एवं तत्रासितगिरौ साध्वीं सुरतमञ्जरीम् ।
इत्यकापहृतां तस्मात्स्यालादप्यपभर्त्सितात् ।। १
हृत्वा समर्प्य भर्त्रे च मुनिमध्ये व्यवस्थितम् ।
नरवाहनदत्तं तं कश्यपर्षिरभाषत ।। २
नाभून्न भविता राजंश्चक्रवर्ती समस्तव ।
यस्य धर्मासनस्थस्य न रागादिवशा मतिः ।। ३
धन्यास्तेऽपि च पश्यन्ति ये त्वां सुकृतिनं सदा ।
ईदृशेऽपि हि साम्राज्ये नावद्यं किंचिदस्ति ते ।। ४
आसन्नृषभकाद्या हि पुरान्ये चक्रवर्तिनः ।
नानाविधैश्च दोषैस्ते ग्रस्ता नष्टाः श्रियश्च्युताः ।। ५
ऋषभः सर्वदमनस्तृतीयो बन्धुजीवकः ।
अतिदर्पेण ते सर्वे शक्रान्निग्रहमागताः ।। ६
जीमूतवाहनोऽप्येत्य पृष्टो विद्याधरेश्वरः ।
चक्रवर्तिपदप्राप्तिकारणं नारदर्षिणा ।। ७
आचख्यौ कल्पवृक्षस्य दानं निजतनोस्तथा ।
तेनाभ्रश्यत्पदात्स्वस्मात्सुकृतोदीरणेन सः ।। ८
विश्वान्तराख्यो यश्चासीच्चक्रवर्तीह सोऽपि च ।
इन्दीवराक्षे तनये हते चेदिमहीभृता ।। ९
वसन्ततिलकाख्येन तद्दारध्वंसकारिणी ।
कुपुत्रशोकमोहेन धैर्यहीनो व्यपद्यत ।। १०
एकस्तारावलोकस्तु भूत्वा राजेन्द्र मानुषः ।
विद्याधराणां संप्राप्य सुकृतैश्चक्रवर्तिताम् ।। ११
अनासादितदोषः संश्चिरं साम्राज्यसंपदम् ।
भुक्त्वावसाने वैराग्यात्स्वयं त्यक्त्वा वनं गतः ।। १२
इत्थं विद्याधराः प्रायः स्वपदप्राप्तिमोहिताः ।
नोचिते पथि तिष्ठन्ति रागाद्यन्धाः पतन्ति च ।। १३
तत्त्वं न्याय्यात्पथः शश्वद्रक्षेः स्खलितमात्मनः ।
विद्याधरप्रजा चेयं रक्ष्या धर्मव्यतिक्रमात् ।। १४
कश्यपेनैवमुक्तस्तु सम्राट् श्रद्धिततद्वचः ।
नरवाहनदत्तस्तमिदं पप्रच्छ सादरम् ।। १४
कथं तारावलोकेन मानुषेण सता पुरा ।
प्रापं विद्याधरैश्वर्यं भगवन्वर्णयस्व नः ।। १६
तच्छ्रुत्वा कश्यपोऽवादीच्छ्रूयतां कथयामि वः ।
चन्द्रावलोक इत्यासीन्नाम्ना शिबिषु भूपतिः ।। १७
तस्येश्वरस्य मूर्धन्या चन्द्रलेखेत्यभूत्प्रिया ।
दुग्धाब्धिनिर्मलकुला शुद्धा गङ्गासमस्थितिः । १८
अभूच्च वारणस्तस्य परसेनाविमर्दनः ।
महान्कुवलयापीड इति ख्यातो महीतले ।। १९
तत्प्रभावेण भूपालो बलिनापि न शत्रुणा ।
स पौरस्वामिके राज्ये पर्यभूयत केनचित् ।। २०
यौवनापगमे चास्य पुत्र एको महीपतेः ।
उत्पेदे चन्द्रलेखायां देव्यां कल्याणलक्षणः ।। २१
