प्रमुखा विकल्पसूचिः उद्घाट्यताम्

पद्मावती नाम सप्तदशो लम्बकः ।

इदं गुरुगिरीन्द्रजाप्रणयमन्दरान्दोलना-
त्पुरा किल कथामृतं हरमुखाम्बुधेरुद्गतम् ।
प्रसह्य रसयन्ति ये विगतविघ्नलब्धर्द्धयो
धुरं दधति वैबुधीं भुवि भवप्रसादेन ते ।।

देहार्धधृतकान्तोऽपि तपस्वी निर्गुणोपि यः ।
जगत्स्तुत्यो नमस्तस्मै चित्ररूपाय शंभवे ।। १
चलत्कर्णाग्रविक्षिप्तगण्डोड्डीनालिमण्डलम् ।
धुन्वानं विघ्नसंघातमिव विघ्नान्तकं नुमः ।। २
एवं तत्रासितगिरौ कश्यपस्याश्रमे मुनेः ।
गोपालकस्य निकटे मातुलस्य तपस्यतः ।। ३
वर्षाकालातिवाहाय निवसन्सचिवैर्युतः ।
सर्वविद्याधरेन्द्रैकचक्रवर्तिपदे स्थितः ।। ४
नरवाहनदत्तोऽसौ तैस्तैर्विद्याधराधिपैः ।
अन्वासितः स्वभार्याभिः पञ्चविंशतिभिर्वृतः ।। ५५
ब्रुवन्कथाः स मुनिभिः सपत्नीकैरपृच्छयत ।
यदा मानसवेगेन देवी मदनमञ्चुका ।। ६
माययापहृतैषाभूत्तदा विरहनिःसहम् ।
व्यनोदयत्कथं कस्त्वामिति नः कथ्यतां त्वया ।। ७
इति तैर्मुनिभिः पृष्टस्तद्भार्याभिश्च तत्र सः ।
नरवाहनदत्तोऽथ वक्तुमेवं प्रचक्रमे ।। ८
तदा हृतायां मे तस्यां देव्यां पापेन वैरिणा ।
मयानुभूतं दुःखं यत्तत्कियत्कथ्यतेऽधुना ।। ९
न तत्पुरं न चोद्यानं गृहं वा यत्र नाभ्रमम् ।
चिन्वन्नहमिमामार्तः सर्वे च सचिवा मम ।। १०
उपविष्टं च सोन्मादमिवोद्याने तरोस्तले ।
आह स्म लब्धावसरः सान्त्वयन्गोमुखोऽथ माम् ।। ११
मा गा विक्लवतां देवीमचिरात्प्राप्स्यसि प्रभो ।
देवा हि द्युचरैश्वर्यमादिशंस्तेऽनया सह ।। १२
तदवश्यं तथा भावि नहि तद्वचनं मृषा ।
धीराश्च सोढविरहाः प्राप्नुवन्तीष्टसंगमम् ।। १५
रामभद्रो नलो राजा तवैव च पितामहाः ।
विषह्य विरहं किं न प्रेयसीभिः समागताः ।। १४
स मुक्ताफलकेतुश्च चक्रवर्ती द्युचारिणाम् ।
पद्मावत्या न किं प्राप वियुक्तः संगमं पुनः ।। १५
तथा च शृणु देवाहं तत्कथां कथयामि ते ।
इत्युक्त्वा गोमुखो मह्ममिमामकथयत्कथाम् ।। १६
अस्तीह प्रथिता पृथ्व्यां नाम्ना वाराणसी पुरी ।
द्युसरिद्भूषिता मूर्तिः शांभवीवापवर्गदा ।। १७
सुरसद्मध्वजपटैर्मरुता नमितोद्धतैः ।
इहैत मोक्षं यातेति ब्रुवाणेवानिशं जनान् ।। १८
सितप्रासादशिखरा चन्द्रचूडनिवासभूः ।
भाति शैवगणाकीर्णा कैलासाद्रिस्थलीव या ।। १९
तस्यामभूद्ब्रह्मदत्तो नाम राजा पुरा पुरि ।
