प्रमुखा विकल्पसूचिः उद्घाट्यताम्

ततः स विक्रमादित्यो राजा तस्य सहागतम् ।
वणिक्पुत्रस्य सुहृदं तमेवं परिपृष्टवान् ।। १
प्राप्ता मृतापि जीवन्ती मया भार्येति यत्त्वया ।
उक्तं कथं तदिति नः कथ्यतां भद्र विस्तरात् ।। २
इत्युक्तस्तेन राज्ञा स वणिक्सूनोः सखाब्रवीत् ।
कौतुकं यदि तद्देव श्रूयतां कथयाम्यदः ।। ३
ब्रह्मस्थलाग्रहाराग्र्यनिवासी द्विजपुत्रकः ।
चन्द्रस्वामीत्यहं भार्या सुरूपा चास्ति मे गृहे ।। ४
एकदा मयि कार्यार्थं ग्रामं पित्राज्ञया गते ।
तां मे कापालिकोऽद्राक्षीद्भार्यां भिक्षार्थमागतः ।। ५
तेन दृष्ट्वैव सा जातज्वरा सायं व्यपद्यत ।
ततो मद्बन्धुभिर्नीत्वा नक्तमारोपिता चिताम् ।। ६
प्रज्वलन्त्यां चितायां च ग्रामात्तत्राहमागमम् ।
अश्रौषं च यथावृत्तं स्वजनात्क्रन्दतः पुरः ।। ७
गते मयि चितोपान्तमागात्कापालिकश्च सः ।
अंसस्थनृत्यत्खट्वाङ्गः स्फूर्जड्डमरुकारवः ।। ८
भस्मक्षेपेण शमिते चिताग्नौ देव तेन सा ।
उदतिष्ठच्चितामध्यादक्षताङ्गी मदङ्गना ।। ९
स चादाय कपाली तां सिद्ध्याकृष्टानुधाविताम् ।
प्राद्रवल्लघु तां चाहमन्वगां सधनुःशरः ।। १०
स च गङ्गातटे प्राप्य गुहां भूमौ निधाय तत् ।
खट्वाङ्गमब्रवीद्धर्षादन्तःस्थे कन्यके उभे ।। ११
युवां प्राप्ते अपि मया नोपभुक्ते यया विना ।
सैषाद्य हस्ते प्राप्ता मे प्रतिज्ञा सिद्धिमागता ।। १२
इति ताभ्यां स मद्भार्यां यावद्दर्शयति ब्रुवन् ।
तावत्तत्तस्य खट्वाङ्गं गङ्गायामहमक्षिपम् ।। १३
रे कापालिक भार्यां मे जिहीषुर्न भवस्ययम् ।
इत्याक्षिपं च तमहं भ्रष्टखट्वाङ्गसिद्धिकम् ।। १४
अपश्यन्सोऽथ खट्वाङ्गं पलायनपरः शठः ।
धनुराकृष्य काण्डेन दिग्धेन निहतो मया ।। १५
पापसिद्ध्यैकसंतोषविडम्बितशिवागमाः ।
पाखण्डिनः पतन्त्येवं प्रागेव पतिता अपि ।। १६
अथादाय स्वभार्यां तामन्ये द्वे ते च कन्यके ।
गृहमागतवानस्मि दत्ताश्चर्यः स्वबन्धुषु ।। १७
तत्र पृष्टे स्ववृत्तान्ते कन्ये ते वदतः स्म मे ।
वाराणस्यां सुते आवां क्षितिभृत्सार्थवाहयोः ।। १८
सिद्धियुक्त्या हृते चावामेतयैव कपालिना ।
त्वत्प्रसादाच्च मुक्ते स्वः पापादस्माददूषिते ।। १९
इत्युक्तवत्यौ चान्येद्युर्नीत्वा वाराणसीं मया ।
अर्पिते ते स्वबन्धूनां तद्वृत्तान्तमुदीर्य तम् ।। २०
आगच्छंश्च ततोऽपश्यमिमं भार्यावियोगिनम् ।
वणिक्पुत्रं ततोऽनेन मिलित्वाहमिहागतः ।। २१
कापालिकगुहालब्धेनाङ्गरागेण रञ्जितात् ।
क्षालितादपि देहान्मे दृश्यतां वाति सौरभम् ।। २२
इत्थं मृतोत्थिता प्राप्ता मया भार्येति वादिनम् ।
विप्रं तं सवणिक्पुत्रं सत्कृत्य प्राहिणोन्नृपः ।। २३
ततो गुणवतीचन्द्रवतीमदनसुन्दरीः ।
आनीयादाय च समं मिलित्वा च स्वसैनिकैः ।। २४
आगात्स विक्रमादित्यभूभृदुज्जयिनीं पुरीम् ।
तस्यां गुणवतीचन्द्रवत्यौ च परिणीतवान् ।। २५
संस्मरन्नथ तां विश्वकर्मदेवगृहे स्थिताम् ।
स्तम्भस्थपुत्रिकां राजा स प्रतीहारमादिशत् ।। २६
कलिङ्गसेनात्कन्यां तां प्राप्तुं दूतो विसृज्यताम् ।
यस्याः प्रतिकृतिर्दृष्टा सा मया स्तम्भपुत्रिका ।। २७
इति राज्ञा समादिष्टः क्षत्तानीय तदग्रतः ।
प्राहिणोद्दत्तसंदेशं दूतं नाम्ना सुविग्रहम् ।। २८
गत्वा कलिङ्गविषयं दृष्ट्वा तं च यथोचितम् ।
कलिङ्गसेनं राजानमेवं दूतो जगाद सः ।। २९
देवः श्रीविक्रमादित्यस्त्वामादिशति भूपते ।
वेत्थ त्वं भुवि यद्रत्नं तदस्मानुपगच्छति ।। ३०
तवास्ति कन्यारत्नं च तदस्मभ्यं समर्पय ।
अस्मत्प्रसादाच्च निजं भुङ्क्ष्व राज्यमकण्टकम् ।। ३१
एतच्छ्रुत्वा स कालिङ्गः क्रुद्धो राजाभ्यभाषत ।
