प्रमुखा विकल्पसूचिः उद्घाट्यताम्

अत्रान्तरे स गन्धर्वराजः स्वनगरं पुनः ।
प्रविष्टो विततस्फूर्जदुत्सवः पद्मशेखरः ।। १
तज्जयाशंसया तप्ततपसं गिरिजाश्रमे ।
बुद्ध्वा भार्यामुखात्पद्मावतीमानाययत्सुताम् ।। २
उपागतां च तपसा विरहेण च तां कृशाम् ।
तनयां पादपतितां स जगादाशिषं ददत् ।। ३
वत्से मदर्थं विहितस्तपःक्लेशो महांस्त्वया ।
तद्विद्याधरराजेन्द्रसुतं विद्युद्ध्वजान्तकम् ।। ४
जगच्छरण्यं जयिनं व्यादिष्टं शंभुना स्वयम् ।
श्रीमुक्ताफलकेतुं तं शीघ्रं पतिमवाप्नुहि ।। ५
इति पित्रोदिते यावदास्ते सा विनतानना ।
राजानमाह तन्माता तावत्कुवलयावली ।। ६
कथं स तादृगसुरस्त्रिलोकाभयदायिना ।
तेनार्यपुत्र निहतो राजपुत्रेण संयुगे ।। ७
तच्छ्रुत्वा वर्णयामास स राजा तस्य विक्रमम् ।
राजपुत्रस्य तं तस्यै सदेवासुरसंगरम् ।। ८
ततः पद्मावतीसख्या सा मनोहारिकाख्यया ।
तदीया राक्षसीयुग्मवधलीलाप्यकथ्यत ।। ९
ततस्तस्य सुतायाश्च वृत्तमन्योन्यदर्शनम् ।
प्रीतिं च बुद्ध्वा तौ तोषं राजा राज्ञी च जग्मतुः ।। १०
ऊचतुश्च निगीर्णश्च येनासुरचमूचयः ।
अगस्त्येनेव जलधी राक्षस्यौ तस्य के इति ।। ११
तया तत्पौरुषोत्कर्षवर्णनावात्यया च सः ।
पद्मावत्याः प्रजज्वाल सुतरां मदनानलः ।। १२
ततः पित्रोः सकाशात्सा निर्गता राजकन्यका ।
शुद्धान्तरत्नप्रासादमारोहत्सोत्सुका क्षणात् ।। १३
तत्र रत्नोम्भितस्तम्भबद्धमौक्तिकजालके ।
मणिकुट्टिमविन्यस्तसुखशय्यावरासने ।। १४
चिन्तितोपनमद्दिव्यनानाभोगमनोरमे ।
स्थिता साभ्यधिकं तेपे प्रेयोविरहवह्निना ।। १५
ददर्श च ततः पृष्ठाद्धेमद्रुमलताचितम् ।
रत्नवापीशताकीर्णं दिव्यमुद्यानमृद्धिमत् ।। १६
दृष्ट्वा चाचिन्तयच्चित्रमिदमस्मत्पुरोत्तमम् ।
मज्जन्मभूमेर्भुवनादैन्दवादपि सुन्दरम् ।। १७
हिमाद्रिमौलिमाणिक्यं न च दृष्टमिदं मया ।
नन्दनाभ्यधिकं यत्र पुरोपवनमीदृशम् ।। १८
तदत्र गत्वा सच्छायशीतले विजने वरम् ।
विरहानलसंतापं शमयामि मनागिमम् ।। १९
इति संचिन्त्य सा बाला शनैरेकाकिनी ततः ।
युक्त्यावरुह्य गन्तुं तत्पुरोद्यानं प्रचक्रमे ।। २०
पद्भ्यां गन्तुमशक्ता सा स्वविभूतेरुपस्थितैः ।
पक्षिभिर्वाहनीभूय तदुद्यानमनीयत ।। २१
तत्रान्तः कदलीखण्डगृहे पुष्पास्तरोपरि ।
उपाविशच्छ्रूयमाणे दिव्यगेयादिनिःस्वने ।। २२
न च सात्र रतिं लेभे न तस्याः शाम्यति स्मरः ।
विना प्रियेण कामाग्निः प्रत्युतावर्धताधिकम् ।। २३
ततो दिदृक्षुश्चित्रस्थमपि तं प्रियमुत्सुका ।
साग्रहीच्चित्रफलकं वर्णवर्तीश्च सिद्धितः ।। २४
