ततो मेरुध्वजो राजा तं तथा मलयध्वजम् ।
पश्यन्स्मरज्वराक्रान्तं देवीं स्वामेवमब्रवीत् ।। १
पातालदृष्टे त्रैलोक्यमालिनस्ते सुते न चेत् ।
भार्ये मत्पुत्रयोः स्यातां तन्मया किं कृतं भवेत् ।। २
तयोः कनिष्ठां च विना पुत्रो मे मलयध्वजः ।
लज्जानिगूढकामाग्निः पुटपाकेन पच्यते ।। ३
तदर्थं च मयाद्यापि मोक्षस्त्रैलोक्यमालिनः ।
प्रतिश्रुतोऽपि तत्पत्न्यै सत्वरं न विधीयते ।। ४
बन्धमुक्तो दुहितरावसुरत्वाभिमानतः ।
पुत्राभ्यां मानुषाभ्यां मे स दद्यान्नहि जातुचित् ।। ५
तदेतमर्थं सान्त्वेन ब्रूमस्तस्याधुना वरम् ।
इत्यालोच्य समं देव्या स प्रतीहारमादिशत् ।। ६
श्वेतशैलगुहां गत्वा प्रीत्या मद्वचनेन तम् ।
त्रैलोक्यमालिनं ब्रूहि दैत्येन्द्रं संयतस्थितम् ।। ७
दैवयोगादिह क्लिष्टा यूयं दैत्यपते चिरम् ।
तदिदानीं मम वचः कृत्वा क्लेशं शमं नय ।। ८
देहि दृष्ट्यानुरागिण्यौ मत्सुताभ्यां स्वकन्यके ।
इतो मुक्तः स्वराज्यं च विहितप्रत्ययः कुरु ।। ९
इत्युक्त्वा प्रेषितो राज्ञा गत्वा तत्र गुहान्तरे ।
दैत्येन्द्रायाब्रवीत्तस्मै क्षत्ता राजवचः स तत् ।। १०
मानुषाभ्यामहं कन्ये न दास्यामीति तेन च ।
प्रत्युक्तः स तथैवेत्य क्षत्ता राजानमभ्यधात् ।। ११
अथोपायं विचिन्वाने तस्मिन्मेरुध्वजे नृपे ।
दिवसेषु च यातेषु विज्ञाततदुदन्तया ।। १२
पातालात्प्रेषिता भूयः सा स्वयंप्रभया तया ।
आगादिन्दुमती तत्र दूती संदेशहारिणी ।। १३
सा चागत्य प्रतीहार्या मुखेनावेदितात्मका ।
प्रविवेश महादेव्या निकटं तत्कृतादरा ।। १४
प्रणिपत्याब्रवीत्तां च देवि देवी स्वयंप्रभा ।
विज्ञापयति किं वस्तद्विस्मृतं वचनं निजम् ।। १४
अब्धयः कुलशैलाश्च भवन्ति प्रलयेऽन्यथा ।
भवादृशां तु वचनं न तदाप्यन्यथा भवेत् ।। १६
यद्यप्युपगतं नास्मत्स्वामिना कन्यकार्पणम् ।
तत्स बद्धो दुहितरौ कथं दद्यादुपायनम् ।। १७
औचित्येनोपकाराय युष्माभिश्चेत्स मुच्यते ।
तन्निश्चितं सुतादानात्कुर्याद्वः प्रत्युपक्रियाम् ।। १८
सकन्यापि त्यजेत्प्राणानन्यथा सा स्वयंप्रभा ।
तेन न स्यात्सुताप्राप्तिर्न च वः सत्यपालनम् ।। १९
तत्कुरुष्व तथा देवि समयप्रत्ययादिना ।
यथा राजा विमुञ्चेत्तं प्रभुं नः सर्वसिद्धये ।। २०
स्वयंप्रभाविसृष्टं च गृहाणेदं विभूषणम् ।
दिव्यैस्तैस्तैश्चितं रत्नैः खेचरत्वादिदायिभिः ।। २१
एवमुक्तवतीमिन्दुमतीं राज्ञी जगाद सा ।
दुःखितायाः कथं तस्या मयैतद्गुह्यतामिति ।। २२
अगृहीते त्वयैतस्मिन्नस्माकमधृतिर्भवेत् ।
गृहीते तु निजं दुःखं शान्तं मन्यामहे वयम् ।। २३
इतीन्दुमत्या राज्ञी सा तया यत्नेन बोधिता ।
आश्वासहेतोस्तस्यास्तद्रत्नाभरणमग्रहीत् ।। २४
इहैव तावत्तिष्ठार्ये राजा यावदुपैष्यति ।
इत्युक्त्वा तां च तत्रैव राज्ञी स्थापयति स्म सा ।। २५
तावत्स राजा तत्रागादुत्थायेन्दुमती च सा ।
राज्ञीनिवेदिता भूपं प्रणनाम तदादृता ।। २६
स्वयंप्रभावितीर्णं च चूडारत्नं समर्पयत् ।
विषरक्षोजरारोगहरं तस्मै नृपाय सा ।। २७
स्वसत्यमनुपाल्यैतद्ग्रहीष्यामीति वादिनम् ।
नृपमिन्दुमती सा तमेवं प्रौढा व्यजिज्ञपत् ।। २८
देवेन प्रतिपन्नं चेत्सत्यं पालितमेव तत् ।
अस्मिन्गृहीते त्वस्माकमाश्वासः सुतरां भवेत् ।। २९
