कथासरित्सागरः/लम्बकः १७/तरङ्गः ५
एवं पद्मावती यावत्तत्प्राप्त्यै संश्रिता तपः ।
तावत्स्वनगरं मुक्ताफलकेतुरवाप्य सः ।। १
ब्रह्मशापवशासन्नमानुष्यावतरो भयात् ।
विद्याधरेन्द्रतनयः शरणं शिश्रिये शिवम् ।। २
तमर्चयंश्च तद्गर्भगृहाच्छुश्राव भारतीम् ।
मा भैषीर्न हि ते गर्भवासक्लेशो भविष्यति ।। ३
मानुष्ये नापि ते दुःखं भावि नापि चिरं स्थितिः ।
जनिष्यसे राजसुतो महाबलपराक्रमः ।। ४
तपोधनान्मुनेः कृत्स्नमस्त्रग्राममवाप्स्यसि ।
मदीयः किंकराख्यश्च गणस्ते भवितानुजः ।। ५
तत्सहायो रिपूञ्जित्वा कृत्वा कार्यं दिवौकसाम् ।
कर्तासि खेचरैश्वर्यं पद्मावत्या युतः पुनः ।। ६
एवं श्रुत्वा गिरं बद्धधृतिः शापफलागमम् ।
प्रतीक्षमाण इव तं तस्थौ राजसुतोऽथ सः ।। ७
अत्रान्तरे कथासंधौ पूर्वस्यां नगरं दिशि ।
आसीद्देवसभं नाम जितदेवसभं श्रिया ।। ८
तत्र मेरुध्वजो नाम सार्वभौमोऽभवन्नृपः ।
सहायो देवराजस्य देवासुररणागमे ।। ९
यस्य लोभो यशस्यासीन्न परस्वे महात्मनः ।
तैक्ष्ण्यं खड्गे न दण्डे तु भयं पापान्न शत्रुतः ।। १०
कुटिलत्वं भ्रुवोः कोपे नाशये यस्य चाभवत् ।
मौर्वीकिणाङ्के पारुष्यं भुजे न वचने पुनः ।। ११
व्यधाद्युधि न कोषे तु यो दीनारातिरक्षणम् ।
रतिं च धर्मचर्यासु श्रद्दधे नाङ्गनासु यः ।। १२
तस्याभूतामुभे चिन्ते भूपतेः सततं हृदि ।
एका पुत्रो न यत्तस्य तावदेकोऽप्यजायत ।। १३
द्वितीया चापि यत्पूर्वं देवासुरमहाहवात् ।
जग्मुः पातालमसुरा हतशेषाः पलाय्य ये ।। १४
ते निर्गत्य ततो दूरात्सतीर्थायतनाश्रमान् ।
विनाश्यैव च्छलात्तस्य पातालमसकृद्ययुः ।। १५
न च तान्प्राप स नृपः पातालव्योमचारिणः ।
तेजस्वी तेन संतेपे निःसपत्नेऽपि भूतले ।। १६
एतच्चिन्ताकुलो जातु शक्रप्रहितसद्रथः ।
देवास्थानं ययौ सोऽत्र चैत्रशुक्लदिनागमे ।। १७
शक्रस्य वत्सरारम्भे सर्वास्थानं तथाहि तत् ।
तद्रथेन स याति स्म राजा मेरुध्वजः सदा ।। १८
तदा तु तत्र दिव्यस्त्रीनृत्तगीताकुलेऽपि सः ।
संमानितोऽपि शक्रेण निःश्वसन्नास्त भूपतिः ।। १९
तद्दृष्ट्वा ज्ञातहृदयो देवराजो जगाद तम् ।
राजञ्जानाम्यहं यत्ते दुःखं तन्मा च भूत्तव ।। २०
मुक्ताफलध्वजाख्यस्ते शिवांशो जनिता सुतः ।
एको गणावतारश्च द्वितीयो मलयध्वजः ।। २१
तपोधनान्मुनेर्विद्याः कामरूपं च वाहनम् ।
मुक्ताफलध्वजः प्राप्स्यत्यस्त्राणि च सहानुजः ।। २२
महापाशुपतास्त्रं च पुनः प्राप्य स दुर्जयः ।
करिष्यति वशे पृथ्वीं पातालं च हतासुरः ।। २३
त्वं च व्योमचरावेतौ समहास्त्रौ गृहाण मे ।
वारणं काञ्चनगिरिं तथा काञ्चनशेखरम् ।। २४
इत्युक्त्वास्त्रगजान्दत्त्वा प्रेषितः सोऽथ वज्रिणा ।
आगान्मेरुध्वजो हृष्टो भूतले नगरं निजम् ।। २५
ते तु च्छलकृतावद्यास्तस्य पातालसंश्रयात् ।