स्रष्टुं द्वितीयं धातापि नेष्टे यत्सदृशं पुनः ।
तमालिखेयं सोत्कण्ठा सन्नपाणिरहं कथम् ।। २५
तथाप्यात्मविनोदार्थमालिखामि यथा तथा ।
इति संचिन्त्य फलके सा तु यावत्तमालिखत् ।। २६
तावत्तस्यास्तमुद्देशमाययौ चिन्वती सखी ।
सा मनोहारिका नाम तददर्शनविह्वला ।। २७
सा तामेकाकिनीं तत्र राजपुत्रीं लतागृहे ।
सचित्रफलकामुत्कामपश्यत्पृष्ठतः स्थिता ।। २८
पश्यामि तावत्किमियं करोत्येवमिहैकिका ।
इति संचिन्त्य तस्थौ च छन्ना सा तत्र तत्सखी ।। २९
तावत्सापि तमुद्दिश्य चित्राभिलिखितं प्रियम् ।
पद्मावती जगादैवमुदश्रुनयनोत्पला ।। ३०
द्रुर्जयानसुरान्हत्वा येनेन्द्रो रक्षितस्त्वया ।
आलापमात्रेण स मां कथं मारान्न रक्षसि ।। ३१
कल्पद्रुमोऽप्यदातृत्वं सुगतोऽप्यदयालुताम् ।
आयाति मन्दपुण्यस्य सुवर्णमपि चाश्मताम् ।। ३२
स्मरज्वरानभिज्ञश्च नूनं वेत्सि न मद्व्यथाम् ।
दैत्याजितस्य पुष्पेषुः किं तपस्वी करोति ते ।। ३३
किं वा वच्मि विधिर्वामो मम येनाश्रुणा दृशौ ।
पिदधन्नेच्छति प्रायश्चित्रेऽपि तव दर्शनम् ।। ३४
इत्युक्त्वा राजतनया सा प्रावर्तत रोदितुम् ।
छिन्नहारगलत्स्थूलमुक्ताभैरश्रुबिन्दुभिः ।। ३५
तत्क्षणं तामुपासर्पत्सा मनोहारिका सखी ।
साप्याच्छाद्यैव तच्चित्रं राजपुत्री जगाद ताम् ।। ३६
इयच्चिरं न दृष्टा त्वं सखि कुत्र स्थितास्यहो ।
तच्छ्रुत्वा विहसन्ती तां सा मनोहारिकाब्रवीत् ।। ३७
त्वामेव सखि चिन्वाना चिरं भ्रान्तास्मि तत्त्वया ।
चित्रं किं छाद्यते दृष्टं भया चित्रमथ श्रुतम् ।। ३८
एवं तयोक्ता सख्या सा पद्मावत्यश्रुगद्गदम् ।
लज्जानतमुखी हस्ते गृहीत्वा तामभाषत ।। ३९
सखि प्रागेव विदितं सर्वं ते किं निगृह्यते ।
राजपुत्रेण तेनाहं तस्मिन्गौर्याश्रमे तदा ।। ४०
उद्धृतापि महाघोरराक्षसीवह्निमध्यतः ।
दुर्वारविरहज्वाले निक्षिप्ता मदनानले ।। ४१
तन्न जाने क्व गच्छामि कस्मै वच्मि करोमि किम् ।
आश्रये कमुपायं वा दुर्लभासक्तमानसा ।। ४२
इति ब्रुवाणां तां राजपुत्रीमाह स्म सा सखी ।
अभिष्वङ्गोऽनुरूपोऽयं स्थाने ते मनसः सखि ।। ४३
इतरेतरशोभायै संयोगो युवयोः किल ।
नवचन्द्रकलाशार्वजटामुकुटयोरिव ।। ४४
अधृतिश्चात्र मा भूत्ते ध्रुवं स भवतीं विना ।
न स्थास्यति त्वया किं स तथाभूतो न लक्षितः ।। ४५
स्त्रियोऽपीच्छन्ति पुंभावं यां दृष्ट्वा रूपलोलुभाः ।
तस्यास्ते को भवेन्नार्थी तुल्यरूपः स किं पुनः ।। ४६
शर्वोऽप्यलीकवादी किं येनोक्तौ दंपती युवाम् ।
अदूरगेऽप्यभीष्टेऽर्थे को वार्तो भजते धृतिम् ।। ४७