एवं तयोक्ते साधूक्तमित्युक्त्वैवास्य भूपतेः ।
चूडारत्नं तदादाय राज्ञी मूर्ध्नि बबन्ध सा ।। ३०
ततः स्वयंप्रभावाक्यं यथा राज्ञ्यै निवेदितम् ।
तथा शशंस सा राज्ञे तस्मायिन्दुमती पुनः ।। ३१
ततो राज्ञ्या तथैवोक्तोऽवादीदिन्दुमती नृपः ।
इहैवाद्य प्रतीक्षस्व प्रातर्वक्ष्याम्यहं तव ।। ३२
इत्युक्त्वा तां निशां नीत्वा प्रातराहूय मन्त्रिणः ।
स तामिन्दुमतीमेवं राजा मेरुध्वजोऽब्रवीत् ।। ३३
एभिर्मन्मन्त्रिभिः साकं राज्ञे त्रैलोक्यमालिने ।
आवेद्य गत्वा पातालादानयासुरयोषितः ।। ३४
स्वयंप्रभाद्याः सर्वांश्च मुख्यान्पातालवासिनः ।
हाटकेश्वरसंबन्धि मुद्रितं कोषवारि च ।। ३५
अस्मद्वशे वर्तितव्यं नित्यं त्रैलोक्यमालिना ।
सभृत्यबन्धुना भाव्यं नागैश्चासस्यघातिभिः ।। ३६
अत्रार्थे भर्तृचरणान्स्पृष्ट्वा मन्मन्त्रिसंनिधौ ।
स्वयंप्रभाद्याः शपथैरन्तरस्था भवन्तु नः ।। ३७
पातालवासिनः सन्तु तद्वत्प्रतिभुवोऽखिलाः ।
अपत्यानि च सर्वेऽपि स्थापयन्तु सराजकाः ।। ३८
सराजकाश्च लिखितं कुर्वन्तु निखिला अपि ।
हाटकेश्वरसर्वाङ्गवारिकोषं पिबन्तु च ।। ३९
ततो मोक्ष्याम्यहं कारागृहात्त्रैलोक्यमालिनम् ।
इत्युक्त्वेन्दुमतीं राजा सामात्या विससर्ज सः ।। ४०
सा गत्वा मन्त्रिसहितां प्रोच्य त्रैलोक्यमालिने ।
तच्छ्रद्धिता तथैवेन्दुमती पातालमाविशत् ।। ४१
स्वयंप्रभादीनानीय कोषवारि च सा ततः ।
राजोक्तं तदमात्याग्रे सर्वान्सर्वमकारयत् ।। ४२
विहितप्रत्ययं तं च मुमोच सपरिच्छदम् ।
त्रैलोक्यमालिनं मेरुध्वजः कारागृहान्नृपः ।। ४३
आनीय च गृहं सम्यक्संमान्य सपरिग्रहम् ।
स्वीकृतासुररत्नौघः स्वराज्ये विससर्ज तम् ।। ४४
सोऽपि त्रैलोक्यमाली स्वं पुनरेत्य रसातलम् ।
प्राप्तराज्यो ननन्द स्वैः सहितो भृत्यबान्धवैः ।। ४५
मेरुध्वजश्च पातालप्रभवैरर्थसंचयैः ।
पृथिवीं पूरयामास प्रावृड्घन इवाम्बुभिः ।। ४६
अथ त्रैलोक्यमाली स संमन्त्र्य निजभार्यया ।
कन्यारत्नद्वयं दित्सुस्तत्सुताभ्यां स्ववेश्मनि ।। ४७
नृपं मेरुध्वजं नेतुं तं निमन्त्र्य सबान्धवम् ।
स्मृतोपकारो दैत्येन्द्रः पातालात्स्वयमाययौ ।। ४८
आगत्य तं च राजानं कृतातिथ्यमुवाच सः ।
युष्माभिर्नातिनिर्वृत्या तदा दृष्टं रसातलम् ।। ४९
परिचर्यापरेष्वस्मास्विदानीमेत्य दृश्यताम् ।
कन्यारत्ने मदीये च गृह्येतां सुतयोः कृते ।। ५०
इत्युक्तेऽसुरराजेन तेन मेरुध्वजोऽथ सः ।
तत्रैवानाययामास भार्यां पुत्रौ च तावुभौ ।। ५१
तेभ्योऽसुरेन्द्रवाक्यं तत्कन्यादानान्तमब्रवीत् ।
ततो जगाद तं ज्येष्ठः पुत्रो मुक्ताफलध्वजः ।। ५२
विवाहं न करिष्येऽहमनाराधितशंकरः ।
उक्तं मया प्राक्क्षन्तव्यमेतस्मान्मेऽपराधतः ।। ५३
मयि प्रयाते भवनं करोतु मलयध्वजः ।
विना पातालकन्यां तां नाख्येवास्य हि निर्वृतिः ।। ५४
तच्छ्रुत्वा स कनीयांस्तमवादीन्न त्वयि स्थिते ।
अयशस्यमधर्म्यं च करोम्यार्याहमीदृशम् ।। ५५
ततो मेरुध्वजे राज्ञि प्रयत्नाद्बोधयत्यपि ।
मुक्ताफलध्वजो नैच्छत्स्वविवाहक्रियां यदा ।। ५६
तदा त्रैलोक्यमाली तं खिन्नमामन्त्र्य भूपतिम् ।
ययौ स्वमेव पातालं सानुगः स यथागतम् ।। ५७
तत्र वृत्तान्तमावेद्य भार्यां पुत्रं च सोऽभ्यधात् ।
