ततस्त्रिविष्टपं प्राप्य स शक्रः पर्यवेष्टयत् ।
हरानुग्रहसोत्साहैर्लब्धकालबलैर्बलैः ।। १
तद्दृष्ट्वा निर्ययौ विद्युद्ध्वजः संनद्धसैनिकः ।
प्रावर्तन्तानिमित्तानि तस्य निर्गच्छतस्तदा ।। २
ध्वजेषु विद्युतः पेतुभ्रेमुर्गृध्रास्तथोपरि ।
अभज्यन्त महाच्छत्त्राण्यशिवं चारुवञ्शिवाः ।। ३
तान्यरिष्टान्यगणयन्निरगादेव सोऽसुरः ।
देवासुराणां च ततः प्रावर्तत महाहवः ।। ४
स मुक्ताफलकेतुः किं नाद्याप्येतीति वज्रिणा ।
पृष्टोऽथ चन्द्रकेतुस्तं खेचरेन्द्रो व्यजिज्ञपत् ।। ५
विस्मृत्य त्वरया तस्य नोक्तमागच्छता मया ।
स तु बुद्ध्वा ध्रुवं पश्चादागच्छत्येव सत्वरम् ।। ६
एतच्छ्रुत्वा स देवेन्द्रश्चतुरं वायुसारथिम् ।
श्रीमुक्ताफलकेतुं तमानेतुं प्राहिणोद्रथम् ।। ७
पिता च तत्समं तस्य चन्द्रकेतुः ससैनिकम् ।
आह्वानाय प्रतीहारं विससर्ज रथानुगम् ।। ८
स मुक्ताफलकेतुश्च बुद्ध्वा दैत्याहवे गतम् ।
पितरं सानुगो गन्तुं तत्रैवाभ्युद्यतोऽभवत् ।। ९
ततो जयगजारूढो जननीकृतमङ्गलः ।
वायुलोकादुदचलत्स बिभ्रत्खड्गमैश्वरम् ।। १०
प्रस्थितस्यापतत्तस्य पुष्पवृष्टिर्नभस्तलात् ।
देवाश्च दुन्दुभीञ्जघ्नुर्वायवश्च ववुः शिवाः ।। ११
मिलित्वा परिवव्रुश्च ते तं देवगणास्ततः ।
आसन्पलाय्य प्रच्छन्ना ये विद्युद्ध्वजभीतितः ।। १२
तेन सैन्येन महता सह गच्छन्ददर्श सः ।
मार्गे मेघवनं नाम पार्वत्यायतनं महत् ।। १३
तदनुल्लङ्घयन्भक्त्या गजादत्रावतीर्य सः ।
आहृत्य दिव्यपुष्पाणि देवीं प्रावर्ततार्चितुम् ।। १४
अत्रान्तरे च गन्धर्वपतेः सा प्राप्तयौवना ।
पद्मावती सुता पद्मशेखरस्य सखीवृता ।। १५
भर्तुः सङ्ग्रामयातस्य श्रेयोर्थं तपसि स्थिताम् ।
मातरं स्वामनुज्ञाप्य विमानेनेन्दुलोकतः ।। १६
शिवार्थिनी पितुः संख्ये वरस्याभीप्सितस्य च ।
तदेव तपसे दिव्यं गौर्यायतनमाययौ ।। १७
वरो नाद्यापि ते कश्चिन्निश्चितो यो युधि स्थितः ।
पितुः श्रेयोनिमित्तं च माता ते संश्रिता तपः ।। १८
त्वं तु कन्या तपः कस्य कृते सखि चिकीर्षसि ।
इत्युक्ता पथि सख्या सा पद्मावत्यब्रवीदिदम् ।। १९
पितैव सखि कन्यानां दैवतं सर्वसिद्धिकृत् ।
वरोऽप्यनन्यसामान्यगुणो निश्चित एव मे ।। २०
विद्युद्ध्वजं निहन्तुं यो जातो विद्याधरेन्द्रतः ।
स मुक्ताफलकेतुर्मे व्यादिष्टः शंभुना पतिः ।। २१
एतन्मयाम्बापृष्टस्य तातस्यैव मुखाच्छ्रुतम् ।
स च यास्यति यातो वा सङ्ग्रामे मे वरो ध्रुवम् ।। २२
अतो भगवतीं गौरीं तपसाराधयाम्यहम् ।
विजयाकाङ्क्षिणी तस्य पत्युस्तातस्य चोभयोः ।। २३
एवं वदन्तीं तां राजपुत्रीमाह स्म सा सखी ।
भाविन्यर्थेऽपि तर्ह्येष व्यवसायस्तवोचितः ।। २४
