प्रमुखा विकल्पसूचिः उद्घाट्यताम्

विषमशीलो नामाष्टादशो लम्बकः ।

इदं गुरुगिरीन्द्रजाप्रणयमन्दरान्दोलनात्पुरा किल कथामृतं हरमुखाम्बुधेरुद्गतम् ।
प्रसह्य रसयन्ति ये विगतविघ्नलब्धर्द्धयो धुरं दधति वैबुधीं भुवि भवप्रसादेन ते ।।

चन्द्राननार्धदेहाय चन्द्रांशुसितभूतये ।
चन्द्रार्कानलनेत्राय चन्द्रार्धशिरसे नमः ।। १
करेण कुञ्चिताग्रेण लीलयोन्नमितेन यः ।
भाति सिद्धीरिव ददत्स पायाद्वो गजाननः ।। २
ततोऽसितगिरौ तत्र कश्यपस्याश्रमे मुनेः ।
नरवाहनदत्तस्तान्मुनीनेवमभाषत ।। ३
अन्यच्च देवीविरहे नीत्वाहं सानुरागया ।
वेगवत्या यदा न्यस्तो विद्याहस्तेऽभिरक्षितुम् ।। ४
तदा शरीरत्यागैषी विरही परदेशगः ।
वनान्ते दृष्टवानस्मि भ्रमन्कण्वं महामुनिम् ।। ५
स मां पादानतं दृष्ट्वा प्रणिधानादवेत्य च ।
दुःखितं स्वाश्रमं नीत्या सदयो मुनिरभ्यधात् ।। ६
सोमवंशोद्भवो वीरो भूत्वा किं नाम मुह्यसि ।
देवादेशे ध्रुवेऽनास्था का भार्यासंगमे तव ।। ७
असंभाव्या अपि नृणां भवन्तीह समागमाः ।
तथा हि विक्रमादित्यकथामाख्यामि ते शृणु ।। ८
अस्त्यवन्तिषु विख्याता युगादौ विश्वकर्मणा ।
निर्मितोज्जयिनी नाम पुरारिवसतिः पुरी ।। ९
सतीव या पराधृष्या पद्मिनीवाश्रिता श्रिया ।
सतां धीरिव धर्माढ्या पृध्वीव बहुकौतुका ।। १०
महेन्द्रादित्य इत्यासीद्राजा तस्यां जगज्जयी ।
मघवेवामरावत्यां विपक्षबलसूदनः ।। ११
नानाशस्त्रायुधः शौर्ये रूपे तु कुसुमायुधः ।
योऽभून्मुक्तकरस्त्यागे बद्धमुष्टिकरस्त्वसौ ।। १२
तस्य पृथ्वीपतेर्भार्या नाम्नाभूत्सौम्यदर्शना ।
शचीवेन्द्रस्य गौरीव शंभोः श्रीरिव शार्ङ्गिणः ।। १३
महामन्त्री च सुमतिर्नाम तस्याभवत्प्रभोः ।
वज्रायुधाभिधानश्च प्रतीहारः क्रमागतः ।। १४
तैः समं स नृपः शासद्राज्यमाराधयन्हरम् ।
नानाव्रतधरः शश्वदभवत्पुत्रकाम्यया ।। १५
अत्रान्तरे च गीर्वाणगणसंश्रितकंदरे ।
अन्यदिग्जयसानन्दकौबेरीहाससुन्दरे ।। १६
स्थितं कैलासशैलेन्द्रे पुरारिं पार्वतीयुतम् ।
उपाजग्मुः सुराः सेन्द्रा म्लेच्छोपद्रवदुःस्थिताः ।। १७
प्रणामानन्तरासीनास्ते कृतस्तुतयोऽमराः ।
पृष्टागमनकार्यास्ते देवमेव व्यजिज्ञपन् ।। १८
ये त्वया देव निहता असुरा ये च विष्णुना ।
ते जाता म्लेच्छरूपेण पुनरद्य महीतले ।। १९
व्यापादयन्ति ते विघ्नान्घ्नन्ति यज्ञादिकाः क्रियाः ।
हरन्ति मुनिकन्याश्च पापाः किं किं न कुर्वते ।। २०
भूलोकाद्देवलोकश्च शश्वदाप्यायते प्रभो ।
ब्राह्मणैर्हुतमग्नौ हि हविस्तृप्त्यै दिवौकसाम् ।। २१