शिवैकभक्तो ब्रह्मण्यः शूरो दाता क्षमापरः ।। २०
मे दुर्गेष्वपि चस्खाल न ममज्जाम्बुधिष्वपि ।
भुवि भ्रमन्ती यस्याज्ञा न द्वीपान्यपि नातरत् ।। २१
आह्लाददायिनी तस्य चकोरस्येव वल्लभा ।
आसीत्सोमप्रभा देवी नेत्रपेयास्य साप्यभूत् ।। २२
शिवभूत्यभिधानश्च मन्त्री तस्याभवद्द्विजः ।
बृहस्पतिसमो बुद्ध्या सर्वशास्त्रार्थपारगः ।। २३
स कदाचिन्नृपश्चन्द्रप्रासादे शयने स्थितः ।
ददर्श हंसयुगलं गगनेनागतं निशि ।। २४
दीप्तजाम्बूनदमयं राजहंसावलीवृतम् ।
अभ्रगङ्गाजलोत्क्षिप्तमिव हेमाम्बुजद्वयम् ।। २५
गते दृष्टिपथात्तस्मिन्नत्याश्चर्ये स भूपतिः ।
पर्यतप्यत सोत्कण्ठः पुनस्तद्दर्शनं विना ।। २६
अनिद्र एव नीत्वा तां निशां प्रातः स मन्त्रिणम् ।
यथा दृष्टं तथाख्याय शिवभूतिमुवाच तम् ।। २७
तद्यथेष्टं न तौ हेमहंसौ पश्याम्यहं यदि ।
तत्किमेतेन राज्येन जीवितेनापि वा मम ।। २८
इति राज्ञोदिते मन्त्री शिवभूतिर्जगाद तम् ।
अस्त्युपायोऽत्र कश्चित्तं शृणु देव वदामि ते ।। २९
विचित्रकर्मयोगेन संसारेऽस्मिन्प्रजापतेः ।
विचित्रो भूतसर्गोऽयमपरिच्छेद्य एव यः ।। ३०
तत्र दुःखमये मोहादुद्भवत्सुखबुद्धयः ।
निवासाहारपानादिरसाद्रज्यन्ति जन्तवः ।। ३१
तेषां चाहारपानादि निवासं च पृथग्विधम् ।
स्वस्वजात्यनुरूपेण प्रीतिदं विदधे विधिः ।। ३२
तद्देव कारय महद्धंसानामाश्रय सरः ।
कमलोत्पलसंछन्नं निर्बाधं रक्षिरक्षितम् ।। ३३
पक्षिप्रियं च तत्रान्नं प्रक्षेपय सदा तटे ।
यावदायान्ति तत्राशु नानादिग्भ्योऽम्बुपक्षिणः ।। ३४
तन्मध्ये नचिरादत्र तौ हंसावप्युपैष्यतः ।
ततो द्रक्ष्यस्यजस्रं तौ मा कृथा दुर्मनस्कताम् ।। ३५
इत्युक्ते मन्त्रिणा तेन स राजा तदकारयत् ।
यथोक्तं क्षणसंपन्नं ब्रह्मदत्तो महासरः ।। ३६
हंससारसचक्राह्वसंश्रिते तत्र कालतः ।
आगत्य पद्मखण्डे तद्धंसयुग्ममुपाविशत् ।। ३७
तदुपेत्य स विज्ञप्तस्तत्सरोरक्षिभिर्नृपः ।
आगादेतत्सरो हृष्टः सिद्धं मत्वा मनोरमम् ।। ३८
ददर्श हेमहंसौ च तत्र तौ दूरतोऽर्चयन् ।
आश्वासयच्च निक्षिप्य सक्षीराञ्शालितण्डुलान् ।। ३९
विशुद्धकलधौताङ्गौ मुक्तामणिमयेक्षणौ ।
प्रवालचञ्चुचरणौ तार्क्ष्यरत्नाग्रपक्षती ।। ४०
विस्रम्भोपगतौ तौ स हंसौ राजा विभावयन् ।
मुदा सदावसत्प्रीत्या तत्रैव सरसस्तटे ।। ४१
एकदा चैकदेशेऽत्र सरोरोधसि पर्यटन् ।