को नाम विक्रमादित्यः स एवाज्ञां ददाति नः ।। ३२
मार्गत्युपायनं कन्यां दर्पान्धोऽधः पतिष्यति ।
एतत्कलिङ्गसेनात्स श्रुत्वा दूतः समभ्यधात् ।। ३३
भृत्योऽप्येवमनात्मज्ञः कथमोजायसे प्रभोः ।
किं मूढ तत्प्रतापाग्नौ शलभायितुमिच्छसि ।। ३४
इत्युक्त्वा तत आगत्य स दूतस्तन्न्यवेदयत् ।
वचः कलिङ्गसेनोक्तं विक्रमादित्यभूभृते ।। ३५
ततो विषमशीलोऽसौ क्रुद्धः प्रायाद्बलैः सह ।
सभूतकेतुवेतालः कालिङ्गं प्रति तं प्रभुः ।। ३६
देह्याशु कन्यामिति तं कालिङ्गं ब्रुवतीष्विव ।
सेनारवप्रतिरवैर्दिक्षु तद्देशमाप च ।। ३७
दृष्ट्वाथ युद्धसंनद्धं रुद्ध्वा तं च नृपं बलैः ।
राजा स विक्रमादित्यो मनस्येवमचिन्तयत् ।। ३८
एतत्सुतां विना तावन्मम नास्त्येव निर्वृतिः ।
तत्कथं श्वशुरं हन्मि युक्तिमत्र करोमि किम् ।। ३९
इत्यालोच्य सवेतालो राजा तत्सिद्ध्यलक्षितः ।
सुप्तस्य प्राविशद्रात्रौ कलिङ्गेशस्य वासकम् ।। ४०
अरे विषमशीलेन विगृह्य स्वपिषीति तम् ।
प्रबोध्य तत्र वित्रस्तं वेतालः सोऽब्रवीद्धसन् ।। ४१
स चोत्थाय कलिङ्गेन्द्रो दृष्ट्वा दर्शितसाहसम् ।
परिज्ञाय च राजानं रौद्रवेतालसंगतम् ।। ४२
इदानीं वशगोऽहं ते देवादिश करोमि किम् ।
इति विज्ञापयामास भीतस्तच्चरणानतः ।। ४३
मया चेत्प्रभुणा कार्यं तव तद्देहि मे सुताम् ।
कलिङ्गसेनामिति तं राजापि प्रत्यभाषत ।। ४४
तथेति प्रतिपेदे च कलिङ्गाधिपतिः स तत् ।
राजापि वेतालयुतः स्वमागाच्छिबिरं कृती ।। ४५
अन्येद्युश्च कलिङ्गेन्द्रः स देवि त्वामदात्पिता ।
राज्ञे विषमशीलाय विधिवद्विभवोत्तरम् ।। ४६
एवं गाढानुरागेण राज्ञा देहपणेन च ।
परिणीतासि विधिवद्देवि नारिजिगीषया ।। ४७
इति कार्पटिकस्याहं देवसेनस्य वक्त्रतः ।
श्रुत्वावमानप्रभवं हे सख्यो मन्युमत्यजम् ।। ४८
इत्थं विवाहिता स्तम्भपुत्रिकादर्शनादहम् ।
चित्रावलोकनाच्चैषा राज्ञा मलयवत्यपि ।। ४९
एवं कलिङ्गसेना सा विक्रमादित्यवल्लभा ।
भर्तृप्रभावमाख्याय स्वसपत्नीरनन्दयत् ।। ५०
स चैवं विक्रमादित्यः सर्वाभिस्ताभिरन्वितः ।
तया मलयवत्या च तस्थौ साम्राज्यसुस्थितः ।। ५१
अथैकदा राजपुत्रः कोऽप्यागाद्दक्षिणापथात् ।
कृष्णशक्त्यभिधानोऽत्र परिभूतः स्वगोत्रजैः ।। ५२
स सिंहद्वारमागत्य राज्ञः कार्पटिकव्रतम् ।
शिश्रिये राजपुत्राणामन्वितः पञ्चभिः शतैः ।। ५३
द्वादशाब्दान्मया सेवा विक्रमादित्यभूपतेः ।
कार्येति प्रतिजज्ञे च वार्यमाणोऽपि भूभुजा ।। ५४
निश्चयेन च तस्यात्र तिष्ठतः सानुयायिनः ।
सिंहद्वारे नृपसुतस्यैकादश समा ययुः ।। ५५
प्राप्ते च द्वादशे वर्षे तस्य देशान्तरस्थिता ।
भार्या चिरवियोगार्ता प्राहिणोल्लेखपत्त्रिकाम् ।। ५६
वीरचर्यागते रात्रौ प्रच्छन्ने राज्ञि शृण्वति ।
दीपेनावाचयत्तस्यामार्या स लिखितामिमाम् ।। ५७
संतप्तायततरलास्तव विरहे नाथ कठिनहृदयायाः ।
निर्यान्त्यविरतमेते निःश्वासा मे न तु प्राणाः ।। ५८
इति वाचयतस्तस्मात्सम्राट् कार्पटिकान्मुहुः ।
श्रुत्वा स राजधानीं स्वां गत्वा राजा व्यचिन्तयत् ।। ५९
सीदत्कलत्रः क्लिष्टोऽयं बत कार्पटिकश्चिरम् ।
असिद्धकार्यः पूर्णेऽस्मिन्द्वादशेऽब्दे त्यजेदसून् ।। ६०
तद्विलम्बो न कार्योऽस्य मयेत्यालोच्य भूपतिः ।
आनाययत्कार्पटिकं दासीं प्रेष्य तदैव सः ।। ६१
शासनं लेखयित्वा च तमेवं स समादिशत् ।
ओंकारपीठमार्गेण भद्र गच्छोत्तरां दिशम् ।। ६२
तत्रामुना शासनेन ग्रामं भुङ्क्ष्व मदर्पितम् ।
नाम्ना तं खण्डवटकं पृच्छन्गच्छन्नवाप्स्यसि ।। ६३
इत्युक्त्वा शासनं तस्मै प्रददौ तत्स भूपतिः ।
सोऽप्यनावेद्य भृत्येभ्यो ययौ कार्पटिको निशि ।। ६४
का जिगीषा ममैकेन ग्रामेण व्रीडदायिना ।
