प्रमुखा विकल्पसूचिः उद्घाट्यताम्

ततः स विक्रमादित्यो जयसैन्यमवाप तत् ।
अधिष्ठितं स्वसेनान्या तेन विक्रमशक्तिना ।। १
अग्रागतेन तेनैव सोत्केन प्रणतात्मना ।
सराजकेन सहितः स्वबलं स विवेश च ।। २
गौडः शक्तिकुमारोऽयं कर्णाटोऽयं जयध्वजः ।
लाटो विजयवर्मायं काश्मीरोऽयं सुनन्दनः ।। ३
गोपालः सिन्धुराजोऽयं भिल्लो विन्ध्यबलोऽप्ययम् ।
निर्मूकः पारसीकोऽयं नृपः प्रणमति प्रभो ।। ४
इत्यास्थाने नृपान्सोऽत्र प्रतीहारनिवेदितान् ।
सम्राट् संमानयामास सामन्तान्सैनिकानपि ।। ५
सिंहलेन्द्रसुतादिव्यकन्याहेममृगांश्च तान् ।
यथार्हं सत्करोति स्म स सविक्रमशक्तिकान् ।। ६
तैः समं सबलोऽन्येद्युः प्रतस्थे च ततः कृती ।
स राजा विक्रमादित्यः प्राप चोज्जयिनीं पुरीम् ।। ७
संमानितविसृष्टेषु स्वदेशानथ राजसु ।
जगदानन्दिनि प्राप्ते वसन्तसमयोत्सवे ।। ८
लतासु पुष्पाभरणैर्मण्डनं कुर्वतीष्विव ।
तन्वतीष्विव संगीतं भृङ्गयोषित्सु गुञ्जितैः ।। ३
नृत्यन्तीष्विव चाश्लिष्टमरुत्सु वनराजिषु ।
पिकेषु कलशब्देषु मङ्गलानि पठत्स्विव ।। १०
सोऽत्र ता विक्रमादित्यः परिणिन्ये शुभेऽहनि ।
सिंहलेश्वरकन्यां तां ते च द्वे दिव्यकन्यके ।। ११
सिंहलेश्वरकन्याया ज्येष्ठो भ्राता सहागतः ।
सिंहवर्मा ददौ वेद्यां महान्तं रत्नसंचयम् ।। १२
तत्कालमेत्य च तयोर्यक्षिणी दिव्यकन्ययोः ।
असंख्यान्रत्नराशीन्सा ददौ मदनमञ्जरी ।। १३
शक्ताहं गन्तुमानृण्यं देव त्वत्सुकृतस्य किम् ।
किं तु दर्शयितुं भक्तिं नैतत्किंचित्कृतं मया ।। १४
तत्प्रसादोऽनयोः कार्यः कन्ययोर्हरिणस्य च ।
इत्युक्त्वा च तिरोऽभूत्सा यक्षी राज्ञाभिपूजिता ।। १५
ततः संप्राप्य भार्यास्ताः सद्वीपां च महीं कृती ।
शशास विक्रमादित्यो राजा राज्यमकण्टकम् ।। १६
सुखितश्चास्त विहरंस्तदा चोद्यानभूमिषु ।
ग्रीष्मे जलेषु सरसां धारायन्त्रगृहेषु च ।। १७
वर्षास्वन्तःपुरेषूद्यन्मृदङ्गरवहारिषु ।
शरदीन्दूदयापानहृद्यहर्म्यतलेष्वपि ।। १८
आस्तीर्णसुखशय्येषु कालागुरुसुगन्धिषु ।
वासवेश्मसु हेमन्ते स नृपोऽन्तःपुरैर्वृतः ।। १९
तस्येदृशस्य राज्ञश्च नगरस्वामिसंज्ञकः ।
बभूव ग्रामशतभुक्चित्रकृज्जितविश्वकृत् ।। २०
स द्व्यहेन द्व्यहेनास्मै राज्ञे प्राभृतपुत्रिकाम् ।
लिखित्वान्यान्यया रूपभृङ्ग्या चित्रकरो ददौ ।। २१
एकदा चोत्सववशाद्विस्मृत्य लिखिता न सा ।
तेन चित्रकृता दैवात्पुत्रिका नृपतेः कृते ।। २२
प्राप्ते च प्राभृतदिने स्मृत्वा यावत्समाकुलः ।
