प्रमुखा विकल्पसूचिः उद्घाट्यताम्

एवमुक्त्वा वररुचिः पुनरेतदवर्णयत् ।
कालेन योगनन्दोऽथ कामादिवशमाययौ ।।
गजेन्द्र इव मत्तश्च नापैक्षत स किंचन ।
अकाण्डपातोपनता कं न लक्ष्मीविमोहयेत् ।।
अचिन्तयं ततश्चाहं राजा तावद्विशृङ्खलः ।
तत्कार्यचिन्तयाक्रान्तः स्वधर्मो मेऽवसीदति ।।
तस्माद्वरं सहायं तं शकटालं समुद्धरे ।
क्रियेत चेद्विरुद्धं च किं स कुर्यान्मयि स्थिते ।।
निश्चित्यैतन्मयाभ्यर्थ्य राजानं सोऽन्धकूपतः ।
उद्धृतः शकटालोऽथ मृदवो हि द्विजातयः ।।५
दुर्जयो योगनन्दोऽयं स्थिते वररुचावतः ।
आश्रये वैतसीं वृत्तिं कालं तावत्प्रतीक्षितुम् ।।६
इति संचिन्त्य स प्राज्ञः शकटालो मदिच्छया ।
अकरोद्राजकार्याणि पुनः संप्राप्य मन्त्रिताम्।।७
कदाचिद्योगनन्दोऽथ निर्गतो नगराद्बहिः ।
श्लिष्यत्पञ्चाङ्गुलिं हस्तं गङ्गामध्ये व्यलोकयत् ।।८
किमेतदिति पप्रच्छ मामाहूय स तत्क्षणम् ।
अहं च द्वे निजाङ्गुल्यौ दिशि तस्यामदर्शयम् ।।९
तेन तस्मिंस्तिरोभूते हस्ते राजातिविस्मयात् ।
भूयोऽपि तदपृच्छन्मां ततश्चाहं तमब्रवम् ।।१०
पञ्चभिर्मिलितैः किं यज्जगतीह न साध्यते ।
इत्युक्तवानसौ हस्तः स्वाङ्गुलीः पञ्च दर्शयन् ।।११
ततोऽस्य राजन्नङ्गुल्यावेते द्वे दर्शिते मया ।
ऐकचित्ये द्वयोरेव किमसाध्यं भवेदिति ।।१२
इत्युक्ते गूढविज्ञाने समतुष्यत्ततो नृपः ।
शकटालो व्यषीदच्च मद्बुद्धिं वीक्ष्य दुर्जयाम् ।।१३
एकदा योगनन्दश्च दृष्टवान्महिषीं निजाम् ।
वातायनाग्रात्पश्यन्तीं ब्राह्मणातिथिमुन्मुखम् ।।१४
तन्मात्रादेव कुपितो राजा विप्रस्य तस्य सः ।
आदिशद्वधमीर्ष्या हि विवेकपरिपन्थिनी ।।१५
हन्तुं वध्यभुवं तस्मिन्नीयमाने द्विजे तदा ।
अहसद्गतजीवोऽपि मत्स्यो विपणिमध्यगः ।।१६
तदैष राजा तद्बुद्ध्वा वधं तस्य न्यवारयत् ।
विप्रस्य मामपृच्छच्च मत्स्यहासस्य कारणम् ।।१७
निरूप्य कथयाम्येतदित्युक्त्वा निर्गतं च माम् ।
चिन्तितोपस्थितैकान्ते सरस्वत्येवमब्रवीत् ।।१८
अस्य तालतरोः पृष्ठे तिष्ठ रात्रावलक्षितः ।
अत्र श्रोष्यसि मत्स्यस्य हासहेतुमसंशयम् ।।१९
तच्छ्रुत्वा निशि तत्राहं गत्वा तालोपरि स्थितः।
अपश्यं राक्षसीं घोरां बालैः पुत्रैः सहागताम्।। २०
सा भक्ष्यं याचमानांस्तानवादीत्प्रतिपाल्यताम् ।