खेचरत्वं गतस्यापि प्राप्या नासन्किलासुराः ।। २६
ततः शक्राच्छ्रुतस्यासौ राजा पुत्रेच्छुराश्रमम् ।
तपोधनस्य तस्यर्षेर्ययौ दिव्येभवाहनः ।। २७
तत्राभिगम्य तमृषिं शक्रादेशं निवेद्य तम् ।
भगवन्नादिशोपायं शीघ्रं मेऽत्रेति सोऽब्रवीत् ।। २८
स च तस्याचिरेणेष्टसिद्धये मुनिरादिशत् ।
व्रतमाराधनं शंभोः सभार्यस्य महीभुजः ।। २९
स तेनाराधयामास व्रतेनोर्वीपतिः शिवम् ।
तुष्टः स च विभुः स्वप्ने तमेवमवदन्नृपम् ।। ३०
उत्तिष्ठ राजन्प्राप्तासि क्रमेणैवाविलम्बितम् ।
शेषासुरविनाशाय द्वौ पुत्रावपराजितौ ।। ३१
एतच्छ्रुत्वा प्रबुध्यैव प्रातरुक्त्वा मुनेश्च सः ।
सभार्यः पारणं कृत्वा राजा स्वपुरमाययौ ।। ३२
तत्र तस्य महादेवी राज्ञी मेरुध्वजस्य सा ।
ऋतुं दिनैः कतिपयैः प्रतिपेदे सुलक्षणा ।। ३३
तस्याः स गर्भे समभून्मुक्त्वा शापवशेन ताम् ।
वैद्याधरीं तनुं मुक्ताफलकेतुरतर्कितम् ।। ३४
सा च तस्य तनुस्तत्र निजे चन्द्रपुरे पुरे ।
विद्याप्रभावादम्लाना तस्थौ बान्धवरक्षिता ।। ३५
सापि मेरुध्वजस्यात्र राज्ञो देवसभे पुरे ।
राज्ञी सगर्भा संपद्य नन्दयामास तं पतिम् ।। ३६
यथा यथा च सा राज्ञी जज्ञे गर्भभरालसा ।
तथा तथा स सोत्साहस्तस्याः पतिरभून्नृपः ।। ३७
प्राप्ते च समये पुत्रं सासूत स्मार्कसंनिभम् ।
बालमेवोग्रमहसं कुमारमिव पार्वती ।। ३८
बभूव चोत्सवः कृत्स्ने न परं वसुधातले ।
यावन्नभस्तलेऽप्यासीद्देवप्रहतदुन्दुभौ ।। ३९
स्वयमागान्मुनिश्चात्र दिव्यदृक्स तपोधनः ।
दिष्ट्या वर्धयितुं मेरुध्वजं तं पृथिवीपतिम् ।। ४०
तेन साकं स मुनिना नाम्ना शक्रोदितेन तम् ।
मुक्ताफलध्वजं चक्रे पुत्रं राजा कृतोत्सवः ।। ४१
ततो गते मुनौ तस्मिंस्तस्य संवत्सरान्तरे ।
राज्ञो द्वितीयस्तनयो राज्ञ्यां तस्यामजायत ।। ४२
तं च नाम्ना स नृपतिश्चकार मलयध्वजम् ।
तथैव हर्षायातेन तेनैव मुनिना सह ।। ४३
ततः संयतकः सोऽपि शापात्तन्मन्त्रिणः सुतः ।
जज्ञे नाम पिता चास्य महाबुद्धिरिति व्यधात् ।। ४४
ततस्तौ सिंहशावाभाववर्धेतां नृपात्मजौ ।
क्रमेण तेजसा सार्धं मन्त्रिपुत्रेण तेन च ।। ४४
गतेष्वथाष्टमात्रेषु वर्षेषु स तपोधनः ।
एत्योपनयनं चक्रे राजसून्वोस्तयोर्मुनिः ।। ४६
अष्टौ चान्यानि वर्षाणि विद्यासु च कलासु च ।
महास्त्रेषु च सर्वेषु विनीयेते स्म तेन तौ ।। ४७
ततो युवानौ दृष्ट्वा तौ सर्वशस्त्रास्त्रयोधिनौ ।
पुत्रौ कृतिनमात्मानं मेने मेरुध्वजो नृपः ।। ४८
अथ तं स्वाश्रमं गन्तुमिच्छन्तं सोऽब्रवीन्मुनिम् ।
अभीष्टा दक्षिणेदानीं भगवन्गृह्यतामिति ।। ४९
एषैव दक्षिणाभीष्टा मम त्वत्तो महीपते ।
असुरान्यज्ञहन्तॄन्यत्सपुत्रो मे हनिष्यसि ।। ५०
इत्यूचिवांसमवदत्तं महर्षिं स भूपतिः ।
अत एवाधुना ग्राह्या भगवन्दक्षिणा त्वया ।। ५१
