कथासरित्सागरः/लम्बकः १/तरङ्गः २
ततः स मर्त्यवपुषा पुष्पदन्तः परिभ्रमन् ।
नाम्ना वररुचिः किं च कात्यायन इति श्रुतः ।। १
पारं संप्राप्य विद्यानां कृत्वा नन्दस्य मन्त्रिताम् ।
खिन्नः समाययौ द्रष्टुं कदाचिद्विन्ध्यवासिनीम् ।। २
तपसाराधिता देवी स्वप्नादेशेन सा च तम् ।
प्राहिणोद्विन्ध्यकान्तारं काणभूतिमवेक्षितुम् ।। ३
व्याघ्रवानरसंकीर्णे निस्तोयपरुषद्रुमे ।
भ्रमंस्तत्र च स प्रांशुं न्यग्रोधतरुमैक्षत ।। ४
ददर्श च समीपेऽस्य पिशाचानां शतैर्वृतम् ।
काणभूतिं पिशाचं तं वर्ष्मणा सालसंनिभम् ।। ५
स काणभूतिना दृष्ट्वा कृतपादोपसंग्रहः ।
कात्यायनो जगादैनमुपविष्टः क्षणान्तरे ।। ६
सदाचारो भवानेवं कथमेतां गतिं गतः ।
तच्छ्रुत्वा कृतसौहार्दं काणभूतिस्तमब्रवीत् ।।
स्वतो मे नास्ति विज्ञानं किं तु शर्वान्मया श्रुतम् ।
उज्जयिन्यां श्मशाने यच्छृणु तत्कथयामि ते ।। ८
कपालेषु श्मशानेषु कस्माद्देव रतिस्तव ।
इति पृष्टस्ततो देव्या भगवानिदमब्रवीत् ।। ९
पुरा कल्पक्षये वृत्ते जातं जलमयं जगत् ।
मया ततो विभिद्योरुं रक्तबिन्दुर्निपातितः ।। १०
जलान्तस्तदभूदण्डं तस्माद्वेधाकृतात्पुमान् ।
निरगच्छत्ततः सृष्टा सर्गाय प्रकृतिर्मया ।। ११
तौ च प्रजापतीनन्यान्सृष्टवन्तौ प्रजाश्च ते ।
अतः पितामहः प्रोक्तः स पुमाञ्जगति प्रिये ।। १२
एवं चराचरं सृष्ट्वा विश्वं दर्पमगादसौ ।
पुरुषस्तेन मूर्धानमथैतस्याहमच्छिदम् ।। १३
ततोऽनुतापेन मया महाव्रतमगृह्यत ।
अतः कपालपाणित्वं श्मशानप्रियता च मे ।। १४
किं चैतन्मे कपालात्म जगद्देवि करे स्थितम् ।
पूर्वोक्ताण्डकपाले द्वे रोदसी कीर्तिते यतः ।। १५
इत्युक्ते शंभुना तत्र श्रोष्यामीति सकौतुके ।
स्थिते मयि ततो भूयः पार्वती पतिमभ्यधात् ।। १६
स पुष्पदन्तः कियता कालेनास्मानुपैष्यति ।
तदाकर्ण्याब्रवीद्देवीं मामुद्दिश्य महेश्वरः ।। १७
पिशाचो दृश्यते योऽयमेष वैश्रवणानुगः ।
यक्षो मित्रमभूच्चास्य रक्षः स्थूलशिरा इति ।। १८
संगतं तेन पापेन निरीक्ष्यैनं धनाधिपः ।
विन्ध्याटव्यां पिशाचत्वमादिशद्धनदेश्वरः ।। १९
भ्रात्रास्य दीर्घजङ्घेन पतित्वा पादयोस्ततः ।
शापान्तं प्रति विज्ञप्तो वदति स्म धनाधिपः ।। २०
शापावतीर्णादाकर्ण्य पुष्पदन्तान्महाकथाम् ।
उक्त्वा माल्यवते तां च शापात्प्राप्ताय मर्त्यताम् ।। २१
ताभ्यां गणाभ्यां सहितः शापमेनं तरिष्यति ।