तारावलोकनामा च क्रमाद्वृद्धिं जगाम सः ।
दानधर्मविवेकाद्यैः सहजातैर्गुणैः सह ।। २२
अशिक्षत च निःशेषं वाङ्मयार्थं महामतिः ।
नाशिक्षत न शब्दार्थमेकं कामप्रदोऽर्थिषु ।। २३
क्रमाद्युवापि वयसा स्थविरः स विचेष्टितैः ।
तेजसा सूर्यसंकाशोऽप्यत्यर्थं सौम्यदर्शनः ।। २४
राकाचन्द्र इवाशेषकलासंदोहसुन्दरः ।
कंदर्प इव विश्वस्य लोकस्यौत्सुक्यदायकः ।। २५
संजज्ञे पितृशुश्रूषाजितजीमूतवाहनः ।
अभिव्यक्तमहाचक्रवर्तिलक्षणलाञ्छितः ।। २६
ततस्तस्य कृते सूनोः कन्या मद्रेश्वरात्मजा ।
चन्द्रावलोकेनाजह्रे माद्रीनाम महीभृता ।। २७
कृतोद्वाहं पिता तं च तद्गुणोत्कर्षतोषितः ।
यौवराज्ये महाराजस्तदैवाभिषिषेच सः ।। २८
अभिषिक्तश्च पित्रात्र युवराजस्तदाज्ञया ।
तारावलोकः सोऽन्नादिदानसत्त्राण्यकारयत् ।। २९
शय्योत्थायं च पात्राणि तानि स्वयमवेक्षितुम् ।
सदा कुवलयापीडमारुह्य गजमभ्रमीत् ।। ३०
यो यदर्थितवांस्तस्मै तद्ददावपि जीवितम् ।
तेन तस्य यशो दिक्षु युवराजस्य पप्रथे ।। ३१
अथ तस्य सुतौ माद्र्यां जायेते स्म यमावुभौ ।
तौ च नाम्ना करोति स्म स पिता रामलक्ष्मणौ ।। ३२
अवर्धेतां च तौ पित्रोः स्नेहानन्दाविवार्भकौ ।
स्वपितामहयोश्चैव प्राणेभ्योऽप्यधिकप्रियौ ।। ३३
आरोपितगुणावेतौ तत्कोदण्डाविवानतौ ।
तारावलोको माद्री च न पश्यन्तावतृप्यताम् ।। ३४
ततः कुवलयापीडं गजं दातृयशः सुतौ ।
दृष्ट्वा तारावलोकस्य विप्रान्स्वान्रिपवोऽब्रुवन् ।। ३५५
गत्वा कुवलयापीडं गजं तारावलोकतः ।
याचध्वं यदि तावत्तं युष्मभ्यं स प्रदास्यति ।। ३६
हरिष्यामस्ततो राज्यं तद्विहीनस्य तस्य तत् ।
न दास्यत्यथ दातृत्वयशस्तस्य विनङ्क्ष्यति ।। ३७
इत्युक्तास्तैस्तथेत्युक्त्वा गत्वा ते ब्राह्मणास्ततः ।
राज्ञस्तारावलोकात्तं दानवीराद्ययाचिरे ।। ३८
को नामार्थो गजेन्द्रेण याचितेन द्विजन्मनाम् ।
तज्जाने निश्चितमिमे प्रयुक्ता मम केनचित् ।। ३९
तद्यदस्तु मया तावद्दातव्योऽयं गजोत्तमः ।
अप्राप्तकामो ह्यर्थी मे कथं यास्यति जीवतः ।। ४०
इति संचिन्त्य तेभ्यस्तं द्विजेभ्यो वारणोत्तमम् ।
तारावलोकः स ददौ निष्कम्पेनैव चेतसा ।। ४१
ततस्तैर्नीयमानं तं दृष्ट्वा करिवरं द्विजैः ।