न्यक्कारैकपरोऽस्माकं कीदृशः पश्यतं विधिः ।। ५८
मानुषौ नाद्य गृह्णीतः कन्ये मे प्रार्थितावपि ।
पूर्वं ये प्रार्थिते ताभ्यां दातुं नाङ्गीकृते मया ।। ५९
तच्छ्रुत्वा तौ जगदतुः को जानाति कथं विधेः ।
चेतस्येतत्स्थितं किं हि शांभवं स्याद्वचोऽन्यथा ।। ६०
इत्यादि तेषां वदतां बुद्ध्वा ते तत्र चक्रतुः ।
कन्ये प्रतिज्ञां त्रैलोक्यप्रभात्रिभुवनप्रभे ।। ६१
द्वादशाहं निराहारस्थितयोरावयोर्यदि ।
देवो विवाहसंपत्तिप्रसादं न करिष्यति ।। ६२
ततश्च कार्यमावाभ्यां सहैवाग्निप्रवेशनम् ।
न तु धार्यं निकारार्थं वृत्त्यर्थं वा शरीरकम् ।। ६३
एवं नियम्य देवस्य पुरतस्तस्थतुश्च ते ।
निराहारे जपध्यानपरे दैत्येन्द्रकन्यके ।। ६४
तद्बुद्ध्वा च तयोर्माता पिता च दितिजेश्वरः ।

तथैवात्र निराहारावास्तां दुहितृवत्सलौ ।। ६५
ततः स्वयंप्रभा सा तां तन्मातेन्दुमतीं पुनः ।
मेरुध्वजमहादेव्यै वक्तुं तत्प्राहिणोद्द्रुतम् ।। ६६
तया गत्वा तदाख्यातं स्वस्वामिगृहसंकटम् ।
राज्ञ्यै तस्यै विवेदाथ राजा मेरुध्वजोऽपि तत् ।। ६७
ततस्तदनुरोधात्तौ जहतुस्तत्र दंपती ।
आहारं तौ च तत्पुत्री पितृभक्त्यनुरोधिनौ ।। ६८
एवं लोकद्वये राजगृहयोः संकटस्थयोः ।
मुक्ताफलध्वजोऽनश्नन्ध्यातवाञ्शरणं शिवम् ।। ६९
पड्रात्रे च गते राजपुत्रः प्रातः प्रबुध्य सः ।
पूर्वं संयतकं मित्त्रं महाबुद्धिमभाषत ।। ७०
सखे स्वप्रेऽद्य जानेऽहमारूढो वाहने निजे ।
तपोधनमुनिप्रत्ते कामरूपे मनोगतौ ।। ७१
विमानतामुपगते निर्वेदान्मेरुपार्श्वगम् ।
गौरीशायतनं दिव्यमतिदूरमितो गतः ।। ७२
तत्रापश्यमहं कांचिद्दिव्यकन्यां तपःकृशाम् ।
तामुद्दिश्याब्रवीन्मां च जटाभृत्पुरुषो हसन् ।। ७३
एकस्याः कन्यकायास्त्वं पलाय्यैवमिहागतः ।
इहैषा च द्वितीया ते संप्राप्ता पश्य तिष्ठति ।। ७४
तदाकर्ण्य वचस्तस्य तत्कन्यारूपदर्शने ।
अतृप्त एव सहसा प्रबुद्धोऽस्मि निशाक्षये ।। ७५
तस्मात्तत्रैव गच्छामि प्राप्तुं तां दिव्यकन्यकाम् ।
प्राप्स्यामि चेन्न तां तत्र प्रवेक्ष्यामि हुताशनम् ।। ७६
तां तथोपनतां हित्वा दैत्यकन्यां मनो मम ।
रज्यते स्वप्नदृष्टायामस्यां किं क्रियते विधेः ।। ७७
जाने च तत्र यातस्य निश्चितं शुभमस्ति मे ।
इत्युक्त्वा तत्स सस्मार मुनिदत्तं स्ववाहनम् ।। ७८
तदारुह्य विमानत्वं प्राप्तं सख्या समं च सः ।
मनःसंकल्पितस्थानप्रापकं कामरूपकृत् ।। ७९
मुक्ताफलध्वजः प्रायाद्दिव्यं गौरीशधाम तत् ।
प्राप्य तच्च यथा स्वप्ने दृष्टं पश्यञ्जहर्ष सः ।। ८०
ततः प्रववृते तत्र स सिद्धोदकनामनि ।
तीर्थे स्नानादिकं कर्तुं सख्येकपरिचारकः ।। ८१
तावत्तं क्वाप्यविज्ञातगतं बुद्ध्वा स तत्पिता ।
राजा मेरुध्वजो भार्यासुतादिसहितस्तदा ।। ८२
उपवासकृशो दुःखक्षोभं स्वपुरगो दधौ ।
तथा तदैव पातालेऽप्येतत्सर्वमबुध्यत ।। ८३
ततस्त्रैलोक्यमाली स गृहीत्वा ते स्वकन्यके ।
सोपवासः सभार्यादिस्तत्रैवागान्नृपान्तिकम् ।। ८४
चतुर्दश्यां गतः सोऽद्य नूनं क्वाप्यर्चितुं हरम् ।
तत्प्रतीक्षामहे तावदिहैवैतद्दिनं वयम् ।। ८५
प्रातर्यत्र स तत्रैव यास्यामो नागतो यदि ।
ततो यद्भवतीत्येव सर्वे ते निश्चयं व्यधुः ।। ८६
अत्रान्तरे मेघवने तस्मिन्नौर्याश्रमे स्थिता ।