आस्ते चित्रकरो हा किं ढौकयेयं प्रभोरिति ।। २३
तावद्दूरागतः कोऽपि पान्थोऽकस्मात्तमभ्यधात् ।
स चास्य पुस्तिकां हस्ते न्यस्यैव क्वाप्यगाल्लघु ।। २४
कौतुकाच्च स यावत्तामुद्धाटयति चित्रकृत् ।
तावद्ददर्श तत्रान्तश्चित्रस्थां पुत्रिकां पटे ।। २५
दृष्ट्वैवाद्भुतरूपां तां नीत्वा नृपतये ददौ ।
प्राभृतं प्रत्युतेदृङ्मे सिद्धमद्येति हर्षुलः ।। २६
नृपतिस्तां तु दृष्ट्वैव साश्चर्यः स जगाद तम् ।
न भद्र तव रेखेयं रेखेयं विश्वकर्मणः ।। २७
मानुषो हि कुतो वेत्ति लिखितुं रूपमीदृशम् ।
तच्छ्रुत्वा चित्रकृद्राज्ञे यथावृत्तं शशंस सः ।। २८
ततः सोऽनन्यदृग्राजा तां पश्यन्पुत्रिकां सदा ।
स्वप्ने द्वीपान्तरेऽद्राक्षीत्तद्रूपामेव कन्यकाम् ।। २९
संगमं भजते यावत्सोत्कः सोत्सुकया तया ।
तावत्प्रबोधितः सोऽभूद्यामिकेन निशाक्षये ।। ३०
प्रबुद्धो भग्नतत्स्वप्नसमागमसुखश्च सः ।
यामिकं तं क्रुधा राजा नगर्या निरकालयत् ।। ३१
क्व पान्थः पुस्तिका क्वास्य क्व तस्यां चित्रपुत्रिका ।
तस्या एव सजीवायाः स्वप्ने संदर्शनं क्व च ।। ३२
तदेषा दैवघटना कन्या सास्तीति वक्ति मे ।
न च जानामि तद्द्वीपं प्राप्नुयां तत्कथं नु ताम् ।। ३३
इत्यादि चिन्तयन्सोऽथ सर्वत्रारतिमान्नृपः ।
स्मरज्वरेण जज्वाल पर्याकुलपरिच्छदः ।। ३४
ससंतापश्च विजये क्षत्रा भद्रायुधेन सः ।
शनैस्तत्कारणं पृष्टो जगादैवं महीपतिः ।। ३५
शृणु तद्वच्मि ते मित्र ज्ञातं तावददस्त्वया ।
यच्चित्रपुत्रिका तेन दत्ता चित्रकरेण मे ।। ३६
तां चिन्तयंश्च सुप्तोऽहं स्वप्ने जानामि वारिधिम् ।
उत्तीर्य प्राप्य नगरं प्रविष्टोऽस्म्यतिसुन्दरम् ।। ३७
तत्रापश्यमहं बह्वीः सायुधाः कन्यकाः पुरः ।
ता मां दृष्ट्वा जहि जहीत्युच्चैः कलकलं व्यधुः ।। ३८
ततः ससंभ्रमा कापि जाने मामेत्य तापसी ।
प्रवेश्यैव निजं गेहं संक्षेपादिदमब्रवीत् ।। ३९
पुरुषद्वेषिणी पुत्र राजपुत्रीयमागता ।
इतो मलयवत्याख्या विहरन्ती यदृच्छया ।। ४०
दृष्टमात्रं च पुरुषं कन्याभिर्घायत्यसौ ।
एताभिस्तेन रक्षार्थं मयेह त्वं प्रवेशितः ।। ४१
इत्युक्त्वा तापसी सद्यः स्त्रीवेषं सा व्यधान्मम ।
अवध्याः कन्यकास्तास्तु मत्वा सोढं मयापि तत् ।।४२
यावत्प्रविष्टामत्रैव सकन्यां तां नृपात्मजाम् ।
पश्यामि तावच्चित्रस्था या मयादर्शि सैव सा ।। ४३
अचिन्तयं च धन्योऽहं यच्चित्रलिखितामिमाम् ।
दृष्ट्वा पुनश्च पश्यामि साक्षात्प्राणसमामिति ।। ४४
राजपुत्री च सा तावत्तापसीं तां सकन्यका ।
