कथासरित्सागरः/लम्बकः १६/तरङ्गः २
अथासितगिरौ तस्मिन्नास्थानस्थं व्यजिज्ञपत् ।
नरवाहनदत्तं तं स्वसेनापतिरेकदा ।। १
अद्याहं देव हर्म्यस्थो रक्षन्सैन्यानि दृष्टवान् ।
दिव्येन पुंसा नभसि ह्रियमाणां निशि स्त्रियम् ।। २
क्रन्दन्तीं हार्यपुत्रेति कान्तिसर्वस्वहारिणीम् ।
लब्ध्वैवानायितां बुद्ध्वा तत्कालबलिनेन्दुना ।। ३
आः पाप परदारांस्त्वमपहृत्य क्व यास्यसि ।
नरवाहनदत्तस्य राज्ये देवस्य रक्षितुः ।। ४
योजनानां सहस्रेषु षष्टौ वैद्याधरे पदे ।
तिर्यञ्चोऽपि हि नाधर्मं कुर्वन्त्यन्येषु का कथा ।। ५
इत्युक्त्वैव प्रधाव्याशु सानुगेन मया स्वयम् ।
संयम्य स पुमान्व्योम्नः सनारीकोऽवतारितः ।। ६
अवतार्य च पश्यामो यावत्स्यालः स ते प्रभो ।
भ्राता युष्मन्महादेव्या इत्यकाख्यो नभश्चरः ।। ७
देव्यां कलिङ्गसेनायां जातो मदनवेगतः ।
केयं किमेता हरसीत्युक्तोऽस्माभिश्च सोऽभ्यधात् ।। ८
इयं मतङ्गदेवस्य विद्याधरपतेः सुता ।
उत्पन्नाशोकमञ्जर्यां नाम्ना सुरतमञ्जरी ।। ९
सैषा प्रागेव वाचा मे मात्रा दत्ता सती किल ।
अन्यस्मै मानुषायात्र स्वपित्रा प्रतिपादिता ।। १०
अतोऽद्यासौ निजा भार्या यदि प्राप्य हृता मया ।
तन्मे को दोष इत्युक्त्वा सोऽत्र व्यरमदित्यकः ।। ११
केनार्ये परिणीता त्वं कथं प्राप्तासि चामुना ।
इति साथ मया पृष्टावोचत्सुरतमञ्जरी ।। १२
अस्त्युज्जयिन्यां नृपतिः श्रीमान्पालकसंज्ञकः ।
कुमारस्तस्य पुत्रोऽस्ति सुनामावन्तिवर्धनः ।। १३
तेनेह परिणीताहं सुप्ता हर्म्यतलेऽद्य च ।
आर्यपुत्रस्य सुप्तस्य हृतास्म्येतेन पाप्मना ।। १४
एवमुक्तवती सा च संयतस्थः स चेत्यकः ।
मयेह स्थापितौ तौ द्वौ प्रमाणमधुना प्रभुः ।। १५
एवं हरिशिखात्सेनापतेः श्रुत्वा ससंशयम् ।
गत्वा गोपालकायैतच्चक्रवर्ती शशंस सः ।। १६
गोपालकोऽपि सोऽवादीद्वत्सैतद्विदितं न मे ।
सांप्रतं परिणीतैषा जाने पालकसूनुना ।। १७
आनीयतां कुमारस्तदुज्जयिन्याः स मन्त्रिणा ।
समं भरतरोहेण ज्ञास्यामो निश्चयं ततः ।। १८
तच्छ्रुत्वा मातुलवचश्चक्रवर्ती विसृज्य सः ।
विद्याधरं धूम्रशिखं मातुलस्य कनीयसः ।। १९
पालकस्यान्तिकं राज्ञस्तावानायितवानुभौ ।
उज्जयिन्याः कुमारं तं तत्सुतं तं च मन्त्रिणम् ।। २०
प्राप्तौ कृतप्रणामौ च स तौ गोपालकान्वितः ।
स्नेहादराभ्यां संमान्य प्रकृतं पृच्छति स्म तम् ।। २१
तत्र स्थिते निशाहीनचन्द्राभेऽवन्तिवर्धने ।
तथा सुरतमञ्जर्यां पितर्यस्याश्च सेत्यके ।। २२
सत्सु वायुपथाद्येषु मुनौ तिष्ठति कश्यपे ।
सोऽन्येषु च जगादैवं मन्त्री भरतरोहकः ।। २३
आ मूलाच्छृणु देवैतदुज्जयिन्याः किलैकदा ।
एवं समेत्य विज्ञप्तः सर्वैः पालकभूपतिः ।। २४
अस्यामुदकदानाख्यो भवत्यद्योत्सवः पुरि ।
हेतुश्चात्र न चेत्सम्यक्छ्रुतस्तच्छ्रूयतां प्रभो ।। १५५
पूर्वं चण्डमहासेनः पिता ते खड्गमुत्तमम् ।
प्राप्तुं च भार्यां तपसा देवीं चण्डीमतोषयत् ।। २६
सा स्वं खड्गं ददौ तस्मै भार्यार्थे चैवमभ्यधात् ।
अङ्गारकाख्यमसुरं हत्वा तस्याचिरात्सुताम् ।। २७