सापि पद्मावती तस्मिन्दिनेऽवादीन्निजाः सखीः ।। ८७
सख्यः स्वप्नेऽद्य जाने मां सिद्धीश्वरगतां पुमान् ।
जटाधरोऽब्रवीत्कोऽपि देवागाराद्विनिर्गतः ।। ८८
दुःखं समाप्तमासन्नो भर्त्रा ते पुत्रि संगमः ।
इत्येवोक्त्वा गतेऽस्मिन्मे गते निद्रानिशे अपि ।। ८९
तदेत तत्र गच्छाम इत्युक्त्वा सा जगाम तत् ।
मेरुपार्श्वस्थितं पद्मावती गौरीशकेतनम् ।। ९०
तत्र सिद्धोदके स्नान्तं दूरान्मुक्ताफलध्वजम् ।
दृष्ट्वा सविस्मया सा तं स्वसखीरेवमब्रवीत् ।। ९१
सदृशो मे प्रियस्यायं पुमान्पश्यत कीदृशः ।
आश्चर्यं किं स एव स्यान्नास्त्येतन्मानुषो ह्ययम् ।। ९२
तच्छ्रुत्वा तं च दृष्ट्वा ताः सख्यस्तामेवमब्रुवन् ।
न केवलं सुसदृशो देव्ययं प्रेयसस्तव ।। ९३
यावदेतद्वयस्योऽयं त्वत्कान्तसुहृदः किल ।
तस्य संयतकस्यापि पश्य सादृश्यमश्नुते ।। ९४
यत्त्वया वर्णितं देवि यथाद्य स्वप्नदर्शनम् ।
तथा जानीमहे व्यक्तं शापान्मानुषतां गतौ ।। ९५
तावेवैताविहानीतावीश्वरेण स्वयुक्तितः ।
मानुषागमनं देवभूमावस्यां कुतोऽन्यथा ।। ९६
एवं सखीभिरुक्ता सा पद्मावत्यर्चितेश्वरा ।
तस्थौ देवान्तिके छन्ना तं जिज्ञासितुमुत्सुका ।। ९७
तावत्स्नात्वार्चितुं देवं तत्र मुक्ताफलध्वजः ।
आगतः सर्वतो वीक्ष्य महाबुद्धिमुवाच तम् ।। ९८
तदेवायतनं चित्रमिदं स्वप्ने यदीक्षितम् ।
लिङ्गान्तर्दृश्यगौरीशमूर्ति रत्नमयं मया ।। ९९
तानेव चैतान्पश्यामि स्वप्नदृष्टानिहाधुना ।
प्रदेशान्दिव्यविहगस्फुरद्रत्नप्रभद्रुमान् ।। १००
तत्कालदृष्टां दिव्यां तु कन्यां पश्यामि नेह ताम् ।
अप्राप्तया तया चेह देहं त्यक्ष्यामि निश्चितम् ।। १०१
इत्युक्ते तेन सख्यस्तामूचुः पद्मावतीं रहः ।
शृणु नूनमिह स्वप्ने दृष्ट्वा त्वामयमागतः ।। १०२
त्वद्दर्शनेनैव विना त्यक्तुं प्राणान्समीहते ।
तन्निगूढस्थिता एव पश्यामो देवि निश्चयम् ।। १०३
इति च्छन्नासु तास्वत्र स्थितास्वन्तः प्रविश्य सः ।
मुक्ताफलध्वजो देवमर्चयित्वा विनिर्ययौ ।। १०४
निर्गत्य यावत्कुरुते भक्तितस्त्रिः प्रदक्षिणम् ।
तावत्स च सखा चास्य जातिं सस्मरतुर्निजाम् ।। १०५
हर्षाच्च पूर्ववृत्तान्तं यावदन्योन्यमाहतुः ।
तावत्पद्मावती दृष्टिगोचरं सा ययौ तयोः ।। १०६
मुक्ताफलध्वजः पूर्वजन्मवृत्तं स्मरंश्च सः ।
तां दृष्ट्वैव तमाह स्म वयस्यं हर्षनिर्भरः ।। १०७
दृष्टा सेयमिह स्वप्ने देवी पद्मावती मया ।
दिष्ट्या प्राप्ता च तदिमामाशु संभावयाम्यहम् ।। १०८
इत्युक्त्वोपेत्य साश्रुस्तामवोचद्देवि माधुना ।
कापि यासीरहं मुक्ताफलकेतुः स ते प्रियः ।। १०९
दृढव्रतस्य शापेन मानुषीभूय संस्मृता ।
जातिर्मयाद्येत्युक्त्वा तामैच्छदाश्लेष्टुमुत्सुकः ।। ११०
सा तूद्भ्रान्ता तिरोभूय तत्रासीत्साश्रुलोचना ।
सोऽपि राजसुतोऽपश्यंस्तां मोहादपतद्भुवि ।। १११
ततः सदुःखमाकाशे तद्वयस्यो जगाद सः ।
यदर्थं स तपःक्लेशो देवि पद्मावति त्वया ।। ११२
अनुभूतः कथं प्राप्तं तमेवं नाभिभाषसे ।
अहं संयतकः सोऽपि वयस्यो दयितस्य ते ।। ११३
तद्युष्मदर्थं शप्तस्य किं मे नालपसि प्रियम् ।
इत्युक्त्वा स समाश्वास्य तमुवाच नृपात्मजम् ।। ११४
तथानुरागोपगता दैत्यराजसुता त्वया ।
