महाकविश्रीसोमदेवभट्टविरचितः
कथासरित्सागरः
कथापीठं नाम प्रथमो लम्बकः ।

इदं गुरुगिरीन्द्रजाप्रणयमन्दरान्दोलना-
त्पुरा किल कथामृतं हरमुखाम्बुधेरुद्गतम् ।
प्रसह्य सरयन्ति ये विगतविघ्नलब्धर्द्धयो
धुरं दधति वैबुधीं भुवि भवप्रसादेन ते ।।
श्रियं दिशतु वः शंभोः श्यामः कण्ठो मनोभुवा ।
अङ्कस्थपार्वतीदृष्टिपाशैरिव विवेष्टितः ।। १
संध्यानृत्तोत्सवे ताराः करेणोद्धूय विघ्नजित् ।
सीत्कारसीकरैरन्याः कल्पयन्निव पातु वः ।। २
प्रणम्य वाचं निःशेषपदार्थोद्द्योतदीपिकाम् ।
बृहत्कथायाः सारस्य संग्रहं रचयाम्यहम् ।। ३
आद्यमत्र कथापीठं कथामुखमतः परम् ।
ततो लावानको नाम तृतीयो लम्बको भवेत् ।। ४
नरवाहनदत्तस्य जननं च ततः परम् ।
स्याच्चतुर्दारिकाख्यश्च ततो मदनमञ्चुका ।। ५५
ततो रत्नप्रभा नाम लम्बकः सप्तमो भवेत् ।
सूर्यप्रभाभिधानश्च लम्बकः स्यादथाष्टमः ।। ६
अलंकारवती चाथ ततः शक्तियशा भवेत् ।
वेलालम्बकसंज्ञश्च भवेदेकादशस्ततः ।। ७
शशाङ्कवत्यपि तथा ततः स्यान्मदिरावती ।
महाभिषेकानुगतस्ततः स्यात्पञ्चलम्बकः ।। ८
ततः सुरतमञ्जर्यप्यथ पद्मावती भवेत् ।
ततो विषमशीलाख्यो लम्बकोऽष्टादशो भवेत् ।। ९
यथा मूलं तथैवैतन्न मनागप्यतिक्रमः ।
ग्रन्थविस्तरसंक्षेपमात्रं भाषा च भिद्यते ।। १०
औचित्यान्वयरक्षा च यथाशक्ति विधीयते ।
कथारसाविघातेन काव्यांशस्य च योजना ।। ११
वैदग्ध्यख्यातिलोभाय मम नैवायमुद्यमः ।
किं तु नानाकथाजालस्मृतिसौकर्यसिद्धये ।। १२
अस्ति किंनरगन्धर्वविद्याधरनिषेवितः ।
चक्रवर्ती गिरीन्द्राणां हिमवानिति विश्रुतः ।। १३
माहात्म्यमियतीं भूमिमारूढं यस्य भूभृताम् ।
यद्भवानी सुताभावं त्रिजगज्जननी गता ।। १४
उत्तरं तस्य शिखरं कैलासाख्यो महागिरिः ।
योजनानां सहस्राणि बहून्याक्रम्य तिष्ठति ।। १५
मन्दरो मथितेऽप्यब्धौ न सुधासिततां गतः ।
अहं त्वयत्नादिति यो हसतीव स्वकान्तिभिः ।। १६
चराचरगुरुस्तत्र निवसत्यम्बिकासखः ।
गणैर्विद्याधरैः सिद्धैः सेव्यमानो महेश्वरः ।। १७
पिङ्गोत्तुङ्गजटाजूटगतो यस्याश्नुते नवः ।
संध्यापिशङ्गपूर्वाद्रिशृङ्गसङ्गसुखं शशी ।। १८
येनान्धकासुरपतेरेकस्यार्पयता हृदि ।
शूलं त्रिजगतोऽप्यस्य हृदयाच्चित्रमुद्धृतम् ।। १९
चूडामणिषु यत्पादनखाग्रप्रतिमाङ्किताः ।
प्रसादप्राप्तचन्द्रार्धा इव भान्ति सुरासुराः ।। २०
तं कदाचित्समुत्पन्नविस्रम्भा रहसि प्रिया ।
स्तुतिभिस्तोषयामास भवानीपतिमीश्वरम् ।। २१
2
तस्याः स्तुतिवचोहृष्टस्तामङ्कमधिरोप्य सः ।
किं ते प्रियं करोमीति बभाषे शशिशेखरः ।। २२