तथाप्याज्ञा प्रभोः कार्येत्यसंतुष्टः क्रमाद्व्रजन् ।। ६५
ओंकारपीठतो गत्वा दूरेऽरण्ये ददर्श सः ।
क्रीडन्तीः कन्यका बह्वीः पृच्छति स्म ततश्च ताः ।। ६६
अपि जानीथ भोः खण्डवटकं क्व भवेदिह ।
एतच्छ्रुत्वा तमूचुस्तास्तन्न जानीमहे वयम् ।। ६७
गच्छाग्रे योजनेष्वत्र दशमात्रेषु नः पिता ।
सौम्य तिष्ठति तं पृच्छ विद्याद्ग्रामं स जातु तम् ।। ६८
एवमुक्तः स कन्याभिस्ताभिर्गत्वा ददर्श तम् ।
कार्पटी पितरं तासां राक्षसं भीषणाकृतिम् ।। ६९
इह क्व खण्डवटकं ब्रूहि भद्रेति तं च सः ।
पप्रच्छ सोऽपि तं धैर्यमोहितो राक्षसोऽब्रवीत् ।। ७०
किं तत्र ते तद्धि पुरं चिरशून्यं तथापि चेत् ।
यासि तच्छृणु मार्गोऽयं पुरतस्ते द्विधा गतः ।। ७१
तत्र वामेन गच्छेस्त्वं पथा यावदवाप्स्यसि ।
प्रतोलीं खण्डवटकस्योच्चप्राकारहारिणीम् ।। ७२
इत्युक्तो रक्षसा गत्वा प्रतोलीं तामवाप्य सः ।
विवेश शून्यं भयदं दिव्यं हृद्यं च तत्पुरम् ।। ७३
सप्तकक्षावृतं तत्र राजवेश्म प्रविश्य च ।
आरुरोह स हर्म्याग्रं मणिकाञ्चननिर्मितम् ।। ७४
तत्र रत्नासनं दृष्ट्वा तस्मिनुपविवेश च ।
तावच्च राक्षसोऽभ्येत्य वेत्रहस्तस्तमभ्यधात् ।। ७५
भो मानुष किमत्र त्वमुपविष्टो नृपासने ।
तच्छ्रुत्वा कृष्णशक्तिः स धीरः कार्पटिकोऽब्रवीत् ।। ७६
अहमत्र प्रभुर्यूयं करदाश्च कुटुम्बिनः ।
विक्रमादित्यदेवेन विलब्धाः शासनेन मे ।। ७७
तच्छ्रुत्वा शासनं दृष्ट्वा राक्षसस्तं प्रणम्य सः ।
उवाच राजा त्वमिह प्रतीहारस्तवास्मि च ।। ७८
सर्वत्र विक्रमादित्यदेवस्याज्ञा ह्यखण्डिता ।
इत्युक्त्वा प्रकृतीः सर्वा आजुहाव स राक्षसः ।। ७९
आययुर्मन्त्रिणश्चात्र तथा राजपरिच्छदः ।
अपूरि चतुरङ्गेण बलेन नगर च तत् ।। ८०
सर्वैः प्रणम्यमानोऽथ हृष्टः कार्पटिकोऽत्र सः ।
चक्रे राजोपचारेण कृत्स्नाः स्नानादिकाः क्रियाः ।। ८१
ततः स राजा भूत्वात्र सविस्मयमचिन्तयत् ।
अहो प्रभावः कोऽप्येष विक्रमादित्यभूपतेः ।। ८२
गाम्भीर्यगरिमा चित्रमपूर्वस्तस्य च प्रभोः ।
ददाति यद्ग्राममिति ब्रुवन्राज्यमपीदृशम् ।। ८३
इति चित्रीयमाणोऽत्र राज्यं कुर्वन्नुवास सः ।
तत्सखीन्विक्रमादित्योऽप्युज्जयिन्यां पुपोष तान् ।। ८४
दिनैश्च विक्रमादित्यं प्रणन्तुं स उपाययौ ।
सोत्कः कार्पटिको राजा सैन्यकम्पितभूतलः ।। ८५
आगतं विक्रमादित्यः पादानतमुवाच तम् ।
पत्न्याः प्रहितलेखाया निःश्वासान्गच्छ वारय ।। ८६
इत्युक्त्वा भूमिपतिना प्रेषितस्तेन साद्भुतः ।
स कृष्णशक्तिः सखिभिः साकं देशमगान्निजम् ।। ८७
उत्सार्य गोत्रजान्भार्यां नन्दयित्वा चिरोत्सुकाम् ।
सिद्धेप्सिताधिकः सोऽथ भेजे राज्यश्रियं पराम् ।। ८८
एवं सोद्भुतचारित्रो विक्रमादित्यभूमिपः ।
एकदात्र ददर्शैकमूर्ध्वरोमकचं द्विजम् ।। ८९
पप्रच्छ तं च हे ब्रह्मन्नीदृक्कस्माद्भवानिति ।
ततः सोऽस्मै स्ववृत्तान्तमेवं राज्ञे द्विजोऽब्रवीत् ।। ९०
अग्निस्वामीति विप्रोऽभूद्देव पाटलिपुत्रके ।
महाग्निहोत्रिणस्तस्य देवस्वामीत्यहं सुतः ।। ९१
मया च दूरतो देशाद्विप्रकन्या विवाहिता ।
बालत्वात्सा च तत्रैव स्थापिताभूत्पितुर्गृहे ।। ९२
कालेन यौवनस्थां तामानेतुं श्वाशुरं गृहम् ।
आरुह्याश्वं सहैकेन भृत्येन गतवानहम् ।। ९३
सत्कृतः श्वशुरेणाहं सहायातैकचेटिकाम् ।
आदायाश्वाधिरूढां तां भार्यां प्रायामहं ततः ।। ९४
अर्धमार्गे च साश्वाया अवरुह्मैव मे वधूः ।
अम्बुपानापदेशेन नदीकच्छमगात्किल ।। ९५
चिरं नायाति यावत्सा तावच्च तदवेक्षणे ।
सह स्थितं तं तत्रैव भृत्यमस्मि विसृष्टवान् ।। ९६
सोऽपि नायाति यावच्च तावदस्मि गतः स्वयम् ।