दृष्टोऽस्माभिः प्रविष्टोऽत्र पुमान्कोऽपीत्यभाषत ।। ४५
पुमान्कुतः प्राघुणिका स्थितैषा मे स्वसुः सुता ।
इति तां तापसी सापि प्रत्यवोचत्प्रदर्श्य माम् ।। ४६
ततः सा राजतनया स्त्रीरूपमपि वीक्ष्य माम् ।
विस्मृत्य पुरुषद्वेषं सद्यः स्मरवशाभवत् ।। ४७
आसीत्कण्टकिता किंचिच्चिन्तयन्तीव निश्चला ।
लब्धच्छिद्रेण कामेन कीलितेव समं शरैः ।। ४८
क्षणाच्च तापसीं तां सा व्याहरद्राजकन्यका ।
तर्ह्यार्ये त्वत्स्वसृसुता ममापि प्राघुणी न किम् ।। ४९
आयातु मद्गृहमियं प्रहेष्याम्यर्चितामिमाम् ।
इत्युक्त्वादाय पाणौ मामनैषीत्सा स्वमन्दिरम् ।। ५०
अहं च लब्धचित्तोऽस्या जाने तत्र तथेत्यगाम् ।
अन्वमन्यत मां सापि विदग्धा वृद्धतापसी ।। ५१
ततोऽहं स्थितवांस्तत्र राजपुत्र्या तया सह ।
क्रीडन्त्या कन्यकान्योन्यविवाहादिविनोदनैः ।। ५२
न च माममुचत्पार्श्वात्क्षणं सा मद्गतेक्षणा ।
यत्र नाहं न सा तस्यै काचनारोचत क्रिया ।। ५३
अथ ताः कन्यकाः कृत्वा वधूं तां राजकन्यकाम् ।
मां वरं चावयोर्जाने विवाहं क्रीडया व्यधुः ।। ५४
कृतोद्वाहौ ततश्चावां प्रविष्टौ वासकं निशि ।
निःशङ्का तत्र मां सा च कण्ठे राजसुताग्रहीत् ।। ५५
तत्कालं च मयात्मानं प्रकाश्यालिङ्गितैव सा ।
सिद्धेष्टहृष्टा दृष्ट्वा मामासील्लज्जानता क्षणम् ।। ५६
प्रवर्तयामि सुरते यावच्चैतां हृतत्रपाम् ।
तावत्प्रबोधितोऽस्मीह यामिकेन दुरात्मना ।। ५७
तद्भद्रायुध नेदानीं चित्रे स्वप्ने च दृष्टया ।
तया मलयवत्याहं विना जीवितुमुत्सहे ।। ५८
इत्युक्तवन्तं राजानं सत्यस्वप्नमवेत्य सः ।
भद्रायुधः प्रतीहारस्तमाश्वास्यैवमुक्तवान् ।। ५९
कृत्स्नं चेत्स्मर्यते सम्यक्तत्तदालिख्यतां पटे ।
देवेन नगरं यावदुपायोऽत्र निरूप्यते ।। ६०
इति भद्रायुधेनोक्तः स राजा लिखति स्म तत् ।
पटे पुरवरं सर्वं तद्वृत्तान्तं च तत्क्षणम् ।। ६१
तं चित्रपटमादाय प्रतीहारस्तदैव सः ।
मठं नवं कारयित्वा तत्र भित्तावलम्बयत् ।। ६२
मठे चात्राकरोद्दूरदेशादागतबन्दिनाम् ।
सत्त्रे षड्रसमाहारं सवस्त्रयुगकाञ्चनम् ।। ६३
यश्चित्रस्थमिदं वेत्ति पुरं कोऽपि स एति चेत् ।
ममावेद्य इति प्रादादाज्ञां च मठवर्तिनाम् ।। ६४
अत्रान्तरे ग्रीष्मवनं मल्लिकामोदिमारुतम् ।
छायानिषण्णपथिकं दृष्ट्वा पुष्पितपाटलम् ।। ६५
आजगामाम्बुदश्यामो गुरुगम्भीरगर्जितः ।
केतकोद्दामदशनः प्रावृट्कालमदद्विपः ।। ६६
तत्कालं तस्य पौरस्त्यपवनेद्ध इवाययौ ।
वृद्धिं विरहदावाग्निर्विक्रमादित्यभूपतेः ।। ६७