प्रातर्वो विप्रमांसानि दास्याम्यद्य हतो न सः ।। २१
कस्मात्स न हतोऽद्येति पृष्टा तैरब्रवीत्पुनः ।
तं हि दृष्ट्वा मृतोऽपीह मत्स्यो हसितवानिति ।। २२
हसितं किमु तेनेति पृष्टा भूयः सुतैश्च सा ।
अवोचद्राक्षसी राज्ञः सर्वा राज्ञ्योऽपि विप्लुताः ।। २३
सर्वत्रान्तःपुरे ह्यत्र स्त्रीरूपाः पुरुषाः स्थिताः ।
हन्यतेऽनपराधस्तु विप्र इत्यहसत्तिमिः ।। २४
भूतानां पार्थिवात्यर्थनिर्विवेकत्वहासिनाम् ।
सर्वान्तश्चारिणां ह्येता भवन्त्येव च विक्रियाः ।। २५
एतत्तस्या वचः श्रुत्वा ततोऽपक्रान्तवाहनम् ।
प्रातश्च मत्स्यहासस्य हेतुं राज्ञे न्यवेदयम् ।। २६
प्राप्य चान्तःपुरेभ्यस्तान्स्त्रीरूपान्पुरुषांस्ततः ।
बह्वमन्यत मां राजा वधाद्विप्रं च मुक्तवान् ।। २७
इत्यादि चेष्टितं दृष्ट्वा तस्य राज्ञो विशृङ्खलम् ।
खिन्ने मयि कदाचिच्च तत्रागाच्चित्रकृन्नवः ।। २८
अलिखत्स महादेवीं योगनन्दं च तं पटे ।
सजीवमिव तच्चित्रं वाक्चेष्टारहितं त्वभूत् ।। २९
तं च चित्रकरं राजा तुष्टो वित्तैरपूरयत् ।
तं च वासगृहे चित्रपटं भित्तावकारयत् ।। ३०
एकदा च प्रविष्टस्य वासके तत्र सा मम ।
संपूर्णलक्षणा देवी प्रतिभाति स्म चित्रगा ।। ३१
लक्षणान्तरसंबन्धादभ्यूह्य प्रतिभावशात् ।
अथाकार्षमहं तस्यास्तिलकं मेखलापदे ।। ३२
संपूर्णलक्षणां तेन कृत्वैनां गतवानहम् ।
प्रविष्टो योगनन्दोऽथ तिलकं तं व्यलोकयत् ।। ३३
केनायं रचितोऽत्रेति सोऽपृच्छच्च महत्तरान् ।
ते च न्यवेदयंस्तस्मै कर्तारं तिलकस्य माम् ।। ३४
देव्या गुप्तप्रदेशस्थमिमं नान्यो मया विना ।
वेत्ति तज्ज्ञातवानेवमसौ वररुचिः कथम् ।। ३५
छन्नः कृतोऽमुना नूनं ममान्तःपुरविप्लवः ।
दृष्टवानत एवायं स्त्रीरूपांस्तत्र तान्नरान् ।। ३६
इति संचिन्तयामास योगनन्दः क्रुधा ज्वलन् ।
जायन्ते बत मूढानां संवादा अपि तादृशाः ।। ३७
ततः स्वैरं समाहूय शकटालं समादिशत् ।
त्वया वररुचिर्वध्यो देवीविध्वंसनादिति ।। ३८
यथा ज्ञापयसीत्युक्त्वा शकटालोऽगमद्बहिः ।
अचिन्तयच्च शक्तिः स्याद्धन्तुं वररुचिं न मे ।। ३९
दिव्यबुद्धिप्रभावोऽसवुद्धर्ता च ममापदः ।
विप्रश्च तद्वरं गुप्तं संप्रति स्वीकरोमि तम् ।। ४०
इति निश्चित्य सोऽभ्येत्य राज्ञः कोपमकारणम् ।
वधान्तं कथयित्वा मे शकटालोऽब्रवीत्ततः ।। ४१