इतीह धनदेनास्य शापान्तो विहितस्तदा ।। २२
त्वया च पुष्पदन्तस्य स एवेति स्मर प्रिये ।
एतच्छ्रुत्वा वचः शंभोः सहर्षोऽहमिहागतः ।। २३
इत्थं मे शापदोषोऽयं पुष्पदन्तागमावधिः ।
इत्युक्त्वा विरते तस्मिन्काणभूतौ च तत्क्षणम् ।। २४
स्मृत्वा वररुचिर्जातिं सुप्तोत्थित इवावदत् ।
स एव पुष्पदन्तोऽहं मत्तस्तां च कथां शृणु ।। २५
इत्युक्त्वा ग्रन्थलक्षाणि सप्त सप्त महाकथाः ।
कात्यायनेन कथिताः काणभूतिस्ततोऽब्रवीत् ।। २६
देव रुद्रावतारस्त्वं कोऽन्यो वेत्ति कथामिमाम ।
त्वत्प्रसादाद्गतप्रायः स शापो मे शरीरतः ।। २७
तद्ब्रूहि निजवृत्तान्तं जन्मनः प्रभृति प्रभो ।
मां पवित्रय भूयोऽपि न गोप्यं यदि मादृशे ।। २८
ततो वररुचिस्तस्य प्रणतस्यानुरोधतः ।
सर्वमाजन्मवृत्तान्तं विस्तरादिदमब्रवीत् ।। २९
कौशाम्ब्यां सोमदत्ताख्यो नाम्नाग्निशिख इत्यपि ।
द्विजोऽभूत्तस्य भार्या च वसुदत्ताभिधाभवत् ।। ३०
मुनिकन्या च सा शापात्तस्या जाताववातरत् ।
तस्यां तस्माद्द्विजवरादेष जातोऽस्मि शापतः ।। ३१
ततो ममातिबालस्य पिता पञ्चत्वमागतः ।
अतिष्ठद्वर्धयन्ती तु माता मां कृच्छकर्मभिः ।। ३२
अथाभ्यगच्छतां विप्रौ द्वावस्मद्गृहमेकदा ।
एकरात्रिनिवासार्थं दूराध्वपरिधूसरौ ।। ३३
तिष्ठतोस्तत्र च तयोरुदभून्मुरजध्वनिः ।
तेन मामब्रवीन्माता भर्तुः स्मृत्वा सगद्गदम् ।। ३४
नृत्यत्येष पितुर्मित्त्रं तव नन्दो नटः सुत ।
अहमप्यवदं मातर्द्रष्टुमेतद्व्रजाम्यहम् ।। ३५
तवापि दर्शयिष्यामि सपाठं सर्वमेव तत् ।
एतन्मद्वचनं श्रुत्वा विप्रौ तौ विस्मयं गतौ ।। ३६
अवोचत्तौ च मन्माता हे पुत्रौ नात्र संशयः ।
सकृच्छ्रुतमयं बालः सर्वं वै धारयेद्धृदि ।। ३७
जिज्ञासार्थमथाभ्यां मे प्रातिशाख्यमपठ्यत ।
तथैव तन्मया सर्वं पठितं पश्यतोस्तयोः ।। ३८
ततस्ताभ्यां समं गत्वा दृष्ट्वा नाट्यं तथैव तत् ।
गृहमेत्याग्रतो मातुः समग्रं दर्शितं मया ।। ३१
एकश्रुतधरत्वेन मां निश्चित्य कथामिमाम् ।
व्याडिनामा तयोरेको मन्मातुः प्रणतोऽब्रवीत् ।। ४०
वेतसाख्ये पुरे मातर्देवस्वामिकरम्भकौ ।
अभूतां भ्रातरौ विप्रावतिप्रीतौ परस्परम् ।। ४१
तयोरेकस्य पुत्रोऽयमिन्द्रदत्तोऽपरस्य च ।
अहं व्याडिः समुत्पन्नो मत्पितास्तं गतस्ततः ।। ४२
तच्छोकादिन्द्रदत्तस्य पिता यातो महापथम् ।
अस्मजनन्योश्च ततः स्फुटितं हृदयं शुचा ।। ४३