तदारभस्व यज्ञं त्वं तद्विघ्नायासुराश्च ते ।
एष्यन्त्यहं च तत्कालं तत्रैष्यामि सपुत्रकः ।। ५२
पूर्वकालं हि दैत्यास्ते कृत्वा दोषं छलेन वः ।
खमुत्पत्य निपत्याब्धौ पातालमगमन्मुने ।। ५३
इदानीं त्विन्द्रदत्तौ मे विद्येते खचरौ गजौ ।
ताभ्यां सह सपुत्रस्तान्प्राप्स्यामि व्योमगानपि ।। ५४
तच्छ्रुत्वा स मुनिस्तुष्टस्तमुवाच नराधिपम् ।
तर्हि त्वं यज्ञसंभारं यथायोग्यं कुरुष्व मे ।। ५५
यावद्दिग्विश्रुतं गत्वा तत्र यागं समारभे ।
प्रेषयामि च वो दूतं शिष्यमेतं दृढव्रतम् ।। ५६
संजातकामगोद्दाममहाबलखगाकृतिम् ।
मुक्ताफलध्वजस्यास्य भविता सैष वाहनम् ।। ५७
इत्युक्त्वा स मुनिः प्रायात्स्वाश्रमं स च भूपतिः ।
प्राहिणोत्सर्वसंभारांस्तस्यानुपदमेव तान् ।। ५८
प्रारब्धे तेन यज्ञे च मिलद्देवर्षिसंसदि ।
बुद्ध्वा पातालनिलया दानवाः क्षोभमाययुः ।। ५९
तज्ज्ञात्वा स मुनिः शिष्यं प्राहिणोत्तं दृढव्रतम् ।
शापकल्पितपक्षीन्द्ररूपं देवसभं पुरम् ।। ६०
तत्र प्राप्तं च तं दृष्ट्वा स्मृत्वा मुनिवचश्च सः ।
सज्जीचकार तौ दिव्यौ राजा मेरुध्वजो गजौ ।। ६१
आरुरोह तयोर्मुख्यं स काञ्चनगिरिं स्वयम् ।
कनीयसे च पुत्राय ददौ काञ्चनशेखरम् ।। ६२
दृढव्रतखगेन्द्रं च तं स मुक्ताफलध्वजः ।
आरुरोहात्तदिव्यास्त्रो बन्दिवृन्दाभिवन्दितः ।। ६३
ततस्ते प्रययुर्वीरास्त्रयः खेचरवाहनाः ।
दत्ताशिषो द्विजवरैः पुरः प्रहितसैनिकाः ।। ६४
प्राप्तानां चाश्रमं तेषां स मुनिः प्रीतमानसः ।
अभेद्याः सर्वशस्त्राणां भूयास्तेति वरं ददौ ।। ६५
तावच्च दानवबलं निहन्तुं यज्ञमाययौ ।
अभ्यधावच्च तद्दृष्ट्वा मेरुध्वजबलं नदत् ।। ६६
प्रावर्तत ततो युद्धं दैत्यानां मानुषैः सह ।
दैत्यास्तु मानुषान्स्वस्था भूतलस्थान्वबाधिरे ।। ६७
ततः स पक्षिवहनो दैत्यान्मुक्ताफलध्वजः ।
प्रधाव्य शरवर्षेण चकर्त च ममाथ च ।। ६८
तं च दृष्ट्वा विहंगस्थं ज्वलन्तमिव तेजसा ।
तच्छेषाः प्राद्रवन्दैत्यास्ते नारायणशङ्किताः ।। ६९
गत्वा भयाच्च पातालं सर्वं त्रैलोक्यमालिने ।
तत्कालं दैत्यराजाय शशंसुस्ते तथैव तत् ।। ७०
स तद्बुद्ध्वा द्रुतं चारैरन्विष्य तमवेत्य च ।
मुक्ताफलध्वजं मर्त्यं मानुषाभिभवाक्षमी ।। ७१
संघट्य सर्वपातालदानवानसुरेश्वरः ।
वार्यमाणोऽपि शकुनैर्योद्धुमागात्तमाश्रमम् ।। ७२
मुक्ताफलध्वजाद्याश्च तत्रैवावहिताः स्थिताः ।
तमभ्यधावन्दृष्ट्वैव सबलं दानवाधिपम् ।। ७३
ततः प्रवृत्ते भूयोऽत्र मर्त्यासुरमहाहवे ।
विमानैराययुर्द्रष्टुं रुद्रेन्द्रप्रमुखाः सुराः ।। ७४
मुक्ताफलध्वजश्चात्र तत्क्षणोपस्थितं पुरः ।
ददर्शालङ्घ्यतेजस्कमस्त्रं पाशुपतं महत् ।। ७५५
अतिप्रमाणमुद्वह्निज्वालं त्र्यक्षं चतुर्मुखम् ।
एकाङ्घ्रिमष्टबाहुं च कल्पान्तानलसंनिभम् ।। ६