तच्चेटिकां स्थापयित्वा तुरगीरक्षणाय ताम् ।। ९७
गत्वा पश्यामि यावत्स भृत्यो मद्भार्यया तया ।
भक्षयित्वास्थिशेषो मे कृतो रक्ताक्तवक्त्रया ।। ९८
वित्रस्तश्च ततो यावद्गच्छामि तुरगीं प्रति ।
तावत्सापि तया तद्वत्तच्चेट्या भक्षिता मम ।। ९९
ततः पलाय्य यातोऽहं तत्त्रासेनाधुनापि मे ।
नैवोर्ध्वरोमकेशत्वमन्तःस्थेन निवर्तते ।। १००
तदत्र मे गतिर्देव इति तं वादिनं द्विजम् ।
आज्ञया विक्रमादित्यो गतत्रासं व्यधत्त सः ।। १०१
अहो धिङ्नास्ति विश्वासः स्त्रीषु साहसभूमिषु ।
इति राज्ञि वदत्यस्मिन्नेकोऽमात्योऽब्रवीदिदम् ।। १०२
तादृश्य एव दुर्जाताः स्त्रियो देव तथा च किम् ।
न श्रुतं वृत्तमिह यद्ब्राह्मणस्याग्निशर्मणः ।। १०३
इहैवास्त्यग्निशर्माख्यः सोमशर्मसुतो द्विजः ।
पित्रोः प्राणसमो मूर्खः सर्वविद्यास्वशिक्षितः ।। १०४
वर्धमानपुरात्तेन परिणीता द्विजात्मजा ।
बालेति सा च न त्यक्ता पित्रा धनवता गृहात् ।। १०५
तस्यां च यौवनस्थायामग्निशर्माणमूचतुः ।
पितरौ पुत्र भार्यां तां नानयस्यधुनापि किम् ।। १०६
श्रुत्वेवैतदनापृच्छ्य पितरौ स जडाशयः ।
अग्निशर्मा ततः प्रायादेकाकी गृहिणीं प्रति ।। १०७
निर्गतस्य गृहात्तस्य दक्षिणोऽभूत्कपिञ्जलः ।
दक्षिणा च विरौति स्म शिवा वामैकशंसिनी ।। १०८
सोऽपि मूर्खोऽभ्यनन्दत्तज्जीव जीवेत्युदीरयन् ।
अदृश्या च जहासास्य श्रुत्वा शकुनदेवता ।। १०९
संप्राप्य श्वाशुरं स्थानं तस्य च प्रविविक्षतः ।
वामः कपिञ्जलो वामा शिवाभूत्कथिताशिवा ।। ११०
भूयोऽपि चाभ्यनन्दत्स जीवजीवेत्युदीर्य तत् ।
अचिन्तयच्च शकुनाधिष्ठात्री देवतापि सा ।। १११
अहो मूर्खोऽयमशुभं शुभमित्यभिनन्दति ।
तत्कार्यं जीवयति यद्रक्ष्यो जीवोऽस्य तन्मया ।। ११२
इत्यस्यां चिन्तयन्त्यां च देवतायां विवेश सः ।
दत्तप्रहर्षः श्वशुरस्याग्निशर्मा निवेशनम् ।। ११३
आगतोऽसि किमेकाकीत्युक्तोऽत्र श्वशुरादिभिः ।
आयातोऽस्मि गृहेऽनुक्त्वा सर्वेषामिति सोऽब्रवीत् ।। ११४
ततः कृतोचितस्नानभोजनस्य निशागमे ।
शय्यागृहेऽन्तिकं भार्या तस्योपागात्प्रसाधिता ।। ११५
पथिश्रमाच्च सुप्तस्य तस्य निर्गत्य सा बहिः ।
चौरस्योपपतेः शूलविद्धस्याप्यन्तिकं ययौ ।। ११६
आलिङ्गन्ती च तद्देहं दशनैश्छिन्ननासिका ।
भूतेन तत्प्रविष्टेन पलायत ततो भयात् ।। ११७
गत्वा च पत्युः सुप्तस्य तस्य न्यस्यासिधेनुकाम् ।
पार्श्वे विकोषामाक्रन्ददेवं श्रावितबान्धवा ।। ११८
हा हा मृता मृतास्म्येषा निष्कारणमनेन मे ।
किमप्युत्थाय यद्भर्त्रा कृतं नासानिकर्तनम् ।। १५९
तच्छ्रुत्वा स्वजनस्तस्या एत्य तां छिन्ननासिकाम् ।
दृष्ट्वा तमग्निशर्माणं लगुडाद्यैरताडयत् ।। १२०
प्रातश्च विज्ञप्य नृपं तदादेशाद्वधाय तम् ।
निर्दोषं भार्याद्रोहीति वधकेभ्यः समर्पयत् ।। १२१
नीते वध्यभुवं तस्मिन्सा तच्छकुनदेवता ।
तद्भार्यानैशवृत्तान्तदर्शिनी समचिन्तयत् ।। १२२
अनिमित्तफलं तावत्प्राप्तमेतेन यत्त्वयम् ।
उक्तवाञ्जीव जीवेति तेन रक्ष्याम्यमुं वधात् ।। १२३
इत्यालोच्यान्तरिक्षात्सा निगूढा देवताभ्यधात ।
निर्दोष एष वधका न वध्यो विप्रपुत्रकः ।। १२४
शूलस्थचौरदन्तान्तर्गत्वा पश्यत नासिकाम् ।
इत्युक्त्वा तद्वधूरात्रिवृत्तान्तं तं जगाद सा ।। १२५
ततस्तत्प्रत्ययात्क्षत्तृमुखेन वधकैर्नृपः ।
विज्ञप्तो वीक्ष्य नासां तां चौरदन्तान्तरस्थिताम् ।। १२६
वधात्तमग्निशर्माणं निर्मोच्य व्यसृजद्गृहम् ।
कुस्त्रीं तां च निजग्राह तद्वधूंश्चाप्यदण्डयत् ।। १२७
एवंविधाः स्त्रियो राजन्नित्युक्ते तेन मन्त्रिणा ।
स राजा विक्रमादित्यस्तत्तथेत्यन्वमोदत ।। १२८
