प्रमुखा विकल्पसूचिः उद्घाट्यताम्

इत्युक्त्वा विक्रमादित्यदेवायास्थानवर्तिने ।
अनङ्गदेवः पुनरप्येवं कथयति स्म सः ।। १
ततो भुक्तोत्तरं सा मां सखीमध्यस्थिताब्रवीत् ।
अनङ्गदेव सर्वं ते कथयाम्यधुना शृणु ।। २
एषाहं धनदभ्रातुर्मणिभद्रस्य गेहिनी ।
दुन्दुभेर्यक्षराजस्य सुता मदनमञ्जरी ।। ३
साहं तीरेषु सरितां शैशेषूपवनेषु च ।
मनोहरेषु व्यहरं भर्त्रा सह सुखं सदा ।। ४
एकदा च गताभूवमुज्जयिन्यामहं किल ।
उद्यानं मकरन्दाख्यं विहर्तुं वल्लभान्विता ।। ५५
तत्र दैवादुषस्येकः खण्डकापालिकाधमः ।
विहारश्रमसंसुप्तप्रबुद्धां पश्यति स्म माम् ।। ६
स कामवशगः पापो भार्यात्वे होमकर्मणा ।
मन्त्रेण मां साधयितुं प्रावर्तिष्ट श्मशानगः ।। ७
तदहं स्वप्रभावेण बुद्ध्वा भर्त्रे न्यवेदयम् ।
तेनाप्यावेदितं भ्रातुर्ज्यायसो धनदस्य तत् ।। ८
धनाध्यक्षेण गत्वा च विज्ञप्तः कमलोद्भवः ।
स चापि भगवानेवं ब्रह्मा ध्यात्वा तमभ्यधात् ।। ९
सत्यं स भ्रातृजायां ते कपाली हर्तुमुद्यतः ।
यक्षसाधनमन्त्राणां शक्तिस्तेषां हि तादृशी ।। १०
तया तु विक्रमादित्यो मन्त्रेणाकृष्यमाणया ।
आक्रन्दनीयो नृपतिः स रक्षिष्यति तां ततः ।। ११
एतद्ब्रह्मवचोऽभ्येत्य मद्भर्त्रे धनदोऽब्रवीत् ।
मद्भर्ता मह्यमाह स्म कुमन्त्रचकितात्मने ।। १२
तावच्च क्रमसिद्धेन मन्त्रेणाकृष्टवान्स माम् ।
होमं कुर्वञ्श्मशानस्थः खण्डकापालिकः स्वतः ।। १३
अहं च मन्त्राकृष्टा तद्वित्रस्ता पितृकाननम् ।
प्रापमस्थिकपालाढ्यं भैरवं भूतसेवितम् ।। १४
तत्रापश्यं च तं दुष्टकापालिकमहं तदा ।
हुताग्निमर्चितोत्तानशवाधिष्ठितमण्डलम् ।। ३५५
स च कापालिकः प्राप्तां दृष्ट्वा मां दर्पमोहितः ।
अगात्कथंचिदाचान्तुं नदीं दैवाददूरगाम् ।। १६
तत्क्षणं संस्मृतब्रह्मवचनाहमचिन्तयम् ।
किं नाक्रन्दामि राजानं स रात्रौ जात्विह भ्रमेत् ।। १७
इत्येतच्चिन्तयित्वोच्चैस्तत्राक्रन्दितवत्यहम् ।
परित्रायस्व मां देव विक्रमादित्य भूपते ।। १८
जगद्रक्षामणे पश्य बलात्कुलवधूं सतीम् ।
गृहिणीं मणिभद्रस्य धनाध्यक्षानुजन्मनः ।। ३९
दुन्दुभेस्तनयां यक्षीं नाम्ना मदनमञ्जरीम् ।
कापालिकोऽयं त्वद्राज्ये मां ध्वंसयितुमुद्यतः ।। २०
इत्याक्रन्दितवत्येव ज्वलन्तमिव तेजसा ।
कृपाणपाणिमायान्तं तमद्राक्षमहं नृपम् ।। २१
स च मामवदद्भद्रे मा भैषीर्निर्वृता भव ।
अहं कापालिकादस्माद्रक्षामि भवतीं शुभे ।। २२
को हि राज्ये ममाधर्ममीदृशं कर्तुमीश्वरः ।
इत्युक्त्वाग्निशिखं नाम वेतालं स समाह्वयत् ।। २३
स चाहूतो ज्वलन्नेत्रः पांशुरूर्ध्वशिरोरुहः ।
उपेत्यैवाब्रवीद्भूपं किं करोम्यादिशेति तम् ।। २४
अथ राजाब्रवीदेष परदारापहारकृत् ।
पापः कापालिको हत्वा भवता भक्ष्यतामिति ।। २५
ततः सोऽग्निशिखस्तस्मिञ्शवेऽर्चामण्डलस्थिते ।
प्रविश्याधावदुत्थाय प्रसारितभुजाननः ।। २६
अग्रहीज्जङ्घयोः पश्चात्तं चाचान्तपरागतम् ।
कापालिकं स वेतालः पलायनपरायणम् ।। २७
नभसि भ्रामयित्वा च क्षिप्रमास्फोट्य च क्षितौ ।
देहं मनोरथं चैव सममस्य व्यचूर्णयत् ।। २८
हतं कापालिनं दृष्ट्वा भूतेष्वामिषगर्धिषु ।
आगाद्यमशिखो नाम वेतालस्तत्र दुर्मदः ।। २९
एत्यैव तदगृह्णात्स कापालिककलेवरम् ।
ततः सोऽग्निशिखः पूर्वो वेतालस्तमभाषत ।। ३०
अरे श्रीविक्रमादित्यदेवस्यादेशतो मया ।
कापालिकोऽयं निहतो दुराचार त्वमस्य कः ।। ३१
एतच्छ्रुत्वा यमशिखः प्राह त्वं ब्रूहि तर्हि मे ।
किंप्रभावः स राजेति ततः सोऽग्निशिखोऽब्रवीत् ।। ३२
तत्प्रभावं न चेद्वेत्सि तदहं शृणु वच्मि ते ।
इहाभूड्डाकिनेयाख्यः सुधीरः कितवः पुरि ।। ३३
स जातु हृतसर्वस्वः कितवैर्द्यूतमायया ।
अधिकावर्जितान्यार्थनिमित्तं तैरबध्यत ।। ३४
अस्वत्वादददन्तं च तैरेव लगुडादिभिः ।
ताड्यमानोऽवतस्थे च ग्रावभूतो मृतो यथा ।। ३५
ततः स सभ्यैः सर्वैस्तैर्नीत्वा पापैः स चिक्षिपे ।
महान्धकूपे संभाव्य जीवतोऽस्मात्प्रतिक्रियाम् ।। ३६