अन्यं कंचित्प्रवादाय हन्म्यहं त्वं च मद्गृहे ।
प्रच्छन्नस्तिष्ठ मामस्माद्रक्षितुं कोपनान्नृपात् ।। ४२
इति तद्वचनाच्छन्नस्तदगृहेऽवस्थितोऽभवम् ।
स चान्यं हतवान्कंचिन्मद्वधाख्यातये निशि ।। ४३
एवं प्रयुक्तनीतिं तं प्रीत्यावोचमहं तदा ।
एको मन्त्री भवान्येन हन्तुं मां न कृता मतिः ।। ४४
नहि हन्तुमहं शक्यो राक्षसो मित्रमस्ति मे ।
ध्यातमात्रागतो विश्वं ग्रसते स मदिच्छया ।। ४५
राजा त्विहेन्द्रदत्ताख्यः सखा वध्यो न मे द्विजः ।
तच्छ्रुत्वा सोऽब्रवीन्मन्त्री रक्षो मे दर्श्यतामिति ।। ४६
ततो ध्यातागतं तस्मै तद्रक्षोऽहमदर्शयम् ।
तद्दर्शनाच्च वित्रस्तो विस्मितश्च बभूव सः ।। ४७
रक्षस्यन्तर्हिते तस्मिञ्शकटालः स मां पुनः ।
कथं ते राक्षसो मित्त्रं संजात इति पृष्टवान् ।। ४८
ततोऽहमवदं पूर्वं रक्षार्थं नगरे भ्रमन् ।
रात्रौ रात्रौ क्षयं प्रापदेकैको नगराधिपः ।। ४९
तच्छ्रुत्वा योगनन्दो मामकरोन्नगराधिपम् ।
भ्रमंश्चापश्यमत्राहं भ्रमन्तं राक्षसं निशि ।। ५०
स च मामवदद्ब्रूहि विद्यते नगरेऽत्र का ।
सुरूपा स्त्रीति तच्छ्रुत्वा विहस्याह तमब्रवम् ।। ५१
या यस्याभिमता मूर्ख सुरूपा तस्य सा भवेत ।
तच्छ्रुत्वैव त्वयैकेन जितोऽस्मीत्यवदत्स माम् ।। ५२
प्रश्नमोक्षाद्वधोत्तीर्णं मां पुनश्चाब्रवीदसौ ।
तुष्टोऽस्मीति सुहृन्मे त्वं संनिधास्ये च ते स्मृतः ।। ५३
इत्युक्त्वान्तर्हिते तस्मिन्यथागतमगामहम् ।
एवमापत्सहायो मे राक्षसो मित्त्रतां गतः ।। ५४
इत्युक्तवानहं भूयः शकटालेन चार्थितः ।
गङ्गामदर्शयं तस्मै मूर्तां ध्यानादुपस्थिताम् ।। ५५
स्तुतिभिस्तोषिता सा च मया देवी तिरोदधे ।
बभूव शकटालश्च सहायः प्रणतो मयि । ५६
एकदा च स मन्त्री मां गुप्तस्थं खिन्नमब्रवीत् ।
सर्वज्ञेनापि खेदाय किमात्मा दीयते त्वया ।। ५७
किं न जानासि यद्राज्ञामविचाररता धियः ।
अचिराच्च भवेच्छुद्धिस्तथा चात्र कथां शृणु ।। ५८
आदित्यवर्मनामात्र बभूव नृपतिः पुरा ।
शिववर्माभिधानोऽस्य मन्त्री चाभून्महामतिः ।। ५९
राज्ञस्तत्यैकदा चैका राज्ञी गर्भमधारयत् ।
तद्बुद्ध्वा स नृपोऽपृच्छदित्यन्तःपुररक्षिणः ।। ६०
वर्षद्वयं प्रविष्टस्य वर्ततेऽन्तःपुरेऽत्र मे ।
तदेषा गर्भसंभूतिः कुतः संप्रति कथ्यताम ।। ६१