हिमं हारलते देहि सिञ्च चित्राङ्गि चन्दनैः ।
पत्त्रलेखेऽब्जिनीपत्त्रशयनं शिशिरं कुरु ।। ६८
कदर्पसेने कदलीदलैर्वितर मारुतम् ।
इति तद्वारनारीणां तदा शुश्रुविरे गिरः ।। ६९
क्रमाच्च विद्युद्विषमः शशामास्य घनागमः ।
राज्ञः सविरहज्वालो न पुनर्मदनज्वरः ।। ७०
पान्थाः पथि प्रवर्तन्तां दूरस्थानां प्रवृत्तयः ।
प्रियाः प्रियाणां ग्रथ्यन्तां जायन्तां तत्समागमाः ।। ७१
इत्यादिशन्तीव ततः कलहंसरवैः शरत् ।
आगात्फुल्लाम्बुजमुखी सकाशकुसुमस्मिता ।। ७२
तस्यां दूरागतो बन्दी तत्र क्षत्तृकृते मठे ।
भोजनार्थी विवेशैको निशम्य ख्यातिमेकदा ।। ७३
नाम्रा शम्बरसिद्धिः स मठेऽत्र कृतभोजनः ।
आत्तवस्त्रयुगश्चित्रपटं भित्तौ ददर्श तम् ।। ७४
विभाव्य तत्र चित्रस्थं नगरं तत्स विस्मितः ।
जगाद बन्दी केनेदमहो आलिखितं पुरम् ।। ७५
यदेकेन मया दृष्टं लिखितं येन तेन च ।
द्वितीयेनेति जानेऽहं नापरेणेति केनचित् ।। ७६
एतच्छ्रुत्वा मठजनेनोक्तं भद्रायुधस्य तत् ।
तत्तेन स्वयमेत्यासौ बन्दी निन्ये नृपान्तिकम् ।। ७७
किं त्वया नगरं सत्यं तद्दृष्टमिति भूभृता ।
तत्र शम्बरसिद्धिः स परिपृष्टोऽब्रवीदिदम् ।। ७८
दृष्टं मया तन्मलयपुरं नाम महापुरम् ।
भ्रमता भुवमुत्तीर्य वारिधिं द्वीपमध्यगम् ।। ९
तस्मिन्मलयसिंहाख्यो नगरेऽस्ति महीपतिः ।
तस्यास्ति नाम्ना मलयवतीत्यनुपमा सुता ।। ८०
पुरुषद्वेषिणी सा च स्वप्ने जातु कथंचन ।
विहारनिर्गता कंचिन्महापुरुषमैक्षत ।। ८१
तेनालोकितमात्रेण स भीत इव तत्क्षणम् ।
निर्ययौ मनसस्तस्याः पुरुषद्वेषदुर्ग्रहः ।। ८२
नीत्वाथ तं स्वभवनं स्वप्न एव विधाय च ।
विवाहं तेन सहिता वासवेश्म विवेश सा ।। ८३
तत्र तेन समं यावत्सेवते सुरतोत्सवम् ।
तावद्वासस्थया दास्या सा निशान्ते प्रबोधिता ।। ८४
ततो निर्वास्य कोपात्तां दासीं स्वप्नावलोकितम् ।
तं स्मरन्ती प्रियतमं प्राज्वलद्विरहाग्निना ।। ८५५
अपश्यन्ती गतिं काचित्स्मरेण विवशीकृता ।
उत्थायोत्थाय शयने स्रस्ताङ्गी न्यपतत्परम् ।। ८६
मूकेव भूताक्रान्तेव तमःसंमोहितेव च ।
नोत्तरं पृच्छतः किचिद्ददौ परिजनस्य सा ।। ८७
विज्ञाय पित्रा मात्रा च ततः पृष्टातिकृच्छ्रतः ।
शशंस स्वप्नवृत्तान्तं सा तमाप्तसखीमुखे ।। ८८
ततः पित्रा कृताश्वासा प्रतिज्ञामकरोच्च सा ।
विशाम्यग्निं तमाप्नोमि षड्भिर्मासैर्न चेदिति ।। ८९
पञ्च मासा गताश्चाद्य तस्याः को वेत्ति भावि किम् ।
इतीदृक्तत्र वृत्तान्तः पुरे परिगतो मया ।। ९०
एवं तेन ससंवादमुक्ते शम्बरसिद्धिना ।