विद्धि मां शंकरादेशादायातं विजयाय ते ।
इति ब्रुवाणं सोऽभ्यर्च्य राजपुत्रस्तदग्रहीत् ।। ७७
तावच्च गगने तैस्तैरसुरैरस्त्रवृष्टिभिः ।
मेरुध्वजबलं ताम्यदधःस्थितमबाध्यत ।। ७८
ततस्तद्रक्षितुं चित्रयोधी मुक्ताफलध्वजः ।
शरजालं ददौ मध्ये युयुधे चासुरैः सह ।। ७९
पितृभ्रातृयुतं दृष्ट्वा तं नभश्चरवाहनम् ।
त्रैलोक्यमाली दैत्येन्द्रः पन्नगास्त्रं मुमोच सः ।। ८०
तस्मान्निर्गच्छतोऽसंख्यान्घोरानाशीविषानहीन् ।
गरुडैर्गारुडास्त्रोत्थैरर्दयन्मलयध्वजः ।। ८१
ततो यद्यत्स दैत्येन्द्रः सपुत्रोऽस्त्रमवासृजत् ।
मुक्ताफलध्वजस्तत्तन्निरास्यत्तस्य हेलया ।। ८२
अथ क्रुद्धः स देवारिस्तत्पुत्रोऽन्ये च दानवाः ।
आग्नेयादीनि युगपत्तस्मिन्नस्त्राणि चिक्षिपुः ।। ८३
तानि तस्याग्रतो दृष्ट्वा स्थितं पाशुपतं ज्वलत् ।
भीतान्यस्त्राणि सर्वाणि विमुखानि क्षणाद्ययुः ।। ८४
ततस्ते यावदिच्छन्ति भीता दैत्याः पलायितुम् ।
तावत्तदाशयं बुद्ध्वा वीरो मुक्ताफलध्वजः ।। ८५
बबन्ध तेषामूर्ध्वं च चतुर्दिक्कं च तत्क्षणम् ।
शरजालं स दुर्भेदं वज्रपञ्जरसंनिभम् ।। ८६
तत्रान्तर्भ्रमतस्तांश्च शकुन्तानिव दानवान् ।
पित्रा भ्रात्रा च सहितः स जघान शितैः शरैः ।। ८७
निपेतुश्च कराः पादाः शरीराणि शिरांसि च ।
छिन्नानि तेषां दैत्यानामवहंश्चास्रनिम्नगाः ।। ८८
साधुवादे ततो दत्ते पुष्पवर्षानुगे सुरैः ।
मोहनास्त्रं ददौ तेषां द्विषां मुक्ताफलध्वजः ।। ८९
तेन संमोहितान्भूमौ पतितांस्तान्सराजकान् ।
असुरान्वारुणास्त्रेण पाशबद्धांश्चकार सः ।। ९०
तपोधनोऽथ सोऽवादीन्मेरुध्वजनृपं मुनिः ।
न वध्यमासुरं सैन्यं हतशेषमिदं खलु ।। ९१
स्वीकृतेन ह्यनेनैव प्रवेक्ष्यध्वं रसातलम् ।
दैत्येन्द्रस्तु सपुत्रोऽयं बद्ध्वा नीत्वा समन्त्रिकः ।। ९२
महासुरैर्दुष्टनागैर्युक्तो मुख्यैश्च राक्षसैः ।
स्थाप्यो देवसभासन्ने श्वेतशैलगुहान्तरे ।। ९३
इत्युक्तो मुनिना दैत्ययोधान्मेरुध्वजोऽब्रवीत् ।
मा भैष्ट यूयं नास्माभिर्वध्या सभ्रातृकस्य तु ।। ९४
मुक्ताफलध्वजस्यास्य वर्तध्वं शासनेऽधुना ।
इत्युक्ता दानवा राज्ञा हृष्टास्तत्प्रतिपेदिरे ।। ९५
ततः स राजा तं दैत्यराजं त्रैलोक्यमालिनम् ।
पुत्रादिभिस्तैः सहितं श्वेतशैलमनाययत् ।। ९६
तद्गुहाभ्यन्तरे तं च स्थापयामास संयतम् ।
भूरिशूरबलोपेतप्रधानामात्यरक्षितम् ।। ९७
ततो निवृत्ते सङ्ग्रामे मुक्तमन्दरवृष्टिषु ।
वैमानिकेषु यातेषु प्रवृत्ते जगदुत्सवे ।। ९८
स तत्र पुत्रौ वक्ति स्म राजा मेरुध्वजो जयी ।
इहैव यज्ञरक्षार्थमहं तिष्ठामि संप्रति ।। ९९
युवां प्रयातं पातालमेतैः स्वैः सैनिकैः सह ।
प्राप्तदैत्यविमानौघै शेषासुरबलेन च ।। १००
आश्वास्य स्थापयित्वा च वशे पातालवासिनः ।