अथोचुस्ते प्रवेशोऽत्र पुंसोऽन्यस्यास्ति न प्रभो ।
शिववर्मा तु ते मन्त्री प्रविशत्यनिवारितः ।। ६२
तच्छ्रुत्वाचिन्तयद्राजा नूनं द्रोही स एव मे ।
प्रकाशं च हते तस्मिन्नपवादो भवेन्मम ।। ६३
इत्यालोच्य स तं युक्त्या शिववर्माणमीश्वरः ।
सामन्तस्यान्तिकं सख्युः प्राहिणोद्भोगवर्मणः ।। ६४
तद्वधं तस्य लेखेन संदिश्य तदनन्तरम् ।
निगूढं स नृपस्तत्र लेखहारं व्यसर्जयत् ।। ६५
याते मन्त्रिणि सप्ताहे गते भीत्या पलायिता ।
सा राज्ञी रक्षिभिर्लब्धा पुंसा स्त्रीरूपिणा सह ।। ६६
आदित्यवर्मा तद्बुद्ध्वा सानुतापोऽभवत्तदा ।
किं मया तादृशो मन्त्री घातितोऽकारणादिति ।। ६७
अत्रान्तरे स च प्राप निकटं भोगवर्मणः ।
शिववर्मा स चोपागाल्लेखमादाय पूरुषः ।। ६८
वाचयित्वा च तं लेखमेकान्ते शिववर्मणे ।
शशंस वधनिर्देशं भोगवर्मा विधेर्वशात् ।। ६९
शिववर्माप्यवोचत्तं सामन्तं मन्त्रिसत्तमः ।
त्वं व्यापादय मां नो चेन्निहन्म्यात्मानमात्मना ।। ७०
तच्छ्रुत्वा विस्मयाविष्टो भोगवर्मा जगाद तम् ।
किमेतद्ब्रूहि मे विप्र शापितोऽसि न वक्षि चेत् ।। ७१
अथ वक्ति स्म तं मन्त्री हन्येयं यत्र भूपते ।
तत्र द्वादश वर्षाणि देशे देवो न वर्षति ।। ७२
तच्छ्रुत्वा मन्त्रिभिः सार्धं भोगवर्मा व्यचिन्तयत् ।
दुष्टः स राजा देशस्य नाशमस्माकमिच्छति ।। ७३
किं हि तत्र न सन्त्येव वधका गुप्तगामिनः ।
तस्मान्मन्त्री न वध्योऽसौ रक्ष्यः स्वात्मवधादपि ।। ७४
इति संमन्त्र्य दत्त्वा च रक्षकान्भोगवर्मणा ।
शिववर्मा ततो देशात्प्रेषितोऽभूत्ततः क्षणात् ।। ७५
एवं प्रत्याययौ जीवन्स मन्त्री प्रज्ञया स्वया ।
शुद्धिश्चात्यान्यतो जाता नहि धर्मोऽन्यथा भवेत् ।। ७६
इत्थं तवापि शुद्धिः स्यात्तिष्ठ तावद्गृहे मम ।
कात्यायन नृपोऽप्येष सानुतापो भविष्यति ।। ७७
इत्युक्तः शकटालेन च्छन्नोऽहं तस्य वेश्मनि ।
प्रतीक्षमाणोऽवसरं तान्यहान्यत्यवाहयम् ।। ७८
तस्याथ योगनन्दस्य काणभूतेः कदाचन ।
पुत्रो हिरण्यगुप्ताख्यो मृगयायै गतोऽभवत् ।। ७९
अश्ववेगात्प्रयातस्य कथंचिदूरमन्तरम् ।
एकाकिनो वने तस्य वासरः पर्यहीयत ।। ८०
ततश्च तां निशां नेतुं वृक्षमारोहति स्म सः ।
क्षणात्तत्रैव चारोहदृक्षः सिंहेन भीषितः ।। ८१
स दृष्ट्वा राजपुत्रं तं मतिं मानुषभाषया ।