तत्तेऽभिलषितं सिध्यत्विति सख्या तयोदिता ।
सा गौर्यायतनाभ्यर्णं भव्य प्राप महत्सरः ।। २५
उत्फुल्लैः स्वर्णकमलैः प्रतिच्छन्नं प्रभास्वरैः ।
तन्मुखाम्भोरुहोत्सर्पत्कान्तिविच्छुरितैरिव ।। २६
तत्रावतीर्य कमलान्यम्बिकाभ्यर्चनाय सा ।
उच्चित्य गन्धर्वसुता स्नानं यावद्विधित्सति ।। २७
तावद्देवासुररणं रक्षःस्वामिषगर्धिषु ।
अभिधावत्सु तेन द्वे राक्षस्यावागते पथा ।। २८
दंष्ट्राघोरमुखोद्वान्तज्वालापिङ्गोर्ध्वमूर्धजे ।
धूमश्याममहाकाये लम्बोदरपयोधरे ।। २९
ताभ्यां दृष्ट्वैव गन्धर्वराजपुत्री निपत्य सा ।
नक्तंचरीभ्यां जगृहे निन्ये च गगनोन्मुखम् ।। ३०
तद्विमानाधिदेवश्च राक्षस्यौ यावदेव ते ।
रुणद्धि यावदार्तश्च क्रन्दत्यस्याः परिच्छदः ।। ३१
तावद्देवीगृहान्मुक्ताफलकेतुः कृतार्चनः ।
स निर्गतः श्रुताक्रन्दस्तमेवोद्देशमागमत् ।। ३२
स दृष्ट्वा राक्षसीयुग्मगृहीतां तां लसद्द्युतिम् ।
कालमेघावलीमध्यगतां सौदामनीमिव ।। ३३
पद्मावतीं प्रधाव्यैव महावीरो व्यमोचयत् ।
क्षिप्त्वा विचेतने भूमौ राक्षस्यौ ते तलाहते ।। ३४
ददर्श तां च लावण्यरसनिर्झरवाहिनीम् ।
त्रिवलीलहरीहारिमध्यभागोपशोभिनीम् ।। ३५
स्वर्वधूसर्गसंप्राप्तकौशलोत्कर्षशालिना ।
धात्रा समग्रसौन्दर्यसारसंपादितामिव ।। ३६
दृष्ट्वा च तां स कंदर्पमोहमन्थरितेन्द्रियः ।
धीरोऽप्यत्र क्षणं तस्थौ चित्रस्य इव निश्चलः ।। ३७
राक्षसीसंभ्रमे शान्ते समाश्वस्य क्षणादिव ।
पद्मावत्यपि तं मुक्ताफलकेतुं ददर्श सा ।। ३८
जगन्नेत्रोत्सवाकारं स्त्रीजनोन्माददायिनम् ।
एकीकृत्येन्दुकंदर्पौ विधिनेव विनिर्मितम् ।। ३९
ततो लज्जानतमुखी सखीं स्वैरमभाषत ।
भद्रमस्यास्तु यामीतः परपूरुषपार्श्वतः ।। ४०
एवं वदन्त्यां तस्यां च सा मुक्ताफलकेतुना ।
बाला किमियमाहेति तेनापृच्छ्यत तत्सखी ।। ४१
साप्युवाच सुकन्येयं दत्ताशीः प्राणदस्य ते ।
एह्यन्यपुरुषोपान्ताद्व्रजाव इति वक्ति माम् ।। ४२
तच्छ्रुत्वा संभ्रमान्मुक्ताफलकेतुरुवाच ताम् ।
केयं कस्य सुता दत्ता कस्मै वा शुभकर्मणे ।। ४३
इति पृष्टा च सा तेन तद्वयस्या तमब्रवीत् ।
इयं पद्मावती नाम कन्या सुभग नः सखी ।। ४४
गन्धर्वाधिपतेः पद्मशेखरस्यात्मसंभवा ।
आदिष्टोऽस्याः पतिर्मुक्ताफलकेतुश्च शंभुना ।। ४५
पुत्रो विद्याधरेन्द्रस्य चन्द्रकेतोर्जगत्प्रियः ।
सहायो देवराजस्य विद्युद्ध्वजविनाशकृत् ।। ४६
आकाङ्क्षन्ती जयं तस्य भर्तुः संख्ये पितुस्तथा ।
गौर्यायतनमद्यैतत्तपोर्थमियमागता ।। ४७
श्रुत्वैतद्राजपुत्रीं तां चन्द्रकेतुसुतानुगाः ।
दिष्ट्या देवि स एवायं तव भर्तेत्यनन्दयन् ।। ४८