अम्लायिपुष्परचितां पूजां राजा ददर्श सः ।। ४२
केन पूजा कृतैषेति पप्रच्छात्र स रक्षिणः ।
ततस्ते तं सरःपाला नृपमेव व्यजिज्ञपन् ।। ४३
त्रिसंध्यं सरसि स्नात्वा हंसावेतौ हिरण्मयौ ।
इह नित्यमिमां पूजां कृत्वा ध्यानेन तिष्ठतः ।। ४४
तन्न विद्मो महागज किमेतन्महदद्भुतम् ।
एतच्छ्रुत्वा स रक्षिभ्यश्चिन्तयामास भूपतिः ।। ४५
क्व हंसौ क्वेदृशी चर्या ध्रुवमस्त्यत्र कारणम् ।
तत्करिष्ये तपस्तावद्यावद्वेत्स्यामि काविमौ ।। ४६
इति संचिन्त्य नृपतिस्त्यक्ताहारः स भार्यया ।
मन्त्रिणा च समं चक्रे हरध्यानपरस्तपः ।। ४७
अथ तौ दिव्यहंसौ तं द्वादशाहमुपोषितम् ।
उपेत्य व्यक्तया वाचा स्वप्ने राजानमूचतुः ।। ४८
राजन्नुत्तिष्ठ वक्ष्यावः सभार्यासचिवस्य ते ।
प्रातः सर्वं यथातत्त्वं विजने पारणे कृते ।। ४९
इत्युक्त्वा तौ तिरोभूतौ हंसौ राजा प्रबुद्ध्य च ।
भार्यामन्त्रियुतः प्रातश्चकारोत्थाय पारणम् ।। ५०
भुक्तोत्तरं च तत्राम्बुलीलागेहान्तरे स्थितम् ।
नृपं सभार्यामात्यं तं हंसौ तावभ्युपेयतुः ।। ५१
कौ युवां ब्रूतमित्युक्तौ तेनाभ्यर्च्यैव भूभुजा ।
क्रमात्तस्मै स्ववृत्तान्तमेवमाचख्यतुश्च तौ ।। ५२
अस्ति मन्दर इत्यद्रिराजो जगति विश्रुतः ।
विहरत्सुरसंघातविराजद्रत्नकाननः ।। ५३
यस्यामृतेन सिक्तेषु मथितक्षीरवारिधेः ।
जरामृत्युहरं पुष्पफलमूलाम्बुसानुषु ।। ५४
कैलासाधिककान्तस्य यस्य शृङ्गाग्रभूमयः ।
नानासद्रत्नरचिता लीलोद्यानानि धूर्जटेः ।। ५५
तत्र जातु कृतक्रीडो देवोऽवस्थाप्य पार्वतीम् ।
देवकार्यानुरोधेन केनाप्यन्तर्दधे हरः ।। ५६
ततस्तद्विरहाक्रान्ता तत्क्रीडाकेतनेषु सा ।
बभ्रामाश्वास्यमानात्र पार्वती देवतान्तरैः ।। ५७
एकदा च मधुप्राप्तिसोद्वेगा सा गणैर्वृता ।
देवी तरुतले यावत्प्रियचिन्ताकुला स्थिता ।। ५८
तावज्जयासुतां तत्र देव्याश्चामरधारिणीम् ।
कुमारीं चन्द्रलेखाख्यां साभिलाषावलोकिनीम् ।। ५९
समानरूपतारुण्यो निकटस्थो गुणोत्तमः ।
मणिपुष्पेश्वरो नाम साभिलाषो व्यलोकयत् ।। ६०
तद्दृष्ट्वान्यौ गणौ नाम्ना पिङ्गेश्वरगुहेश्वरौ ।
बभूवतुः स्मितमुखावन्योन्याननदर्शिनौ ।। ६१
तौ चालोक्य तथाभूतौ कस्यैतौ हसतोऽपदे ।
इत्यन्तः कुपिता देवी ददौ दृष्टिमितस्ततः ।। ६२
तावत्तावत्र चान्योन्यमुखे स्मेरार्पितेक्षणौ ।