प्रधानाधिष्ठितान्कृत्वा स्वीकृत्येहागमिष्यथः ।। १०१
एतच्छ्रुत्वा तथेत्याशु दिव्यकामगवाहनः ।
मुक्ताफलध्वजो वीरः स चापि मलयध्वजः ।। १०२
रसातलं विविशतुः ससैन्यौ भ्रातरावुभौ ।
सह दानवसैन्येन प्रणतेनाग्रयायिना ।। १०३
हत्वा च रक्षिणः स्थानस्थानेषु परिपन्थिनः ।
अदातामत्र तौ शेषजनस्याभयडिण्डिमम् ।। १०४
विश्वस्तप्रणते चैतौ जने सप्त रसातलान् ।
स्वीचक्रतुः पुरशतैर्नानारत्नमयैर्युतान् ।। १७
बुभुजाते च तान्रम्यानुद्यानैः सर्वकामदैः ।
दिव्यासवभृतानेकरत्नसोपानवापिकैः ।। १०६
तत्राद्भुताकृती तौ च ददृशुर्दानवाङ्गनाः ।
तत्कन्याश्च तरुष्वन्तर्मायाच्छादितविग्रहाः ।। १०७
आरेभे च तदा तत्र भर्तुर्बद्धस्य शर्मणे ।
तपः स्वयंप्रभा नाम भार्या त्रैलोक्यमालिनः ।। १०८
तस्याः सुते च त्रैलोक्यप्रभात्रिभुवनप्रभे ।
आरेभाते तपस्तद्वत्कुमार्यौ श्रेयसे पितुः ।। १०९
तौ च राजसुतौ तत्र पाताले सकलं जनम् ।
लब्धप्रशमनस्वस्थं संमान्य विविधैः प्रियैः ।। ११०
स्थापयित्वा च सङ्ग्रामसिंहादीनधिकारिणः ।
तपोवनाश्रमपदं पितुः पार्श्वमुपेयतुः ।। १११
तावत्तत्र मुनेर्यज्ञः स समाप्तिमुपाययौ ।
गन्तुं प्रारेभिरे देवाः स्वधिष्ण्यान्यृषयस्तथा ।। ११२
ततो मेरुध्वजः शक्रं परितुष्टं व्यजिज्ञपत् ।
आगम्यतां मन्नगरं देव तुष्टोऽसि चेन्मयि ।। ११३
तच्छ्रुत्वा तत्प्रियायागान्मुनिमामन्त्र्य वासवः ।
राज्ञा तेन सपुत्रेण सह देवसभं पुरम् ।। ११४
तत्र चोपाचरत्तं स राजा लोकद्वयेश्वरः ।
तथा शक्रं यथा दिव्यं सुखं विस्मरति स्म सः ।। ११५
ततः प्रीतः स शक्रोऽपि तं सपुत्रं महीपतिम् ।
दिव्यात्मवाहेनारूढं निनाय स्वं त्रिविष्टपम् ।। ११६
तत्र नारदरम्भादिसंगीतसुखसुन्दरे ।
स विश्रमय्य तं मेरुध्वजं समलयध्वजम् ।। ११७
मुक्ताफलध्वजं चेन्द्रः पारिजातमयीः स्रजः ।
दत्त्वा सदिव्यमुकुटाः संमान्य प्राहिणोद्गृहम् ।। ११८
ते चागत्यात्र भूलोके पाताले च गतागतम् ।
कुर्वाणाश्चक्रिरे राज्यं नृदेवा लोकयोर्द्वयोः ।। ११९
ततो मेरुध्वजो मुक्ताफलध्वजमुवाच सः ।
विजिताः शत्रवः पुत्र युवानौ भ्रातरौ युवाम् ।। १२०
स्वाधीना राजकन्याश्च मया ताश्च गवेषिताः ।
वर्तन्ते प्राप्तकालस्तत्क्रियतां दारसंग्रहः ।। १२१
इति पित्रोदितेऽवादीत्सोऽथ मुक्ताफलध्वजः ।
न मे परिणये तात मनस्तावत्प्रवर्तते ।। १,२२
अहं तपश्चरिष्यामि संप्रत्याराधितुं हरम् ।
एष वत्सस्तु कुरुतां विवाहं मलयध्वजः ।। १२३
एतच्छ्रुत्वैव मलयध्वजस्तं सोऽनुजोऽब्रवीत् ।
विवाहो मम युक्तः किमार्य त्वय्यपरिग्रहे ।। १२४
राज्यं वा त्वय्यराज्यस्थे तव मार्गानुगो ह्यहम् ।
इत्युक्ते तेन मलयध्वजेनोवाच भूपतिः ।। १२५
मेरुध्वजस्तं तनयं ज्येष्ठं मुक्ताफलध्वजम् ।
युक्तमेवामुना तावदनुजेन तवोदितम् ।। १२६