पौराश्चन्द्रावलोकस्य क्रुद्धा राज्ञोऽन्तिकं ययुः ।। ४२
ऊचुश्च ते सुतेनेदं राज्यं त्यक्तं तवाधुना ।
मुनिधर्मो गृहीतश्च सर्वसंन्यासकारिणा ।। ४३
यदेतेन श्रियो मूलं गन्धभग्नान्यवारणः ।
दत्तः कुवलयापीडः पश्यार्थिभ्यो महागजः ।। ४४
तदेतं तपसे पुत्रं वनं प्रस्थापयाथवा ।
गजं प्रत्याहरान्यं वा राजानं कुर्महे वयम् ।। ४५
इति चन्द्रावलोकस्तैः पौरैरुक्तस्तथैव तत् ।
स पुत्रं श्रावयामास प्रतीहारमुखेन तम् ।। ४६
सोऽपि तारावलोकस्तच्छ्रुत्वा तत्तनयोऽब्रवीत् ।
हस्ती तावन्मया दत्तो नास्त्यदेयं च मेऽर्थिषु ।। ४७
ईदृशेन तु राज्येन पौरायत्तेन किं मम ।
किं चान्यानुपयोगिन्या लक्ष्म्या विद्युद्विलोलया ।। ४८
तन्मे श्रेयो वने वासः सर्वभोज्यफलश्रियाम् ।
मध्ये तरूणां न पुनर्नृपशूनामिहेदृशाम् ।। ४९
इत्युक्त्वा तुल्यसंकल्पधीरया भार्ययान्वितः ।
पित्रोः पादावनुध्याय दत्त्वार्थिभ्योऽर्थसंचयम् ।। ५०
गृहीतवल्कलः साकं स पुत्राभ्यां निजात्पुरात् ।
तारावलोको निरगाद्रुदतः सान्त्वयन्द्विजान् ।। ५१
तं तथाप्रस्थितं दृष्ट्वा पशूनां पक्षिणामपि ।
करुणं क्रन्दतामश्रुधाराभिर्भूरसिच्यत ।। ५२
सून्वोर्वाहनमात्रैकरथशेषः पथि व्रजन् ।
सोऽथ तारावलोकोऽन्यै रथाश्वान्याचितो द्विजैः ।। ५३
स तानथ ददौ तेभ्यश्चकर्ष च रथं स्वयम् ।
सभार्यः सुकुमारौ तौ नेतुं बालौ तपोवनम् ।। ५४
ततोऽटवीमध्यगतं परिश्रान्तमुपेत्य तम् ।
निरश्वं रथमप्यत्र ययाचे ब्राह्मणोऽपरः ।। ५५
तस्मै तमपि निःशङ्को दत्त्वा पद्भ्यां सपुत्रकः ।
सभार्यश्च कथंचित्स धीरः प्राप तपोवनम् ।। ५६
तत्र माद्र्या कृतोदारपरिचर्यः स्वभार्यया ।
तरुमूले कृतावासस्तस्थौ मृगपरिच्छदः ।। ५७
वाताहतिचलत्पुष्पमञ्जरीचारुचामरैः ।
पृथुच्छायातरुच्छत्त्रैः पत्त्रशय्याशिलासनैः ।। ५८
गीतैर्भृङ्गाङ्गनानां च नानाफलरसासवैः ।
वीरं वैराग्यराज्यस्थं वनान्तास्तं सिषेविरे ।। ५९
एकदा चात्र तत्पत्न्यां माद्र्यां तस्य कृते स्वयम् ।
आहर्तुं फलपुष्पादि गतायामाश्रमाद्बहिः ।। ६०
उपेत्य ब्राह्मणो वृद्धः कश्चित्तमुटजस्थितम् ।
तारावलोकं तनयौ ययाचे रामलक्ष्मणौ ।। ६१
वरं पुत्राविमौ नीतौ पारयिष्ये शिशू अपि ।
न पुनर्भग्नकामोऽयं प्रेषितोऽर्थी कथंचन ।। ६२