ददर्श चन्द्रलेखा तां मणिपुष्पेश्वरं च तम् ।। ६३
ततो विरहसोद्वेगा क्रुद्धा देवी जगाद सा ।
देवस्यासंनिधौ सुष्ठु स्मरप्रेक्षणकं कृतम् ।। ६४
एताभ्यां हासशीलाभ्यां हसितं प्रेक्ष्य सुष्ठु च ।
तन्मर्त्ययोनौ कामान्धौ स्त्रीपुंसौ पततामिमौ ।। ६५
तत्रैव दंपती चैतावविनीतौ भविष्यतः ।
हासशीलाविमौ क्लेशान्प्राप्स्यतस्तु बहून्भुवि ।। ६६
ब्राह्मणौ दुःखिनौ पूर्वं तदनु ब्रह्मराक्षसौ ।
ततः पिशाचकौ पश्चाच्चण्डालौ तस्करौ ततः ।। ६७
छिन्नपुच्छौ ततः श्वानौ विविधौ च ततः खगौ ।
भविष्यतो गणावेतौ परिहासापराधिनौ ।। ६८
आभ्यां हि स्वस्थचित्ताभ्यामेष दुर्विनयः कृतः ।
इत्यादिष्टवतीं देवीं धूर्जटाख्योऽवदद्गणः ।। ६९
अत्ययुक्तमिदं देवि न खल्वेते गुणोत्तमाः ।
इयन्तं शापमर्हन्ति स्वल्पादेवापराधतः ।। ७०
तछ्रुत्वैवाब्रवीत्कोपाद्देवी तमपि धूर्जटम् ।
मर्त्ययोनावनात्मज्ञ भवानपि पतत्विति ।। ७१
दत्तशापप्रतापां तां प्रतीहारी जयाम्बिकाम् ।
जननी चन्द्रलेखायाः पादलग्ना व्यजिज्ञपत् ।। ७२
प्रसीद देवि शापान्तं कुर्वस्या दुहितुर्मम ।
एतेषां च स्वभृत्यानामज्ञानविहितागसाम् ।। ७३
विज्ञप्तेति प्रतीहार्या जयया गिरिजाब्रवीत् ।
यदा सर्वे मिलिष्यन्ति ज्ञानप्राप्तिवशात्क्रमात् ।। ७४
ब्रह्मादीनां तपःक्षेत्रे दृष्ट्वा सिद्धीश्वरं तदा ।
एष्यन्ति पदमस्माकं मुक्तशापा इमे पुनः ।। ७५
मानुष्ये चन्द्रलेखेयमेतत्कान्तः स धूर्जटः ।
सुखिनोऽमी भविष्यन्ति त्रयो द्वौ दुःखिनाविमौ ।। ७६
इत्युक्त्वा विरता यावत्सा देवी तावदाययौ ।
तत्रासुरः किल ज्ञातहरासंनिधिरन्धकः ।। ७७
स देवीं प्रेप्सुरुत्सिक्तस्तत्परिच्छदभर्त्सितः ।
गतो विज्ञाय देवेन ज्ञात्वा तत्कारणं हृतः ।। ७८
कृतकार्योऽन्तिकायातस्तुष्टामुक्तान्धकागमाम् ।
सोऽथ देवो जगादैवं गिरिजां गिरिजापतिः ।। ७९
मानसः पूर्वपुत्रस्ते सोऽन्धकोऽद्य हतो मया ।
त्वगस्थिशेषो भृङ्गी च भविष्यत्यधुनेह सः ।। ८०
इत्युक्त्वा स समं देव्या तत्रासीद्विहरन्हरः ।
मणिपुष्पेश्वराद्याश्च पञ्च तेऽवातरन्भुवि ।। ८१
तत्र तावद्द्वयो राजंस्तस्य पिङ्गेश्वरस्य च ।
गुहेश्वरस्य चोदन्तं चित्रायितमिमं शणु ।। ८२
अस्ति यज्ञस्थलाख्योऽस्मिन्नग्रहारो महीतले ।
तत्राभूद्यज्ञसोमाख्यो ब्राह्मणो धनवान्गुणी ।। ८३
तस्य द्वावुदपद्येतां पुत्रौ वयसि मध्यमे ।