स च तत्रातिगम्भीरे कितवो डाकिनेयकः ।
कूपे भ्रष्टो ददर्शोऽग्रौ महान्तौ पुरुषावुभौ ।। ३७
तौ च तं पतितं साम्ना दृष्ट्वा भीतमपृरच्छताम् ।
कस्त्वं कुतश्च कूपेऽस्मिन्पतितोऽस्युच्यतामिति ।। ३८
अथाश्वस्य स्ववृत्तान्तं द्यूतकारो निवेद्य सः ।
तावप्यपृच्छद्ब्रूतं मे कौ कुतश्च युवामिह ।। ३९
तच्छ्रुत्वा तौ जगदतुः पुरुषाववटस्थितौ ।
आवामस्याः पुरो भद्र श्मशाने ब्रह्मराक्षसौ ।। ४०
अगृहीव च तावावामिहैव पुरि कन्यके ।
मुख्यमन्त्रिसुतामेकामन्यां मुख्यवणिक्सुताम् ।। ४१
न च मोचयितुं कश्चित्ते शक्नोति स्म कन्यके ।
मान्त्रिको दीप्तमन्त्रोऽपि पृथ्व्यामस्मत्सकाशतः ।। ४२
बुद्ध्वाथ विक्रमादित्यदेवस्तत्पितृवत्सलः ।
तत्रागाद्यत्र कन्ये ते पित्रोः सख्यात्सह स्थिते ।। ४३
तं दृष्ट्वैव नृपं मुक्त्वा कन्यके ते पलायितुम् ।
इच्छन्तावपि नैवावां ततो गन्तुमशक्नुवः ।। ४४
आपश्याव दिशः सर्वा ज्वलन्तीस्तस्य तेजसा ।
ततोऽबध्नात्स नृपतिर्दृष्ट्वा नौ स्वप्रभावतः ।। ४५
जातमृत्युभयौ दीनौ वीक्ष्य चैवं समादिशत् ।
भोः पापावन्धकूपान्तर्वसतं वत्सरावधि ।। ४६
मुक्ताभ्यां च ततः कार्यं भवद्भ्यां नेदृशं पुनः ।
करिष्यतश्चेत्तदहं निग्रहीष्यामि वां ततः ।। ४७
इत्यादिश्यान्धकूपेऽत्र तेनावां क्षपिताविमौ ।
राज्ञा विषमशीलेन कृपया न विपादितौ ।। ४८
अष्टभिर्दिवसैः कूपनिवासस्यास्य चावयोः ।
अवधिः पूर्यते वर्षादितो मुच्यावहे ततः ।। ४९
तद्भक्ष्यं किंचिदेतानि यद्यहानि ददासि नौ ।
तदुद्धृत्यामुतः कूपात्त्वां क्षिपावो बहिः सखे ।। ५०
अङ्गीकृत्य न चेद्दास्यस्यावाभ्यां भक्ष्यमुद्धृतः ।
ततस्त्वां भक्षयिष्यावो निश्चितं निर्गतावितः ।। ५१
इत्युक्त्वा व्रह्मरक्षोभ्या ताभ्यां स कितवस्ततः ।
तथेति प्रतिपन्नार्थः कृपाद्बहिरुदस्यत ।। ५२
स कूपादुद्गतोपश्यंस्तदर्थप्राप्तिमन्यथा ।
पणायितुं महामांसं श्मशानं प्राविशन्निशि ।। ५३
तत्कालं तिष्ठता तत्र स दृष्टः कितवो मया ।
गृह्णातु कश्चिद्विक्रीणे महामांसमिति ब्रुवन् ।। ५४
अहं गृह्णामि किं मूल्यं मार्गसीत्युदिते मया ।
रूपप्रभावौ स्वौ देहि मह्यमित्यब्रवीच्च सः ।। ५५
वीर किं कुरुषे ताभ्यामित्युक्तश्च मया पुनः ।
उक्त्वा कृत्स्नं स्ववृत्तान्तमेवं स कितवोऽभ्यधात् ।। ५६
तत्त्वद्रूपप्रभावाभ्यां तानाकृष्य ददाम्यहम् ।
कितवान्ब्रह्मरक्षोभ्यां भक्ष्यं सभ्ययुतानरीन् ।। ५७
तच्छ्रुत्वा धैर्यतुष्टेन तस्मै द्यूतकृते मया ।
दत्तौ रूपप्रभावौ स्वावाभाष्य दिनसप्तकम् ।। ५८
ताभ्यामाकृष्य कूपे तान्क्रमात्क्षिप्त्वापकारिणः ।
नयति स्म स सप्ताहाद्ब्रह्मराक्षसभक्ष्यताम् ।। ५९
ततो मया स्वीकृतयोः स्वयो रूपप्रभावयोः ।
सोऽब्रवीड्डाकिनेयो मां द्यूतकारो भयाकुलः ।। ६०
नाद्य दत्तं मया भक्ष्यमष्टमं तदहस्तयोः ।
तन्मां निर्गत्य तौ ब्रह्मराक्षसौ भक्षयिष्यतः ।। ६१
तदत्र किं मया कार्यं ब्रूहि मित्रं हि मे भवान् ।
इत्युक्तवन्तं तमहं संस्तवप्रीतितोऽब्रवम् ।। ६२
यद्येवं तत्त्वया ताभ्यां राक्षसाभ्यां हि खादिताः ।
कितवास्ते तवार्थे तौ राक्षसावद्म्यहं पुनः ।। ६३
तत्तौ दर्शय मे मित्रेत्युक्तवांस्तेन तत्क्षणम् ।
नीतस्तत्कूपनिकटं कितवेन तथेत्यहम् ।। ६४
अवाङ्मुखश्च यावत्तं कूपं पश्याम्यशङ्कितः ।
तावत्तेनास्मि दत्वार्धचन्द्रं क्षिप्तस्तदन्तरे ।। ६५
कूपान्तः पतितस्याथ रक्षोभ्यां भक्ष्यबुद्धितः ।
गृहीतस्य समं ताभ्यां बाहुयुद्धमभून्मम ।। ६६
यदातिवर्तितुं बाहुबलं नाशक्नुतां मम ।
युद्धं त्यक्त्वा तदा कस्त्वमिति तौ मामपृच्छताम् ।। ६७
ततो मया डाकिनेयवृत्तान्तात्प्रभृति स्वके ।
वृत्तान्ते कथिते मैत्रीं कृत्वा मां वदतः स्म तौ ।। ६८
अहो तवावयोस्तेषां कितवानां च कीदृशी ।
अवस्था विहिता तेन कितवेन दुरात्मना ।। ६९
येषां न मैत्री न घृणा नोपकारः स्पृशेन्मनः ।
तेषु च्छलैकविद्येषु विश्वासः कितवेषु कः ।। ७०
साहसं नैरपेक्ष्यं च कितवानां निसर्गजम् ।