मा भैषीर्मम मित्त्रं त्वमित्युक्त्वा निर्भयं व्यधात् ।। ८२
विस्रम्भादृक्षवाक्येन राजपुत्रोऽथ सुप्तवान् ।
ऋक्षस्तु जाग्रदेवासीदधः सिंहोऽथ सोऽब्रवीत् ।। ८३
ऋक्ष मानुषमेतं मे क्षिप यावद्व्रजाम्यहम् ।
ऋक्षस्ततोऽब्रवीत्पाप न मित्रं घातयाम्यहम् ।। ८४
क्रमादृक्षे प्रसुप्ते च राजपुत्रे च जाग्रति ।
पुनः सिंहोऽब्रवीदेतमृक्षं मे क्षिप मानुष ।। ८५
तच्छ्रुत्वात्मभयात्तेन सिंहस्याराधनाय सः ।
क्षिप्तोऽपि नापतच्चित्रमृक्षो दैवप्रबोधितः ।। ८६
मित्त्रद्रोहिन्भवोन्मत्त इति शापमदाच्च सः ।
तस्य राजसुतस्यैतद्वृत्तान्तावगमावधिम् ।। ८७
प्राप्यैव स्वगृहं प्रातरुन्मत्तोऽभून्नृपात्मजः ।
योगनन्दश्च तद्दृष्ट्वा विषादं सहसागमत् ।। ८८
अब्रवीच्च स कालेऽस्मिञ्जीवेद्वररुचिर्यदि ।
इदं ज्ञायेत तत्सर्वं धिङ्मे तद्वधपाटवम् ।। ८९
तच्छ्रुत्वा वचनं राज्ञः शकटालो व्यचिन्तयत् ।
हन्त कात्यायनस्यायं लब्धः कालः प्रकाशने ।। ९०
न सोऽत्र मानी तिष्ठेच्च राजा मयि च विश्वसेत् ।
इत्यालोच्य स राजानमब्रवीद्याचिताभयः ।। ९१
राजन्नलं विषादेन जीवन्वररुचिः स्थितः ।
योगनन्दस्ततोऽवादीद्द्रुतमानीयतामिति ।। ९२
अथाहं शकटालेन योगनन्दान्तिकं हठात् ।
आनीतस्तं तथाभूतं राजपुत्रं व्यलोकयम् ।। ९३
मित्त्रद्रोहः कृतोऽनेन देवेत्युक्त्वा तथैव सः ।
सरस्वतीप्रसादेन वृत्तान्तः कथितो मया ।। ९४
ततस्तच्छापमुक्तेन स्तुतोऽहं राजसूनुना ।
त्वया कथमिदं ज्ञातमित्यपृच्छत्स भूपतिः ।। ९५
अधाहमवदं राजँल्लक्षणैरनुमानतः ।
प्रतिभातश्च पश्यन्ति सर्वं प्रज्ञावतां धियः ।। ९६
तद्यथा तिलको ज्ञातस्तथा सर्वमिदं मया ।
इति मद्वचनात्सोऽभूद्राजा लज्जानुतापवान् ।।
14
अथानादृतसत्कारः परिशुद्ध्यैव लाभवान् ।
स्वगृहं गतवानस्मि शीलं हि विदुषां धनम् ।। ९८
प्राप्तस्यैव च तत्रत्यो जनोऽरोदीत्पुरो मम ।
अभ्येत्य मां समुद्भान्तमुपवर्षोऽब्रवीत्ततः ।। ९९
राजा हतं निशम्य त्वामुपकोशाग्निसाद्वपुः ।
अकरोदथ मातुस्ते शुचा हृदयमस्फुटत् ।। १००
तच्छ्रुत्वाभिनवोद्भूतशोकावेगविचेतनः ।
सद्योऽहमपतं भूमौ वातरुग्ण इव द्रुमः ।। १०१
क्षणाच्च गतवानस्मि प्रलापानां रसज्ञताम् ।
प्रियबन्धुविनाशोत्थः शोकाग्निः कं न तापयेत् ।। १०२
आ संसारं जगत्यस्मिन्नेका नित्या ह्यनित्यता ।