ततः प्रोवाच गिरिजा प्रसन्नोऽसि यदि प्रभो ।
रम्यां कांचित्कथां ब्रूहि देवाद्य मम नूतनाम् ।। २३
भूतं भवद्भविष्यद्वा किं तत्स्याज्जगति प्रिये ।
भवती यन्न जानीयादिति शर्वोऽप्युवाच ताम् ।। २४
ततः सा वल्लभा तस्य निर्बन्धमकरोत्प्रभोः ।
प्रियप्रणयहेवाकि यतो मानवतीमनः ।। २५
ततस्तच्चाटुबुद्ध्यैव तत्प्रभावनिबन्धनाम् ।
तस्याः स्वल्पां कथामेवं शिवः संप्रत्यवर्णयत् ।। २६
अस्ति मामीक्षितुं पूर्वं ब्रह्मा नारायणस्तथा ।
महीं भ्रमन्तौ हिमवत्पादमूलमवापतुः ।। २७
ततो ददृशतुस्तत्र ज्वालालिङ्गं महत्पुरः ।
तस्यान्तमीक्षितुं प्रायादेक ऊर्ध्वमधोऽपरः ।। २८
अलब्धान्तौ तपोभिर्मा तोषयामासतुश्च तौ ।
आविर्भूय मया चोक्तौ वरः कोऽप्यर्थ्यतामिति ।। २९
तच्छ्रुत्वैवाब्रवीद्ब्रह्मा पुत्रो मेऽस्तु भवानिति ।
अपूज्यस्तेन जातोऽसावत्यारोहेण निन्दितः ।। ३०
ततो नारायणो देवः स वरं मामयाचत ।
भूयासं तव शुश्रूषापरोऽहं भगवन्निति ।। ३१
अतः शरीरभूतोऽसौ मम जातस्त्वदात्मना ।
यो हि नारायणः सा त्वं शक्तिः शक्तिमतो मम ।। ३२
किं च मे पूर्वजाया त्वमित्युक्तवति शंकरे ।
कथं ते पूर्वजायाहमिति वक्ति स्म पार्वती ।। ३३
प्रत्युवाच ततो भर्गः पुरा दक्षप्रजापतेः ।
देवि त्वं च तथान्याश्च बह्वयोऽजायन्त कन्यकाः ।। ३४
स मह्यं भवतीं प्रादाद्धर्मादिभ्योऽपराश्च ताः ।
यज्ञे कदाचिदाहूतास्तेन जामातरोऽखिलाः ।। ३५
वर्जितस्त्वहमेवैकस्ततोऽपृच्छयत स त्वया ।

किं न भर्ता ममाहूतस्त्वया तातोच्यतामिति ।। ३६
कपालमाली भर्ता ते कथमाहूयतां मखे ।
इत्युवाच गिरं सोऽथ त्वत्कर्णविषसूचिकाम् ।। ३७
पापोऽयमस्माज्जातेन किं देहेन ममामुना ।
इति कोपात्परित्यक्तं शरीरं तत्प्रिये त्वया ।। ३८
स च दक्षमखस्तेन मन्युना नाशितो मया ।
ततो जाता हिमाद्रेस्त्वमब्धेश्चन्द्रकला यथा ।। ३९
अथ स्मर तुषाराद्रिं तपोऽर्थमहमागतः ।
पिता त्वां च नियुङ्क्ते स्म शुश्रूषायै ममातिथेः ।। ४०
तारकान्तकमत्पुत्रप्राप्तये प्रहितः सुरैः ।
लब्धावकाशोऽविध्यन्मां तत्र दग्धो मनोभवः ।। ४१
ततस्तीव्रेण तपसा क्रीतोऽहं धीरया त्वया ।
तच्च तत्संचयायैव मया सोढं तव प्रिये ।। ४२
इत्थं मे पूर्वजाया त्वं किमन्यत्कथ्यते तव ।
इत्युक्त्वा विरते शंभौ देवी कोपाकुलाब्रवीत् ।। ४३
धूर्तस्त्वं न कथां हृद्यां कथयस्यर्थितोऽपि सन् ।
गङ्गां वहन्नमन्संध्यां विजितोऽसि न किं मम ।। ४४
तच्छ्रुत्वा प्रतिपेदेऽस्या विहितानुनयो हरः ।
कथां कथयितुं दिव्यां ततः कोपं मुमोच सा ।। ४५