हरिसोमस्तयोर्ज्येष्ठः कनिष्ठो देवसोमकः ।। ८४
तयोस्तस्य समुत्तीर्णबाल्ययोरुपनीतयोः ।
विप्रस्यादौ धनं क्षीणं सभार्यस्यायुषा ततः ।। ८५
ततस्तौ तत्सुतौ दीनौ पितृहीनाववृत्तिकौ ।
हृताग्रहारौ दायादैर्मन्त्रयामासतुर्मिथः ।। ८६
भिक्षैकवृत्ती जातौ स्वो न च भिक्षामवाप्नुवः ।
तद्दूरमपि गच्छावो वरं मातामहं गृहम् ।। ८७
भ्रष्टौ यद्यपि नौ कोऽत्र श्रद्दध्यात्स्वयमागतौ ।
तथापि यावः किं कुर्वो नह्यन्यास्त्यावयोर्गतिः ।। ८८
इति संमन्त्र्य ययतुर्भिक्षमाणौ क्रमेण तौ ।
तमग्रहारं तद्यत्र मातामहगृहं तयोः ।। ८९
तत्र तं सोमदेवाख्यं मृतं मातामहं जनात् ।
पृच्छन्तौ तावबुध्येतां मन्दभाग्यौ सभार्यकम् ।। ९०
ततश्च तौ यज्ञदेवक्रतुदेवाभिधानयोः ।
रजोरूक्षौ विविशतुर्विग्नौ मातुलयोर्गृहम् ।। ९१
तत्रादृत्य समाश्वास्य ताभ्यां क्लृप्ताशनाम्बरौ ।
सद्विप्राभ्यामधीयानौ यावत्तौ तत्र तिष्ठतः ।। ९२
तावत्तावप्युपक्षीणधनीभूतावभृत्यकौ ।
मातुलौ भागिनेयौ तौ प्रीतिपूर्वमवोचताम् ।। ९३
पुत्रौ दरिद्रीभूतानामस्माकं पशुपालकम् ।
कर्तुं नास्त्यद्य सामर्थ्यं तद्युवां रक्षकं पशून् ।। ९४
इत्युक्तौ मातुलाभ्यां तौ बाष्पकण्ठौ तथेति तत् ।
हरिसोमदेवसोमौ तद्वचोऽभ्युपजग्मतुः ।। ९५
ततोऽटव्यां पशून्नीत्वा सततं तौ ररक्षतुः ।
परिश्रान्तौ च सायं तावादायाजग्मतुर्गृहम् ।। ९६
तथा तयोः पाशुपाल्यं कुर्वतोर्दैवशप्तयोः ।
अहार्यत पशुः कश्चित्कश्चिद्व्याघ्रैरभक्ष्यत ।। ९७
ततस्तौ मातुलौ यावदुद्विग्नौ तावदेकदा ।
धेनुश्छागश्च यज्ञार्थौ द्वौ तयोः क्वापि नेशतुः ।। ९८
तद्भयात्तान्गृहं नीत्वैवान्यानसमये पशून् ।
पलायितौ तौ चिन्वन्तौ दूरं विविशितुर्वनम् ।। ९९
तत्र व्याघ्रार्धजग्धं तं छागं ददृशतुर्निजम् ।
शोचित्वोपहतात्मानावेवं जगदतुश्च तौ ।। १००
छागोऽयं मातुलाभ्यां नौ यज्ञार्थं पर्यकल्प्यत ।
तस्मिन्नष्टे च दुर्वारस्तयोः कोपो भविष्यति ।। १०१
तदस्य मांसं संस्कृत्य वह्नौ भुक्त्वा हतक्षुधौ ।
शेषमादाय गच्छावः क्वाप्यावां भैक्ष्यजीविनौ ।। १०२
इति संचिन्त्य यावत्तं छागं संस्कुरुतोऽनले ।
तावदाजग्मतुः पश्चाद्धावन्तौ मातुलौ तयोः ।। १०३
ताभ्यां छागं पचन्तौ तौ दृष्टावुत्थाय संभ्रमात् ।
दूरात्तद्दर्शनत्रस्तौ पलाय्य ययतुस्ततः ।। १०४
युवाभ्यां मांसगृध्नुभ्यां राक्षसं कर्म यत्कृतम् ।