तदाश्वसिहि भावी ते स एव नचिरात्पतिः ।
न त्वया दुर्लभः कश्चित्त्वं तु सर्वेण दुर्लभा ।। ४८
इत्युक्ता सा तया सख्या राजपुत्री जगाद ताम् ।
सखि यद्यपि जानामि तथापि करवाणि किम् ।। ४९
इदं तु मे तदासक्तं चेतो नोत्सहते क्षणम् ।
स्थातुं विना तं प्राणेशं क्षमते न च मन्मथः ।। ५०
तमेव हि स्मरन्त्या मे मनो निर्वाति न क्षणम् ।
दह्यन्तेऽङ्गानि संतापेनोत्क्रामन्तीव चासवः ।। ५१
एवं वदन्ती मोहेन मोहिता पुष्पपेलवा ।
अङ्के तस्या वयस्याया राजपुत्री पपात सा ।। ५२
अथाम्बुसेककदलीपल्लवानिलवीजनैः ।
साश्रुराश्वासयामास सा वयस्या क्रमेण ताम् ।। ५३
मृणालहारवलयं श्रीखण्डार्द्रविलेपनम् ।
नलिनीदलशय्यां च यानि सा विदधे सखी ।। ५४
तस्यास्तान्यपि संतापसमासक्तानि संगतः ।
संतप्य समदुःखत्वमिव शुष्यन्ति भेजिरे ।। ५५०
ततः सा विह्वला पद्मावती तामवदत्सखीम् ।
क्लिश्नासि किं वृथात्मानं नैवं शाम्यति मे व्यथा ।। ५६
येन शाम्यति तच्चेत्त्वं कुरुषे तच्छिवं भवेत् ।
एवमुक्तवतीमार्तां वयस्या तामभाषत ।। ५७
कुर्यां किं यन्न नामाहं तवार्थे ब्रूहि तत्सखि ।
तच्छ्रुत्वा सा ह्रिया किंचिदिव राजसुताब्रवीत् ।। ५८
तमिहानय मे कान्तं गत्वा प्रियसखि द्रुतम् ।
नान्यथोपशमो मे स्यात्तातश्चैव न कुप्यति ।। ५९
प्रत्युतेहागतायैव मामेषोऽस्मै प्रदास्यति ।
एवं तयोक्ता सोत्साहं वयस्या साप्युवाच ताम् ।। ६०
यद्येवं तद्गृहाण त्वं धैर्यं कार्यमिदं कियत् ।
एषाहं सखि यान्येव त्वत्प्रियानयनाय यत् ।। ६१
तत्पितुः खेचरेन्द्रस्य चन्द्रकेतोः पुरोत्तमम् ।
ख्यातं चन्द्रपुरं नाम निर्वृता भव किं शुचा ।। ६२
इति साश्वासिता सख्या तया राजसुताभ्यधात् ।
तदुत्तिष्ठ शिवः पन्था अस्तु ते व्रज सत्वरम् ।। ६३
त्राता त्रयाणां लोकानां स च सप्रणयं त्वया ।
मद्गिरा सखि वक्तव्यो वीरः प्राणेश्वरो मम ।। ६४
तस्मिन्गौर्यायतने तथा परित्राय राक्षसीभयतः ।
स्त्रीघ्नेन हन्यमानां रक्षसि मां मकरकेतुना न कथम् ।। ६५
भुवनोद्धरणसहानां भवादृशामेष नाथ को धर्मः ।
आपद्युपेक्ष्यते यत्पूर्वत्रातो जनोऽनुवृत्तोऽपि ।। ६६
एवं वदेस्तं कल्याणि यथा जानासि वा स्वयम् ।
इति व्याहृत्य सा पद्मावती तां व्यसृजत्सखीम् ।। ६७
सा च स्वसिद्ध्युपनतं पक्षिवाहनमास्थिता ।
तन्मनोहारिका प्रायाद्विद्याधरपुरं प्रति ।। ६८
सा च पद्मावती किंचिदाशालब्धधृतिस्ततः ।
गृहीतचित्रफलका मन्दिरं प्राविशत्पितुः ।। ६९
तत्र दासीपरिवृता प्रविश्य निजवासकम् ।
स्नात्वा गौरीपतिं भक्त्या पूजयित्वा व्यजिज्ञपत् ।। ७०