ठिण्ठाकरालस्य कथा तथा च श्रूयतां त्वया ।। ७१
अस्यामेवोज्जयिन्यां स द्यूतकारोऽभवत्पुरि ।
पूर्वं ठिण्ठाकरालाख्यो विषमोऽन्वर्थनामकः ।। ७२
तस्य हारयतो नित्यं द्यूते ये जयिनोऽपरे ।
ते प्रत्यहं द्यूतकाराः कपर्दकशतं ददुः ।। ७३
तेनापणात्स गोधूमचूर्णं क्रीत्वा दिनात्यये ।
चकारापूपिकाः क्वापि मृदित्वा कर्परेऽम्भसा ।। ७४
गत्वा श्मशाने पक्त्वा ताश्चिताग्नावेत्य चाग्रतः ।
महाकालस्य तद्दीपघृताभ्यक्ता अभक्षयत् ।। ७५
तत्रैव च महाकालदेवागाराङ्गणे सदा ।
उपधानीकृतभुजः स सुष्वाप क्षितौ निशि ।। ७६
एकदा रजनौ तत्र महाकालनिकेतने ।
मातृमण्डलयक्षादिप्रतिमास्तस्य पश्यतः ।। ७७
स्फुरन्तीर्मन्त्रसानिध्यान्मतिरेवमजायत ।
न करोमि किमर्थार्थमुपायमिह युक्तितः ।। ७८
सिद्धश्चेद्भद्रमथवा न सिद्धः का क्षतिर्मम ।
इत्यालोच्याब्रवीद्द्यूतायाक्षिपन्देवताः स ताः ।। ७९
एत भोः सह युष्माभिर्दीव्यामीहाहमेव च ।
सभ्यस्तथा पातयिता जितं सद्यश्च दीयते ।। ८०
इत्युक्तास्तेन तास्तूष्णीं यत्तस्थुस्तदपातयत् ।
ठिण्ठाकरालः स पणं कृत्वा चित्रा वराटिकाः ।। ८१
अङ्गीकृतं पातनं स्यात्कितवेनानिषेधता ।
इति द्यूते हि सर्वत्र स्थितिर्द्यूतकृतां सदा ।। ८२
ततो जित्वा बहु स्वर्णं देवतास्ता जगाद सः ।
जितं प्रयच्छत धनं मह्यमाभाषितं यथा ।। ८३
इत्युच्यमानाः कितवेनासकृत्तेन ता यदा ।
देवता नालपन्किंचित्तदा वक्ति स्म स क्रुधा ।। ८४
यदि स्थिताः स्थ तूष्णीं तत्क्रियते कितवस्य यत् ।
अदत्तहारितार्थस्य शिलाभूतस्य तिष्ठतः ।। ८५
यमदंष्ट्राग्रतीक्ष्णेन क्रकचेनाङ्गपाटनम् ।
तदहं वः करिष्यामि नह्यपेक्षास्ति कापि मे ।। ८६
इत्युक्त्वा यावदादाय क्रकचं सोऽभिधावति ।
तावत्तस्मै ददुः स्वर्णं देवतास्ता यथाजितम् ।। ८७
हारयित्वा च तत्प्रातर्नक्तमेत्य तथैव सः ।
आचकर्ष हठद्यूतेनार्थं मातृगणात्पुनः ।। ८८
एवं स कुरुते यावत्प्रत्यहं तावदेकदा ।
जगाद देवी चामुण्डा मातॄस्ताः खिन्नमानसाः ।। ८९
इतोऽहं निर्गतो द्यूतादित्याहूतो ब्रवीति यः ।
स नाक्षेप्य इति पूर्वं शैलीय मातृदेवताः ।। ९०
तस्मादाह्वयमानं तं तदेवोक्त्वा निरस्यत ।
इति चामुण्डयोक्तास्ता देव्यश्चेतसि तद्व्यधुः ।। ९१
निशि प्राप्तं कृताह्वानं कितवं तं च देवने ।
निर्गताः स्म इतो द्यूतादित्यूचुः सर्वदेवताः ।। ९२
एवं निराकृतष्ठिण्ठाकरालस्ताभिरेव सः ।
तत्प्रभुं तं महाकालमेवाह्वयत देवितुम् ।। ९३
सोऽपि लब्धावकाशं तं मत्वा हठदुरोदरे ।
निर्गतोऽहमितो द्यूतादिति देवः किलाब्रवीत् ।। ९४
अक्षीणदोषाद्विषमादिष्टानिष्टभयोज्झितात् ।
दुर्जनाद्बत देवा अप्यशक्ता इव बिभ्यति ।। ९५
तथा दुरोदराचारभग्नकैतवयुक्तिना ।
तेन ठिण्ठाकरालेन खिन्नेनैवमचिन्त्यत ।। ९६
अहो द्यूतस्थितिं देवैः शिक्षित्वास्मि निराकृतः ।
तदेतमेव देवेशमिदानीं शरणं श्रये ।। ९७
इत्याकलय्य हृदये परिगृह्यैव पादयोः ।
स्तुवंष्ठिण्ठाकरालस्तं महाकालं व्यजिज्ञपत् ।। ९८
देव्या द्यूतजितेष्विन्दुवृषकुञ्जरचर्मसु ।
जानुन्यस्तकपोलं ते नौमि नग्नाङ्गमासितम् ।। ९९
यदिच्छामात्रतस्तास्ता विभूतीर्ददते सुराः ।
यो निरीहो जटाभस्मकपालैकपरिग्रहः ।। १००
स सलोभोऽद्य जातस्त्वं मन्दपुण्ये कथं मयि ।
यदल्पहेतोर्मामेवं हा वञ्चयितुमीहसे ।। १०१
कल्पवृक्षोऽप्यधन्यानां नाशां पूरयति ध्रुवम् ।
यद्बिभर्षि न मां नाथ भृतविश्वोऽपि भैरव ।। १०२
तत्प्रपन्नस्य मे कष्टव्यसनाविष्टचेतसः ।
व्यतिक्रममपि स्थाणो भगवन्क्षन्तुमर्हसि ।। १०३
त्र्यक्षस्त्वं तादृगेवाहं भस्माङ्गे ते ममापि तत् ।
त्वं कपाले यथा भुङ्क्षे तथैवाहं दयस्व मे ।। १०४
युष्माभिः सममालप्य कथं नु कितवैरहम् ।
सहालपिष्यामि पुनस्तन्मामापन्नमुद्धर ।। १०५
इत्यादि तावदस्तौषीत्कितवस्तं स भैरवम् ।
तावत्स परितुष्यैवं देवः साक्षादुवाच तम् ।। १०६
ठिण्ठाकराल तुष्टोऽस्मि तव मा स्माधृतिं कृथाः ।
अहं दास्यामि ते भोगानिहैवास्स्व ममान्तिके ।। १०७