म्लेच्छाक्रान्ते च भूलोके निर्वषट्कारमङ्गले ।
यज्ञभागादिविच्छेदाद्देवलोकोऽवसीदति ।। २२
तदुपायं कुरुष्वात्र तं कंचिदवतारय ।
प्रवीरं भूतले यस्तान्म्लेच्छानुत्सादयिष्यति ।। २३
इति देवैः स विज्ञप्तः पुरारातिरुवाच तान् ।
यात यूयं न चिन्तात्र कार्या भवत निर्वृताः ।। २४
अचिरेण करिष्येऽहमत्रोपायमसंशयम् ।
इत्युक्त्वा व्यसृजद्देवान्स्वधिष्ण्यान्यम्बिकापतिः ।। २५
गतेषु तेषु चाहूय माल्यवत्संज्ञकं गणम् ।
सपार्वतीको भगवानेवमादिशति स्म सः ।। २६
पुत्रावतर मानुष्ये जायस्व च महापुरि ।
उज्जयिन्यां सुतः शूरो महेन्द्रादित्यभूपतेः ।। २७
स च राजा ममैवांशस्तद्भार्या चाम्बिकांशजा ।
तयोर्गृहे समुत्पद्य कुरु कार्यं दिवौकसाम् ।। २८
म्लेच्छान्व्यापादयाशेषांस्त्रयीधर्मविघातिनः ।
सप्तद्वीपेश्वरो राजा मत्प्रसादाच्च भाव्यसि ।। २९
यक्षराक्षसवेताला अपि स्थास्यन्ति ते वशे ।
भुक्त्वा मानुषभोगांश्च पुनरस्मानुपैष्यसि ।। ३०
इत्यादिष्टः पुरजिता माल्यवान्सोऽब्रवीद्गणः ।
अलङ्घ्या युष्मदाज्ञा मे भोगा मानुष्यके तु के ।। ३१
यत्र बन्धुसुहृद्भृत्यविप्रयोगाः सुदुःसहाः ।
धननाशजरारोगाद्युद्भवा यत्र च व्यथा ।। ३२
इति तेन गणेनोक्तो धूर्जटिः प्रत्युवाच तम् ।
गच्छ नैतानि दुःखानि भविष्यन्ति तवानघ ।। ३३
मत्प्रसादेन सुखितः सर्वकालं भविष्यसि ।
इत्युक्तः शंभुना सोऽभूददृश्यो माल्यवांस्ततः ।। ३४
गत्वा चोज्जयिनीं तस्य महेन्द्रादित्यभूभुजः ।
देव्या ऋतुजुषो गर्भे समभूत्स गणोत्तमः ।। ३५
तत्कालं च निशाकान्तकलाकलितशेखरः ।
देवो महेन्द्रादित्यं तं नृपं स्वप्ने समादिशत् ।। ३६
तुष्टोऽस्मि तव तद्राजन्स ते पुत्रो भविष्यति ।
आक्रमिष्यति सद्वीपां पृथिवीं विक्रमेण यः ।। ३७
यक्षरक्षःपिशाचादीन्पातालाकाशगानपि ।
वीरः करिष्यति वशे म्लेच्छसंघान्हनिष्यति ।। ३८
भविष्यत्यत एवैष विक्रमादित्यसंज्ञकः ।
तथा विषमशीलश्च नाम्ना वैषम्यतोऽरिषु ।। ३९
इत्युक्त्वान्तर्हिते देवे प्रबुध्य स महीपतिः ।
प्रातः स्वसचिवेभ्यस्तं हृष्टः स्वप्नं न्यवेदयत् ।। ४०
तेऽपि स्वप्ने हरादेशं पुत्रप्राप्तिफलं क्रमात् ।
तस्मै शशंसुः सचिवा राज्ञे प्रमुदितास्तदा ।। ४१
तावदेत्य फलं साक्षाद्राज्ञेऽन्तःपुरचेटिकाः ।
अदर्शयदिदं देव्यै स्वप्ने शंभुरदादिति ।। ४२
ततः स राजा मुमुदे सचिवैरभिनन्दितः ।
सत्यं मम सुतो दत्तः शर्वेणेति मुहुर्वदन् ।। ४३
अथ राज्ञी सगर्भा सा जज्ञे तस्योर्जितद्युतिः ।