पुत्राङ्गारवतीं नाम भव्यां भार्यामवाप्स्यसि ।
इत्यादिष्टस्तया देव्या तस्थौ राजा स तन्मनाः ।। २८
अत्रान्तरे चोज्जयिन्यां यो योऽभून्नगराधिपः ।
स स केनापि सत्त्वेन रात्रौ रात्रावभक्ष्यत ।। २९
ततश्चण्डमहासेनस्तदन्वेष्टुं स्वयं निशि ।
स्वैरं भ्रमन्पुरि प्राप पुरुषं पारदारिकम् ।। ३०
तस्याच्छिनत्स खड्गेन शिरो रचितमण्डनम् ।
छिन्नकण्ठं च तं सद्यः कोऽप्येत्यादत्त राक्षसः ।। ३१
सोऽयं पुराधिपानत्ति नूनमत्रेत्युदीर्य सः ।
आदाय केशेष्वारेभे हन्तुं तं राक्षसं नृपः ।। ३२
तावत्स राक्षसोऽवादीन्मा राजन्मां वधीर्मृषा ।
अन्य एव स कोऽपीह यः खादति पुराधिपान् ।। ३३
कोऽसौ ब्रूहीति राज्ञा तत्पृष्टे रक्षोऽब्रवीत्पुनः ।
अस्तीहाङ्गारको नाम पातालनिलयोऽसुरः ।। ३४
स ते पुराधिपानत्ति निशीथेषु परंतप ।
सर्वतो राजकन्याश्च हठेन हरति प्रभो ।। ३५
करोत्यङ्गारवत्याश्च ताः सुतायाः परिच्छदम् ।
तमटव्यां भ्रमन्तं त्वं दृष्ट्वा हत्वा कृती भव ।। ३६
इत्युक्तवन्तं मुक्त्वा तं राक्षसं स स्वमन्दिरम् ।
राजा ययावेकदा च जगामाखेटकं ततः ।। ३७
तत्रापश्यन्महाकायं कोपज्वलितलोचनम् ।
सूकरं सदरीखण्डमञ्जनाद्रिमिवोद्यतम् ।। ३८
न वराहो भवेदीदृङ्मायी सोऽङ्गारको नु किम् ।
इति ध्यायन्स राजा तं क्रोडं बाणैरताडयत् ।। ३९
स तानगणयन्नेव बाणान्व्याधूय तद्रथम् ।
गत्वा वराहः सुमहद्विवेश विवरं भुवः ।। ४०
राजापि वीरस्तत्रैव तस्य पश्चात्प्रविश्य सः ।
दिव्यं पुरं ददर्शात्र न ददर्श च सूकरम् ।। ४१
वापीतटोपविष्टश्च तत्रापश्यत्स कन्यकाम् ।
कन्याशतपरीवारां रतिं रूपवतीमिव ।। ४२
सा कन्याभ्येत्य पृष्ट्वा च तत्रागमनकारणम् ।
पश्यन्ती साश्रुनयना जातप्रेमा जगाद तम् ।। ४३
कष्टं कुत्र प्रविष्टोऽसि वराहो यस्त्वयेक्षितः ।
स दैत्योऽङ्गारको नाम वज्रकायो महाबलः ।। ४४
संप्रति त्यक्तवाराहरूपश्चान्तः स्वपित्यसौ ।
प्रबुध्याहारकाले तु कुर्यादत्यहितं तव ।। ०५५
अहं च सुभगैतस्य नाम्नाङ्गारवती सुता ।
तव चानिष्टमाशङ्कय प्राणाः कण्ठागता मम ।। ४६
इत्युक्तः स तया राजा देव्या दत्तं वरं स्मरन् ।
कार्यसिद्धिर्ममास्तीति जातास्थः प्रत्युवाच ताम् ।। ४७
यदि मय्यस्ति ते स्नेहस्तदिदं कुरु मद्वचः ।
गत्वा रुदिहि पार्श्वेऽस्य प्रबुद्धस्य सतः पितुः ।। ४८
प्रमत्तं यदि कश्चित्त्वां हन्यात्तन्मम का गतिः ।
इति वाच्यश्च मुग्धाक्षि स पृच्छन्कारणं त्वया ।। ४९
एवं कृते ममाप्यस्ति ध्रुवं श्रेयस्तवापि च ।
इत्युक्ता तेन राज्ञा सा गत्वा मदनमोहिता ।। ५०
उपविश्य प्रबुद्धस्य पार्श्वे तस्यारुदत्पितुः ।
पृष्टा शशंस तस्मै च हेतुं तद्वधजं भयम् ।। ५१
ततः स दैत्योऽवादीत्तां वज्राङ्गं को हि हन्ति माम् ।
यद्धि वामकरे मेऽस्ति मर्म रक्षति तद्धनुः ।। ५२
इत्येतत्तद्वचो राजा प्रच्छन्नः स तदाशृणोत् ।
सोऽथ दैत्यः प्रववृते स्नात्वा पूजयितुं हरम् ।। ५३
तत्कालं प्रकटीभूय युद्धायाह्वयते स्म सः ।
दैत्यं गृहीतमौनं तं राजा रोपितकार्मुकः ।। ५४