जातार्थनिश्चये हृष्टे राज्ञि भद्रायुधोऽभ्यधात् ।। ९१
सिद्धं कार्यं स देशो हि त्वद्वशः सनृपः प्रभो ।
तत्तत्र गम्यतां यावन्मासः षष्ठो न यात्यतः ।। ९२
इति तेनोदिते क्षत्त्रा तदाख्यातार्थविस्तरम् ।
कृत्वा शम्बरसिद्धिं तमग्रे भूरिधनार्चितम् ।। ९३
रविरश्मिषु संपातं पाण्डिमानं धनेषु च ।
सरित्तोयेषु कार्श्यं च निरत्येव निजं नृपः ।। ९४
निरातङ्कः स संपद्य तदैव दयितां प्रति ।
प्रतस्थे विक्रमादित्यः सैन्येन लघुना वृतः ।। ९५
गत्वा क्रमेण तीर्णाब्धिर्यावत्प्राप्तः पुरं स तत् ।
तावद्ददर्श तत्राग्रे जनं कोलाहलाकुलम् ।। ९६
एषा मलयवत्यद्य पूर्णे षाण्मासिकेऽवधौ ।
अप्राप्तदयिता वह्निं राजपुत्री विविक्षति ।। ९७
इत्यत्र शुश्राव जनात्पृष्टादथ स भूपतिः ।
उपागाच्च स तं देशं रचिता यत्र तच्चिता ।। ९८
तद्दर्शनादपसृते जने तत्र ददर्श तम् ।
दृशोरकाण्डपीयूषवर्षं सा राजकन्यका ।। ९९
सोऽयं प्राणेश्वरः स्वप्नपरिणेता ममागतः ।
तत्तातस्योच्यतां शीघ्रमिति स्माह च सा सखीः ।। १००
ताभिर्गत्वा तथैवोक्तस्तत्पिता सोऽथ भूपतिः ।
निर्दुःखो जातहर्षस्तं प्रह्वो राजानमभ्यगात् ।। १०१
तत्कालमुत्क्षिप्य भुजं तेन शम्बरसिद्धिना ।
उच्चैरवसरज्ञेन बन्दिनेदमपठ्यत ।। १०२
जय निजतेजःसाधितभूतगण म्लेच्छविपिनदावाग्रे ।
जय देव सप्तसागरसीममहीमानिनीनाथ ।। १०३
जय विजितसकलपार्थिवविनतशिरोधारितातिगुर्वाज्ञ ।
जय विषमशील विक्रमवारिनिधे विक्रमादित्य ।। १०४
इत्युक्ते बन्दिना तं स विक्रमादित्यमागतम् ।
बुद्ध्वा मलयसिंहोऽत्र राजा जग्राह पादयोः ।। १०५
विवेश च कृतातिथ्यस्तेन साकं स्वमन्दिरम् ।
तया मलयवत्या च दुहित्रा मृत्युमुक्तया ।। १०६
ददौ च तां सुतां तस्मै विक्रमादित्यभूभृते ।
स राजा तेन जामात्रा मन्वानः कृतकृत्यताम् ।। १०७
यथा चित्रे तथा स्वप्ने यथा स्वप्ने तथैव ताम् ।
विलोक्य साक्षान्मलयवतीमङ्कगतां प्रियाम् ।। १०८
स चापि विक्रमादित्यस्तदद्भुतममन्यत ।
फलं शैलसुताकान्तप्रसादसुरशाखिनः ।। १०९
अथ तामादाय वधूं निर्वृतिमिव रूपिणीं स मलयवतीम् ।
उत्तीर्य वारिराशिं सोत्कलिकं सुचिरविरहमिव ।। ११०
तत्तत्प्राभृतहस्तैः प्रणम्यमानः पदे पदे भूपैः ।
निजनगरीमुज्जयिनीं प्रत्यागाद्विक्रमादित्यः ।। १११
प्रभावमालोक्य च तत्र तस्य तं यथेच्छसत्यीकृतचित्रकौतुकम् ।
विसिस्मिये को न जहर्ष को न वा चकार को वा न महोत्सवं जनः ।। ११२
इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे विषमशीललम्बके तृतीयस्तरङ्गः ।