विधिर्वीक्षितुकामो हि धैर्यध्वंसं शठो मम ।
इति संचिन्त्य स ददौ तस्मै विप्राय तौ सुतौ ।। ६३
नीयमानौ च तौ तेन विप्रेण ययतुर्न यत् ।
तत्स विप्रो लताभिस्तौ बद्धहस्तावताडयत् ।। ६४
निनाय चैतौ क्रन्दतौ नृशंसो जननीं मुहुः ।
विवृत्य पितरं तं च पश्यन्तौ साश्रुलोचनौ ।। ६५
वत्स तारावलोकोऽत्र पश्यन्नपि न चुक्षुभे ।
चुक्षुभे त्वस्य धैर्येण भूतग्रामश्चराचरः ।। ६६
अथाहृत्य शनैः पुष्पफलमूलादि सा सती ।
वनान्तादाययौ माद्री श्रान्ता तं पत्युराश्रमम् ।। ६७
ददर्शाधोमुखं तं च भर्तारं न तु तौ सुतौ ।
विप्रकीर्णस्थितक्रीडामृण्मयाश्वरथद्विपौ ।। ६८
अनिष्टाशङ्किहृदया हा हतास्मि क्व तौ मम ।
पुत्रकाविति पप्रच्छ संभ्रान्ता तं पतिं च सा ।। ६९
सोऽप्यवादीच्छनैरेतामनघे तनयौ मया ।
याचमानाय तौ दत्तौ दरिद्राय द्विजन्मने ।। ७०
तच्छ्रुत्वा त्यक्तमोहा सा साध्वी तमवदत्पतिम् ।
तर्हि युक्तं कृतं यातु कथमर्थी पराङ्मुखः ।। ७१
एवं तयोक्ते दंपत्योस्तुल्यसत्त्वतया तया ।
तयोश्चकम्पे भुवनं चचालेन्द्रस्य चासनम् ।। ७२
अथेन्द्रः प्रणिधानेन माद्रीतारावलोकयोः ।
दानसत्त्वप्रभावेण कम्पितं जगदैक्षत ।। ७३
ततः स ब्राह्मणो भूत्वा गत्वा जिज्ञासुराश्रमम् ।
तारावलोकं माद्रीं तामेकपत्नीमयाचत ।। ७४
तारावलोकोऽप्येतस्मै दातुं हस्तोदकेन ताम् ।
निर्विकल्पः प्रववृते वनान्तसहचारिणीम् ।। ७५
किं साधयसि राजर्षे दत्त्वा दारानपीदृशान् ।
इत्युक्तो द्विजरूपेण तेन शक्रेण सोऽब्रवीत् ।। ७६
न मे साध्यं किमप्यस्ति वाञ्छा त्वेतावती मम ।
प्राणानपि सदा दद्यां ब्राह्मणेभ्य इति द्विज ।। ७७
तच्छ्रुत्वा निजरूपस्थो भूत्वा शक्रो जगाद तम् ।
तुष्टोऽस्मि कृतजिज्ञासस्तव तेन वदामि ते ।। ७८
न ते देया पुनः पत्नी चक्रवर्ती च भाव्यसि ।
विद्याधराणामचिरादित्युक्त्वान्तर्दधे च सः ।। ७९
अत्रान्तरे स वृद्धोऽपि ब्राह्मणो दक्षिणार्जितौ ।
तारावलोकतनयौ गृहीत्वा मार्गमोहतः ।। ८०
भ्रमंश्चन्द्रावलोकस्य दैवात्तस्य पुरं प्रभोः ।
प्राप्यापणे तौ विक्रेतुं राजपुत्रौ प्रचक्रमे ।। ८१
तत्र तौ प्रत्यभिज्ञाय गत्वैवावेद्य भूपतेः ।
पौराश्चन्द्रावलोकस्य सद्विजौ निन्युरन्तिकम् ।। ८२
स तौ दृष्ट्वा निजौ पौत्रौ साश्रुः पृष्ट्वा च तं द्विजम् ।