सोऽपि दैत्यः करं वाममुत्क्षिप्य व्यापृतेतरः ।
संज्ञा तस्याकरोद्राज्ञः प्रतीक्षस्व मनागिति ।। ५५
तत्क्षणं तेन राज्ञा च करे तत्र स मर्मणि ।
सिद्धलक्ष्येण बाणेन हतो दैत्योऽपद्भुवि ।। ५६
तृषार्तोऽहं हतो येन सोऽब्देऽब्दे चेन्न मां जलैः ।
तर्पयिष्यति तत्तस्य पञ्च नङ्क्ष्यन्ति मन्त्रिणः ।। ५७
इत्युक्त्वैव विपन्नेऽस्मिन्दैत्ये तां तत्सुतां नृपः ।
आदाय सोऽङ्गारवतीमागादुज्जयिनीमिमाम् ।। ५८
परिणीय च तां देवीं स देवो देव वः पिता ।
अङ्गारकस्याम्बुदानं प्रतिवर्षमकारयत् ।। ५९
सर्वे चोदकदानाख्यं कुर्वन्तीह महोत्सवम् ।
प्राप्तः स चाद्य तत्पित्रा यत्कृतं ते कुरुष्व तत् ।। ६०
एतत्प्रजावचः श्रुत्वा स तं पालकभूपतिः ।
पुरि प्रावर्तयत्तत्र जलदानोत्सवं तदा ।। ६१
तस्मिन्प्रवृत्ते तद्व्यग्रे जने कोलाहलाकुले ।
अकस्मात्त्रोटितालानो गजोऽत्राधावदुन्मदः ।। ६२
स वारणोऽङ्कुशं जित्वा व्याधूताधोरणो भ्रमन् ।
अन्तर्नगर्यां सुबहून्क्षणाद्व्यापादयज्जनान् ।। ६३
प्रधावितेषु मेण्ठेषु महामात्रान्वितेष्वपि ।
पौरेषु च न तं कश्चिन्नियन्तुमशकद्गजम् ।। ६४
क्रमाद्भ्रमति तस्मिंश्च गजे चण्डालवाटकम् ।
संप्राप्ते निरगात्तस्मादेका चण्डालकन्यका ।। ६५
जितोऽनया मुखेनेन्दुर्मद्वैरीतीव तुष्टया ।
भासयन्ती भुवं पादलग्नया कमलश्रिया ।। ६६
व्यावृत्तचेतसोऽन्येभ्यो भावेभ्यस्तिमितस्थितेः ।
निद्रेव सर्वलोकस्य दृशोर्विश्रान्तिदायिनी ।। ६७
सा कन्या वारणेन्द्रं तं संमुखोपागतं करे ।
करेणाहत्य कुटिलैस्तैः कटाक्षैरताडयत् ।। ६८
स हस्ती तत्करस्पर्शमोहितो विनताननः ।
तद्दृष्टिविद्धस्तां पश्यन्पदमप्यत्र नाचलत् ।। ६९
ततः सा स्वोत्तरीयेण कृतायां तस्य दन्तयोः ।
उत्पत्यारुह्य दोलायां प्राक्रीडद्वरकन्यका ।। ७०
दृष्ट्वा तां च स घर्मार्तां तरुच्छायामगाद्द्विपः ।
एतद्दृष्ट्वा महच्चित्रं पौरास्तत्रैवमब्रुवन् ।। ७१
अहो दिव्येव काप्येषा कन्या सर्वातिशायिना ।
रूपेणेव प्रभावेण तिर्यञ्चोऽप्याहृता यया ।। ७२
अत्रान्तरे च तद्बुद्ध्वा कुमारोऽवन्तिवर्धनः ।
निर्गतः कौतुकं द्रष्टुमपश्यत्तां स कन्यकाम् ।। ७३
पश्यतस्तस्य मदनव्याधवागुरया तया ।
धावितश्चित्तहरिणो राजसूनोरबध्यत ।। ७४
सापि तं वीक्ष्य तद्रूपहृतचित्ता तदग्रहीत् ।
गजेन्द्रदन्तदोलाया अवरुह्योत्तरीयकम् ।। ७५
ततो मेण्ठाधिरूढेऽस्मिन्गजे साथ नृपात्मजम् ।
सलज्जं सानुरागं च पश्यन्ती स्वगृहानगात् ।। ७६
अवन्तिवर्धनः सोऽपि प्रशान्ते गजसंभ्रमे ।
तया हृतेन चित्तेन शून्योऽयासीत्स्वमन्दिरम् ।। ७७
तत्र संतप्यमानश्च तां विना वरकन्यकाम् ।
अपृच्छद्विस्मृतारब्धजलदानोत्सवः सखीन् ।। ७८
जानीथ कस्य तनया किंनामा सा च कन्यका ।
तच्छ्रुत्वा ते वयस्यास्तं राजपुत्रं बभाषिरे ।। ७९
अस्तीहोत्पलहस्ताख्यः कोऽपि चण्डालवाटके ।
मातङ्गस्तत्तनूजा सा नाम्ना सुरतमञ्जरी ।। ८०
सतां दर्शनमात्रैकफलं तस्या मनोरमम् ।
चित्रस्थिताया इव तन्नोपभोगक्षमं वपुः ।। ८१