इति देवाज्ञया तत्र तस्थौ स कितवस्तदा ।
तत्प्रसादादुपनतो भुञ्जानो भोगसंपदम् ।। १०८
एकदा च महाकालतीर्थेऽत्र स्नातुमागताः ।
रात्रावप्सरसो दृष्ट्वा स देवो व्यादिदेश तम् ।। १०९
आसां स्नातुं प्रवृत्तानां सर्वासां सुरयोषिताम् ।
तटन्यस्तानि वासांसि लघु हृत्वा त्वमानय ।। ११०
यावदेता न दास्यन्ति तुभ्यमेतां कलावतीम् ।
अप्सरःकन्यकां तावदासां वस्त्राणि मा मुचः ।। १११
एवं स भैरवेणोक्तो गत्वामरमृगीदृशाम् ।
ठिण्ठाकरालः स्नान्तीनां तासां वस्त्राण्यपाहरत् ।। ११२
मुञ्च मुञ्चाम्बराण्यस्मान्मा स्म कार्षीर्दिगम्बराः ।
इति ब्रुवाणाश्च स ता व्याजहार हरौजसा ।। ११३
कन्यां कलावतीमेतां यदि मह्यं प्रयच्छथ ।
तदहं वो विमोक्ष्यामि वासांस्येतानि नान्यथा ।। ११४
तच्छ्रुत्वा तं दुराधर्षं दृष्ट्वा स्मृत्वा च तादृशम् ।
शक्रशापं कलावत्यास्ताश्चैतत्प्रतिपेदिरे ।। ११५
ददुः कलावतीं तां च तस्मायुज्झितवाससे ।
ठिण्ठाकरालाय ततो विधिनालम्बुषासुताम् ।। ११६
अथाप्सरःसु यातासु कलावत्या तया सह ।
तस्थौ ठिण्ठाकरालोऽसौ देवेच्छानिर्मितास्पदः ।। ११७
कलावती च देवेन्द्रमुपस्थातुमगाद्दिवा ।
त्रिदिवं रजनौ तं च सदा पतिमुपाययौ ।। ११८
त्वत्प्राप्तिहेतुना शक्रशापेन मम वल्लभ ।
वरायितमिति प्रीत्या कदाचिद्ब्रुवती च सा ।। ११९
तेन ठिण्ठाकरालेन पत्या तच्छापकारणम् ।
पृष्टा सती सुरवधूः कलावत्यब्रवीदिदम् ।। १२०
दृष्ट्वोद्याने सुराञ्जातु मर्त्यभोगाः स्तुता मया ।
निन्दन्त्या दिविषद्भोगान्दृष्टिमात्रोपभोगदान् ।। १२१
तद्बुद्ध्वा देवराजो मामशपद्गच्छ भोक्ष्यसे ।
मर्त्येन परिणीता त्वं भोगांस्तान्मानुषानिति ।। १२२
तेनायमावयोर्जातः संयोगोऽन्योन्यसंमतः ।
श्वश्च नाकाच्चिरेणैष्याम्यहं मा भूच्च तेऽधृतिः ।। १२३
रम्भा नवप्रयोगं हि नर्तिष्यति हरेः पुरः ।
आ तत्समाप्तेरस्माभिः स्थातव्यं तत्र च प्रिय ।। १२४
ततष्ठिण्ठाकरालस्तां प्रेमदुर्ललितोऽभ्यधात् ।
अहं द्रक्ष्यामि तन्नृत्यं गुप्तं तत्रैव मां नय ।। १२५
एतच्छ्रुत्वा कलावत्या तया स जगदे पतिः ।
युज्यते कथमेतन्मे कुप्येद्बुद्ध्वा हि देवराट् ।। १२६
एवमुक्तोऽपि निर्बन्धं यदा तस्याश्चकार सः ।
तदा कलावती स्नेहान्नेतुं तं प्रत्यपद्यत ।। १२७
प्रातः प्रभावगूढं तं कृत्वा कर्णोत्पलान्तरे ।
ठिण्ठाकरालमनयत्सा महेन्द्रस्य मन्दिरम् ।। १२८
सुरेभशोभितद्वारं नन्दनोद्यानसुन्दरम् ।
दृष्ट्वा ठिण्ठाकरालस्तद्देवमानी तुतोष सः ।। १२९
ददर्श चात्र वृत्रारेरास्थाने त्रिदशाश्रिते ।
प्रगीतस्वर्वधूसार्थं रम्भानृत्तोत्सवाद्भुतम् ।। १३०
नारदादिप्रणीतानि सर्वातोद्यानि चाशृणोत् ।
प्रसन्ने हि किमप्राप्यमस्तीह परमेश्वरे ।। १३१
ततः प्रेक्षणकस्यान्ते तत्रोत्थाय प्रवृत्तवान् ।
दिव्यश्छागाकृतिर्भण्डो नर्तितुं दिव्यभङ्गिभिः ।। १३२
ठिण्ठाकरालो दृष्ट्वा तं परिज्ञाय व्यचिन्तयत् ।
अहो एतमहं पश्याम्युज्जयिन्यामजं पशुम् ।। १३३
इहेन्द्रस्य पुरश्चायमीदृशो भण्डनर्तकः ।
अतर्क्या दिव्यमायेयं विचित्रा बत काचन ।। १३४
एवं ठिण्ठाकरालस्य तस्य चिन्तयतो हृदि ।
वृत्तान्ते छागभण्डस्य शक्रास्थानं न्यवर्तत ।। १३५५
ततः कलावती हृष्टा सा कर्णोत्पलसंश्रितम् ।
ठिण्ठाकरालं स्वस्थानमानिनाय तथैव तम् ।। १३६
ठिण्ठाकरालश्चान्येद्युरुज्जयिन्यां तमागतम् ।
दृष्ट्वा छागाकृतिं दर्पाद्देवभण्डमभाषत ।। १३७
अरे ममाग्रतो नृत्य नृत्यसीन्द्राग्रतो यथा ।
अन्यथा न क्षमिष्ये ते तन्नृत्तं भण्ड दर्शय ।। १३८
तच्छ्रुत्वा विस्मितश्छागस्तूष्णीमेव बभूव सः ।
कुतोऽयं मानुषोऽप्येवं मां जानातीति चिन्तयन् ।। १३९
निर्बन्धेनोच्यमानो यन्नैव च्छागो ननर्त सः ।
तत्स ठिण्ठाकरालस्तं लगुडैर्मूर्ध्न्यताडयत् ।। १४०
ततः स गत्वा शक्राय तथैव च्छागलोऽखिलम् ।
स्रवद्रक्तेन शिरसा यथावृत्तं न्यवेदयत् ।। १४१
इन्द्रोऽपि प्रणिधानेन बुबुधे तद्यथा दिवम् ।
ठिण्ठाकरालमानैषीद्रम्भानृत्ते कलावती ।। १४२