प्राची प्रातरिवोदेष्यत्सहस्रकरमण्डला ।। ४४
चकाशे सा च कुचयोः श्यामया चूचुकत्विषा ।
गर्भस्थस्येव सम्राजः स्तन्यरक्षणमुद्रया ।। ४५
स्वप्ने सप्तापि जलधीनुत्ततार च सा तदा ।
प्रणम्यमाना निखिलैर्यक्षवेतालराक्षसैः ।। ४६
प्राप्ते च समये पुत्रं सा सूते स्म महस्विनम् ।
नभोऽर्केणेव बालेन येनाभास्यत वासकम् ।। ४७
जाते च तस्मिन्निपतत्पुष्पवृष्टिप्रहासिनी ।
द्यौरराजत गीर्वाणदुन्दुभिध्वनिनादिनी ।। ४८
क्षीबेव भूताविष्टेव वातक्षोभावृतेव च ।
तत्कालमुत्सवानन्दव्याकुला साभवत्पुरी ।। ४९
तदा च तत्राविरतं वसु राजनि वर्षति ।
सौगतव्यतिरेकेण नासीत्कश्चिदनीश्वरः ।। ५०
नाम्ना तं विक्रमादित्यं हरोक्तेनाकरोत्पिता ।
तथा विषमशीलं च महेन्द्रादित्यभूपतिः ।। ५१
गतेष्वन्येषु दिवसेष्वत्र तस्य महीभुजः ।
सुमतेर्मन्त्रिणः पुत्रो जज्ञे नाम्ना महामतिः ।। ५२
क्षत्तुर्वज्रायुधस्यापि पुत्रो भद्रायुधोऽजनि ।
श्रीधरोऽजायत सुतो महीधरपुरोधसः ।। ५३
तैस्त्रिभिर्मन्त्रितनयैः सह राजसुतोऽत्र सः ।
ववृधे विक्रमादित्यस्तेजोवीर्यबलैरिव ।। ५४
उपनीतस्य विद्यासु गुरवो हेतुमात्रताम् ।
ययुस्तस्याप्रयासेन प्रादुरासन्स्वयं तु ताः ।। ५५
ददृशे स प्रयुञ्जानो यां यां विद्यां कलां तथा ।
सैव सैवासमोत्कर्षा तस्य तज्ज्ञैरबुध्यत ।। ५६
दिव्यास्त्रयोधिनं तं च पश्यन्राजसुतं जनाः ।
मन्दादरोऽभूद्रामादिधनुर्धरकथास्वपि ।। ५७
आक्रान्तोपनतैर्दत्ताः कन्या रूपवतीर्नृपैः ।
आजहार पिता तस्य तास्ताः श्रिय इवापराः ।। ५८
ततश्च यौवनस्थं तं विलोक्य प्राज्यविक्रमम् ।
अभिषिच्य सुतं राज्ये यथाविधि जनप्रियम् ।। ५९
महेन्द्रादित्यनृपतिः सभार्यासचिवोऽपि सः ।
वृद्धो वाराणसीं गत्वा शरणं शिश्रिये शिवम् ।। ६०
सोऽपि तद्विक्रमादित्यो राज्यमासाद्य पैतृकम् ।
नभो भास्वानिवारेभे राजा प्रतपितुं क्रमात् ।। ६१
दृष्ट्वैव तेन कोदण्डे नमत्यारोपितं गुणम् ।
तच्छिक्षयेवोच्छिरसोऽप्यानमन्सर्वतो नृपाः ।। ६२
दिव्यानुभावो वेतालराक्षसप्रभृतीनपि ।
साधयित्वानुशास्ति स्म सम्यगुन्मार्गवर्तिनः ।। ६३
प्रसाधयन्त्यः ककुभः सेनास्तस्य महीतले ।
निश्चेरुर्विक्रमाद्त्यिस्यादित्यस्येव रश्मयः ।। ६४
महावीरोऽप्यभूद्राजा स भीरुः परलोकतः ।
शूरोऽपि चाचण्डकरः कुभर्ताप्यङ्गनाप्रियः ।। ६५
स पिता पितृहीनानामबन्धूनां स बान्धवः ।
अनाथानां च नाथः स प्रजानां कः स नाभवत् ।। ६६
श्वेतद्वीपस्य दुग्धाब्धेः कैलासहिमशैलयोः ।
निर्माणे तद्यशो नूनमुपभानमभूद्विधेः ।। ६७