तच्छ्रुत्वा स वयस्येभ्यः कुमारस्तानभाषत ।
मन्ये न मातङ्गसुता सा दिव्या कापि निश्चितम् ।। ८२
नहि चण्डालकन्यायाः सा तादृश्याकृतिर्भवेत् ।
तद्रूपा सा च भार्या मे न चेत्स्याज्जीवितेन किम् ।। ८३
इति ब्रुवन्स सचिवैरशक्यविनिवारणः ।
अत्यर्थं तद्वियोगाग्निसंतप्तोऽभून्नृपात्मजः ।। ८४
ततोऽवन्तिवती देवी नृपतिः पालकस्तथा ।
पितरौ तस्य बुद्ध्वा तदभूतां चिरमाकुलौ ।। ५
कथं वाञ्छति पुत्रो नावन्त्यजां राजवंशजः ।
इति चोक्ते तया देव्या स राजा पालकोऽब्रवीत् ।। ८६
एवं धावति यच्चेतस्तस्यामस्मत्सुतस्य तत् ।
ध्रुवं कारणमातङ्गी कापि सान्यैव कन्यका ।। ८७
वक्ति रज्यदरज्यद्वा कार्याकार्ये सतां मनः ।
अत्र चैषा कथा देवि न श्रुता चेन्निशम्यताम् ।। ८८
प्राक्प्रसेनजितो राज्ञः सुप्रतिष्ठितसंज्ञके ।
पुरे कुरङ्गी नाम्नाभूदतिरूपवती सुता ।। ८९
सा जातूद्याननिर्याता बन्धभ्रष्टेन हस्तिना ।
उच्चिक्षिपे सवहना धावित्वोपरि दन्तयोः ।। ९०
विद्रुते परिवारेऽस्याः साक्रन्दे तं गजं प्रति ।
तत्रात्तखड्गश्चण्डालकुमारः कोऽप्यधावत ।। ९१
स तं लूनकरं खड्गप्रहारेण महागजम् ।
हत्वा तां मोचयामास प्रवीरो राजकन्यकाम् ।। ९२
ततो मिलत्परिजना सा जगाम स्वमन्दिरम् ।
आकृष्टहृदया तस्य वीर्यसौन्दर्यसंपदा ।। ९३
स मे वारणतस्त्राता भर्ता वा मृत्युरेव वा ।
इति संचिन्तयन्ती च तस्थौ तद्विरहातुरा ।। ९४
स चण्डालकुमारोऽपि शनैर्गत्वा निजं गृहम् ।
तद्रूपहृतचित्तः सन्ध्यायंस्तां पर्यतप्यत ।। ९५
कुत्राहमन्त्यजन्मायं कुत्र सा राजकन्यका ।
काकस्य राजहंस्याश्च कीदृशः क्व समागमः ।। ९६
हास्यमेतच्च शक्नोमि न वक्तुं नाप्युपेक्षितुम् ।
तस्मान्मरणमेवात्र संकटे शरणं मम ।। ९७
इत्यालोच्य स गत्वा च निशायां पितृकाननम् ।
स्नात्वा कृत्वा चितामग्निं प्रज्वाल्यैव व्यजिज्ञपत् ।। ९८
देव पावक विश्वात्मंस्त्वय्यात्माहुतिदानतः ।
जन्मान्तरेऽपि सा भूयाद्भार्या राजसुता मम ।। ९९
इत्युक्तवन्तं हुतभुज्यात्मानं क्षेप्तुमुद्यतम् ।
प्रकटीभूय साक्षात्तं प्रसन्नोऽग्निरभाषत ।। १००
मा कृथाः साहसं भार्या भविष्यति तवैव सा ।
नहि त्वं पूर्वचण्डालो यश्च त्वां वच्मि तच्छृणु ।। १०१
आस्ते कपिलशर्माख्यो नगरेऽस्मिन्द्विजोत्तमः ।
तस्याग्न्यगारे प्रत्यक्षः साकारः सन्वसाम्यहम् ।। १०२
तत्र जात्वन्तिकप्राप्तां तत्सुता रूपलोभतः ।
कन्यामकरवं भार्यां वरोत्सारितदूषणाम् ।। १०३
तस्यां तदैव जातस्त्वं मम वीर्येण पुत्रक ।
तया च लज्जया रथ्यामुखे क्षिप्तोऽसि तत्क्षणम् ।। १०४
ततस्त्वं प्राप्य चण्डालैरजाक्षीरेण वर्धितः ।
तदैवं ब्राह्मणीगर्भसंभूतस्त्वं ममात्मजः ।। १०५
अतो नास्त्यपवित्रत्वं मत्तेजःसंभवस्य ते ।
प्राप्स्यस्येव च भार्यां तां कुरङ्गीं राजकन्यकाम् ।। १०६
इत्युक्त्वान्तर्दधे वह्निः सोऽपि संप्राप्तसंमदः ।
मातङ्गकृत्रिमसुतो जातास्थः स्वगृहं ययौ ।। १०७
ततः प्रसेनजिद्राजा स्वप्नेऽग्निप्रेरितो ददौ ।
अन्विष्टतत्त्वस्तस्मै तां सुतां पावकसूनवे ।। १०८