त्वं त्वयुक्तं वदस्येतन्नव एवात्र यौवने ।
को नाम कालस्तपसो भोगकालो ह्ययं तव ।। १२७
तदकालोचितः पुत्र मुच्यतामेष दुर्ग्रहः ।
इति तेनोच्यमानोऽपि राज्ञा ज्येष्ठः सुतोऽत्र च ।। १२८
नाङ्गीचक्रे यदा संप्रत्युद्वाहं निश्चयेन सः ।
तदा स नृपतिस्तूष्णीं तस्थौ कालं प्रतीक्षितुम् ।। १२९
अत्रान्तरे च पाताले भार्यां त्रैलोक्यमालिनः ।
स्वयंप्रभामूचतुस्तां तपःस्थे ते स्वकन्यके ।। १३०
आवयोरम्ब सप्ताष्टवर्षयोः संयतः पिता ।
राज्यभ्रंशश्च संवृत्तः कस्मादकृतपुण्ययोः ।। १३१
अष्टमं वर्षमेतच्च तपस्यन्त्योर्न नौ हरः ।
प्रसीदति न तातोऽयं मुच्यतेऽद्यापि बन्धनात् ।। १३२
तद्यावदावयोर्न स्याद्रिपोः परिभवोऽथवा ।
निर्लक्षणामिमां तावदनले जुहुवुस्तनुम् ।। १३३
इत्युक्ता दुहितृभ्यां सा जगादैवं स्वयंप्रभा ।
पुत्र्यौ प्रतीक्ष्यतां तावदुदयी ह्यस्ति नः पुनः ।। १३४
तपःस्थितां हि मां स्वप्ने जाने देवोऽब्रवीच्छिवः ।
वत्से कुर्या धृतिं राज्यं पुनः प्राप्स्यति ते पतिः ।। १३५
मुक्ताफलध्वजश्चैष तथैव मलयध्वजः ।
दुहित्रोस्तव भर्तारौ राजपुत्रौ भविष्यतः ।। १३६
मानुषाविति मा चैतौ विज्ञासीरेतयोर्यतः ।
एको विद्याधरवरो द्वितीयो मामको गणः ।। १३७
इत्यादिष्टेश्वरेणाहं प्रबुद्धा रजनीक्षये ।
इत्याशयैतया चैष सोढः क्लेशो महान्मया ।। १३८
तस्मादावेदयाम्येतदर्थं युष्मत्पितुः प्रभोः ।
तदिच्छया यतिष्ये च युष्मदुद्वाहसिद्धये ।। १३९
एवमाश्वास्य सा राज्ञी कन्यके स्वे स्वयंप्रभा ।
उवाचेन्दुमतीं नाम वृद्धामन्तःपुरस्त्रियम् ।। १४०
आर्यपुत्रस्य निकटं श्वेतशैलगुहां व्रज ।
निपत्य पादयोस्तं च विज्ञापय गिरा मम ।। १४१
निर्मितास्मि महाराज धात्रान्येनैव दारुणा ।
त्वद्वियोगाग्निनाद्यापि न दह्ये ज्वलतापि या ।। १४२
आत्मा तु न मया त्यक्तः पुनस्त्वद्दर्शनाशया ।
इत्युक्त्वा मामकं शार्वं स्वप्नादेशं निवेदयेः ।। १४३
ततः कन्याविवाहार्थं पृच्छेस्तं यच्च वक्ष्यति ।
तत्त्वयागत्य मे वाच्यं विधास्येऽहं तथाविधम् ।। १४४
इत्युक्त्वेन्दुमतीं तां सा प्रैषयत्सापि निर्गता ।
पातालात्प्राप तच्छैलगुहाद्वारं सुरक्षितम् ।। १४५
रक्षिणोऽभ्यर्थ्य तत्रान्तः प्रविश्यालोक्य संयतम् ।
त्रैलोक्यमालिनं तं सा साश्रुर्जग्राह पादयोः ।। १४६
तत्पृष्टकुशला तच्च शनैस्तस्मै शशंस सा ।
कृत्स्नं स्वभार्यासंदेशं ततो राजा जगाद सः ।। १४७
यः प्रोक्तो राज्यलाभो नः शर्वेणास्तु तथैव सः ।
मेरुध्वजस्यात्मजयोः कन्यादाने तु का कथा ।। १४८
इहैवाहं विपद्येय न तु दद्यां निजात्मजे ।
शत्रुभ्यां मानुषाभ्यां च संयतः सन्नुपायनम् ।। १४९
इत्युक्त्वेन्दुमती राज्ञा प्रेषिता तेन सा ततः ।
एत्य स्वयंप्रभायै तत्तत्पत्न्यै तद्वचोऽभ्यधात् ।। १५०