भगवंस्त्रिषु लोकेषु त्वदिच्छानुग्रहं विना ।
न सिद्ध्यतीह कस्यापि बह्वल्पं वापि वाञ्छितम् ।। ७१
तद्विद्याधरसच्चक्रवर्तिपुत्रं तमीप्सितम् ।
न दास्यसि पतिं चेन्मे देहं त्यक्ष्यामि तेऽग्रतः ।। ७२
एवं विहितविज्ञप्तिं शशाङ्कमुकुटस्य ताम् ।
श्रुत्वा सखेदः साश्चर्यः परिवारजनोऽवदत् ।। ७३
स्वदेहनिरपेक्षैव किमेवं देवि भाषसे ।
तवापि किमसुप्राप्यं नामास्त्यत्र जगत्त्रये ।। ७४
त्वदर्थ्यमानो मुञ्चेद्धि सुगतोऽपि स संयमम् ।
तदेकः सोऽत्र सुकृती यस्त्वयाप्येवमर्थ्यते ।। ७५
एतच्छ्रुत्वा गुणाकृष्टा राजपुत्री जगाद सा ।
समाश्रयः सशक्राणां देवानामेक एव यः ।। ७६
अर्केणेव तमो ध्वस्तं येनैकेनासुरं बलम् ।
प्राणदाता च योऽस्माकं प्रार्थनीयः कथं न सः ।। ७७
इत्यादि ब्रुवती सोत्का तयैव कथया ततः ।
अतिष्ठत्सममाप्तेन तत्र दासीजनेन सा ।। ७८
अत्रान्तरे चन्द्रपुरं सा मनोहारिकापि तत् ।
विद्याधरेन्द्रनगरं सत्वरं प्राप तत्सखी ।। ७९
गीर्वाणनगरं कृत्वाप्यसंतोषादिवाद्भुतम् ।
निर्ममे विश्वकर्मा यदसामान्यविभूतिकम् ।। ८०
तत्रासंप्राप्य तं मुक्ताफलकेतुं विचिन्वती ।
खगस्था तत्पुरोद्यानं सा मनोहारिकागमत् ।। ८१
अतर्क्यसिद्धिविभवं भास्वन्मणिमयद्रुमम् ।
एकवृक्षोद्गतानेकजातीयकुसुमोत्करम् ।। ८२
दिव्यगीतरवोन्मिश्रशकुन्तरुतसुन्दरम् ।
पश्यन्ती तच्च सा रेमे नानारत्नशिलातलम् ।। ८३
उद्यानपालैर्दृष्ट्वा च विचित्रैः पक्षिरूपिभिः ।
उपेत्याभ्यर्थ्य सुव्यक्तवचनैः प्रियवादिभिः ।। ८४
पारिजाततरोर्मूले तार्क्ष्यरत्नशिलासने ।
उपवेश्योचितैर्भोगैस्तस्याः पूजा व्यधीयत ।। ८७
अभिनन्द्य च तां पूजां चिन्तयामास तत्र सा ।
अहो विद्याधरेन्द्राणां चित्राः सिद्धिविभूतयः ।। ८६
अचिन्त्योपनमद्भोगं येषामुद्यानमीदृशम् ।
सुरस्त्रीबद्धसंगीतं पतत्त्रिपरिचारकम् ।। ८७
इति संचिन्त्य पृष्ट्वा च तानेवोद्यानपालकान् ।
चिन्वती पारिजातादितरुखण्डमवाप सा ।। ८८
तत्रान्तश्चन्दनासिक्तकुसुमास्तरशायिनम् ।
सा मुक्ताफलकेतुं तं सा कल्पकमिवैक्षत ।। ८९
गौर्याश्रभे दृष्टचरं प्रत्यभिज्ञाय सा च तम् ।
पश्याम्यस्य किमस्वास्थ्यं छन्नस्थैवेत्यचिन्तयत् ।। ९०
तावदाश्वासयन्तं तं हिमचन्दनमारुतैः ।
मित्त्रं संयतकं मुक्ताफलकेतुरुवाच सः ।। ९१
अङ्गारास्तुहिने न्यस्ताः कुकूलाग्निश्च चन्दने ।
मारुते दाववह्निश्च स्मरेण मम निश्चितम् ।। ९२
विरहार्तस्य संतापं समन्तात्सृजतामुना ।
तत्किमायासयस्येवमात्मानं निष्फलं सखे ।। ९३