ततोऽब्रवीन्मूलदेवो धूर्तो राजान्तिकस्थितः ।
देव साध्व्यो न सन्त्येव किमसाध्वीषु कासुचित् ।। १२९
किं न चूतलताः सन्ति सतीषु विषवल्लिषु ।
तथा च श्रूयतामेतदनुभूतं मयैव यत् ।। १३०
अहं पाटलिपुत्रं प्रागगच्छं शशिना सह ।
मत्वा नागरिकक्षेत्रं तद्वैदग्ध्यदिदृक्षया ।। १३१
तत्र बाह्ये सरस्येकां दृष्ट्वा स्त्रीं वस्त्रधाविनीम् ।
इह क्वावास्यते पान्थैरित्यहं परिपृष्टवान् ।। १३२
इह तीरेषु चक्राह्वैर्मस्त्यैर्वारिणि षट्पदैः ।
अब्जेष्वावास्यते नात्र पान्थावासो मयेक्षितः ।। १३३
एतत्तयाहं वक्रोक्त्या प्रत्युक्तो वृद्धयोषिता ।
विलक्षः शशिना साकं प्राविशं नगरान्तरम् ।। १३४
तत्रैकमुष्णे पात्रस्य परमान्ने पुरः स्थिते ।
बालं दृष्ट्वा गृहद्वारि रुदन्तमवदच्छशी ।। १३५
अहो अबुद्धिर्बालोऽयं योऽग्रदत्तं न खादति ।
परमान्नं वृथात्मानं क्लिश्नाति रुदितैः पुनः ।। १३६
तच्छ्रुत्वा सोऽब्रवीद्बालः प्रमृज्य नयने हसन् ।
मूर्खा यूयं न जानीथ रोदने ये गुणा मम ।। १३७
परमान्नं शनैरेति स्वादुतां शीतलीभवत् ।
घटतेऽभ्यधिकं चान्यच्छ्लेष्मा गच्छति च क्षयम् ।। १३८
एते गुणा मे रुदतो नाहं मौर्ख्येण रोदिमि ।
यूयं ग्राम्याः पुनर्मूर्खा नाभिप्रायं विदन्ति यत् ।। १३९
इत्युक्ते तेन बालेन स्वावैदग्ध्यविलज्जितौ ।
शशी चाहं च साश्चर्यावपसृत्यान्यतो गतौ ।। १४०
तत्राप्याम्रतरुस्कन्धगतामाम्रावचायिनीम् ।
वरकन्यामपश्याव मूलस्थितपरिच्छदाम् ।। १४१
प्रयच्छास्मभ्यमप्याम्रफलानि कतिचिच्छुभे ।
इति चास्माभिरुक्ता सा कन्यकैवमभाषत ।। १४२
अश्नीयाम्रफलान्युष्णान्युत किं शिशिराणि वा ।
तच्छ्रुत्वाश्चर्यजिज्ञासुस्तां कन्यामहमब्रवम् ।। १४३
अश्नीम तावदुष्णानि ततोऽन्यान्यपि सुन्दरि ।
श्रुत्वैतदक्षिपद्भूमौ पांसुष्वाम्रफलानि सा ।। १४४
भुक्तानि नीरजीकृत्य तान्यस्माभिर्मुखानिलैः ।
ततः सपरिवारा सा कन्या प्रहसिताब्रवीत् ।। १४५
एतानि पूर्वमुष्णानि दत्तान्याम्रफलानि वः ।
तथा च दत्त्वा फूत्कारान्भवन्तो यान्यभक्षयन् ।। १४६
गृह्णीत शीतलान्येतान्यफूत्काराणि वाससि ।
एवमुक्त्वाञ्चलेष्वन्यान्यक्षिपत्सा फलानि नः ।। १४७
तान्यादाय ततः स्थानाद्वयं याता विलक्षिताः ।
ततः सहचरानन्याञ्शशिनं चाहमब्रवम् ।। १४८
अवश्यं परिणेयैषा विदग्धा कन्यका मया ।
अवहासप्रतीकारः कार्यः का धूर्ततान्यथा ।। १४९
एवं मयोक्तैरन्विष्टं तैस्तस्याः सदनं पितुः ।
वयं वेषान्तरालक्ष्या अगच्छामापरेऽहनि ।। १५०
तत्रास्मान्पठतो वेदं यज्ञस्वामीत्युपेत्य सः ।
तत्कन्याजनकोऽपृच्छत्कुतो यूयमिति द्विजः ।। १५१
वयं मायापुरीस्थानाद्विद्याहेतोरिहागताः ।
इत्युक्तः स ततोऽस्माभिराढ्योऽवोचद्द्विजोत्तमः ।। १५२
तर्हीहैव चतुर्मासीमेतां वसत मद्गृहे ।
कुरुतानुग्रहं यूयं दूरदेशागता यतः ।। १५३
श्रुत्वेत्यवोचाम वयं ब्रह्मन्कुर्मो भवद्वचः ।
चतुर्मासावसाने चेदर्थितं नः प्रदास्यसि ।। १५४
एवमस्माभिरुक्तः स यज्ञस्वामी द्विजोऽभ्यधात् ।
शक्यं यदर्थं मृग्यध्वे तद्दास्याम्येव निश्चितम् ।। १५५
इति प्रतिश्रुते तेन तद्गृहे वयमास्महि ।
अथोक्तः स द्विजोऽस्माभिः पूर्णे मासचतुष्टये ।। १५६
यामो वयं तत्पूर्वोक्तं देहि यत्प्रार्थयामहे ।
किं तदित्युक्तवन्तं तं मां प्रदर्श्याब्रवीच्छशी ।। १५७
अस्मन्मुख्याय कन्यास्मै भवता दीयतामिति ।
ततः स विप्रो वाग्बद्धो यज्ञस्वामी व्यचिन्तयत् ।। १५८
छलितोऽन्त्येभिरस्त्वेतत्को दोषो गुणवानयम् ।
इत्यालोच्य स मे विप्रो यथावत्तामदात्सुताम् ।। १५९
नक्तं चाहं हसन्वासगृहे तामवदं वधूम् ।
कच्चित्स्मरसि तान्याम्राण्युष्णानि शिशिराणि च ।। १६०