तेनानाथौ सति धनेऽप्यावां विद्याभिकाङ्क्षिणौ ।
गतौ प्रार्थयितुं स्वामिकुमारं तपसा ततः ।। ४४
तपःस्थितौ च तत्रावां स स्वप्ने प्रभुरादिशत् ।
अस्ति पाटलिकं नाम पुरं नन्दस्य भूपतेः ।। ४५
तत्रास्ति चैको वर्षाख्यो विप्रस्तस्मादवाप्स्यथः ।
कृत्स्नां विद्यामतस्तत्र युवाभ्यां गम्यतामिति ।। ४६
अथावां तत्पुरं यातौ पृच्छतोस्तत्र चावयोः ।
अस्तीह मूर्खो वर्षाख्यो विप्र इत्यवदज्जनः ।। ४७
ततो दोलाधिरूढेन गत्वा चित्तेन तत्क्षणम् ।
गृहमावामपश्याव वर्षस्य विधुरस्थिति ।। ४८
मूषकैः कृतवल्मीकं भित्तिविश्लेषजर्जरम् ।
विच्छायं छदिषा हीनं जन्मक्षेत्रमिवापदाम् ।। ४९
तत्र ध्यानस्थितं वर्षमालोक्याभ्यन्तरे तदा ।
उपागतौ स्वस्तत्पत्नीं विहितातिथ्यसत्क्रियाम् ।। ५०
धूसरक्षामवपुषं विशीर्णमलिनाम्बराम् ।
गुणरागागतां तस्य रूपिणीमिव दुर्गतिम् ।। ५१
प्रणामपूर्वमावाभ्यां तस्यै सोऽथ निवेदितः ।
स्ववृत्तान्तश्च तद्भर्तृमौर्ख्यवार्ता च या श्रुता ।। ५२
पुत्रौ युवां मे का लज्जा श्रूयतां कथयामि वाम् ।
इत्युक्त्वा सावयोः साध्वी कथामेतामवर्णयत् ।। ५३
शंकरस्वामिनामात्र नगरेऽभूद्द्विजोत्तमः ।
मद्भर्ता चोपवर्षश्च तस्य पुत्राविमावुभौ ।। ५४
अयं मूर्खो दरिद्रश्च विपरीतोऽस्य चानुजः ।
तेन चास्य नियुक्ताभूत्स्वभार्या गृहपोषणे ।। ५५
कदाचिदथ संप्राप्ता प्रावृट् तस्यां च योषितः ।
सगुडं पिष्टरचितं गुह्यरूपं जुगुप्सितम् ।। ५६
कृत्वा मूर्खाय विप्राय ददत्येव कृते हि ताः ।
शीतकाले निदाघे च स्नानक्लेशक्लमापहम् ।। ५७
दत्तं न प्रतिपद्यन्त इत्याचारो हि कुत्सितः ।
तद्देवरगृहिण्या मे दत्तमस्मै सदक्षिणम् ।। ५८
तद्गृहीत्वायमायातो मया निर्भर्त्सितो भृशम् ।
मूर्खभावकृतेनान्तर्मन्युना पर्यतप्यत ।। ५९
ततः स्वामिकुमारस्य पादमूलं गतोऽभवन् ।
तपस्तुष्टेन तेनास्य सर्वा विद्याः प्रकाशिताः ।। ६०
सकृच्छ्रुतधरं विप्रं प्राप्यैतास्त्वं प्रकाशयेः ।
इत्यादिष्टः स तेनैव सहर्षोऽयमिहागतः ।। ६१
आगत्यैव च वृत्तान्तं सर्वं मह्यं न्यवेदयत् ।
तदा प्रभृत्यविरतं जपन्ध्यायंश्च तिष्ठति ।। ६२
अतः श्रुतधरं कंचिदन्विष्यानयतं युवाम् ।
तेन सर्वार्थसिद्धिर्वां भविष्यति न संशयः ।। ६३
श्रुत्वैतद्वर्षपत्नीतस्तूर्णं दौर्गत्यहानये ।
दत्त्वा हेमशतं चास्यै निर्गतौ स्वस्ततः पुरात् ।। ६४