एकदा च तमास्थानगतं भद्रायुधो नृपम् ।
प्रविश्य विक्रमादित्यं प्रतीहारो व्यजिज्ञपत् ।। ६८
प्रेषितस्य ससैन्यस्य दक्षिणाशाविनिर्जये ।
पार्श्वं विक्रमशक्तेर्यो देवेन प्रेषितोऽभवत् ।। ६९
स दूतोऽनङ्गदेवोऽयमागतो द्वारि तिष्ठति ।
सद्वितीयो मुखं चास्य हृष्टं वक्ति शुभं प्रभो ।। ७०
प्रविशत्विति राज्ञोक्ते सद्वितीयं स तत्र तम् ।
प्रावेशयत्प्रतीहारोऽनङ्गदेवं सगौरवम् ।। ७१
प्रविष्टः सप्रणामं च जयशब्दमुदीर्य सः ।
उपविष्टोऽग्रतो दूतस्तेनापृच्छयत भूभुजा ।। ७२
कच्चिद्विक्रमशक्तिः स सेनानी कुशली नृपः ।
कच्चिद्व्याघ्रबलाद्याश्च नृपाः कुशलिनोऽपरे ।। ७३
अन्येषां राजपुत्राणां प्रधानानां च तद्बले ।
कच्चिच्छिवं गजाश्वस्य रथपादातकस्य च ।। ७४
इति भूमिभृता पृष्टोऽनङ्गदेवो जगाद सः ।
शिवं विक्रमशक्तेश्च सैन्यस्य सकलस्य च ।। ७५
सापरान्तश्च देवेन निर्जितो दक्षिणापथः ।
मध्यदेशः ससौराष्ट्रः सवङ्गाङ्गा च पूर्वदिक् ।। ७६
सकश्मीरा च कौबेरी काष्ठा च करदीकृता ।
तानि तान्यपि दुर्गाणि द्वीपानि विजितानि च ।। ७७
म्लेच्छसंघाश्च निहताः शेषाश्च स्थापिता वशे ।
ते ते विक्रमशक्तेश्च प्रविष्टाः कटके नृपाः ।। ७८
स च विक्रमशक्तिस्तै राजभिः सममागतः ।
इतः प्रयाणकेष्वास्ते द्वित्रेष्वेव खलु प्रभो ।। ७९
एवमाख्यातवन्तं तं तुष्टो वस्त्रैर्विभूषणैः ।
ग्रामैश्च विक्रमादित्यो दूतं राजाभ्यपूरयत् ।। ८०
अथ पप्रच्छ नृपतिः स तं दूतवरं पुनः ।
अनङ्गदेव के देशा गतेनात्र विलोकिताः ।। ८१
त्वया कुत्र च किं दृष्टं कौतुकं भद्र कथ्यताम् ।
इत्युक्तो भूभृतानङ्गदेवो वक्तुं प्रचक्रमे ।। ८२
इतो देवाज्ञया देव गत्वाहं प्राप्तवान्क्रमात् ।
पार्श्वे विक्रमशक्तेस्तं सेनासमुदयं तव ।। ८३
मिलितानन्तनागेन्द्रसश्रीकहरिशोभितम् ।
समुद्रमिव विस्तीर्णं सपक्षक्ष्माभृदाश्रितम् ।। ८४
उपागतश्च तत्राहं तेन विक्रमशक्तिना ।
प्रभुणा प्रेषित इति प्रणतेनातिसत्कृतः ।। ८७
तावत्तिष्ठामि विजयस्वरूपं प्रविलोकयन् ।
सिंहलेश्वरसंबन्धी दूतस्तावदुपागमत् ।। ०६
राज्ञो हृदयभूतस्तेऽनङ्गदेवः स्थितोऽन्तिके ।
इति मे कथितं दूतैस्त्वत्पार्श्वप्रहितागतैः ।। ८७
तदेतं त्वरयानङ्गदेवं प्रहिणु मेऽन्तिकम् ।
कल्याणमस्य वक्ष्यामि राजकार्यं हि किंचन ।। ८८
इति स्वप्रभुवाक्यं च स दूतः सिंहलागतः ।
मत्संनिधाने वक्ति स्म तस्मै विक्रमशक्तये ।। ८९
ततो विक्रमशक्तिर्मामवदद्गच्छ सत्वरम् ।
सिंहलेशान्तिकं पश्य त्वन्मुखे किं ब्रवीति सः ।। ९०