सुरस्त्रीनृत्तगीतादिविनोदैरपि दूयते ।
नन्दनाभ्यधिकेऽमुष्मिन्नुद्याने हि मनो मम ।। ९४
विना पद्मावतीं तां तु पद्मशेखरसंभवाम् ।
पद्माननां न मे शाम्यत्ययं स्मरशरज्वरः ।। ९५
न चैतदुत्सहे वक्तुं कस्यचिन्न लभे धृतिम् ।
एक एव तु तत्प्राप्तावुपायो विद्यते मम ।। ९६
गच्छामि गौर्यायतनं दृष्टया यत्र मे तया ।
कटाक्षेषुभिरुत्खाय हृदयं प्रियया हृतम् ।। ९७
तत्राद्रिराजतनयासंगतस्तत्समागमे ।
तपसाराधितः शंभुरुपायं मे विधास्यति ।। ९८
इत्युक्त्वा यावदुत्थातुं राजपुत्रः स इच्छति ।
सा मनोहारिका तावत्तुष्टात्मानमदर्शयत् ।। ९९
वयस्य वर्धसे दिष्ट्या सिद्धं तव समीहितम् ।
पश्येयमागता तस्याः प्रियायास्तेऽन्तिकं सखी ।। १००
त्वत्पार्श्वस्थेन दृष्टा हि मयासावम्बिकाश्रमे ।
इति हर्षाच्च तं राजपुत्रं संयतकोऽब्रवीत् ।। १०१
ततः स स्फूर्जदानन्दविस्मयौत्सुक्यसंकुलाम् ।
कांचिद्राजसुतोऽवस्थां दध्रे दृष्ट्वा प्रियासखीम् ।। १०२
नेत्रपीयूषवृष्टिं तां पप्रच्छोपागतां च सः ।
उपवेश्यान्तिके कान्ताशरीरकुशलं तदा ।। १०३
अथ सा निजगादैवं मत्सख्याः कुशलं प्रभो ।
त्वयि नाथे भुवं भावि सांप्रतं दुःखिता तु सा ।। १०४
यदाप्रभृति दृष्टेन हृतं तस्यास्त्वया मनः ।
तत आरभ्य विमना न शृणोति न पश्यति ।। १०५
मृणालहारं दधती बालाहारं विमुच्य सा ।
लुठत्यम्बुजिनीपत्त्रशयने शयनोज्झिता ।। १०६
असहिष्ट न या पूर्वं ह्रिया वरकथामपि ।
इमामवस्थां सैषाद्य प्राप्ता प्रियतमं विना ।। १०७
इति तस्या हसन्तीव स्वान्येवाङ्गानि संप्रति ।
संतापशुष्यच्छ्रीखण्डसितानि कृतिनां वर ।। १०८
एवं च सा ब्रवीति त्वामित्युदीर्य पपाठ ते ।
सा मनोहारिका पद्मावतीसंदेशगीतिके ।। १०९
स तच्छ्रुत्वाखिलं मुक्ताफलकेतुर्गतव्यथः ।
तां मनोहारिकां हर्षादभिनन्द्याभ्यभाषत ।। ११०
अमृतेनेव वचसा तव सिक्तमिदं मम ।
चैतन्यमासीच्छ्वसितं धृतिर्जाता गतः क्लमः ।। १११
फलितं चाद्य मे पूर्वसुकृतैर्यदहो मयि ।
गन्धर्वराजतनया साप्येवं पक्षपातिनी ।। ११२
किंत्वहं शक्नुयां सोढुं कथंचिद्विरहव्यथाम् ।
शिरीषसुकुमाराङ्गी विषहेत कथं तु सा ।। ११३
तस्मादहमुपैम्येष तमेव गिरिजाश्रमम् ।
तत्र त्वमानय सखीं येन स्यात्संगमोऽद्य नौ ।। ११४
आश्वासय च तां गत्वा कल्याणि त्वरितं सखीम् ।
इमं च परितुष्टेन वितीर्णं मे स्वयंभुवा ।। ११५
देहि चूडामणिं तस्यै सर्वदुःखनिबर्हणम् ।
शक्रात्प्राप्तो मया चायं हारस्ते पारितोषिकः ।। ११६
इत्युक्त्वा शिरसश्चूडामणिं तस्यै समर्पयत् ।
हारं च कण्ठात्तत्कण्ठे तं स राजसुतो व्यधात् ।। ११७