अथावां पृथिवीं भ्रान्तौ न च श्रुतधरं क्वचित् ।
लब्धवन्तौ ततः श्रान्तौ प्राप्तावद्य गृहं तव ।। ६५
एकश्रुतधरः प्राप्तो बालोऽयं तनयस्तव ।
तदेनं देहि गच्छावो विद्याद्रविणसिद्धये ।। ६६
इति व्याडिवचः श्रुत्वा मन्माता सादरावदत् ।
सर्वं संगतमेवैतदस्त्यत्र प्रत्ययो मम ।। ६७
तथाहि पूर्वं जातेऽस्मिन्नेकपुत्रे मम स्फुटा ।
गगनादेवमुदभूदशरीरा सरस्वती ।। ६८
एष श्रुतधरो जातो विद्यां वर्षादवाप्स्यति ।
किं च व्याकरणं लोके प्रतिष्ठां प्रापयिष्यति ।। ६९
नाम्ना वररुचिश्चायं तत्तदस्मै हि रोचते ।
यद्यद्वरं भवेत्किंचिदित्युक्त्वा वागुपारमत् ।। ७०
अत एव विवृद्धेऽस्मिन्बालके चिन्तयाम्यहम् ।
क्व स वर्ष उपाध्यायो भवेदिति दिवानिशम् ।। ७१
अद्य युष्मन्मुखाज्ज्ञात्वा परितोषश्च मे परः ।
तदैनं नयत भ्राता युवयोरेष का क्षतिः ।। ७२
इति मन्मातृवचनं श्रुत्वा तौ हर्षनिर्भरौ ।
व्याडीन्द्रदत्तौ तां रात्रिमबुध्येतां क्षणोपमाम् ।। ७३
अथोत्सवार्थमम्बायास्तूर्णं दत्त्वा निजं धनम् ।
व्याडिनैवोपनीतोऽहं वेदार्हत्वं ममेच्छता ।। ७४
ततो मात्राभ्यनुज्ञातं कथंचिद्रुद्धबाष्पया ।
मामादाय निजोत्साहशमिताशेषतद्व्यथम् ।। ७५
मन्यमानौ च कौमारं पुष्पितं तदनुग्रहम् ।
व्याडीन्द्रदत्तौ तरसा नगर्याः प्रस्थितौ ततः ।। ७६
अथ क्रमेण वर्षस्य वयं प्राप्ता गृहं गुरोः ।
स्कन्दप्रसादमायान्तं मूर्तं मां सोऽप्यमन्यत ।। ७७
कृत्वास्मानग्रतोऽन्येद्युरुपविष्टः शुचौ भुवि ।
वर्षोपाध्याय ओंकारमकरोद्दिव्यया गिरा ।। ७८
तदनन्तरमेवास्य वेदाः साङ्गा उपस्थिताः ।
अध्यापयितुमस्मांश्च प्रवृत्तोऽभूदसौ ततः ।। ७९
सकृच्छ्रुतं मया तत्र द्विःश्रुतं व्याडिना तथा ।
त्रिश्रुतं चेन्द्रदत्तेन गुरुणोक्तमगृह्यत ।। ८०
ध्वनिमथ तमपूर्वं दिव्यमाकर्ण्य सद्यः सपदि विलसदन्तर्विस्मयो विप्रवर्गः ।
किमिदमिति समन्ताद्द्रष्टुमभ्येत्य वर्षं स्तुतिमुखरमुखश्रीरर्चति स्म प्रणामैः ।। ८१
किमपि तदवलोक्य तत्र चित्रं प्रमदवशान्न परं तदोपवर्षः ।
अपि विततमहोत्सवः समग्रः समजनि पाटलिपुत्रपौरलोकः ।। ८२
राजापि तं गिरिशसूनुवरप्रभावमालोक्य तस्य परितोषमुपेत्य नन्दः ।
वर्षस्य वेश्म वसुभिः स किलादरेण तत्कालमेव समपूरयदुन्नतश्रीः ।। ८३
इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे कथापीठलम्बके द्वितीयस्तरङ्गः ।