यथा च च्छागनृत्तं तद्दृष्टं तेनापराधिना ।
ततः कलावतीमेवमाहूयेन्द्रः शशाप सः ।। १४३
नृत्तार्थमस्य च्छागस्य येनावस्था कृतेदृशी ।
रागात्तं मानुषं गुप्तं यदिहानीतवत्यसि ।। १४४
तद्गच्छ नरसिंहेन राज्ञा नागपुरे पुरे ।
देवागारे कृते स्तम्भे भव त्वं सालभञ्जिका ।। १४५
इत्युक्तवान्कलावत्या मात्रालम्बुषया तया ।
शक्रोऽनुनाथितः कृच्छ्रादेवं शापान्तमादिशत् ।। १४६
यदा बह्वब्दनिष्पन्नं देववेश्म विनश्य तत् ।
भविष्यति समं भूमेरस्याः शापक्षयस्तदा ।। १४७
इतीन्द्रशापशापान्तावेवं साश्रुः शशंस सा ।
तस्मै कलावती ठिण्ठाकरालाय सवाच्य तम् ।। १४८
दत्त्वा स्वाभरणं तस्मै तिरोभूय विवेश च ।
गत्वा नागपुरे देवगृहस्तम्भाग्रपुत्रिकाम् ।। १४९
ठिण्ठाकरालोऽपि ततस्तद्वियोगविषाहतः ।
न ददर्श न शुश्राव लुलोठ भुवि मूर्छितः ।। १५०
अहो रहस्यं मत्वापि मूढेनाविष्कृतं मया ।
निसर्गचपलानां हि मादृशां संयमः कुतः ।। १५१
तदिदानीमयं प्राप्तो वियोगो विषमो मया ।
इत्यादिलब्धसंज्ञश्च कितवो विललाप सः ।। १५२
क्षणाच्चाचिन्तयत्कालो वैक्लव्यस्यैष नैव मे ।
गृहीतधैर्यः शापान्तहेतोस्तस्या न किं यते ।। १५३
इत्यालोच्य विचार्याथ प्रव्राड्वेषं विधाय सः ।
साक्षसूत्राजिनजटं धूर्तो नागपुरं ययौ ।। १५४
तत्राटव्यां चतसृषु न्यधाद्दिक्षु पुराद्बहिः ।
कान्तालंकारकलशान्निखाय चतुरो भुवि ।। १५५
पञ्चमं च महारत्नसंपूर्णं निचखान सः ।
नगरान्तर्निशि स्वैरं देवाग्रापणभूतले ।। १५६
एवं कृत्वा स तत्रासीन्नद्यास्तीरे कृतोटजः ।
आश्रित्य कैतवतपः कृतकध्यानजप्यवान् ।। १५७
कुर्वन्दिनस्य त्रिः स्नानं भुञ्जानो भैक्ष्यमम्बुभिः ।
प्रक्षाल्य दृषदि प्राप स महातापसप्रथाम् ।। १५८
क्रमाच्छ्रुतिपथायातो राज्ञा सोऽभ्यर्थितोऽपि यत ।
नागात्तदन्तिकं तत्स राजा तत्पार्श्वमाययौ ।। १५९
स्थित्वा कथाभिश्च चिरं सायं तस्मिन्यियासति ।
राज्ञ्यकस्माच्छिवा चक्रे शब्दं तत्र विश्वतः ।। १६०
तच्छ्रुत्वा तापसच्छद्मा कितवो हसति स्म सः ।
किमेतदिति पृष्टश्च किमनेनेत्यभाषत ।। १६१
निर्बन्धाच्च नृपे पृच्छत्युवाचैवं स मायिकः ।
अटव्यां नगरस्यास्य पूर्वतो वेतसीतले ।। १६२
रत्नाभरणपूर्णोऽस्ति कलशस्तद्गृहाण तम् ।
इत्युक्तं मे रुतज्ञस्य नृपते शिवयैतया ।। १६३
उक्त्वैवं कौतुकाविष्टं नीत्वा तं तत्र भूपतिम् ।
खात्वा स भूमिमुद्धृत्य तस्मै तं कलशं ददौ ।। १६४
ततः स लब्धाभरणः संजातप्रत्ययो नृपः ।
ज्ञानिनं सत्यवाचं तं मेने निःस्पृहतापसम् ।। १६५
आनीय स्वाश्रमं तं च मुहुर्नत्वा च पादयोः ।
स ययौ मन्दिरं नक्तं सामात्यस्तद्गुणान्स्तुवन् ।। १६६
एवं क्रमात्तमायान्तं धूर्तो रुतमिषान्नृपम् ।
सोऽन्यांस्त्रीन्रत्नकलशान्दिग्भ्योऽन्याभ्यो व्यलम्भयत् ।। १६७
ततः स राजा पौराश्च मन्त्रिणोऽन्तःपुराणि च ।
तत्तापसैकभक्तानि तन्मयान्येव जज्ञिरे ।। १६८
एकदा नीयमानश्च देवागारेक्षणाय सः ।
राज्ञा कुतापसोऽश्रौषीदापणे काकवाशितम् ।। १६९
ततोऽब्रवीत्तं राजानं श्रुता काकस्य वाक्त्वया ।
आपणेऽत्रैव देवाग्रे निखातो भुवि तिष्ठति ।। १७०
सद्रत्नपूर्णः .कलशः कस्मात्सोऽपि न गृह्यते ।
इत्येतदुक्तं काकेन तदेहि स्वीकुरुष्व तत् ।। १७१
इत्युक्त्वा तत्र नीत्वा तं भूमेरुद्धृत्य भूभृते ।
सद्रत्नकलशं प्रादात्स तस्मै कूटतापसः ।। ६७२
ततोऽतिपरितोषात्स स्वयं हस्तेऽवलम्ब्य तम् ।
कपटज्ञानिनं राजा देवागारं प्रविष्टवान् ।। १७३
तत्र स्तम्भे समाधूय परिव्राट् सालभञ्जिकाम् ।
अनुप्रविष्टां प्रियया कलावत्या ददर्श ताम् ।। १७४
कलावती च तत्सालभञ्जिकारूपधारिणी ।
दुःखिता तं पतिं दृष्ट्वा प्रारेभे तत्र रोदितुम् ।। १७५
तद्दृष्ट्वा सानुगो राजा सविस्मयविषादवान् ।
ज्ञान्याभासमपृच्छत्तं किमिदं भगवन्निति ।। १७६
ततो विषण्णविभ्रान्त इव धूर्तो जगाद सः ।
एहि स्वभवनं तत्र वच्म्यवक्तव्यमप्यदः ।। १७७
इत्युक्त्वा स नृपं नीत्वा राजधानीमुवाच तम् ।