अथाहं सिंहलाधीशदूतेन सह तेन तत् ।
अगच्छं सिंहलद्वीपं वहनेनाब्धिर्त्मना ।। ९१
राजधानीं च तत्राहमपश्यं हेमनिर्मिताम् ।
विचित्ररत्नप्रासादां गीर्वाणनगरीमिव ।। ९२
तस्यां च वीरसेनं तमद्राक्षं सिंहलेश्वरम् ।
वृतं विनीतैः सचिवैः सुरैरिव शतक्रतुम् ।। ९३
स मामुपेतमादृत्य पृष्ट्वा च कुशलं प्रभोः ।
राजा विश्रमयामास सत्कारेणात्र भूयसा ।। ९४
अन्येद्युरास्थानगतो मामाहूय स भूपतिः ।
युष्मासु दर्शयन्भक्तिमवोचन्मन्त्रिसंनिधौ ।। ९५
अस्ति मे दुहिता कन्या मर्त्यलोकैकसुन्दरी ।
नाम्ना मदनलेखेति तां च राज्ञे ददामि वः ।। ९६
तस्यानुरूपा भार्या सा स तस्याश्चोचितः पतिः ।
एतदर्थं त्वमाहूतस्त्वत्स्वाम्यर्थं प्रतीप्सता ।। ९७
गच्छ च स्वामिने वक्तुं मद्दूतेन सहाग्रतः ।
अहं तवैवानुपदं प्रहेष्याम्यत्र चात्मजाम् ।। ९८
उक्त्वेत्यानाययामास स राजा तत्र तां सुताम् ।
भूषिताभरणाभोगां रूपलावण्ययौवनैः ।। ९९
उपवेश्य च तामङ्के दर्शयित्वा जगाद माम् ।
त्वत्स्वामिने मया दत्ता कन्येयं गृह्यतामिति ।। १००
अहं च राजपुत्रीं तां दृष्ट्वा तद्रूपविस्मितः ।
प्रतीप्सितैषा राजार्थं मयेति मुदितोऽब्रवम् ।। १०१
अचिन्तयं च नाश्चर्यविधौ तृप्यत्यहो विधिः ।
तदुत्तमामिमां चक्रे यत्कृत्वापि तिलोत्तमाम् ।। १०२
ततोऽहं सत्कृतस्तेन राज्ञा प्रस्थितवांस्ततः ।
द्वीपाद्धवलसेनेन तद्दूतेन सहामुना ।। १०३
आरुह्य वहनं चावां व्रजावो यावदम्बुऽधौ ।
तावद्द्राग्दृष्टवन्तौ स्वस्तन्मध्ये पुलिनं महत् ।। १०४
तन्मध्येऽद्भुतरूपे द्वे अपश्याव च कन्यके ।
एकां प्रियंगुश्यामाङ्गीमन्यां चन्द्रामलद्युतिम् ।। १०५
स्वस्ववर्णोचितोपात्तवस्त्राभरणशोभिते ।
सरत्नकंकणक्वाणवितीर्णकरतालिके ।। १०६
प्रनर्तयन्त्यौ पुरतः क्रीडाहरिणपोतकम् ।
अपि जाम्बूनदमयं सजीवं रत्नचित्रितम् ।। १०७
तद्दृष्ट्वान्योन्यमावाभ्यां विस्मिताभ्यामभण्यत ।
अहो किमिदमाश्चर्यं स्वप्नो माया भ्रमो नु किम् ।। १०८
क्वाब्धावकाण्डे पुलिनं क्वेदृश्यौ तत्र कन्यके ।
क्व चेदृग्रत्नचित्राङ्गो जीवन्हेममृगोऽनयोः ।। १०९
इत्यादि वदतोरेव देव साश्चर्यमावयोः ।
वायुः प्रावर्तताकस्माद्वातुमुद्वेल्लिताम्बुधिः ।। ११०
तेनास्मद्वहनं वेल्लद्वीचिन्यस्तमभज्यत ।
मकरैर्भक्ष्यमाणाश्च ममज्जुस्तद्गता जनाः ।। १११
आवां च ताभ्यां कन्याभ्यामेत्यैवालम्ब्य बाहुषु ।
उत्क्षिप्य पुलिनं नीतावप्राप्तमकराननौ ।। ११२
ऊर्मिभिः पूर्यमाणे च तस्मिन्रोधसि विह्वलौ ।