श्रुत्वा ततस्ते त्रैलोक्यप्रभात्रिभुवनप्रभे ।
दैत्येन्द्रकन्ये जननीमूचतुस्तां स्वयंप्रभाम् ।। १५१
आवयोर्यौवनभयादग्निरेवाधुना गतिः ।
तदम्बास्यां चतुर्दश्यां तत्प्रवेशं विदध्वहे ।। १५२
कृतनिश्चययोरेवं तयोः साप्यकरोत्तदा ।
निश्चयं मरणायैव तन्माता सपरिच्छदा ।। १५३
प्राप्तायां च चतुर्दश्यां ताः पापरिपुनामनि ।
तीर्थे सर्वाश्चिताश्चक्रुरर्चित्वा हाटकेश्वरम् ।। १५४
तावन्मेरुध्वजो राजा तिथौ तस्यां सपुत्रकः ।
सभार्यश्चाययौ तावद्धाटकेश्वरमर्चितुम् ।। १५५
स पापरिपुतीर्थं तत्स्नानार्थं सानुगो व्रजन् ।
दूराद्ददर्श तत्तीरे वनान्तर्धूममुद्गतम् ।। १५६
धूमोद्गमः कुतोऽत्रेति पृच्छन्तं तं च भूपतिम् ।
ऊचुः सङ्ग्रामसिंहाद्याः पातालाधिकृता निजाः ।। १५७
त्रैलोक्यमालिनो भार्या महाराज स्वयंप्रभा ।
दुहितृभ्यां कुमारीभ्यां सहात्र तपसि स्थिता ।। १५८
नूनं ता अग्निकार्यादि किंचिदत्राद्य कुर्वते ।
यदि वातितपःखिन्नाः कुर्वन्त्यग्निप्रवेशनम् ।। १५९
तच्छ्रुत्वा सह पुत्राभ्यां पत्न्या तैश्चाधिकारिभिः ।
द्रष्टुं स राजा तत्रागान्निषिद्धान्यपरिच्छदः ।। १६०
ददर्श चात्र प्रच्छन्नः स्थितस्ते दैत्यकन्यके ।
समातृके पूजयन्त्यौ सुसमिद्धं चितानलम् ।। १६१
मुखलावण्यसंदोहनिःस्यन्दैर्दिक्षु सर्वतः ।
चन्द्रबिम्बशतानीव रचयन्त्यौ रसातले ।। १६२
लोलहाराम्बुपूराभ्यां कामस्येवाभिषेचनम् ।
कुचकाञ्चनकुम्भाभ्यां कुर्वत्यौ त्रिजगज्जये ।। १६३
बिभ्राणे जघनाभोगं विपुलं बद्धमेखलम् ।
नक्षत्रमालाङ्कमिव स्मरद्विपशिरःस्थलम् ।। १६४
वहन्त्यौ केशपाशौ च पन्नगाविव निर्मितौ ।
धात्रा लावण्यसर्वस्वनिधानं रक्षितुं तयोः ।। १६५
दृष्ट्वा ते चिन्तयामास स राजा जातविस्मयः ।
अहो विश्वसृजः सृष्टिर्लसन्नवनवाद्भुता ।। १६६
तदेतयोर्न रम्भापि नोर्वशी न तिलोत्तमा ।
रूपे भजति तुल्यत्वमसुराधिपकन्ययोः ।। १६७
इति चिन्तयतस्तस्य राज्ञः सा दैत्यकन्यका ।
ज्येष्ठार्चयित्वा त्रैलोक्यप्रभा वह्निं व्यजिज्ञपत् ।। १६८
उक्तः स्वप्नहरादेशो यतः प्रभृति मेऽम्बया ।
ततः प्रभृति बद्धैव भर्तृबुद्धिर्यतो मया ।। १६९
तस्मिन्गुणनिधौ राजपुत्रे मुक्ताफलध्वजे ।
तत्स एव पतिर्भूयाद्भगवन्मेऽन्यजन्मनि ।। १७०
इह जन्मनि तातेन संयतस्थेन मानिना ।
दित्सिताप्यम्बया तस्मै दातुं नाङ्गीकृतास्मि यत् ।। १७१
तच्छ्रुत्वा तद्वदेवात्र सापि त्रिभुवनप्रभा ।
वव्रे हुताशान्मलयध्वजं जन्मान्तरे पतिम् ।। १७२
ततो मेरुध्वजो राजा स तच्छ्रवणहर्षुलः ।
तद्भार्या च महादेवी परस्परमवोचताम् ।। १७३
प्राप्नुयातामिमे भार्ये यद्यस्मत्तनयाविभौ ।
तदेताभ्यामवाप्तं स्याल्लोकद्वयजयात्फलम् ।। १७४
तद्यावदस्मिन्ननले नात्मानं क्षिपतः क्षणम् ।
तावत्किं नोपसृत्यैते वारयामः समातृके ।। १७५