भविष्यथस्ततो ब्रह्मराक्षसौ पिशिताशनौ ।। १०५
इति तौ मातुलौ क्रुद्धौ तयोः शापं वितेरतुः ।
अभूतां द्विजपुत्रौ च सद्यस्तौ ब्रह्मराक्षसौ ।। १०६
दंष्ट्राविशङ्कटमुखौ दीप्तकेशौ बुभुक्षितौ ।
प्राणिनः प्राप्य खादन्तावटव्यां भ्रेमतुश्च तौ ।। १०७
एकदा तापसं हन्तुं योगिनं तावधावताम् ।
तत्प्रापतुः पिशाचत्वं शप्तौ तेन प्रतिघ्नता ।। १०८
पिशाचत्वेऽपि तौ हन्तुं हरन्तौ ब्राह्मणस्य गाम् ।
तन्मन्त्रभग्नौ तच्छापाच्चण्डालत्वमवापतुः ।। १०९
चण्डालत्वे धनुष्पाणी भ्रमन्तौ क्षुन्निपीडितौ ।
कदाचिच्चौरपल्लीं तां प्रापतुर्भोजनार्थिनौ ।। ११०
तत्र दृष्ट्वैव तद्द्वाररक्षकाश्चौरशङ्कया ।
चौरावष्टभ्य (?) तौ चक्रुश्छिन्नश्रवणनासिकौ ।। १११
तथाविधौ च तौ बद्धौ निन्युस्ते तस्करास्ततः ।
पार्श्वं प्रधानचौराणां लगुडाहतिताडितौ ।। ११२
तत्र पृष्टौ प्रधानैस्तौ चौरैस्तैर्भयविक्लवौ ।
क्षुदुःखावाप्तसंक्लेशं स्ववृत्तान्तमशंसताम् ।। ११३
ततस्ते कृपया मुख्यचौरा बन्धाद्विमुच्य तौ ।
ऊचुस्तिष्ठतमश्नीतमिह मा भूद्भयं च वाम् ।। ११४
अष्टम्यामद्य सेनानीपूजनावसरे युवाम् ।
अस्माकमतिथी प्राप्तौ संविभागमिहार्हथः ।। ११५
इत्युक्त्वार्चितदेवीकाश्चौरास्ते स्वाग्रभोजितौ ।
तत्यजुर्नैव तो दैवादुत्पन्नप्रीतयोऽन्तिकात् ।। ११६
ततः क्रमेण कुर्वाणौ चौर्यं तैर्दस्युभिः सह ।
महासेनापती तेषां संवृत्तौ तौ स्वशौर्यतः ।। ११७
एकदा चौरचारोक्तं शैवक्षेत्रं महत्पुरम् ।
सेनापती तौ मुषितुं ससैन्यौ जग्मतुर्निशि ।। ११८
अनिमित्तेऽपि दृष्टे तावनिवृत्ताववाप्य तत् ।
लुण्ठयामासतुः कृत्स्नं सदेवभुवनं पुरम् ।। ११९
ततस्तद्वासिभिर्देवः क्रन्दितः शरणार्थिभिः ।
चौरांस्तान्विकलानन्धांश्चकार कुपितो हरः ।। १२०
तदकस्माद्विलोक्यैव मत्वा शार्वमनुग्रहम् ।
पौराः संभूय दस्यूंस्तान्निजघ्नुर्लगुडाश्मभिः ।। १२१
अदृश्यमानाश्च गणाश्चौराञ्श्वभ्रेष्ववाक्षिपन् ।
काश्चित्कांश्चिदमृद्नंश्च निहत्य भुवि तस्करान् ।। १२२
तौ च सेनापती यावज्जनो दृष्ट्वा जिघांसति ।
तावत्तौ समपद्येतां श्वानौ पुच्छविनाकृतौ ।। १२३
तथाभूतौ च तौ स्मृत्वा पूर्वजातिमशङ्कितम् ।
नृत्यन्तौ शंकरस्याग्रे तमेव शरणं श्रितौ ।। १२४
तद्दृष्ट्वा विस्मिताः सर्वे सविप्रवणिजो जनाः ।
गतचौरभया हृष्टा हसन्तः स्वगृहान्ययुः ।। १२५