यत्त्यक्ता तस्य पापस्य तवागतमिदं फलम् ।। ११५
तच्छ्रुत्वा सा सखीराह च्छन्ना पद्मावती तदा ।
शृणुतासुरकन्यासु न किलायं प्रवर्तते ।। ११६
ततः सख्योऽपि तामूचुः सर्वं संवादि दृश्यते ।
किं न स्मरसि यत्तेन शापकाले प्रियेण ते ।। ११७
मानुष्ये मे मनोऽन्यत्र मा गात्पद्मावतीं विना ।
इत्यर्थितो वरस्तस्मान्मुनेः पूर्वं तपोधनात् ।। ११८
तत्प्रभावादयं नूनमन्यस्त्रीषु न रज्यते ।
श्रुत्वैतद्राजपुत्री सा संजज्ञे संशयाकुला ।। ११९
मुक्ताफलध्वजः सोऽपि दृष्टनष्टप्रियस्ततः ।
चक्रन्द हा प्रिये पद्मावति किं नैतदीक्षसे ।। १२०
विद्याधरत्वे यत्प्राप्तः शापो मेघवने मया ।
त्वदर्थमिह चाद्याहं मृत्युं प्राप्स्याम्यसंशयम् ।। १२१
इत्यादि क्रन्दितं तस्य श्रुत्वा पद्मावती सखीः ।
प्राह सर्वाणि संवादीन्यभिज्ञानानि यद्यपि ।। १२२
तथापि पारम्पर्येण श्रुतान्येतानि जातुचित् ।
आभ्यां भवेयुरिति मे न चेतोऽभ्येति निश्चयम् ।। १२३
तन्नार्तमस्य शक्नोमि वचः श्रोतुं व्रजाम्यहम् ।
तद्गौर्यायतनं तावत्पूजाकालश्च तत्र मे ।। १२४
इत्युक्त्वा ससखीका सा पद्मावत्यम्बिकाश्रमम् ।
तज्जगामार्चयित्वा च देवीमेवं व्यजिज्ञपत् ।। १२५
स सिद्धीश्वरदृष्टश्चेत्सत्यं पूर्वप्रियो मम ।
तत्तथा कुरु येन स्याच्छीघ्रमेतेन संगमः ।। १२६
इति पद्मावती यावत्साकाङ्क्षा तत्र तिष्ठति ।
मुक्ताफलध्वजस्तावत्सोऽपि सिद्धीश्वरे स्थितः ।। १२७
पूर्वं संयतकं मित्त्रं महाबुद्धिमुवाच तम् ।
जाने सा स्वास्पदं याता तद्गौर्यायतनं सखे ।। १२८
तदेहि यावस्तत्रैवेत्युक्त्वारुह्य मनोगतौ ।
तस्मिन्विमाने सोऽप्यागादम्बिकाश्रममेव तत् ।। १२९
दूरादृष्ट्वावतीर्णं तं विमानेन नभस्तलात् ।
सख्यः पद्मावतीमूचुर्देवि पश्येदमद्भुतम् ।। १३०
स इहाप्येष दिव्येन विमानेनागतः किल ।
मानुषस्यापि दिव्योऽस्य प्रभावः कथमीदृशः ।। १३१
ततः पद्मावती स्माह सख्यः स्मरथ किं न तत् ।
यत्स शापप्रदातास्य मया शप्तो दृढव्रतः ।। १३२
मानुषत्वेऽवतीर्णस्य वाहनं कामरूपभृत् ।
इच्छानुगतमस्यैव भविष्यति भवानिति ।। १३३
तत्तेन मुनिशिष्येण वाहनेनैष निश्चितम् ।
विमानरूपं दधता स्वेच्छं भ्रमति सर्वतः ।। १३४
एवं तयोक्ते सख्यस्तामूचुरेवमवैषि चेत् ।
तन्न संभावयस्येतं कस्माद्देवि किमीक्षसे ।। १३५
एतत्सखीवचः श्रुत्वा पद्मावत्यवदत्पुनः ।
एवं संभाव्यते सख्यो निश्चयोऽद्यापि नास्ति मे ।। १३६
सत्यं स एव यदि वा भवत्येष तथापि मे ।
अभिगम्योऽन्यदेहस्थः स्वदेहानाश्रितः कथम् ।। १३७
तच्छन्ना एव पश्यामस्तावदस्येह चेष्टितम् ।
इत्युक्त्वा राजपुत्रीं सा छन्नैवासीत्सखीवृता ।। १३८
तावत्तत्रावतीर्यैव विमानादम्बिकाश्रमे ।
मुक्ताफलध्वजः सोत्को वयस्यं तमुवाच सः ।। १३९
अमुत्र राक्षसीत्रस्ता पूर्वं संभाविता मया ।
स्वयंवरागता चेह दृष्टोद्यानान्तरे पुनः ।। १४०
इह चावाप्तशापं मामनुसर्तुमनास्तदा ।
प्रिया पद्मावती कृच्छ्रान्मुनीन्द्रेण निवर्तिता ।। १४१
सैवाद्य पश्य मे मित्र दृष्टिमार्गात्पलायते ।
एतत्तस्य वचः श्रुत्वा पद्मावत्यब्रवीत्सखीः ।। १४२
सत्यं सख्यः स एवायं पूर्वदेहमनाश्रितम् ।
कथं तूपैम्यमुं तन्मे सोऽत्र सिद्धीश्वरो गतिः ।। १४३