अभूत्तदुक्तवृत्तान्तः सुखदुःखमयश्चिरम् ।। ८३
ततः स निजपुत्रस्य सत्त्वोत्कर्षं विभाव्य तम् ।
त्यक्तराज्यस्पृहः पौरैरर्थ्यमानोऽपि तौ द्विजात् ।। ८४
क्रीत्वा तस्माद्धनैः पौत्रौ गृहीत्वा सपरिग्रहः ।
सूनोस्तारावलोकस्य तस्याश्रमपदं ययौ ।। ८५
तत्रापश्यच्च तं बद्धजटं वल्कलधारिणम् ।
आशागतैर्महावृक्षमिव भुक्तश्रियं द्विजैः ।। ८६
दूरादाधाव्य पतितं पुत्रं तं पादयोश्च सः ।
यदारोपयदुत्सङ्गमभिषिच्याश्रुवारिणा ।। ८७
विद्याधराधिराज्यार्थमभिषेकपुरःसरे ।
तस्य सिंहासनारोहे तदेवारम्भतां ययौ ।। ८८
अथैतत्तनयौ राजा तौ ददौ रामलक्ष्मणौ ।
सोऽस्मै तारावलोकाय क्रीतावेताविति ब्रुवन् ।। ८९
कुर्वन्त्यन्योन्यवृत्तान्तकथा यावच्च तत्र ते ।
तावद्गजश्चतुर्दन्तो लक्ष्मीश्चावातरद्दिवः ।। ९०
अवतीर्णेषु चान्येषु विद्याधरपतिष्वपि ।
लक्ष्मीस्तारावलोकं सा पद्महस्ता जगाद तम् ।। ९१
आरुह्य वारणेऽमुष्मिन्नेहि विद्याधरास्पदम् ।
तत्साम्राज्यश्रियं भुङ्क्ष्व जितां दानप्रभावतः ।। ९२
इत्युक्तवत्या लक्ष्म्या स साकं भार्यासुतान्वितः ।
पितुः प्रणम्य चरणौ पश्यत्स्वाश्रमवासिषु ।। ९३
आरुह्य तं गजं दिव्यं वृतो विद्याधरेश्वरैः ।
तारावलोको नभसा ययौ वैद्याधरं पदम् ।। ९४
तत्रोपभुक्तसाम्राज्यश्चिरं विद्याभिराश्रितः ।
कालेनोत्पन्नवैराग्यस्तपोवनमशिश्रियत् ।। ७
एवं तारावलोकेन मानुषेण सता पुरा ।
निर्मलैः सुकृतैः प्रापि सर्वविद्याधरेन्द्रता ।। ९६
अन्ये तु तामवाप्यापि विभ्रष्टाः स्खलितैस्ततः ।
तद्रक्षेरपचारं त्वं स्वतो वा परतोऽपि वा ।। ९७
इति नरवाहनदत्तः कश्यपमुनिना कथां समाख्याय ।
अनुशिष्टः स तथेति प्रतिपेदे चक्रवर्ती तत् ।। ९८
विद्याधराः शृणुत यः कुरुते ममात्र धर्मव्यतिक्रममितः प्रभृति प्रजासु ।
वध्यः स मे नियतमित्यभितो हराद्रिमुद्घोषणां च स ततो भ्रमयांचकार ।। ९७
अथावनतमस्तकैर्विधृतशासनः खेचरै-
रुवास विलसद्यशाः सुरतमञ्जरीमोचनात् ।
स्वमातुलसमीपगोऽसितगिरौ नयन्प्रावृषं
स तत्र सपरिच्छदो मुनिवरस्य तस्याश्रमे ।। १००
इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे सुरतमञ्जरीलम्बके तृतीयस्तरङ्गः ।
समाप्तश्चायं सुरतमञ्जरीलम्बकः षोडशः ।