शान्तमोहौ प्रबुद्धौ च श्वानौ तौ शापशान्तये ।
त्यक्ताहारावथोद्दिश्य शिवं शिश्रियतुस्तपः ।। १२६
प्रातः कृतोत्सवास्तत्र पौरास्ते पूजितेश्वराः ।
ध्यानस्थौ ददृशुः श्वानौ दत्तेऽप्यन्ने पराङ्मुखौ ।। १२७
तथैव दृश्यमानौ तैर्यावत्तौ दिवसान्बहून् ।
श्वानौ स्थितौ गणास्तावदेवं शंभुं व्यजिज्ञपन् ।। १२८
देव शप्ताविमौ देव्या पिङ्गेश्वरगुहेश्वरौ ।
बहुकालं गणौ क्लिष्टौ तत्कृपामेतयोः कुरु ।। १२९
तच्छ्रुत्वोवाच भगवानिदानीं सारमेयताम् ।
परित्यज्य गणावेतौ वायसौ भवतामिति ।। १३०
ततस्तौ वायसीभूतौ बल्यन्नकृतपारणौ ।
गणौ जातिस्मरौ सुष्ठु शिवैकाग्रौ बभूवतुः ।। १३१
कालेन भक्तितुष्टस्य निदेशाच्छंकरस्य तौ ।
भासावभूतां प्रथमं ततोऽपि च शिखण्डिनौ ।। १३२
ततोऽपि हंसतां प्राप्तौ तौ कालेन गणेश्वरौ ।
तत्रापि परया भक्त्या तावाराधयतां हरम् ।। १३३
तीर्थस्नानैर्व्रतैर्ध्यानैः पूजनैस्तोषितेश्वरौ ।
हेमरत्नमयौ तौ च संजातौ ज्ञानिनौ तथा ।। १३४
तावावां पार्वतीशापप्राप्तक्लेशपरम्परौ ।
विद्ध्येतौ हंसतां प्राप्तौ पिङ्गेश्वरगुहेश्वरौ ।। १३५
जयात्मजाभिलाषी यो मणिपुष्पेश्वरो गणः ।
देव्या शप्तः स जातस्त्वं ब्रह्मदत्तो नृपो भुवि ।। १३६
जयासुता सा जातेयं भार्या सोमप्रभा तव ।
धूर्जटः स च जातोऽयं मन्त्री ते शिवभूतिकः ।। १३७
अत एव च संप्राप्तज्ञानाभ्यामम्बिकाकृतम् ।
स्मृत्वा शापान्तमावाभ्यां दत्तं ते निशि दर्शनम् ।। १३८
तदुपायक्रमात्सर्वे मिलिताः स्म इमेऽधुना ।
आवां चैव प्रदास्यावो युष्मभ्यं ज्ञानमुत्तमम् ।। १३९
आयात तन्त्रिदशशैलगतं व्रजामः क्षेत्रं यथार्थमचलेन्द्रसुतापतेस्तत् ।
सिद्धीश्वरं विदधिरे किल यत्र देवा विद्युद्ध्वजासुरविनाशकृते तपांसि ।। १४०
जघ्नुस्ते च तमसुरं समरे शर्वप्रसादलब्धेन ।
विद्याधरेन्द्रपतिना मुक्ताफलकेतुना सहायेन ।। १४१
स च मुक्ताफलकेतुः शापकृतं मर्त्यभावमुत्तीर्य ।
तदनुग्रहादवापत्पद्मावत्या समागमं भूयः ।। १४२
तादृशि तत्र क्षेत्रे गत्वा नत्वा हरं प्रयास्यामः ।
स्वां गतिमीदृग्विहितो देव्यास्माकं समो हि शापान्तः ।। १४३
इत्युक्तो दिव्याभ्यां हंसाभ्यां ब्रह्मदत्तभूमिपतिः ।
सद्योऽभून्मुक्ताफलकेतुकथाश्रवणकौतुकाक्षिप्तः ।। १४४
इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे पद्मावतीलम्बके प्रथमस्तरङ्गः ।