तेनैव दत्तः स्वप्नो मे स एव च करिष्यति ।
उपायमिति निश्चित्य सागात्सिद्धीश्वरं पुनः ।। १४४
पूर्वदेहस्थितेनैव प्रियेण मम संगमम् ।
कुरु वा देहि वा मृत्युं तृतीया न गतिर्मम ।। १४५
इति विज्ञापयामास सा तमभ्यर्च्य धूर्जटिम् ।
ससखीका च तत्रैव तस्थौ देवकुलाङ्गने ।। १४६
तावद्गौर्याश्रमे तत्र तां स मुक्ताफलध्वजः ।
अन्विष्याप्राप्य चोद्विग्नस्तमवादीद्वयस्यकम् ।। १४७
इतः प्राप्ता न सा यावो धाम तच्छांभवं पुनः ।
ततोऽपि चेन्न लप्स्ये तां प्रवेक्ष्याम्यग्निमेव तत् ।। १४८
तच्छ्रुत्वा स सखावोचद्भावि कल्याणमेव ते ।
न मृषा स्यान्मुनिवचः स्वप्नादेशश्च शांभवः ।। १४९
इत्याश्वासयता तेन सख्या मुक्ताफलध्वजः ।
सह सिद्धीश्वरं प्रायाद्विमानमधिरुह्य सः ।। १५०
प्राप्तं दृष्ट्वात्र तं पद्मावती तस्थावलक्षिता ।
पश्यतेहैव संप्राप्त इति चोवाच सा सखीः ।। १५१
सोऽपि प्रविश्य देवाग्रं दृष्ट्वा प्रत्यग्रपूजितम् ।
मुक्ताफलध्वजो देवं वयस्यं तमभाषत ।। १५२
सखे केनापि पश्यायमधुनैवार्चितो विभुः ।
नूनं सैव प्रिया मेऽत्र स्थिता क्वाप्यर्चितस्तया ।। १५३
इत्युक्त्वा सोऽत्र चिन्वानो यदा न प्राप तां तदा ।
चक्रन्द हा प्रिये पद्मावतीति विरही मुहुः ।। १५४
पिकीरुते तदालापबुद्ध्या तत्कबरीधिया ।
बर्हिबर्हे सरसिजे तन्मुखभ्रान्तितस्तथा ।। १५५
धावन्स्मरज्वरावेशविवशस्तेन कृच्छ्रतः ।
आश्वास्य जगदे सख्या राजपुत्रोऽनुनीय सः ।। १५६
बहूपवासक्लान्तेन किमारब्धमिदं त्वया ।
जितभूलोकपातालं किमात्मानमुपेक्षसे ।। १५७
त्वय्यन्तिकमनायाते पिता मेरुध्वजस्तव ।
राजा त्रैलोक्यमाली च श्वशुरो दानवेश्वरः ।। १५८
त्वदर्थिनी च त्रैलोक्यप्रभा सापि तदात्मजा ।
माता च ते विनयवत्यनुजो मलयध्वजः ।। १५९
अनिष्टाशङ्किनः सर्वे सोपवासा जहत्यसून् ।
तदेहि तावद्गत्वा तान्रक्षावोऽवसितं ह्यहः ।। १६०
इति तं वादिनं प्राह मित्त्रं मुक्ताफलध्वजः ।
त्वमेव मद्विमानेन गत्वाश्वासय तानिति ।। १६१
ततस्तं स सखावोचत्स ममोपनमेत्कथम् ।
शापेन मुनिशिष्यो यस्तव वाहनतां गतः ।। १६२
इत्युक्तवन्तं सुहृदं राजपुत्रोऽब्रवीत्स तम् ।
तर्हि तिष्ठ सखे तावत्पश्यावः किं भवेदिह ।। १६३
एवं श्रुत्वा तदालापं पद्मावत्यवदत्सखीः ।
जानेऽभिज्ञानसंवादैः स पूर्वप्रिय एष मे ।। १६४
कामं मानुषदेहस्थः शापेनैवं कदर्थ्यते ।
सिद्धकन्योपहासाच्च शापदोषो ममाप्ययम् ।। १६५
इति यावच्च सा वक्ति तावदालोहितच्छविः ।
वियोगिवनदावाग्निरुदगान्मृगलाञ्छनः ।। १३६
पूरयामास च शनैर्जगज्ज्योत्स्ना समन्ततः ।
कंदर्पदहनज्वाला तं च मुक्ताफलध्वजम् ।। १६७
ततस्तत्कालचक्राह्व इव क्रन्दन्नृपात्मजः ।
छन्नस्थयैव जगदे पद्मावत्या स विग्नया ।। १६८
राजपुत्र स एव त्वं यदि मे पूर्ववल्लभः ।
तथाप्यन्यशरीरस्थो ममासि परपूरुषः ।। १६९
अहं ते परदाराश्च तदाक्रन्दसि किं मुहुः ।
उपायो भवितावश्यं सत्यं चेत्तन्मुनेर्वचः ।। १७०
एतच्छ्रुत्वा वचस्तस्यास्तामपश्यंश्च सोऽभ्यगात् ।
मुक्ताफलध्वजो हर्षविषादविषमां दशाम् ।। १७१
जगाद च मया देवि स्मृतप्राक्तनजन्मना ।
दृष्ट्वा त्वं प्रत्यभिज्ञाता स्वामेव दधती तनुम् ।। १७२
त्वं तु वैद्याधरे देहे वर्तमानं विलोक्य माम् ।