अस्थाने कुमुहूर्ते च देवागारमिदं त्वया ।। १७८
यत्कृतं तत्तृतीयेऽह्नि भविष्यत्यहितं तव ।
अतस्त्वद्दर्शनात्सैषा प्रारोदीत्स्तम्भपुत्रिका ।। १७९
तच्छरीरेण चेत्कृत्यं तव निर्लोठ्य तन्नृप ।
अद्यैवैतद्द्रुतं देवकुलं भूमिसमं कुरु ।। १८०
सुस्थाने सुमुहूर्ते च कुर्वन्यत्र सुरालयम् ।
अनिमित्तं शमं यातु सराष्ट्रस्यास्तु ते शिवम् ।। १८१
इत्युक्तस्तेन स नृपः समाज्ञाप्य भयात्प्रजाः ।
एकाहेनैव तद्देवगृहं भूमिसमं व्यधात् ।। १८२
स्थानान्तरे च प्रारेभे कर्तुं देवकुलं पुनः ।
अहो विश्वास्य वञ्च्यन्ते धूर्तैश्छद्मभिरीश्वराः ।। १८३
सिद्धकार्यस्ततस्त्यक्त्वा प्रव्राड्वेषं पलाय्य सः ।
ठिण्ठाकरालः कितवः प्रायादुज्जयिनीं ततः ।। १८४
कलावती च तद्बुद्ध्वा शापमुक्ताभ्युपेत्य तम् ।
मार्गे हृष्टा समाश्वास्य द्रष्टुमिन्द्रमगाद्दिवम् ।। १८५
इन्द्रोऽपि विस्मितो बुद्ध्वा तन्मुखात्तस्य तत्पतेः ।
मायां तां द्यूतकारस्य जहास च तुतोष च ।। १८६
ततः पार्श्वस्थितः शक्रं तमुवाच बृहस्पतिः ।
विचित्रमायाः कितवा ईदृशा एव सर्वदा ।। १८७
पुराकल्पे तथा चाभून्नगरे कितवः क्वचित् ।
कुट्टिनीकपटो नाम कपटद्यूतकोविदः ।। १८८
परलोकगतं तं च धर्मराजः किलाब्रवीत् ।
कल्पं नरकवासस्ते कितवास्ति स्वपातकैः ।। १८९
एकं तु दिनमिन्द्रत्वमस्ति दानवशात्तव ।
दत्तं ब्रह्मविदे ह्येकं सुवर्णं जातुचित्त्वया ।। १९०
तद्ब्रूहि पूर्वं किं भुङ्क्षे नरकं किमुतेन्द्रताम् ।
तच्छ्रुत्वा कितवोऽवोचद्भुञ्जे प्रागिन्द्रतामिति ।। १९१
ततः स धर्मराजेन प्रेषितः कितवो दिवि ।
एकाहमिन्द्रमुत्थाप्य देवै राज्येऽभ्यषिच्यत ।। १९२
संप्राप्तदेवराज्यः सन्नानाय्य कितवान्सखीन् ।
सवेश्याश्च दिवं देवानादिदेशाधिपत्यतः ।। १९३
नीत्वास्मान्सर्वतीर्थेषु सर्वान्स्नपयत क्षणात् ।
दिव्येष्वपि च भौमेषु सप्तद्वीपगतेष्वपि ।। १९४
अनुप्रविश्य चाद्यैव भूपतीन्निखिलान्भुवि ।
प्रयच्छत महादानान्यस्मदर्थमनारतम् ।। १९५
इत्यादिष्टाः सुरास्तेन सर्वं चक्रुस्तदैव तत् ।
धूतपापः स तैः पुण्यैर्धूर्तः प्रापेन्द्रतां स्थिराम् ।। १९६
तद्वयस्याश्च वेश्याश्च ये तेनानायिता दिवम् ।
अमरत्वं ययुस्तेऽपि तत्प्रसादाद्धतांहसः ।। १९७
द्वितीयेऽह्नि स्थिरप्राप्तदेवराज्यं स्वबुद्धितः ।
कितवं धर्मराजाय चित्रगुप्तः शशंस तम् ।। १९८
ततः सुचरितं बुद्ध्वा धर्मराजो विसिस्मिये ।
अहो बत द्यूतकृता वञ्चिताः स्म इति ब्रुवन् ।। १९९
ईदृशाः कितवा वज्रिन्नित्युक्त्वा विरते गुरौ ।
ठिण्ठाकरालं द्यामिन्द्रोऽनैषीत्प्रेष्य कलावतीम् ।। २००
तत्र तद्बुद्धिधैर्याभ्यां तुष्टः संमान्य देवराट् ।
दत्त्वा कलावतीं चक्रे तं स पार्श्वस्थमात्मनः ।। २०१
ततः स देववद्धीरः कलावत्या समं सुखी ।
ठिण्ठाकरालो न्यवसच्छंकरानुग्रहाद्दिवि ।। २०२
तदीदृग्द्यूतकाराणां मायासाहसयोर्गतिः ।
तदग्निशिख वेताल किं चित्रं कितवेन यत् ।। २०३
डाकिनेयेन निक्षिप्तः कूपेऽस्मिन्मायया भवान् ।
तत्त्वं निर्याहि मित्त्रावां निरेष्यावोऽवटादितः ।। २०४
इत्युक्तो ब्रह्मरक्षोभ्यां निर्गत्याहं ततोऽवटात् ।
रात्रावस्यां पुरि प्रापं क्षुधार्तः पथिकं द्विजम् । २०५
तं च गृह्णामि धावित्वा विप्रं यावज्जिघृत्सया ।
तावच्छ्रीविक्रमादित्यदेवमाक्रन्दति स्म सः ।। २०६
श्रुत्वैव च स निर्गत्य राजा ज्वलनसंनिभः ।
आः पाप मा वधीर्विप्रमित्यारात्प्रतिहत्य माम् ।। २०७
प्रावर्तत शिरश्छेत्तुमालेख्यपुरुषस्य यत् ।
तेन मे छेदमागच्छन्कण्ठोऽभूत्स्रुतशोणितः ।। २०८
ततोऽङ्घ्रिलग्नस्तेनैव रक्षितोऽस्म्युज्झितद्विजः ।
एवंप्रभावो देवोऽसौ विक्रमादित्यभूपतिः ।। २०९
तदाज्ञया हतश्चायं खण्डकापालिको मया ।
तदेतं मम वेताल भक्ष्यं यमशिख त्यज ।। २१०
एवमग्निशिखेनोक्तोऽप्याक्षिपत्तत्स पाणिना ।
दर्पाद्यमशिखः खण्डकापालिककलेवरम् ।। २११
ततः श्रीविक्रमादित्यः प्रकाश्यात्मानमत्र सः ।
आलिख्य पुरुषं भूमौ पाणिं तस्यासिनाच्छिनत् ।। २१२