एवं देव्या सहालोच्य राजावोचदुपेत्य ताः ।
मा कार्ष्ट साहसं दुःखं शमयिष्याम्यहं हि वः ।। १७६
श्रुत्वैतच्छ्रोत्रपीयूषवर्षाभं भूपतेर्वचः ।
दृष्ट्वा च तं ताः सकलाः प्रणेमुरसुराङ्गनाः ।। १७७
पश्यन्त्योऽपि वयं पूर्वं मायाच्छन्ना न लक्षिताः ।
लोकद्वयेश्वरेणेह दृष्टाः स्मोऽद्य पुनस्त्वया ।। १७८
त्वद्दृष्टानां च दुःखान्तो भवत्येवाचिरेण नः ।
किं पुनः स्वगिरा दत्ते देवेनाभ्यर्थिते वरे ।। १७९
तद्गृहीतार्घ्यपाद्यादि कृतासनपरिग्रहाः ।
भवन्तो हि जगत्पूज्या अयं चास्माकमाश्रमः ।। १८०
इति स्वयंप्रभामुक्तवतीमाह हसन्नृपः ।
जामातृभ्यां त्वयैताभ्यां पाद्यार्घ्यं दीयतामिति ।। १८१
ततः स्वयंप्रभावादीत्तदेताभ्यां वृषध्वजः ।
देवो दापयितार्घादि युष्माभिस्त्वद्य गृह्यताम् ।। १८२
मेरुध्वजो जगादाथ सर्वमात्तमिदं मया ।
यूयं च मरणोद्योगान्निवर्तध्वमितोऽधुना ।। १८३
प्रविश्य तिष्ठतैकस्मिन्स्वपुरे सर्वकामदे ।
ततोऽहमेव ज्ञास्यामि यथा वः कुशलं भवेत् ।। १८४
इत्युक्तवन्तं राजानः सा जगाद स्वयंप्रभा ।
देवादेशान्निवृत्ताः स्मः शरीरत्यागनिश्चयात् ।। १८५
कारास्थे तु प्रभौ युक्ता कथं नः स्वगृहस्थितिः ।
तदिहैव वयं तावत्तिष्ठामो देव संप्रति ।। १८६
यावद्देवः स्वयं दत्तं वरं नः पालयिष्यति ।
ससुतामात्यमस्माकं मोचयिष्यति च प्रभुम् ।। १८७
मुक्तस्त्वदधिकारी सन्स च राज्यं करिष्यति ।
अर्पयिष्यति राज्यं च तुभ्यमेव त्वदिच्छया ।। १८८
समयप्रतिबन्धं च स करिष्यति तादृशम् ।
अन्तरस्था वयं चात्र सह पातालवासिभिः ।। १८९
पातालेभ्योऽस्मदीयानि रत्नानि स्वीकुरुष्व च ।
एवमुक्तवतीं तां स राजा मेरुध्वजोऽब्रवीत् ।। १९०
विज्ञास्याम्यहमेवैतत्स्मर्तव्यं स्ववचस्तु वः ।
इत्युक्त्वा स नृपः स्नात्वा हाटकेशमपूजयत् ।। १९१
दैत्यराजसुते ते च तयोरेवं स्वदृष्टयोः ।
तत्पुत्रयोस्तदेकाग्रगतचित्ते बभूवतुः ।। १९२
अथ स रसातलनिलयैर्निखिलैस्त्रैलोक्यमालिनो मुक्तिम् ।
प्रणिपत्य याच्यमानो राजा मेरुध्वजः सुकृती ।। १९३
छत्रैः स्वयशःशुभ्रैः स्थगयन्नाशाः सदारसुतभृत्यः ।
निर्गत्यासुरलोकात्तस्मादागान्निजं नगरम् ।। १९४
तत्रास्य पुत्रो मलयध्वजस्तां कनीयसीं दानवराजपुत्रीम् ।
ध्यायन्ननिद्रोऽपि निमीलिताक्षः स्मरज्वरार्तो रजनीं निनाय ।। १९५
स धैर्यजलधिस्तु तामपि विचिन्त्य मुक्ताफल-
ध्वजोऽसुरपतेः सुतां दृढनिबद्धभावां युवा ।
मुनीन्द्रमनसामपि स्मरविकारदां ज्यायसीं
पुरार्थितवरो मुनेर्न खलु चुक्षुभे चेतसा ।। १९६
मेरुध्वजस्तु तमवेत्य सुतं निषिद्धदारक्रियं स्मरवशं मलयध्वजं च ।
कन्याप्रदानविमुखं च महासुरं तमासीदुपायघटनाकुलचित्तवृत्तिः ।। १९७
इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे पद्मावतीलम्बके पञ्चमस्तरङ्गः ।