अधुना परिजानीषे मर्त्यदेहगतं कथम् ।। १७३
तदवश्यं मया त्याज्यमिदं हतशरीरकम् ।
इत्युक्त्वा सोऽभवत्तूष्णीं छन्नासीत्सापि तत्प्रिया ।। १७४
ततो भूयिष्ठयातायां रात्रौ निद्रागते श्रमात् ।
पूर्वसंयतके तस्मिन्महाबुद्धौ वयस्यके ।। १७५
अप्राप्यां तेन देहेन जानन्पद्मावतीं स ताम् ।
मुक्ताफलध्वजो दारूण्याहृत्याग्निमदीपयत् ।। १७६
भगवंस्त्वत्प्रसादेन प्राक्तनीं तां तनुं श्रितः ।
प्राप्यासमचिरेणैव प्रियां पद्मावतीमहम् ।। १७७
इति ब्रुवन्प्रणम्यैव लिङ्गमूर्तिं स शंकरम् ।
जुहाव ज्वलिते तस्मिन्नग्नौ राजसुतस्तनुम् ।। १७८
तावत्प्रबुद्धः स महाबुद्धिर्मुक्ताफलध्वजम् ।
तमपश्यन्विचित्यापि पश्यन्नग्निमुदर्चिषम् ।। १७९
विचिन्त्य तं हुतात्मानं वयस्यं विरहाकुलम् ।
अग्नौ तत्रैव तच्छोकात्सोऽप्यात्मानमपातयत् ।। १८०
तद्दृष्ट्वा सापि दुःखार्ता पद्मावत्यब्रवीत्सखीः ।
धिगहो हृदयं स्त्रीणां कठिनं कुलिशादपि ।। १८१
पश्यन्त्या वैशसमिदं नोत्क्रान्तं यन्ममासुभिः ।
तत्कियच्चिरमात्मानमधन्यो धार्यते मया ।। १८२
नास्ति मेऽद्यापि दुःखान्तो मदपुण्यैर्मुनेरपि ।
वचस्तस्यान्यथा जातं तच्छ्रेयो मरणं मम ।। १८३
परपूरुषमध्ये तु प्रवेष्टुमनलेऽत्र मे ।
न युक्तं तदनायासः पाश एव हि मे गतिः ।। १८४
इत्युक्त्वा साग्रतः शंभोरुपेत्याशोकपादपे ।
पाशं विधातुं लतया राजपुत्री प्रचक्रमे ।। १५
आशाप्रदर्शिभिर्वाक्यैर्यावत्तां स सखीजनः ।
वारयत्याययौ तावन्मुनिः सोऽत्र तपोधनः ।। १८६
मा पुत्रि साहसं न स्यादसत्यं तद्वचो मम ।
धीरा भवाधुनैवेह प्राप्तं पश्यसि तं प्रियम् ।। १८७
त्वदीयेनैव तपसा तस्य शापक्षयोऽचिरात् ।
संवृत्तस्तदनास्थेयं स्वतपस्येव ते कथम् ।। २ १८८
प्रत्यासन्ने विवाहे च का तवेयं विषादिता ।
प्रणिधानादवेत्याहमिदं सर्वमिहागतः ।। १८९
इति तं व्याहरन्तं च दृष्ट्वा मुनिमुपागतम् ।
प्रणम्य दोलारूढेव साभूत्पद्मावती क्षणम् ।। १९०
अथ मर्त्यदेहदाहाद्वैद्याधरमात्मदेहमाश्रित्य ।
सवयस्यो मुक्ताफलकेतुः सोऽत्राययौ प्रियस्तस्याः ।। १९१
तं वीक्ष्य चातकवधूरिव नूतनाभ्रं राकाशशाङ्कमुदितं च कुमुद्वतीव ।
विद्याधरेन्द्रतनयं गगनागतं सा पद्मावती हृदि दधौ कमपि प्रमोदम् ।। १९२
स च मुक्ताफलकेतुर्मुमुदे दृष्ट्यैव तामवेक्ष्य पिबन् ।।
चिरमरुभूमिभ्रमणश्रान्तः पान्थो यथा सरितम् ।। १९३
तौ च शापरजनीक्षयादुभौ चक्रवाकवदवाप्तसंगमौ ।
जग्मतुस्तपनतेजसो मुनेस्तस्य पादपतनेन तृप्तताम् ।। १९४
यद्युवामिह पुनः समागतौ तीर्णशापमुदितौ स एव मे ।
चेतसोऽद्य परितोष इत्यसावभ्यनन्ददथ तौ महामुनिः ।। १९५
यातायां निशि चेन्द्रवारणगतस्तत्रैव सोऽप्याययौ
चिन्वन्दारकनिष्ठपुत्रसहितो मेरुध्वजो भूपतिः ।
त्रैलोक्यप्रभया समं तनयया त्रैलोक्यमाली तथा
दैत्यानामधिपो विमानवहनः सान्तःपुरः सानुगः ।। १९६
ततः स मुक्ताफलकेतुमेतयोः प्रदर्श्य वृत्तान्तमवर्णयन्मुनिः ।
यथा स कार्यार्थमवाप शापतो मनुष्यतां मुक्तिमुपागतस्ततः ।। १९७
बुद्ध्वा तदग्नौ पतनोन्मुखास्ते मेरुध्वजाद्या मुनिनोपदिष्टम् ।
सिद्धोदकस्नानहरार्चनादि कृत्वा विशोकाः सहसा बभूवुः ।। १९८
त्रैलोक्यप्रभया पुनरत्र तया जातिमाशु संस्मृत्य ।