ततोऽन्योन्यपरिज्ञानहर्षपूर्णे निजात्मनि ।
युक्तं तद्यन्न मातः स्म तौ कुमारीवरावुभौ ।।४९
यावन्नान्योन्यसप्रेमतिर्यगर्धावलोकितैः ।
तिष्ठतस्तत्र तौ तावच्छुश्रुवे तूर्यनिःस्वनः ।। ५०
ततश्च ददृशे सैन्यं वायुयुक्तो रथस्ततः ।
चन्द्रकेतुप्रतीहारस्तथा च त्वरितागतौ ।। ५१
तौ च वायुप्रतीहारौ विनयोज्झितवाहनौ ।
उपगम्यैव तं मुक्ताफलकेतुमवोचताम् ।। ५२
त्वामाह्वयति देवेन्द्रः पिता चाहवभूमितः ।
तदिमं रथमारुह्य शीघ्रमागम्यतामिति ।। ५३
ततः पद्मावतीप्रेमबद्धोऽपि गुरुकार्यतः ।
स तं ताभ्यां सहाध्यास्त खेचरेन्द्रसुतो रथम् ।। ५४
बद्ध्वा च शक्रप्रहितं दिव्यं कवचमाशु सः ।
प्रतस्थे वलितग्रीवं पश्यन्पद्मावतीं मुहुः ।। ५५
पद्मावती च निर्वर्ण्य सा तमादृष्टिगोचरम् ।
एकपाणितलाघातहतनक्तंचरीद्वयम् ।। ५६
तमेव चिन्तयन्ती च स्नात्वाभ्यर्च्याम्बिकाहरौ ।
तदाप्रभृति तत्रैव तेपे तच्छ्रेयसे तपः ।। ५७
सोऽपि तद्दर्शनं मुक्ताफलकेतुर्विचिन्तयन् ।
मङ्गल्यं विजयाशंसि प्राप देवासुराहवम् ।। ५८
दृष्ट्वा च तं सुसंनद्धं ससैन्यं वीरमागतम् ।
तमेव प्रति सर्वेऽपि तेऽभ्यधावन्महासुराः ।। ५९
तेषां स शरवर्षेण शिरोभिः शकलीकृतैः ।
शूरो रणोत्सवारम्भे चक्रे दिग्देवताबलिम् ।। ६०
हन्यमानं बलं तेन तन्मुक्ताफलकेतुना ।
दृष्ट्वा विद्युद्ध्वजः क्रोधादधावत्तं प्रति स्वयम् ।। ६१
स चापतन्नेव शरैर्दैत्यो यत्तेन ताडितः ।
तत्तमेवाभ्यधावत्तत्सर्वतः सैन्यमासुरम् ।। ६२
तद्दृष्ट्वा सिद्धगन्धर्वविद्याधरसुरान्वितः ।
अभिदुद्राव तद्दैत्यसैन्यं सपदि वासवः ।। ६३
ततः पतदिषुप्रासशक्तितोमरपट्टिशम् ।
उदभूत्तुमुलं युद्धं निहतासंख्यसैनिकम् ।। ६४
गजाश्वकायमकरा दन्तिमौक्तिकवालुकाः ।
प्रवीरमुण्डपाषाणाः प्रावहन्रुधिरापगाः ।। ६५
शोणितासवमत्तानां भूतानामामिषार्थिनाम् ।
सोऽभूद्रणोत्सवः प्रीत्यै कबन्धैः सह नृत्यताम् ।। ६६
तस्मिञ्जयश्रीर्दैत्यानां देवानां चाहवार्णवे ।
महोर्मिचपला प्रायादितः क्षणमितः क्षणम् ।। ६७
चतुर्विंशतिमेवं तु युद्धमासीद्दिनानि तत् ।
प्रेक्ष्यमाणं विमानस्थैः शर्वशौरिपितामहैः ।। ६८
पञ्चविंशे दिने क्षीणप्राययोः सैन्ययोर्द्वयोः ।
प्रधानद्वन्द्वयुद्धेषु प्रवृत्तेष्वत्र संगरे ।। ६९
श्रीमुक्ताफलकेतोश्च तस्य विद्युद्ध्वजस्य च ।
द्वन्द्वयुद्धं प्रववृते रथस्थद्विरदस्थयोः ।। ७०
तमोस्त्रं भास्करास्त्रेण ग्रैष्मास्त्रेण च शैशिरम् ।
कुलिशास्त्रेण शैलास्त्रं नागास्त्रं गारुडेन च ।। ७१
निवार्य तस्य यन्तारं वारणं चासुरस्य सः ।
एकैकेनेषुणा मुक्ताफलकेतुरपातयत् ।। ७२
आरूढस्य रथं तस्य सारथिं तुरगांश्च यत् ।