एवं भवन्ति प्रच्छन्ना दिव्या देवि सदा भुवि ।
तदेषा कापि दिव्यैव नान्त्या सुरतमञ्जरी ।। १०९
अन्यदेव हि तद्रत्नं मत्सूनोः सा च निश्चितम् ।
जन्मान्तरप्रियतमा चक्षूरागोपवर्णिता ।। ११०
एवमस्मासु तिष्ठत्सु राज्ञि ब्रुवति पालके ।
अवर्णयमहं तत्र कैवर्तीयामिमां कथाम् ।। १११
अभून्मलयसिंहाख्यो राजा राजगृहे पुरा ।
तस्य मायावतीत्यासीद्रूपेणाप्रतिमा सुता ।। ११२
सा क्रीडन्ती मधूद्याने रूपयौवनशालिना ।
कैवर्तककुमारेण दृष्टा केनापि जातुचित् ।। ११३
स च तां सुप्रहाराख्यो दृष्ट्वा स्मरवशोऽभवत् ।
साध्यासाध्यविचारं हि नेक्षते भवितव्यता ।। ११४
गत्वा च स्वगृहं त्यक्त्वा पाठीनाहरणादि सः ।
तस्थौ तदेकचित्तः सञ्शय्यायामुज्झिताशनः ।। ११५
अनुबन्धेन पृष्टश्च स्वाभिप्रायं शशंस सः ।
मात्रे रक्षितिकानाम्न्यै सापि पुत्रं तमभ्यधात् ।। ११६
विषादं मुञ्च पुत्र त्वमाहारं भज निश्चितम् ।
एतत्ते साधयाम्येव स्वयुक्त्याहमभीप्सितम् ।। ११७
इत्युक्त्वाश्वासिते तस्मिञ्जातास्थे भुक्तभोजने ।
मत्स्यानादाय हृद्यान्सा ययौ राजसुतागृहम् ।। ११८
तत्र चेटीभिराख्याता सेवोद्देशात्प्रविश्य सा ।
दाशी रक्षितिका तस्यै तन्मत्स्यप्राभृतं ददौ ।। ११९
तेनैव च क्रमेणैतद्ददती सा दिने दिने ।
वचनाकाङ्क्षिणीं चक्रे तामाराध्य नृपात्मजाम् ।। १२०
ब्रूहि वाञ्छसि यन्मत्तस्तत्कुर्यामपि दुष्करम् ।
इति प्रीताथ सावोचत्तां दाशीं राजकन्यका ।। १२१
ततः सा धीवरी प्राह रहस्तां याचिताभया ।
उद्यानदृष्टां त्वां देवि विना क्लाम्यति मे सुतः ।। १२२
आशां प्रदर्श्य च मया प्राणत्यागात्स रक्ष्यते ।
तत्कृपा मयि चेत्तन्मे सुतं स्पर्शेन जीवय ।। १२३
एवं तयोक्ता कैवर्तयोषिता सा नृपात्मजा ।
सलज्जा सानुरोधा च विमृश्यैवमुवाच ताम् ।। १२४
गुप्तमानय तं तावन्नक्तं मन्मन्दिरं सुतम् ।
तच्छ्रुत्वैव प्रहृष्टा सा ययौ दाशी सुतान्तिकम् ।। १२५
नक्तं च सा यथाशक्ति स्वैरं रचितमण्डनम् ।
तमानिनाय तद्राजकन्यान्तःपुरमात्मजम् ।। १२६
तत्र तं राजपुत्री सा सुप्रहारं चिरोत्सुकम् ।
हस्ते गृहीत्वा शयने कृतप्रीतिर्न्यवेशयत् ।। १२७
आश्वासयामास च तं क्लान्ताङ्गं विरहाग्निना ।
श्रीखण्डशिशिरस्पर्शकरसंवाहनेन सा ।। १२८
सोऽपि तेन सुधासिक्त इव दाशीसुतश्चिरम् ।
कृतार्थमानी विश्रान्तो जह्रे सपदि निद्रया ।। १२९
सुप्ते चास्मिन्नृपसुता गत्वा सुष्वाप सान्यतः ।
युक्तिरञ्जितकैवर्तसुता रक्षितविप्लवा ।। १३०
ततोऽस्य तत्करस्पर्शविगमप्रतिबोधिनः ।
हस्तोपनतविभ्रष्टां वल्लभां तामपश्यतः ।। १३१
निधिकुम्भीमिवातीव दरिद्रस्य विषादिनः ।
दाशसूनोर्निराशस्य सद्यः प्राणा विनिर्ययुः ।। १३२
तद्बुद्ध्वागत्य निन्दन्ती सात्मानं राजकन्यका ।
प्रातस्तेन सहारोढुं चितां व्यवसिताभवत् ।। १३३
ततो मलयसिंहोऽस्याः पिता बुद्ध्वा नृपोऽत्र तत् ।
एत्यानिवार्यां दृष्ट्वैतामाचम्यैवं वचोऽब्रवीत् ।। १३४
यदि सत्यमहं भक्तो देवदेवे त्रिलोचने ।
तन्मे वदत कर्तव्यं लोकपाला यथोचितम् ।। १३५