तच्छ्रुत्वा प्रत्यभिज्ञाय सा मां सस्मितमभ्यधात् ।
एवमेव विडम्ब्यन्ते ग्राम्या नागरिकैरिति ।। १६१
ततोऽहमप्यवोचं तामास्स्व नागरिके सुखम् ।
ग्राम्यो यास्याम्यहं दूरं त्वां विहाय प्रतिज्ञया ।। १६२
एतच्छ्रुत्वाकरोत्सापि प्रतिज्ञां निश्चितं मया ।
वष्टभ्यानायितव्यस्त्वं त्वत्तो जातेन सूनुना ।। १६३
इत्यन्योन्यं प्रतिज्ञाते सा शेते स्म पराङ्मुखी ।
स्वाङ्गुलीयमहं चास्याः सुप्ताया अङ्गुलौ न्यधाम् ।। १६४
निर्गत्य च मिलित्वा तैरहं सहचरैस्ततः ।
तस्या दिदृक्षुर्वैदग्ध्यमागामुज्जयिनीं निजाम् ।। १६५
सापि विप्रसुता प्रातरपश्यन्ती प्रबुध्य माम् ।
अङ्गुलीयं च पश्यन्ती मन्नावाङ्कमचिन्तयत् ।। १६६
गतस्तावत्स मां त्यक्त्वा प्रतिज्ञा तेन पालिता ।
मयापि स्वप्रतिज्ञातं पाल्यं त्यक्तानुतापया ।। १६७
मूलदेवेति नामास्मिन्दृश्यते चाङ्गुलीयके ।
तद्ध्रुवं मूलदेवो यः ख्यातो धूर्तः स एव सः ।। १६८
स चोज्जयिन्यां वसतीत्युच्यते सततं जनैः ।
तत्तत्र युक्तितो गत्वा मया साध्यं समीहितम् ।। १६९
इति संकल्प्य पितरं सैवं कृतमृषाब्रवीत् ।
गतस्तात परित्यज्य भर्ता मां सहसैव सः ।। १७०
तद्वियुक्ता कथं चाहं तिष्ठामीह यथासुखम् ।
तद्यामि तीर्थयात्रायै क्लिश्नाम्येतां हतां तनुम् ।। १७१
इत्युक्त्वा तमनिच्छन्तमप्यनुज्ञाप्य यत्नतः ।
पितरं सा ततः प्रायात्सधना सपरिच्छदा ।। १७२
क्रमेण गत्वा कृत्वा सा महार्घं गणिकोचितम् ।
वेषं विवेशोज्जयिनीं पुरीं लोकैकसुन्दरी ।। १७३
कृत्वा च परिवारेण सह कर्तव्यसंविदम् ।
सुमङ्गलेति साकार्षीन्नाम विप्रसुतात्मनः ।। १७४
कामरूपान्महात्यागभोग्या नाम्ना सुमङ्गला ।
आगता गणिकैषेति भृत्यैराख्याप्यतात्र सा ।। १७५
देवदत्ताभिधानाथ तत्रत्या गणिकोत्तमा ।
ददावभ्येत्य तस्यै स्वं राजार्हं मन्दिरं पृथक् ।। १७६
तत्र स्थितां भृत्यमुखेनादौ मित्त्रं स मे शशी ।
तामब्रवीत्ख्यातिहृतो भाटिर्मे गृह्यतामिति ।। १७७
अस्मद्वचोऽनुतिष्ठेद्यः प्रविशेत्सोऽत्र कामुकः ।
न भाट्या कार्यमस्माकं नान्यैः पशुनिभैर्नृभिः ।। १७८
इत्युक्तस्तन्मुखेनैव स सुमङ्गलया तया ।
तथेत्युक्त्वा शशी रात्रिमुखे तन्मन्दिरं ययौ ।। १७९
तत्र स प्रथमं द्वारं संप्राप्यावेदितात्मकः ।
द्वारपालेन जगदे कुर्वस्मत्स्वामिनीवचः ।। १८०
स्नातोऽपीह पुनः स्नाहि प्रवेशो नास्ति तेऽन्यथा ।
तच्छ्रुत्वा स शशी स्नानं तथेत्यङ्गीचकार तत् ।। १८१
ततः स यावद्दासीभिरभ्यङ्गोद्वर्तनोत्तरम् ।
विस्रब्धं स्नपितस्तावत्प्रथमः प्रहरो गतः ।। १८२
स्नात्वा प्राप्तोऽथ स द्वारं द्वितीयं द्वाररक्षिणा ।
ऊचे स्नातोऽसि तत्तावत्प्रसाधनविधिं कुरु ।। १८३
तथेत्युक्तवतस्तस्य दास्यस्तावत्प्रसाधनम् ।
चक्रुर्यावद्द्वितीयोऽपि प्रहरः पर्यहीयत ।। १८४
तृतीयमथ संप्राप्तः कक्ष्याद्वारं स रक्षिभिः ।
जगदे भुङ्क्ष्व तावत्त्वं प्रविशाभ्यन्तरं ततः ।। १८५
बाढमित्युक्तवन्तं तं दास्यस्तावद्व्यलम्बयन् ।
आहारैर्विविधैर्यावत्तृतीयः प्रहरो गतः ।। १८६
अथ वासगृहद्वारं चतुर्थं स कथंचन ।
संप्राप्तो द्वारपालेन तत्रैवं निरभर्त्स्यत ।। १८७
ग्राम्यकामुक निर्याहि मा खलीकारमाप्स्यसि ।
कालः किं पश्चिमे यामे गणिकानवसंगमे ।। १८८
एवं तिरस्कृतस्तेन स कालेनेव रूपिणा ।
शशी विगलितच्छायो यथागतमगात्ततः ।। १८९
इत्थं सुमङ्गलेत्याख्यां दधत्या वञ्चितास्तया ।
गणिकारूपया विप्रसुतयान्येऽपि कामुकाः ।। १९०
तच्छ्रुत्वा कौतुकादेव कृत्वा दूतगतागतम् ।
अहं नक्तं गृहं तस्या अगच्छं सुप्रसाधितः ।। १९१
तत्र द्वाःस्थान्प्रतिद्वारमनुरञ्ज्यार्थदानतः ।