अथ प्रणम्य तं प्रीता सा मनोहारिका ततः ।
प्रतस्थे विहगारूढा सखीं पद्मावतीं प्रति ।। ११८
स मुक्ताफलकेतुश्च प्रहर्षापहृतक्लमः ।
सह संयतकेन स्वं त्वरितं प्राविशत्पुरम् ।। ११९
सापि पद्मावतीपार्श्वं प्राप्य तस्यै यथेप्सितम् ।
तं मनोहारिकाचख्यौ तत्प्रियस्मरसंज्वरम् ।। १२०
प्रणयस्निग्धमधुरं तद्वचश्च यथाश्रुतम् ।
तं च संगमसंकेतं तदुक्तं गिरिजाश्रमे ।। १२१
ददौ तत्प्रहितं तं च तस्यै चूडामणिं ततः ।
पारितोषिकहारं च तद्दत्तं तमदर्शयत् ।। १२२
ततः पद्मावती सा तामाश्लिष्य कृतिनीं सखीम् ।
अपूजयद्विसस्मार स्मरानलरुजं च ताम् ।। १२३
बद्ध्वा शिखायामानन्दमिव चूडामणिं च तम् ।
चक्रे परिकरं गौरीकाननागमनाय सा ।। १२४
अत्रान्तरे मुनिर्दैवात्तद्गौरीवनमागमत् ।
दृढव्रतेन शिष्येण सह नाम्ना तपोधनः ।। १२५
स चात्र तमुवाचैवं मुनिः शिष्यं दृढव्रतम् ।
दिव्योद्यानेऽहमेतस्मिन्समाधिं विदधे क्षणम् ।। १२६
द्वारि स्थित्वा प्रवेशोऽत्र न देयः कस्यचित्त्वया ।
समापितसमाधिश्च पूजयिष्यामि पार्वतीम् ।। १२७
इत्युक्त्वा मुनिरुद्यानद्वारे शिष्यं निवेश्य तम् ।
अधस्तात्पारिजातस्य स समाधिमसेवत ।। १२८
समाधेरुत्थितश्चान्तर्विवेशार्चितुमम्बिकाम् ।
न च तत्तस्य शिष्यस्य जगाद द्वारवर्तिनः ।। १२९
तावच्चात्राययौ मुक्ताफलकेतुः प्रसाधितः ।
आरुह्य दिव्यकरभं सह संयतकेन सः ।। १३०
प्रविशंश्च तदुद्यानं मुनिशिष्येण तेन सः ।
मा मा गुरुः समाधौ मे स्थितोऽत्रेति न्यषिध्यत ।। १३१
विस्तीर्णाभ्यन्तरे जातु प्रिया सा स्यादिहागता ।
मुनिश्चात्रैकदेशस्थ इत्यालोच्य स सोत्सुकः ।। १३२
राजपुत्रो व्यतीत्यास्य मुनिपुत्रस्य दृक्पथम् ।
विवेश व्योममार्गेण तदुद्यानं सुहृद्युतः ।। १३३
यावच्च वीक्षते तत्स तावत्तत्र विवेश सः ।
गुरोः समाधिनिष्पत्तिं मुनिशिष्यो निरीक्षितुम् ।। १३४
स ददर्श गुरुं नात्र ददर्श सवयस्यकम् ।
श्रीमुक्ताफलकेतुं तु प्रविष्टमपथेन तम् ।। १३५
ततः स राजपुत्रं तं मुनिशिष्योऽशपत्क्रुधा ।
सवयस्योऽपि मानुष्यमस्मादविनयाद्व्रज ।। १३६
इतः समाधिं भङ्क्त्वा यद्गुरुर्मेऽपासितस्त्वया ।
एवं स दत्तशापस्तं स्वमेवान्वसरद्गुरुम् ।। १३७
स मुक्ताफलकेतुश्च सिद्धप्राये मनोरथे ।
शापाशनिनिपातेन विषादमगमत्परम् ।। १३८
तावत्पद्मावती सात्र प्रियसंगमसोत्सुका ।
आगाद्विहंगमारूढा समनोहारिकादिका ।। १३९
स्वयंवरागतां दृष्ट्वा तां शापान्तरितां च सः ।
सुखदुःखमयीं कष्टां दशां राजसुतो दधौ ।। १४०