समचिन्त्यत सिद्धाधिपकन्या देवप्रभास्मि सा हन्त ।। १९९
विद्याधराधिनाथः पतिरस्तु ममेति या तपस्यन्ती ।
पद्मावत्युपहसिता प्राविशमनलं स्वकामनासिद्ध्यै ।। २००
जातास्म्यस्मिंश्च ततो दितिजकुले यत्र चानुरक्तास्मि ।
सोऽप्येष राजपुत्रः प्राप्तो वैद्याधरीं पुनः स्वतनुम् ।। २०१
न च युज्यतेऽन्यरूपो देहेनानेन समभिगन्तुमयम् ।
तदिमामेतत्प्राप्त्यै तनुं जुहोम्यासुरीं पुनर्ज्वलने ।।
एवं विमृश्य हृदि तच्च निवेद्य पित्रोर्मुक्ताफलध्वजहुताशमनुप्रविष्टाम् । २०२
आदाय तां करुणयार्पितपूर्वदेहामाविर्बभूव हुतभुक्स्वयमब्रवीच्च ।। २०३
भो मुक्ताफलकेतो त्वामियमुद्दिश्य मयि विमुक्ततनुः ।
तदिमां सिद्धेशसुतां गृहाण देवप्रभां भार्याम् ।। २०४
इत्येतदुक्त्वैव तिरोहितेऽनले ब्रह्मात्र सेन्द्रैरमरैः सहाययौ ।
गन्धर्वराजः सह चन्द्रकेतुना विद्याधरेन्द्रेण च पद्मशेखरः ।। २०५
प्रह्राय सर्वैरभिनन्दिताय तैर्गन्धर्वराड्व्यग्रपरिग्रहस्ततः ।
प्रादात्स मुक्ताफलकेतवे सुतां पद्मावतीं तां विधिवद्विभूतिमान् ।। २०६
स चात्र विद्याधरराजपुत्रश्चिरोत्सुकस्तां दयितामवाप्य ।
मेने फलं जन्मतरोरवाप्तमुवाह तामप्यथ सिद्धकन्याम् ।। २०७
स च तया दितिजेश्वरकन्यया विधिवदत्र पितृप्रवितीर्णया ।
नृपसुतः समयुज्यत कान्तया त्रिभुवनप्रभया मलयध्वजः ।। २०८
ततः कृतित्वादभिषिच्य पुत्रं सद्वीपपृथ्वीवलयैकराज्ये ।
मेरुध्वजः स्वे मलयध्वजं तं वनं सदारस्तपसे जगाम ।। २०९
त्रैलोक्यमाली सपरिग्रहश्च प्रायात्पदं स्वं दितिजाधिराजः ।
शक्रोऽथ मुक्ताफलकेतवे तां ददौ स विद्युद्ध्वजराज्यलक्ष्मीम् ।। २१०
मुक्ताफलकेतुरयं भुङ्क्तां विद्याधरासुरैश्वर्यम् ।
स्वपदानि यान्तु च सुरा इत्थं वागुच्चचार दिवः ।। २११
तामाकर्ण्य ययुस्ततः प्रमुदितास्ते ब्रह्मशक्रादयः
शापान्मुक्तवता तपोधनमुनिः शिष्येण साकं ययौ ।
श्रीमुक्ताफलकेतुना च सहितो भार्याद्वयभ्राजिना
पुत्रेणाथ स चन्द्रकेतुरगमद्वैद्याधरं स्वं पदम् ।। २१२
भुक्त्वा च तत्र गगनेचरचक्रवर्तिलक्ष्मीं सुतेन सह तेन चिरं स राजा ।
तस्मिन्निवेश्य निजराज्यधुरं विरक्तो देव्या समं मुनितपोवनमाश्रितोऽभूत् ।। २१३
स च मुक्ताफलकेतुः प्रागिन्द्रादसुरराज्यमासाद्य ।
प्राप्य पुनश्च पितुस्तद्विद्याधरचक्रवर्तित्वम् ।। २१४
पद्मावत्या सहितो दशकल्पान्मूर्तयेव निर्वृत्या ।
भेजे सुसमृद्धोभयसाम्राज्यसुखश्रियं सुकृती ।। २१५
आलोच्य भावानवसाननीरसान्संश्रित्य चान्ते स मुनीन्द्रकाननम् ।
ज्योतिः परं प्राप्य तपःप्रकर्षतः सायुज्यमीशस्य जगाम धूर्जटेः ।। २१६
एव हंसयुगान्निशम्य सरसामेतां कथां तन्मुखा-
ज्ज्ञानं प्राप्य च लब्धदिव्यगतिकः स ब्रह्मदत्तो नृपः ।
तद्भार्यासचिवौ च तौ च विहगौ गत्वैव सिद्धीश्वरं
त्यक्त्वा शापतनूः शिवानुचरतां प्रापुर्निजां तेऽखिलाः ।। २१७
इत्यहमाकर्ण्य कथां गोमुखतो मदनमञ्चुकाविरहे ।
हे मुनयः क्षणमात्रं धृत्या चेतो विनोदितवान् ।। २१८
एवं कथितकथे किल नरवाहनदत्तचक्रवर्तिनि ते ।
गोपालकेन सहिताः परितुतुषुः कश्यपाश्रमे मुनयः ।। २१९
इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे पद्मावतीलम्बके षष्ठस्तरङ्गः ।


समाप्तोऽयं पद्मावतीलम्बकः सप्तदशः ।