आश्वास्यावां गुहागर्भमिव ताभ्यां प्रवेशितौ ।। ११३
ततो वीक्षावहे तावद्दिव्यं नानाद्रुमं वनम् ।
नाम्भोधिर्न तटं नापि मृगशावो न कन्यके ।। ११४
चित्र किमेतन्मायेयं नूनं कापीति वादिनौ ।
क्षणं भ्रमन्तौ तत्रावामपश्याव महत्सरः ।। ११५
स्वच्छगम्भीरविस्तीणमाशयं महतामिव ।
तृष्णासंतापशमनं निर्वाणमिव मूर्तिमत् ।। ११६
तत्र च स्नातुमायातां साक्षादिव वनश्रियम् ।
परिवारावृतां कांचिदपश्याव वराङ्गनाम् ।। ११७
कर्णीरथावतीर्णा च तत्रोचितसरोरुहा ।
स्नात्वा सरस्यनुध्यानमकरोत्सा पुरद्विषः ।। ११८
तावदुद्गम्य सरसो विस्मयेन सहावयोः ।
साक्षादुपागान्निकटं तस्या लिङ्गाकृतिः शिवः ।। ११९
दिव्यरत्नमयं त सा तैस्तैः स्वविभवोचितैः ।
अभ्यर्च्य विविधैर्भोगैर्वीणामादत्त सुन्दरी ।। १२०
आलम्ब्य दक्षिणं मार्गं स्वरतालपदैस्तथा ।
अवधानेन सा सम्यग्गायन्ती तामवादयत् ।। १२१
यथा तच्छ्रवणाकृष्टहृदया गगनागताः ।
तत्र सिद्धादयोऽप्यासन्निस्पन्दा लिखिता इव ।। १२२
उपसंहृतगान्धर्वा ततः शंभोर्विसर्जनम् ।
साकरोत्स च तत्रैव देवः सरसि मग्नवान् ।। १२३
अथोत्थाय समारुह्य वहनं सपरिच्छदा ।
शनैर्गन्तुं प्रवृत्ताभूत्सा ततो हरिणेक्षणा ।। १२४
केयमित्यसकृद्यत्नादावयोः पृच्छतोरपि ।
नोत्तरं तत्परिजनः कोऽप्यदादनुगच्छतोः ।। १२५
ततोऽस्य सिंहलद्वीपपतिदूतस्य तावकम् ।
प्रभावं दर्शयिष्यंस्तामित्युच्चैरहमब्रवम् ।। १२६
भोः शुभे विक्रमादित्यदेवाङ्घ्रिस्पर्शशापिता ।
त्वं मया यद्यनाख्याय ममात्मानं गमिष्यसि ।। १२७
तच्छ्रुत्वा परिवारं सा निवार्यैवावरुह्य च ।
वहनान्मामुपागम्य गिरा मधुरयाभ्यधात् ।। १२८
कच्चिच्छ्रीविक्रमादित्यदेवः कुशलवान्प्रभुः ।
किं वा पृच्छामि विदितं सर्वं मेऽनङ्गदेव यत् ।। १२९
प्रदर्श्य मायामानीतो मयैव हि भवानिह ।
राज्ञोऽर्थे तस्य स हि मे मान्यस्त्राता महाभयात् ।। १३०
तदेहि मद्गृहं तत्र सर्वं वक्ष्याम्यहं तव ।
याहं यथा च राजा मे मान्यः कार्यं च तस्य यत् ।। १३१
इत्युक्त्वा विनयेन मुक्तवहना पद्भ्यां व्रजन्ती पथि
प्रह्वा सा नयति स्म तौ सुवदना स्वर्गोपमं स्वं पुरम ।
नानारत्नविचित्रहेमरचितं द्वारेषु नानायुधै-
र्नानारूपधरैश्च वीणपुरुषैरध्यासितं सर्वतः ।। १३२
तत्रावृते वरवधूभिरशेषदिव्यभोगौघसिद्धिभिरिवाकृतिशालिनीभिः ।
स्नानानुलेपनसदम्बरभूषणैर्नौ संमान्य विभ्रमयति स्म च सांप्रतं सा ।। १३३
इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे विषमशीललम्बके प्रथमस्तरङ्गः ।