पद्मावत्याश्च तत्कालमदाक्षिण्यं प्रदर्शयत् ।
पस्पन्दे दक्षिणं चक्षुरकम्पत च मानसम् ।। १४१
ततोऽत्र सा राजसुता कान्तं विग्रं विलोक्य तम् ।
किं पूर्वानागतत्वान्मे खिन्नः स्यादित्यचिन्तयत् ।। १४२
प्रश्रयोपागतां तां च राजपुत्रो जगाद सः ।
प्रिये मनोरथो भग्नः सिद्धोऽपि विधिनावयोः ।। १४३
तच्छ्रुत्वा हा कथं भग्न इति तस्यै ससंभ्रमम् ।
पृच्छन्त्यै स स्वशापं तं राजसूनुरवर्णयत् ।। १४४
ततो विविग्ना जग्मुस्ते शापदातुर्गुरुं मुनिम् ।
देवी गृहस्थितं सर्वे शापान्तायानुनाथितुम् ।। १४५
उपागतांस्तान्प्रणतान्दृष्ट्वा ज्ञानी महामुनिः ।
स मुक्ताफलकेतुं तं प्रीतिपूर्वमभाषत ।। १४६
मूर्खेणानेन शप्तस्त्वमप्रेक्षापूर्वकारिणा ।
न त्वया मे कृतं किंचिदुत्थितोऽहं स्वतस्ततः ।। १४७
हेतुमात्रमयं चात्र भवितव्यमिदं तव ।
मानुष्येऽवश्यकार्यं ते देवकार्यं हि विद्यते ।। १४८
एतां पद्मावतीमेव दैवाद्दृष्ट्वा स्मरातुरः ।
त्यक्त्वा मर्त्यशरीरं त्वं शीघ्रं शापाद्विमोक्ष्यसे ।। १४९
अनेनैव च देहेन पुनः प्राणेश्वरीमिमाम् ।
त्रातासि विश्वत्राता त्वं चिरं शापं हि नार्हसि ।। १५०
ब्रह्मास्त्रेण हता दैत्या बालवृद्धादयोऽपि यत् ।
त्वत्प्रयुक्तेन सोऽधर्मलेशो हेतुस्तवात्र च ।। १५१
तच्छ्रुत्वा तमृषिं पद्मावती सास्रा व्यजिज्ञपत् ।
भगवन्यार्यपुत्रस्य गतिः सैवास्तु मेऽधुना ।। १५२
नैतद्विरहिता स्थातुमपि शक्ष्याम्यहं क्षणम् ।
इत्यर्थितवतीं पद्मावतीं स मुनिरभ्यधात् ।। १५३
नैतदस्ति तपस्यन्ति त्वं तिष्ठेहैव संप्रति ।
येनाचिरान्मुक्तशापस्त्वामयं परिणेष्यति ।। १५४
ततश्चानेन सहिता त्वं मुक्ताफलकेतुना ।
खेचरासुरसाम्राज्यं दशकल्पान्करिष्यसि ।। १५५
एतद्दत्तं शिखारत्नं तपःस्थां त्वां च पास्यति ।
महाप्रभावमुत्पन्नं धातुरेतत्कमण्डलोः ।। १५६
इति पद्मावतीमुक्तवन्तं दिव्यदृशं मुनिम् । स
मुक्ताफलकेतुस्तमेवं प्रार्थयतानतः ।। १५७
मानुष्ये भगवन्मेऽस्तु भवे भक्तिरभङ्गुरा ।
पद्मावतीं विनान्यस्यां स्त्रियां मा गाच्च मे मनः ।। १५८
एवमस्त्विति तेनोक्ते मुनिना सातिदुःखिता ।
पद्मावती तं तच्छिष्यं शपति स्मापराधिनम् ।। १५९
आर्यपुत्रस्त्वया मौर्ख्याच्छप्तो यत्तद्भविष्यसि ।
कामरूपं कामचरं मानुष्येऽस्यैव वाहनम् ।। १६०
एवं तयाभिशप्तेन विषण्णेनाथ तेन सः ।
तपोधनः स्वशिष्येण साकमन्तर्दधे मुनिः ।। १६१
ततः पद्मावतीं मुक्ताफलकेतुरभाषत ।
स्वपुरं यामि पश्यामि तावत्किं तत्र मे भवेत् ।। १६२
तच्छ्रुत्वा विरहत्रस्ता वातरुग्णा लतेव सा ।