तेन च्छिन्नो यमशिखस्यापतत्तस्य यत्करः ।
तत्स तं कुणपं त्यक्त्वा पलाय्यैवागमद्भयात् ।। २१३
अभक्षयच्चाग्निशिखः कुणपं तं कपालिनः ।
अहं च निर्भयोऽद्राक्षं सर्वं राजौजसा तु तत् ।। २१४
एवमाख्याय सा यक्षवधूर्मदनमञ्जरी ।
त्वत्प्रभावं महाराज तत्र मामवदत्पुनः ।। २१५
ततो वक्ति स्म मधुरं स राजानङ्गदेव माम् ।
यक्षि कापालिकान्मुक्ता गच्छ भर्तृगृहानिति ।। २१६
ततः प्रणम्य तमहं गृहं स्वमिदमागता ।
चिन्तयन्त्युपकारस्य निष्कृतिं तस्य भूपतेः ।। २१७
एवं प्राणाः कुलं भर्ता दत्ता मे प्रभुणा तव ।
त्वदाख्याता च तस्यैषा संवदिष्यति मत्कथा ।। २१८
अद्य ज्ञातं च यत्तस्य राज्ञस्त्रैलोक्यसुन्दरी ।
प्रेषिता सिंहलेन्द्रेण तनया सा स्वयंवरा ।। २१९
तां च हर्तुं कृता बुद्धिः सर्वैः संभूय राजभिः ।
हत्वा विक्रमशक्तिं तं तत्सामन्तं समत्सरैः ।। २२०
तस्माद्विक्रमशक्तेस्त्वं गत्वा तद्विदितं कुरु ।
येन तेषामवहितः प्रतीकारे स तिष्ठति ।। २२१
अहं च तत्करिष्यामि प्रयत्नं येन तानरीन् ।
हत्वा स विक्रमादित्यदेवो विजयमाप्स्यति ।। २२२
एतदर्थमिहानीतो मया त्वं निजमायया ।
येन राज्ञः ससामन्तस्यैतत्सर्वं वदिष्यसि ।। २२३
प्राभृतं च प्रहेष्यामि त्वत्प्रभोस्तस्य तादृशम् ।
दद्यां तदुपकारस्य लेशतो येन निष्कृतिम् ।। २२४
एवं वदति यावत्सा तावत्ते तत्र कन्यके ।
आगते समृगे ये द्वे दृष्टे अस्माभिरम्बुधौ ।। २२५
एका चन्द्रावदाताङ्गी प्रियङ्गुश्यामलापरा ।
सरित्पतेः कृतोपासे जाह्नवीयमुने इव ।। २२६
निषण्णयोस्तयोस्तां च यक्षीं देवास्मि पृष्टवान् ।
देवि के कन्यके एते सौवर्णोऽयं मृगश्च कः ।। २२७
तच्छ्रुत्वा सा महाराज यक्षिणी मामभाषत ।
अनङ्गदेव यदि ते कौतुकं वच्मि तच्छृणु ।। २२८
विघ्नायाजग्मतुः पूर्वं प्रजासर्गे प्रजापतेः ।
घोरौ घण्टनिघण्टाख्यौ दानवौ देवदुर्जयौ ।। २२९
तयोर्विनाशकामश्च विधाता कन्यके इमे ।
जगदुन्मादनोद्दामरूपशोभे विनिर्ममे ।। २३०
दृष्ट्वैवात्यद्भुते चैते हरन्तौ तौ महासुरौ ।
परस्परं युध्यमानौ जग्मतुर्द्वावपि क्षयम् ।। २३१
ततो ब्रह्मा धनाध्यक्षायैते कन्ये समर्पयत् ।
त्वया योग्याय कस्मैचिद्भर्त्रे देये इमे इति ।। २३२
धनदोऽप्यर्पयदिमे मद्भर्त्रे स्वानुजन्मने ।
मद्भर्ता चार्पयन्मह्यं तथैव वरकारणम् ।। २३३
मया श्रीविक्रमादित्यश्चानयोश्चिन्तितो वरः ।
देवावतारो ह्युचितः स एव पतिरेतयोः ।। २३४
एवंरूपे इमे कन्ये मृगस्याख्यायिकां शृणु ।
जयन्तो नाम तनयो दयितोऽस्ति शचीपतेः ।। २३५
स भ्राम्यमाणः स्वःस्त्रीभिर्व्योम्ना जातु शिशुर्भुवि ।
राजपुत्रानधोऽद्राक्षीत्क्रीडतो मृगपोतकैः ।। २३६
ततः स बालभावेन क्रीडामृगशिशुं विना ।
हेवाकी त्रिदिवं गत्वा प्रारोदीत्पितुरग्रतः ।। २३७
तेन तस्य कृते शक्रोऽकारयद्विश्वकर्मणा ।
सुधासेकार्पितप्राणं हेमरत्नमयं मृगम् ।। २३८
अथ तेन स चिक्रीड जयन्तः संतुतोष च ।
सोऽप्यत्र तस्थौ विहरन्नाके हरिणपोतकः ।। २३९
कालेनेन्द्रजितान्वर्थनाम्ना रावणसूनुना ।
सोऽपहृत्य मृगो निन्ये लङ्कां स्वनगरीं दिवः ।। २४०
गते च काले हतयोः सीताहरणमन्युना ।
रामलक्ष्मणवीराभ्यां रावणेन्द्रजितोस्तयोः ।। २४१
लङ्काराज्येऽभिषिक्तस्य राक्षसेन्द्रस्य मन्दिरे ।
विभीषणस्य सोऽतिष्ठद्रत्नहेममृगोऽद्भुतः ।। २४२
विभीषणश्च तं मह्यमुत्सवे जातुचिद्गृहान् ।
नीतायै भर्तृबान्धव्यान्मृगं संमानयन्नदात् ।। २४३
सोऽयं मृगशिशुर्दिव्यो वर्ततेऽद्य गृहे मम ।
मया च त्वत्प्रभोरेष कर्तव्योऽयमुपायनम् ।। २४४
इति सा यावदाख्याति यक्षिणी मे कथाक्रमम् ।
तावत्कमलिनीकान्तो रविरस्तमुपाययौ ।। २४५
ततस्तया समादिष्टे धाम्नि संध्याविधेः परम् ।
सिंहलेश्वरदूतोऽयमहं च शयितावुभौ ।। २४६
प्रातः प्रबुद्धौ पश्यावो यावदावामनीकिनीम् ।
प्राप्तौ विक्रमशक्तेस्तां सामन्तस्य तव प्रभो ।। २४७
ततो विचिन्त्य यक्षिण्यास्तत्प्रभावविजृम्भितम् ।