नेह कैश्चित्प्रवेष्टव्यमित्युक्तेन तया स्वयम् ।
निरुद्धे नन्दिना द्वारे हरो वक्तुं प्रचक्रमे ।। ४६
एकान्तसुखिनो देवा मनुष्या नित्यदुःखिताः ।
दिव्यमानुषचेष्टा तु परभागे न हारिणी ।। ४७
विद्याधराणां चरितमतस्ते वर्णयाम्यहम् ।
इति देव्या हरो यावद्वक्ति तावदुपागमत् ।। ४८
प्रसादवित्तकः शंभोः पुष्पदन्तो गणोत्तमः ।
न्यषेधि च प्रवेशोऽस्य नन्दिना द्वारि तिष्ठता ।। ४९
निष्कारणं निषेधोऽद्य ममापीति कुतूहलात् ।
अलक्षितो योगवशात्प्रविवेश स तत्क्षणात् ।। ५०
प्रविष्टः श्रुतवान्सर्वं वर्ण्यमानं पिनाकिना ।
विद्याधराणां सप्तानामपूर्वं चरिताद्भुतम् ।। ५१
श्रुत्वाथ गत्वा भार्यायै जयायै सोऽप्यवर्णयत् ।
को हिं वित्तं रहस्यं वा स्त्रीषु शक्नोति गूहितुम् ।। ५२
सापि तद्विस्मयाविष्टा गत्वा गिरिसुताग्रतः ।
जगौ जया प्रतीहारी स्त्रीषु वाक्संयमः कुतः ।। ५३
ततश्चुकोप गिरिजा नापूर्वं वर्णितं त्वया ।
जानाति हि जयाप्येतदिति चेश्वरमभ्यधात् ।। ५४
प्रणिधानादथ ज्ञात्वा जगादैवमुमापतिः ।
योगी भूत्वा प्रविश्येदं पुष्पदन्तस्तदाशृणोत् ।। ५५
जयायै वर्णितं तेन कोऽन्यो जानाति हि प्रिये ।
श्रुत्वेत्यानाययद्देवी पुष्पदन्तमतिक्रुधा ।। ५६
मर्त्यो भवाविनीतेति विह्वलं तं शशाप सा ।
माल्यवन्तं च विज्ञप्तिं कुर्वाणं तत्कृते गणम् ।। ५७
निपत्य पादयोस्ताभ्यां जयया सह बोधिता ।
शापान्तं प्रति शर्वाणी शनैर्वचनमब्रवीत् ।। ५८
विन्ध्याटव्यां कुबेरस्य शापात्प्राप्तः पिशाचताम् ।
सुप्रतीकाभिधो यक्षः काणभूत्याख्यया स्थितः ।। ५९
तं दृष्ट्वा संस्मरञ्जाति यदा तस्मै कथामिमाम् ।
पुष्पदन्त प्रवक्तासि तदा शापाद्विमोक्ष्यसे ।।
काणभूतेः कथां तां तु यदा श्रोष्यति माल्यवान् ।
काणभूतौ तदा मुक्ते कथां प्रख्याप्य मोक्ष्यते ।। ६१
इत्युक्त्वा शैलतनया व्यरमत्तौ च तत्क्षणात् ।
विद्युत्पुञ्जाविव गणौ दृष्टनष्टौ बभूवतुः ।। ६२
अथ जातु याति काले गौरी पप्रच्छ शंकरं सदया ।
देव मया तौ शप्तौ प्रमथवरौ कुत्र भुवि जातौ ।। ६३
अवदच्च चन्द्रमौलिः कौशाम्बीत्यस्ति या महानगरी ।
तस्यां स पुष्पदन्तो वररुचिनामा प्रिये जातः ।। ६४
अन्यच्च माल्यवानपि नगरवरे सुप्रतिष्ठिताख्ये सः ।
जातो गुणाढ्यनामा देवि तयोरेष वृत्तान्तः ।। ६५
एवं निवेद्य स विभुः सततानुवृत्तभृत्यावमाननविभावनसानुतापाम् ।
कैलासशैलतटकल्पितकल्पवल्लीलीलागृहेषु दयितां रमयन्नुवास ।। ६६
इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे कथापीठलम्बके प्रथमस्तरङ्गः ।