तस्या वासगृहद्वारं प्राप्तोऽहमविलम्बितः ।। १९२
कालप्राप्तो विमुक्तश्च द्वाराद्द्वाःस्थैः प्रविश्य ताम् ।
वेश्यावेशापरिज्ञातामपश्यं स्वप्रियामहम् ।। १९३
सा पुनः प्रत्यभिज्ञाय कृतप्रत्युद्गमादिका ।
वेश्येव धूर्ता पर्यङ्कनिषण्णं मामुपाचरत् ।। १९४
ततो लोकैकसुन्दर्या साकं नीतनिशस्तया ।
बद्धानुरागो निर्गन्तुं नाशकं तद्गृहादहम् ।। १९५
सापि बद्धरतिः पार्श्वान्नापयाति स्म मे तदा ।
यावद्दिनैः सगर्भाभून्मेचकाग्रपयोधरा ।। १९६
कृत्वाथ कूटलेखं सा विदग्धा मह्यमर्पयत् ।
राज्ञा मे प्रभुणा लेखः प्रहितो वाच्यतामिति ।। १९७
ततश्चाहं तमुन्मुच्य लेखमेवमवाचयम् ।
श्रीकामरूपतः श्रीमान्मानसिंहो महीपतिः ।। १९८
सुमङ्गलामादिशति स्थितास्यत्र चिरं कथम् ।
शीघ्रमागम्यतां हित्वा देशान्तरकुतूहलम् ।। ११९
मयैवं वाचिते लेखे साब्रवीद्दुःखितेव माम् ।
याम्यहं मयि मा मन्युं कृथाः परवती ह्यहम् ।। २००
एवं कृत्वा मिषं प्रायात्स्वं सा पाटलिपुत्रकम् ।
अहं तु तां परायत्तेत्यनुरक्तोऽपि नान्वगाम् ।। २०१
सा च पाटलिपुत्रस्था कालेन सुषुवे सुतम् ।
स वर्धमानश्च कलाः सर्वाः शिशुरशिक्षत ।। २०२
द्वादशाब्दश्च वयसा स बालो बालचापलात् ।
दासेरकं सवयसं लत्तया जात्वताडयत् ।। २०३
ताडितस्तं च सोऽवादीद्रुदन्दासेरको रुषा ।
त्वं ताडयसि मां यस्य तव न ज्ञायते पिता ।। २०४
मातुर्विदेशभ्रान्ताया जातस्त्वं हि यतस्ततः ।
इत्युक्तस्तेन वैलक्ष्याद्गत्वाप्राक्षीत्स मातरम् ।। २०५
अम्ब को मे पिता कुत्र स चास्ते कथ्यतामिति ।
साथ माता द्विजसुता वीक्ष्य क्षणमुवाच तम् ।। २०६
पिता ते मूलदेवाख्यो मां त्यक्त्वोज्जयिनीं गतः ।
इत्युक्त्वा मूलतस्तस्मै स्ववृत्तान्तं शशंस सा ।। २०७
ततः स बालोऽवादीत्तामम्ब तर्ह्यानयाम्यहम् ।
गत्वा तं पितरं बद्ध्वा प्रतिज्ञां पूरयामि ते ।। २००
इत्युक्त्वा जननीमेव स बालः प्रस्थितस्ततः ।
तयोक्तमदभिज्ञानः प्रापदुज्जयिनीमिमाम् ।। २०९
दीव्यन्तमक्षैर्मां तत्र दृष्ट्वाभिज्ञाननिश्चितम् ।
ठिण्ठास्थानेत्य सर्वांश्च सूतेन जयति स्म सः ।। २१०
बालत्वेऽपि महाधूर्तः सर्वस्य कृतविस्मयः ।
अर्थिभ्यः स ददाति स्म तद्द्यूतावजितं धनम् ।। २११
रात्रौ स्वयुक्त्या चागत्य कार्पासनिचयोपरि ।
लघु विन्यस्य सुप्तं मां शय्याखट्वामपाहरत् ।। २१२
ततः प्रबुद्धो दृष्ट्वाहमात्मानं तूलपृष्ठगम् ।
अखट्वं सहसाभूवं सलज्जाहासविस्मयः ।। २१३
अथाहमापणं देव शनैर्गत्वा परिभ्रमन् ।
तमेव बालं तां खट्वां विक्रीणानं व्यलोकयम् ।। २१४
उपगम्याब्रवं तं च कियता दीयते त्वया ।
एषा मूल्येन खट्वेति ततो बालोऽब्रवीत्स माम् ।। २१५
न लभ्यतेऽसौ मूल्येन खट्वा धूर्तशिरोमणे ।
अपूर्वाद्भुतवृत्तान्तवर्णनेन तु लभ्यते ।। २१६
तच्छ्रुत्वाहमवोचं तं तर्हि वच्म्यद्भुतं तव ।
तत्त्वतः सत्यमिति तद्बुद्ध्वा चेदनुमन्यसे ।। २१७
यदि त्वसत्यमिति तद्वक्ष्यस्यप्रत्ययेन मे ।
ततस्त्वं जारजातः स्याः खट्वा च प्राप्नुयामहम् ।। २१८
अनेन समयेनाङ्ग विचित्रं शृणु वच्मि ते ।
पूर्वं दुर्भिक्षदोषोऽभूद्राष्ट्रे कस्यापि भूपतेः ।। २१९
स वाहनानां नागानां शीकराम्बुमहाभरैः ।
सूकरप्रेयसीपृष्ठे स्वयं चक्रे कृषिं नृपः ।। २२०
ततो धान्यैः समुत्पन्नैः समृद्धः स महीपतिः ।
दुर्भिक्षं शमयामास प्रजानां जनपूजितः ।। २२१
एवं मयोक्ते विहसन्सोऽवादीद्बालकस्तदा ।
नागानां वाहना मेघाः सूकरप्रेयसी क्षितिः ।। २२२
विष्णोः सूकररूपस्य सा हि प्रियतमोच्यते ।
तस्यां मेघाम्बुभिर्धान्यमुत्पन्नं चेत्किमद्भुतम् ।। २२३
इत्युक्त्वा बालधूर्तो मां विस्मितं सोऽब्रवीत्पुनः ।