इत्युक्तवन्तं राजानं दिव्या वागेवमब्रवीत् ।
पूर्वभार्येयमेतस्य दाशयूनो भवत्सुता ।। १३६
ग्रामे नागस्थलाख्ये हि महीधरसुतः पुरा ।
अभूद्बलधरो नाम ब्राह्मणो गुणवत्तरः ।। १३७
स गते पितरि स्वर्गं हृतवित्तः स्वगोत्रजैः ।
विरक्तो भार्यया साकं जगाम द्युनदीतटम् ।। १३८
देहं त्यक्ष्यन्निराहारः स्थितस्तत्र विलोक्य सः ।
दाशान्भक्षयतो मत्स्यान्मनसा श्रद्दधे क्षुधा ।। १३९
ततोऽत्र पञ्चतां यातं तत्संकल्पकलङ्कितम् ।
स्वभार्या शुद्धसंकल्पा तपःस्थैव तमन्वगात् ।। १४०
स एष जातः संकल्पदोषाद्दाशकुले द्विजः ।
भार्यास्य सा च सुतपा जातैषा ते सुता नृप ।। १४१
तदेतं पूर्वभर्तारं राजन्नेषा त्वदात्मजौ ।
जीवयत्वायुषोऽर्धेन गतायुषमनिन्दिता ।। १४२
एतत्तपःप्रभावाद्धि तत्तीर्थप्रमयात्तथा ।
पूतोऽयं तव जामाता भूत्वा राजा भविष्यति ।। १४३
इत्युक्तो दिव्यया वाचा सुप्रहाराय तां सुताम् ।
दत्तायुरर्धां च ददौ तस्मै लब्धासवे नृपः ।। १४४
तद्दत्तैर्भूमिहस्त्यश्वरत्नैर्भूत्वा स भूपतिः ।
सुप्रहारः कृती तस्थौ प्राप्य भार्यां तदात्मजाम् ।। १४५
एवं प्राग्जन्मसंबन्धः प्रायः प्रीत्यै शरीरिणाम् ।
किं चैवं चौरसंबद्धाप्यत्रेयं श्रूयतां कथा ।। १४६
अयोध्यायामभूद्राजा वीरबाहुरिति श्रुतः ।
यो ररक्ष स्वसंताननिर्विशेषं सदा प्रजाः ।। १४७
कदाचित्तं च राजानमेत्य पौरा व्यजिज्ञपन् ।
चौरा मुष्णन्ति नगरीमिमां प्रतिनिशं प्रभो ।। १४८
जाग्रद्भिरपि चास्माभिः शक्या लक्षयितुं न ते ।
तच्छ्रुत्वा स्थापयामास सोऽत्र चारान्नृपो निशि ।। १४९
तेऽपि प्रापुर्न यच्चौरान्न चाशाम्यदुपद्रवः ।
तेन राजा स्वयं रात्रौ तदन्येषु विनिर्ययौ ।। १५०
एकाकी खड्गहस्तश्च परिभ्राम्यन्स सर्वतः ।
संचरन्तं ददर्शैकं प्राकारोपरि पूरुषम् ।। १५१
भयाल्लघुपदन्यासं काकचञ्चललोचनम् ।
मृगारिमिव पश्यन्तं मुहुर्वलितकंधरम् ।। १५२
विकोषासिविनिर्यातैर्लक्षितं खड्गरश्मिभिः ।
तारारत्नापहारार्थमिव सेरण(?)रज्जुभिः ।। १५३
दृष्ट्वा चाचिन्तयद्राजा चौरोऽयं वेद्मि निश्चितम् ।
ध्रुवमेकचरेणेयं मुष्यतेऽनेन मे पुरी ।। १५४
इत्यालोच्य नृपश्चौरं चतुरस्तमुपागमत् ।
चौरोऽपि स तमप्राक्षीत्सशङ्कं को भवानिति ।। १५५
ततो राजाब्रवीदेतं बहुव्यसनदुर्भरः ।
अहं साहसिकश्चौरस्त्वं च मे ब्रूहि को भवान् ।। १५६
चौरोऽप्युवाचैकचरस्तस्करोऽहं महाधनः ।
तदेहि मद्गृहं यावद्धनेच्छां पूरयामि ते ।। १५७
तच्छ्रुत्वा दस्युना तेन समं राजा तथेति सः ।
ययौ वनान्तस्तद्वेश्म क्ष्मातले खातनिर्मितम् ।। १५८
अधिष्ठितं वरस्त्रीभिर्भूरिरत्नप्रकाशितम् ।
सदा नवोपभोगं च भुजंगनगरोपमम् ।। १५९
ततो गर्भगृहं तस्मिन्प्रविष्टे तस्करे नृपम् ।
बाह्यस्थानस्थितं दासी तमेका सकृपाभ्यधात् ।। १६०
क्वासि प्रविष्टो निर्याहि शीघ्रं विश्वस्तघातकः ।
हन्यादेकचरो हि त्वां प्रतिभेदभयादयम् ।। १६१
तच्छ्रुत्वा निर्गतो राजा द्रुतं गत्वा स्वमन्दिरम् ।
सेनापतिं समाहूय ससैन्यः पुनराययौ ।। १६२
आगत्य रुद्ध्वा तद्वेश्म शूरानन्तः प्रवेश्य च ।