तदेतामैश्वरीं मायां किं जानन्नपि मुह्यसि ।। १०३
इत्यादिभिरुपागत्य वर्षेण वचनैरहम् ।
बोधितोऽथ यथातत्त्वं कथंचिद्धृतिमाप्तवान् ।। १०४
ततो विरक्तहृदयस्त्यक्त्वा सर्वं निबन्धनम् ।
प्रशमैकसहायोऽहं तपोवनमशिश्रियम् ।। १०५
दिवसेष्वथ गच्छत्सु तत्तपोवनमेकदा ।
अयोध्यात उपागच्छद्विप्र एको मयि स्थिते ।। १०६
स मया योगनन्दस्य राज्यवार्तामपृच्छयत ।
प्रत्यभिज्ञाय मां सोऽथ सशोकमिदमब्रवीत् ।। १०७
शृणु नन्दस्य यद्वृत्तं तत्सकाशाद्गते त्वयि ।
लब्ध्वावकाशस्तत्राभूच्छकटालश्चिरेण सः ।। १०८
स चिन्तयन्वधोपायं योगनन्दस्य युक्तितः ।
क्षितिं खनन्तमद्राक्षीच्चाणक्याख्यं द्विजं पथि ।। १०९
किं भुवं खनसीत्युक्ते तेन विप्रोऽथ सोऽब्रवीत् ।
दर्भमुन्मूलयाम्यत्र पादो ह्येतेन मे क्षतः ।। ११०
तच्छ्रुत्वा सहसा मन्त्री कोपनं क्रूरनिश्चयम् ।
तं विप्रं योगनन्दस्य वधोपायममन्यत ।। १११
नाम पृष्ट्वाब्रवीत्तं च हे ब्रह्मन्दापयामि ते ।
अहं त्रयोदशीश्राद्धं गृहे नन्दस्य भूपतेः ।। ११२
दक्षिणातः सुवर्णस्य लक्षं तव भविष्यति ।
भोक्ष्यसे धुरि चान्येषामेहि तावद्गृहं मम ।। ११३
इत्युक्त्वा शकटालस्तं चाणक्यमनयद्गृहम् ।
श्राद्धाहेऽदर्शयत्तं च राज्ञे स श्रद्दधे च तम् ।। ११४
ततः स गत्वा चाणक्यो धुरि श्राद्ध उपाविशत् ।
सुबन्धुनामा विप्रश्च तामैच्छद्धुरमात्मनः ।। ११५
तद्गत्वा शकटालेन विज्ञप्तो नन्दभूपतिः ।
अवादीन्नापरो योग्यः सुबन्धुर्धुरि तिष्ठतु ।। ११६
आगत्यैतां चं राजाज्ञां शकटालो भयानतः ।
न मेऽपराध इत्युक्त्वा चाणक्याय न्यवेदयत् ।। ११७
सोऽथ कोपेन चाणक्यो ज्वलन्निव समन्ततः ।
निजां मुक्त्वा शिखां तत्र प्रतिज्ञामकरोदिमाम् ।। ११८
अवश्यं हन्त नन्दोऽयं सप्तभिर्दिवसैर्मया ।
विनाश्यो बन्धनीया च ततो निर्मन्युना शिखा ।। ११९
इत्युक्तवन्तं कुपिते योगनन्दे पलायितम् ।
अलक्षितं स्वगेहे तं शकटालो न्यवेशयत् ।। १२०
तत्रोपकरणे दत्ते गुप्तं तेनैव मन्त्रिणा ।
स चाणक्यो द्विजः क्वापि गत्वा कृत्यामसाधयत् ।। १२१
तद्वशाद्योगनन्दोऽथ दाहज्वरमवाप्य सः ।
सप्तमे दिवसे प्राप्ते पञ्चत्वं समुपागमत् ।। १२२
हत्वा हिरण्यगुप्तं च शकटालेन तत्सुतम् ।
पूर्वनन्दसुते लक्ष्मीश्चन्द्रगुप्ते निवेशिता ।। १२३