पद्मावती पपाताशु सपुष्पाभरणा भुवि ।। १६३
आश्वास्य च कथंचित्तां क्रन्दन्तीं स सुहृद्युतः ।
मुहुर्वलितदृङ्मुक्ताफलकेतुरगात्ततः ।। १६४
पद्मावती च यातेऽस्मिन्विलपन्ती सुदुःखिता ।
आश्वासयन्तीमवदत्तां मनोहारिकां सखीम् ।। १६५
सखि जाने मया स्वप्ने देवी दृष्टाद्य पार्वती ।
सा चोद्यतापि मे कण्ठे क्षेप्तुमुत्पलदामकम् ।। १६६
आस्तां दास्यामि ते भूय इत्युक्त्वा विरताभवन् ।
तस्य स प्रियावाप्तिविघ्नो मे सूचितस्तया ।। १६७
इति तामनुशोचन्ती सखी वक्ति स्म सा तदा ।
आश्वासनाय देव्या ते स्वप्नस्तर्ह्येष दर्शितः ।। १६८
मुनिना च तथैवोक्तं देवादेशस्तथैव च ।
तदाश्वसिहि भावी ते नचिरात्प्रियसंगमः ।। १६९
इत्यादिभिः सखीवाक्यैश्चूडामणिवशेन च ।
पद्मावती धृतिं बद्ध्वा तस्थौ गौर्याश्रमे तदा ।। १७०
विदधे च तपस्त्रिसंध्यमीशं गिरिजासंगतमत्र पूजयन्ती ।
प्रियचित्रपटं च सा तथैव स्वपुरानायितमात्तदेवबुद्धिः ।। १७१
अयि निश्चितभाविनीप्सितेऽर्थे वितथं मा स्म कृथास्तपःश्रमं त्वम् ।
इति सास्रमुपेत्य वारयन्तौ विदितार्थौ पितरौ च सैवमाह ।। १७२
नवभर्तरि देवनिर्मिते मे सहसा संप्रति शापदुःखमाप्ते ।
अहमत्र सुखं कथं वसेयं परमात्मा हि पतिः कुलाङ्गनानाम् ।। १७३
तपसा च परिक्षयं गतेऽस्मिन्वृजिने तोषमुपागते च शंभौ ।
अचिरात्प्रियसंगमो भवेन्मे न हि किंचित्तपसामसाध्यमस्ति ।। १७४
इत्थं दृढनिश्चयया पद्मावत्या तया तदा गदिते ।
तन्माता तत्पितरं राजानं कुवलयावली स्माह ।। १७५
देव तपः कष्टमिदं कुरुतां किं खेद्यतेऽधिकं मिथ्या ।
भवितव्यमेतदस्याः कारणमत्रास्ति वच्मि तच्च शृणु ।। १७६
देवप्रभाभिधाना सिद्धाधिपकन्यका तपोऽतिमहत् ।
अभिमतभर्तृप्राप्त्यै कुर्वाणा शिवपुरे पुरातिष्ठत् ।। १७७
तत्र मया सहितैषा द्रष्टुं पद्मावती गता देवम् ।
न त्रपसे पतिहेतोस्तपसा कथमित्युपेत्य तामहसत् ।। १७८
मूढे हससि शिशुत्वात्त्वमपि तपः क्लेशदायि पतिहेतोः ।
कर्तास्यलमित्येतां साथ रुषा सिद्धकन्यकाभ्यशपत् ।। १७९
तदवश्यं भोक्तव्यं सिद्धसुताशापकृच्छ्रमनया यत् ।
तत्कोऽन्यथा विधातुं क्षमते तदियं करोतु यत्कुरुते ।। १८०
इति राज्ञ्या स तयोक्तस्तद्युक्तस्तां कथंचिदामन्त्र्य ।
तनयां चरणावनतां गन्धर्वपतिर्ययौ निजां नगरीम् ।। १८१
साप्यर्चयन्त्यनुदिनं गगनेन गत्वा सिद्धीश्वरं कमलजादिनिषेवितं तम् ।
स्वप्ने हरेण गदितं गिरिजाश्रमेऽत्र पद्मावती नियमजप्यपरावतस्थे ।। १८२
इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे पद्मावतीलम्बके चतुर्थस्तरङ्गः ।