हतार्थसंचयं चौरमवष्टभ्यानिनाय तम् ।। १६३
गतायां निशि तेनाथ स राज्ञादिष्टनिग्रहः ।
चोरो विपणिमध्येन वध्यभूमिमनीयत ।। १६४
नीयमानं च तं तत्र दृष्ट्वा दृष्ट्यनुरागिणी ।
वणिक्सुतैका पितरं तत्क्षणं स्वमभाषत ।। १६५
योऽयं वध्यभुवं तात नीयते दत्तडिण्डिमः ।
असौ चेत्स्यान्न मे भर्ता तन्मृतां विद्धि मामिति ।। १६६
वीक्ष्याथ दुर्निवारां तां गत्वा भूप स तत्पिता ।
द्रव्यकोट्यापि चौरस्य तस्य मुक्तिमयाचत ।। १६७
भूपोऽपि तस्मै वणिजे चुक्रोध न तु तस्करम् ।
तं मुमोचाविलम्ब्यैव शूलायां तं न्यवेशयत् ।। १६८
ततः सा वामदत्ताख्या वणिक्कन्या कलेवरम् ।
चौरस्यादाय तस्याग्निं प्रविवेशानुरागतः ।। १६९
एवं प्राग्जन्मसंबन्धपरायत्तेषु जन्तुषु ।
भावि को वस्त्वतिक्रामेत्को वा किं कस्य वारयेत् ।। १७०
तस्मात्पुत्रस्य ते कापि पूर्वसंबन्धनिर्मिता ।
अवन्तिवर्धनस्यैषा राजन्सुरतमञ्जरी ।। १७१
अन्यथा कथमेतस्य राजसूनोः सुजन्मनः ।
मातङ्ग्यामिह तस्यां स्यादभिष्वङ्गोऽयमीदृशः ।। १७२
तस्मादुत्पलहस्तः स मातङ्गस्तत्पिता प्रभो ।
तां सुतां याच्यतां तावत्पश्यामः किं ब्रवीत्यसौ ।। १७३
एवमुक्तो मया राजा पालकः प्राहिणोत्तदा ।
दूतानुत्पलहस्ताय तां कन्यां तत्र याचितुम् ।। १७४
स च तैर्याचितो दूतैर्मातङ्गो निजगाद तान् ।
एतन्मेऽभिमतं किं तु यो भोजयति मद्गृहे ।। १७५
अष्टादशसहस्राणि विप्राणां पुरवासिनाम् ।
तस्मै मयासौ दातव्या सुता सुरतमञ्जरी ।। १७६
एतच्छ्रुत्वा वचस्तस्य सप्रतिज्ञं तथैव ते ।
आगत्य दूता राज्ञे तत्पालकाय न्यवेदयन् ।। १७७
एतत्सकारणं मत्वा संघाट्य ब्राह्मणान्पुरि ।
उज्जयिन्यां समाख्यातवृत्तान्तः क्षितिपोऽब्रवीत् ।। १७८
भुङ्ग्ध्वमुत्पलहस्तस्य मातङ्गस्येह वेश्मनि ।
अष्टादशसहस्राणि यूयं नेच्छेयमन्यथा ।। १७९
इत्युक्ता भूभृता भीताश्चण्डालान्नाच्च ते द्विजाः ।
कर्तव्यमूढाः संश्रित्य महाकालं व्यधुस्तपः ।। १८०
अन्नमुत्पलहस्तस्य गृहे भुङ्ग्ध्वमशङ्किताः ।
विद्याधरो ह्ययं नायं चण्डालः सकुटुम्बकः ।। १८१
इति स्वप्ने समादिष्टा विप्रास्ते तेन शंभुना ।
उत्थाय गत्वा राज्ञे तदाख्याय पुनरब्रुवन् ।। १८२
चण्डालवाटादन्यत्र शुद्धमन्नं पचत्वसौ ।
राजन्नुत्पलहस्तोऽत्र ततस्तद्भुञ्जमहे वयम् ।। १८३
तच्छ्रुत्वोत्पलहस्तस्य राजा सोऽन्यं गृहं व्यधात् ।
प्रीतश्च कारुभिः शुद्धैस्तत्रास्यान्नमपाचयत् ।। १८४
स्नाते चोत्पलहस्तेऽस्मिञ्शुद्धवस्त्रे पुरः स्थिते ।
तत्राष्टादशभिर्भुक्तं सहस्रैरग्रजन्मनाम् ।। १८५
भुक्तेषु तेषु चोपेत्य राजानं राष्ट्रसंनिधौ ।
प्रणम्योत्पलहस्तोऽसौ पालकं तमभाषत ।। १८६
अभवद्गौरिमुण्डाख्यो धुर्यां विद्याधरेश्वरः ।
मतङ्गदेवनामाहं तस्याभूवं समाश्रितः ।। १८७
अस्यां सुरतमञ्जर्यां सुतायां मम भूपते ।
उत्पन्नायां स मां गुप्तं गौरिमुण्डोऽब्रवीदिदम् ।। १८८
नरवाहनदत्ताख्यो योऽयं वत्सेश्वरात्मजः ।
भविष्यच्चक्रवर्तीह सोऽस्माकं कथ्यते सुरैः ।। १८९
