन्कथम् ।
येषां विद्याधरेन्द्रैकचक्रवर्ती भवान्सुतः ।। ८८
इति विद्याधराधीशैर्धनवत्या च बोधितः ।
स पितृभ्यो जलं दत्त्वा विद्यां पप्रच्छ तां पुनः ।। ८९
मातुलो मे स गोपालः क्वास्ते किमकरोदिति ।
ततो विद्यापि सा भूयः सम्राजं तमभाषत ।। ९०
गते महापथगिरिं वत्सराजेऽनुशोच्य तम् ।
भगिनीं चाध्रुवं मत्वा सर्वं स्थित्वा बहिः पुरः ।। ९१
उज्जयिन्यास्तमानाय्य भ्रातरं पालकं च सः ।
प्रादाद्गोपालकस्तस्मै कौशाम्बीराज्यमप्यदः ।। ९२
राज्यद्वयस्थे तस्मिंश्च सोऽनुजेऽथ तपोवनम् ।
वैराग्येणासितगिरि प्रयातः कश्यपाश्रमम् ।। ९३
तत्र वल्कलमादाय तपस्यन्मुनिमध्यगः ।
मातुलस्तिष्ठति स ते देव गोपालकोऽधुना ।। ९४
श्रुत्वैतद्द्रष्टुमुत्कस्तं मातुलं सपरिच्छदः ।
नरवाहनदत्तोऽगाद्विमानेनासिताचलम् ।। ९५
तत्रावतीर्य गगनाद्वृतो विद्याधरेश्वरैः ।
अपश्यदाश्रमपदं स मुनेः कश्यपस्य तत् ।। ९६
सप्रेक्षितमिवानेककृष्णसारमृगभ्रमैः ।
सस्वागताचारमिव क्वणितेन पतत्त्रिणाम् ।। ९७
जुह्वतामग्निहोत्राणि धूमराजिसमुद्गमैः ।
प्रदर्शयदिवारोहमार्गं दिवि तपस्विनाम् ।। ९८
बहुभूधरनागेन्द्रमाश्रितं कपिलोत्करैः ।
अपूर्वमिव पातालमूर्ध्ववर्ति वितामसम् ।। ९९
तत्र मध्ये जटालं तं तरुवल्कलवाससम् ।
मूर्तं शममिवाद्राक्षीन्मातुलं मुनिभिर्वृतम् ।। १००
सोऽपि गोपालको दृष्ट्वा भागिनेयमुपागतम् ।
उत्थायाश्लिष्य चाङ्गे तं चकारोदश्रुलोचनः ।। १०१
अथोभौ तौ नवीभूतशोकौ बन्धूनशोचताम् ।
स्वजनालोकवातेद्धो दुःखाग्निः कं न तापयेत् ।। १०२
तदुःखदर्शनार्तेषु तिर्यक्ष्वप्यत्र तौ ततः ।
उपेत्याश्वासयामासुर्मुनयः कश्यपादयः ।। १०३
अथ तस्मिन्नहनि गते प्रातर्गोपालकं स तं सम्राट् ।
एहि मदैश्वर्ये त्वं निवसेत्यभ्यर्थयामास ।। १०४
गोपालकोऽपि तमुवाच स किं न वत्स पर्याप्तमेवममुना तव दर्शनेन ।
स्नेहस्तवास्ति मयि चेत्तदिहैव वर्षाकालं समागतमिमं निवसाश्रमे त्वम् ।। १०९
इति नरवाहनदत्तस्तेनोक्तो मातुलेन तत्कालम् ।
सपरिच्छदः स तस्मिन्नसितगिरौ कश्यपाश्रमे तस्थौ ।। १०६
इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे सुरतमञ्जरीलम्बके प्रथमस्तरङ्गः ।