सोऽवधीत्तदसौ विद्युद्ध्वजो मायामशिश्रियत् ।। ७३
अदृश्यः सर्वसैन्येन द्यामारुह्य ववर्ष सः ।
शिलाश्चास्त्राणि विविधान्यभितः सुरवाहिनीम् ।। ७४
अभेद्यं शरजालं च यन्मुक्ताफलकेतुना ।
अरुध्यत स तदैत्यो ददाहानलवृष्टिभिः ।। ५५
अथाभिमन्त्र्य ब्रह्मास्त्रं सानुगं तमरिं प्रति ।
विश्वक्षयक्षमं मुक्ताफलकेतुर्मुमोच सः ।। ७६
तेनास्त्रेण ससैन्योऽपि निहतो गतजीवितः ।
निपपात नभोमध्याद्विद्युद्ध्वजमहासुरः ।। ७७
शेषाः पलाय्य जग्मुश्च विद्युद्ध्वजसुतादयः ।
वज्रदंष्ट्रादिसहिता रसातलतलं भयात् ।। ७८
देवाश्च नादानुपदं जगदुः साधु साध्विति ।
श्रीमुक्ताफलकेतुं च पुष्पवर्षैरपूजयन् ।। १
ततः शत्रौ हते शक्रः प्राप्तराज्यस्त्रिविष्टपम् ।
प्राविशत्त्रिषु लोकेषु बभूव च महोत्सवः ।। ८०
आगाच्छचीं पुरस्कृत्य स्वयं चात्र प्रजापतिः ।
चूडारत्नोत्तमं मुक्ताफलकेतोर्बबन्ध च ।। ८१
इन्द्रोऽपि राजपुत्रस्य तस्य राज्यप्रदायिनः ।
हारं स्वकण्ठतः कण्ठे न्यधाद्विजयशोभिनः ।। ८२
समुपावेशयत्तं च निजासनसमासने ।
आनन्दपूर्णगीर्वाणवितीर्णविविधाशिषम् ।। ८३
विद्युद्ध्वजासुरपुरं प्रतीहारं विसृज्य च ।
तस्मै दास्यन्नवसरे स्वीचक्रे स्वपुराधिकम् ।। ८४
ततोऽस्मै राजपुत्राय गन्धर्वः पद्मशेखरः ।
दित्सुः पद्मावतीं धातुः साकूतं मुखमैक्षत ।। ८५
स च ज्ञाताशयो धाता गन्धर्वेन्द्रमुवाच तम् ।
कार्यशेषोऽस्ति कश्चित्तद्विषहस्व मनागिति ।। ८६
ततो हाहाहुहूगीतैः स्वनिनादानुनादितैः ।
रम्भादिनृत्यैस्तत्राभूदिन्द्रस्य विजयोत्सवः ।। ८७
दृष्टोत्सवप्रमोदे च याते धातरि वृत्रहा ।
संमान्य लोकपालादीन्स्वं स्वं स्थानं विसृष्टवान् ।। ८८
विससर्ज च गन्धर्वराजं तं पद्मशेखरम् ।
निजं गन्धर्वनगरं संमान्य सपरिच्छदम् ।। ८९
श्रीमुक्ताफलकेतुं च चन्द्रकेतुं च सत्कृतौ ।
प्राहिणोदुत्सवाय स्वं विद्याधरपुरं हरिः ।। ९०
स च संहृतविश्वकण्टकस्तां बहुविद्याधरराजकानुयातः ।
जनकानुगतः स राजधानीमथ मुक्ताफलकेतुराजगाम ।। ९१
वररत्नचिता च सा तदानीं ध्वजपट्टांशुकमालिनी प्रविष्टे ।
विबभौ नगरी चिरागतेऽस्मिन्पितृयुक्ते जयभाजि राजपुत्रे ।। ९२
स च सपदि पितास्य चन्द्रकेतुः पुरि परितोषितबन्धुभृत्यवर्गः ।
जलमिव जलदो वसु प्रवर्षन्सुतविजयोत्सवमूर्जितं ततान ।। ९३
स च मुक्ताफलकेतुर्विद्युद्ध्वजदमनकीर्तिमपि लब्ध्वा ।
पद्मावतीं विना तां न रतिं लेभे निजेषु भोगेषु ।। ९४
संयतकाख्येन पुनः शर्वादेशादि शंसिना सख्या ।
आश्वास्यमानचित्तः कृच्छ्रेण स तान्यहान्यनयत् ।। ९५
इति महाकविश्रीसोमदेभट्टविरचिते कथासरित्सागरे पद्मावतीलम्बके तृतीयस्तरङ्गः ।