मन्त्रित्वे तस्य चाभ्यर्थ्य बृहस्पतिसमं धिया ।
चाणक्यं स्थापयित्वा तं स मन्त्री कृतकृत्यताम् ।। १२४
मन्वानो योगनन्दस्य कृतवैरप्रतिक्रियः ।
पुत्रशोकेन निर्विण्णः प्रविवेश महद्वनम् ।। १२५
इति तव मुखाच्छ्रुत्वा विप्रस्य सुतरामहम् ।
काणभूते गतः खेदं सर्वमालोक्य चञ्चलम् ।। १२६
खेदाच्चाहमिमां द्रष्टुमागतो विन्ध्यवासिनीम् ।
तत्प्रसादेन दृष्ट्वा त्वां स्मृता जातिर्मया सखे ।। १२७
प्राप्तं दिव्यं च विज्ञानं मयोक्ता ते महाकथा ।
इदानीं क्षीणशापोऽहं यतिष्ये देहमुज्झितुम् ।। १२८
त्वं च संप्रति तिष्ठेह यावदायाति तेऽन्तिकम् ।
शिष्ययुक्तो गुणाढ्याख्यस्त्यक्तभाषात्रयो द्विजः ।। १२९
सोऽपि ह्यहमिव क्रोधाद्देव्या शप्तो गणोत्तमः ।
माल्यवान्नाम मत्पक्षपाती मर्त्यत्वमागतः ।। १३०
तस्मै महेश्वरोक्तैषा कथनीया महाकथा ।
ततस्ते शापनिर्मुक्तिस्तस्य चापि भविष्यति ।। १३१
एवं वररुचिस्तत्र काणभूतेर्निवेद्य सः ।
प्रतस्थे देहमोक्षाय पुण्यं बदरिकाश्रमम् ।। १३२
गच्छन्ददर्श गङ्गायां सोऽथ शाकाशिनं मुनिम् ।
तत्समक्षं च तस्यर्षेः कुशेनाभूत्करक्षतिः ।। १३३
ततोऽस्य रुधिरं निर्यत्तेन शाकरसीकृतम् ।
अहंकारपरीक्षार्थं कौतुकात्स्वप्रभावतः ।। १३४
तद्दृष्ट्वा हन्त सिद्धोऽस्मीत्यगाद्दर्पमसौ मुनिः ।
ततो वररुचिः किंचिद्विहस्येव जगाद तम् ।। १३५
जिज्ञासनाय रक्तं ते मया शाकरसीकृतम् ।
यावन्नाद्याप्यहंकारः परित्यक्तस्त्वया मुने ।। १३६
ज्ञानमार्गे ह्यहंकारः परिघो दुरतिक्रमः ।
ज्ञानं विना च नास्त्येव मोक्षो व्रतशतैरपि ।। १३७
स्वर्गस्तु न मुमुक्षूणां क्षयी चित्तं विलोभयेत् ।
तस्मादहंकृतित्यागाज्ज्ञाने यत्नं मुने कुरु ।। १३८
विनीयैवं मुनिं तेन प्रणतेन कृतस्तुतिः ।
तं बदर्याश्रमोद्देशं शान्तं वररुचिर्ययौ ।। १३९
अथ स निविडभक्त्या तत्र देवीं शरण्यां शरणमुपगतोऽसौ मर्त्यभावं मुमुक्षुः ।
प्रकटितनिजमूर्तिः सापि तस्मै शशंस स्वयमनलसमुत्थां धारणां देहमुक्त्यै ।। १४०
दग्ध्वा शरीरमथ धारणया तया तद्दिव्यां गतिं वररुचिः स निजां प्रपेदे ।
विन्ध्याटवीभुवि ततः स च काणभूतिरासीदमीप्सितगुणाढ्यसमागमोत्कः ।। १४१
इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे कथापीठलम्बके पञ्चमस्तरङ्गः