इदानीमहमाख्यामि तवापूर्वं किमप्यदः ।। २२४
प्रत्येषि यदि विज्ञाय तत्सत्यमिति तत्त्वतः ।
तत्ते खट्वां ददाम्येतां स्यास्त्वं दासो ममान्यथा ।। २२५
तथेत्युक्ते मया सोऽथ बालधूर्तोऽब्रवीदिदम् ।
उदपादि पुरा धूर्तपते कोऽपीह बालकः ।। २२६
अकम्पयत्पदभरेणोर्वीमुत्पन्न एव यः ।
तदैव वृद्धो भूत्वा च चक्रे लोकान्तरे पदम् ।। २२७
इत्युक्तवन्तं बालं तं तदबुद्ध्वाहमब्रवम् ।
अलीकमेतन्नास्त्यत्र सत्यता काप्यहो इति ।। २२८
ततः स बालोऽवादीन्मां जातस्यैव न किं हरेः ।
चकम्पे चरणाक्रान्ता वसुधा वामनाकृतेः ।। २२९
तदैव वृद्धिं गत्वा च चक्रे तेन न किं पदम् ।
द्युलोके तज्जितोऽस्येव मया दासीकृतोऽसि च ।। २३०
अत्रापणगताश्चैते सर्वे नौ साक्षिणः पणे ।
तदहं यत्र गच्छामि तत्रागच्छ समं मया ।। ५३१
इत्युक्त्वा सोऽग्रहीद्बालो धीरो मां पाणिना भुजे ।
तत्रस्थाश्च तथैवास्य साक्ष्यं सर्वे व्यधुर्जनाः ।। २३२
ततश्च मामवष्टभ्य पणबद्धं स सानुगः ।
नयति स्मान्तिकं मातुः पुरं पाटलिपुत्रकम् ।। २३३
तन्माता च तदानीं तं दृष्ट्वा सा मामभाषत ।
आर्यपुत्र मयाप्येषा स्वप्रतिज्ञाद्य पूरिता ।। २३४
आनायितोऽस्यवष्टभ्य त्वज्जातेनैव सूनुना ।
इत्युक्त्वावर्णयत्साध्वी वृत्तान्तं सर्वसंनिधौ ।। २३५
ततस्तां बान्धवाः सर्वे स्वप्रज्ञासाधितेप्सिताम् ।
पुत्रापमृष्टकौलीनामभ्यनन्दन्कृतोत्सवाः ।। २३६
कृतार्थश्च तया पत्न्या साकं तेन सुतेन च ।
उषित्वा चिरमत्राहमागामुज्जयिनीमिमाम् ।। २३७
एवं सन्त्येव देवेह भर्तृभक्ताः कुलाङ्गनाः ।
न पुनः सर्वथा सर्वा दुर्वृत्ता एव योषितः ।। २३८
इत्येतां मूलदेवस्य निशम्य वदनात्कथाम् ।
विक्रमादित्यनृपतिस्तुतोष सह मन्त्रिभिः ।। २३९
इत्याश्चर्याणि शृण्वन्स पश्यन्कुर्वंश्च भूपतिः ।
विजित्य विक्रमादित्यः सद्वीपां बुभुजे महीम् ।। २४०
इति संयोगवियोगैर्निचितामाख्याय विषमशीलकथाम् ।
कण्वमुनिः पुनरवदत्तस्मिन्मां मदनमञ्चुकाविरहे ।। २४१
एवं भवन्त्यचिन्त्या विरहाश्च समागमाश्च जन्तूनाम् ।
तत्स्यात्तवापि नचिरान्नरवाहनदत्त संगमः प्रियया ।। २४२
अवलम्बस्व धृतिं तत्सुचिरं भोक्तासि वत्सराजसुत ।
भार्यासचिवसमेतो विद्याधरचारुचक्रवर्तिपदम् ।। २४३
एवं कण्वर्षिगिरा लब्धधृतिः क्षपितविरहकालोऽथ ।
भार्या विद्याः खेचरसाम्राज्यं च क्रमादहं प्राप्तः ।। २४४
तच्च यथा संप्राप्तं वरदस्यानुग्रहान्मया शंभोः ।
आदावेव तदखिलं वर्णितवानेव वो महामुनयः ।। २४५
इति नरवाहनदत्तः स्वकथामाख्याय मुनिजनं निखिलम् ।
गोऽपालकं च मातुलमहर्षयत्कश्यपाश्रमे तस्मिन् ।। २४६
नीत्वा च तत्र जलदागमवासरांस्तानामन्त्र्य मातुलमृषींश्च तपोऽवनस्थान् ।
प्रायात्सदारसचिवः स ततो विमानमारुह्य खेचरचमूपिहितान्तरिक्षः ।। २४७
प्राप्य क्षणादृषभकं स्वनिवासमद्रिं साम्राज्यभोगसुखितो द्युचरेन्द्रमध्ये ।
देव्या समं मदनमञ्चुकया स्थितोऽथ रत्नप्रभाप्रभृतिभिश्च स कल्पजीवी ।। २४८
इत्येषा शशिशेखरेण तुहिनक्ष्माभृत्सुताभ्यर्थना-
त्सोत्साहेन बृहत्कथा निगदिता कैलासपृष्ठे पुरा ।
उत्पन्नैरथ शापतः क्षितितले कात्यायनाद्याकृती-
र्बिभ्रद्भिर्गमिता प्रसिद्धिमतुलां तैः पुष्पदन्तादिभिः ।। २४९
एतां मद्वदनोद्गतां पठति यो यो वा शृणोत्यादरा-
द्यश्चैतां सुकथां बिभर्ति नचिरात्स ध्वस्तपापः कृती ।
सद्विद्याधरतामवाप्य नियतं लोकं मम प्राप्नुया-
दित्यस्याश्च तदा वरं गिरिसुताकान्तः कथाया ददौ ।। २५०
इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे विषमशीललम्बके पञ्चमस्तरङ्गः ।

समाप्तोऽयं विषमशीललम्बकोऽष्टादशः ।

समाप्तश्चायं कथासरित्सागरः ।