तद्यावच्चक्रवर्तित्वं न प्राप्तः कण्टकः स नः ।
तावत्स्वमायया गत्वा तं निपातय मा चिरम् ।। १९०
इत्यहं गौरिमुण्डेन पापेन प्रेरितस्तदा ।
तदर्थं नभसा गच्छन्पुरोऽपश्यं महेश्वरम् ।। १९१
स मां सद्योऽशपत्क्रुद्धः कृत्वा हुंकारमीश्वरः ।
महात्मनि जने पाप कथं पापं चिकीर्षसि ।। १९२
तदनेनैव देहेन भार्यादुहितृसंयुतः ।
गच्छोज्जयिन्यां चण्डालमध्ये निपत दुर्मते ।। १९३
अष्टादशसहस्राणि विप्राणां पुरवासिनाम् ।
तनयादानशुल्केन यदा ते भोजयिष्यति ।। १९४
गृहेषु कश्चिच्छापस्य तदान्तस्ते भविष्यति ।
दातव्या च त्वया तस्मै सुता तच्छुल्कदायिने ।। १९५
इत्युक्त्वान्तर्हिते शंभावेषोऽस्मि पतितस्तदा ।
अन्येषूत्पलहस्ताख्यो न च तैः संकरो मम ।। १९६
अद्य शान्तः स शापो मे त्वत्पुत्रस्य प्रसादतः ।
तन्मयेयं सुता दत्ता तस्मै सुरतमञ्जरी ।। १९७
इदानीं चैष गच्छामि निजं वैद्याधरं पदम् ।
नरवाहनदत्तस्य सेवार्थं चक्रवर्तिनः ।। १९८
इत्युक्त्वैवार्पितसुतः खमुत्पत्याङ्गनायुतः ।
आगान्मतङ्गदेवोऽसौ देव त्वच्चरणान्तिकम् ।। १९९
राजापि पालको ज्ञाततत्त्वो हृष्टस्ततो व्यधात् ।
तस्याः सुरतमञ्जर्या विवाहं स्वसुतस्य च ।। २००
तत्पुत्रोऽपि च तां भार्यां प्राप्य विद्याधरीमभूत् ।
मनोरथाधिकावाप्तिकृतार्थोऽवन्तिवर्धनः ।। २०१
एकदा च कुमारोऽसौ सुप्तो हर्म्ये समं तया ।
निशाक्षये प्रबुद्धस्तामकस्मान्नैक्षत प्रियाम् ।। २०२
विचित्य चैतामप्राप्य तथा क्रन्दन्नतप्यत ।
यथोपेत्य पिताप्यस्य राजाभूद्भृशविह्वलः ।। २०३
रक्षितेयं पुरी नास्यां निशायां प्रविशेत्परः ।
ध्रुवं हृता सा केनापि पापेनाकाशचारिणा ।। २०४
इत्याद्यमासु जल्पत्सु मिलितेष्वत्र तत्क्षणम् ।
विद्याधरो धूमशिखो यौष्माकोऽवातरद्दिवः ।। २०५
तेनेह सोऽयमानीतः कुमारोऽवन्तिवर्धनः ।
अहं चाख्याय वृत्तान्तं मार्गितः पालकान्नृपात् ।। २०६
सैषा चात्र स्थिता पित्रा समं सुरतमञ्जरी ।
वृत्तान्त ईदृशश्चास्या देवो जानात्यतः परम् ।। २०७
इत्थं पालकमन्त्रिणि कथयित्वा भरतरोहके विरते ।
नरवाहनदत्ताग्रे मतङ्गदेवं सभासदोऽपृच्छन् ।। २०८
कस्मै भवता दत्ता ब्रूहि त्वं सुरतमञ्जरीयमिति ।
सोऽप्याह स्म मयैषा दत्तैवावन्तिवर्धनायेति ।। २०९
त्वं ब्रूहि हरसि कस्मादेतामिति चेत्यकोऽथ तैः पृष्टः ।
आदौ मह्यं मात्रा वाचा दत्तेयमित्यवादीत्सः ।। २१०
सति जनके का माता तद्दानेऽप्यस्ति कोऽत्र तव साक्षी ।
तदियं परदारास्ते पापेति तमूचुरित्यकं सभ्याः ।। २११
इति तैश्च निरुत्तरीकृतस्य प्रसभं निग्रहमित्यकस्य तस्य ।
नरवाहनदत्तचक्रवर्ती कुपितो दुर्विनयात्समादिदेश ।। २१२
अस्यैकमेतमपराधमिह क्षमस्व स्यालो हि ते मदनवेगसुतः किलासौ ।
इत्यर्थितो मुनिवरैरथ कश्यपाद्यै राजा कथंचिदपभर्त्स्य स तं मुमोच ।। २१३
तमपि च मातुलपुत्रं निजपत्न्यावन्तिवर्धनं युक्तम् ।
वायुपथहस्तनिहितं सचिवयुतं प्राहिणोत्स्वपुरीम् ।। २१४
इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे सुरतमञ्जरीलम्बके द्वितीयस्तरङ्गः ।