पार्श्वं विक्रमशक्तेर्द्राग्गतावावां सविस्मयौ ।। २४८
स च दृष्ट्वैव संमान्य कुशलं परिपृच्छ्य च ।
सिंहलेश्वरसंदेशं यावन्नौ प्रष्टुमिच्छति ।। २४९
तावत्ते यक्षिणीप्रोक्तस्वरूपे दिव्यकन्यके ।
मृगपोतश्च संप्राप्तास्तत्र यक्षचमूवृताः ।। २५०
तान्दृष्ट्वा दुष्टभूतादिमायाशङ्की स संशयात् ।
देव विक्रमशक्तिर्मा किमेतदिति पृष्टवान् ।। २५१
ततः ससिंहलाधीशकार्यं तस्मायहं क्रमात् ।
यक्षिणीकन्यकायुग्ममृगोदन्तमवर्णयम् ।। २५२
यक्षीमुखाच्छ्रुतं तं च सर्वेषामैकमत्यतः ।
राजद्विष्टोद्यमं राज्ञां तस्यावोचमहं ततः ।। २५३
ततः स संमान्यावां च दिव्यकन्ये च ते उभे ।
प्रहृष्टः सैन्यमकरोत्सामन्तः सज्जमाहवे ।। २५४
क्षणाच्चाश्रावि देवात्र सैन्यतूर्यमहारवः ।
क्षणाच्चादर्शि सम्लेच्छं प्रतिराजबलं महत् ।। २५५
अन्योन्यदर्शनक्रोधादभिधावितयोस्तयोः ।
प्रावर्तत द्वयोर्युद्धमस्मत्सैन्यारिसैन्ययोः ।। २५६
ततो यक्षीविसृष्टैस्तैर्यक्षैरस्मद्द्विषद्बलम् ।
अन्यैरस्मद्भटाविष्टैरन्यैः सख्यादहन्यत ।। २५७
सैन्यरेणुगणाकीर्णं खड्गधारानिरन्तरम् ।
सशूरगर्जितं घोरमुदभूद्रणदुर्दिनम् ।। २५८
छेदोच्छलद्भिर्द्विषतां निपतद्भिश्च मूर्धभिः ।
अशोभत जयश्रीर्नः क्रीडन्ती कन्दुकैरिव ।। २५९
क्षणाच्च हतशेषास्ते राजानो भग्नसैनिकाः ।
त्वत्सामन्तस्य कटकं प्रणताः शरणं श्रिताः ।। २६०
ततो चितासु सद्वीपास्वाशासु चतसृष्वपि ।
उत्सादितेषु म्लेच्छेषु सर्वभूमीश्वर त्वया ।। २६१
निजेन भर्त्रा सहिता प्रकटीभूय यक्षिणी ।
देव विक्रमशक्तिं तं मां चैवं वदति स्म सा ।। २६२
मया यदेतद्विहितं सेवामात्रं भवत्प्रभोः ।
तदावेद्यं पुनश्चैवं स विज्ञाप्यो गिरा मम ।। २६३
त्वयैते परिणेतव्ये कन्यके देवनिर्मिते ।
द्रष्टव्ये च प्रसादेन लालनीयोऽप्ययं मृगः ।। २६४
मदीयं प्राभृतं ह्येतदित्युक्त्वा रत्नसंचयम् ।
दत्त्वा यक्षी तिरोऽभूत्सा भर्त्रा सह सहानुगा ।। २६५
अन्येद्युः परिवारेण विभवेन च भूयसा ।
आगान्मदनलेखा सा सिंहलेश्वरकन्यका ।। २६६
कृत्वा प्रत्युद्गमं साथ तेन विक्रमशक्तिना ।
प्रावेश्यत स्वकटकं प्रणतेन प्रहर्षतः ।। २६७
द्वितीयेऽह्नि गृहीत्वा तां ते चोभे दिव्यकन्यके ।
हेमरत्नमृगं तं च त्रिजगन्नेत्रकौतुकम् ।। २६८
सिद्धकार्य इहागन्तुं देवपाददिदृक्षया ।
ततो विक्रमशक्तिः स चलितो राजभिः सह ।। २६९
स चेह निकटप्राप्तः सामन्तो देव वर्तते ।
आवेदनाय देवस्य तेनावां प्रेषितौ पुरः ।। २७०
तद्देव सिंहलेन्द्रस्य यक्षिण्याश्चानुरोधतः ।
तत्कन्याहरिणान्देवः प्रत्युद्यातु नृपानपि ।। २७१
इत्युक्तोऽनङ्गदेवेन विक्रमादित्यभूपतिः ।
कृतं दुःसाध्यमपि तद्यक्षिणीरक्षणं स्मरन् ।। २२
नामन्यत तृणायापि श्रुत्वा तत्प्रत्युपक्रियाम् ।
बहु कृत्वापि मन्यन्ते स्वल्पमेव महाशयाः ।। २७३
हृष्टश्च सिंहलाधीशदूतयुक्तं पुनः स तम् ।
अनङ्गदेवं हस्त्यश्वग्रामरत्नैरपूरयत् ।। २७४
नीत्वा दिनं तदथ सिंहलराजपुत्र्यास्तस्यास्तयोः कमलजोद्भवकन्ययोश्च ।
प्रत्युद्गमाय स महीपतिरुज्जयिन्याः सैन्यैर्गजाश्ववहनैः सममुच्चचाल ।। २७५
सत्कुञ्जरोऽञ्जनगिरिर्जयवर्धनस्य मत्तद्विपो रणभटस्य च कालमेघः ।
सङ्ग्रामसिद्धिरपि सिंहपराक्रमस्य वीरस्य विक्रमनिधे रिपुराक्षसश्च ।। २७६
पवनजवो जयकेतोर्वल्लभशक्तेः समुद्रकल्लोलः ।
अश्वौ बाहुसुबाह्वोः शरवेगो गरुडवेगश्च ।। २७७
श्यामा कुवलयमाला कोक्काणी कीर्तिवर्मणस्तुरगी ।
कर्का गङ्गालहरी सुसैन्धवी समरसिंहस्य ।। २७८
इति हस्त्यश्वं राजसु तेष्वपि चलितेषु विभजतामभितः ।
शुश्रुविरेऽत्र च राजनि चलिते दण्डाधिकारिणां वाचः ।। २७९
भूमिः सैन्यमयी तदुत्थितमहाशब्दैकमय्यो दिशः
संसर्पद्ध्वजिनीविमर्दविलसद्धूलीमयी द्यौरपि ।
सर्वस्याद्भुततत्प्रभावमहिमव्याहारमय्यो गिर-
स्तस्मिन्राज्ञि पथि प्रयाति सकलद्वीपाधिनाथेऽभवन् ।। २८०
इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे विषमशीललम्बके द्वितीयस्तरङ्गः ।