प्रमुखा विकल्पसूचिः उद्घाट्यताम्

षष्ठस्तरङ्गः ।
तत स मर्त्यवपुषा माल्यवान्विचरन्वने ।
नाम्ना गुणाढ्यः सेवित्वा सातवाहनभूपतिम् ।। १
संस्कृताद्यास्तदग्रे च भाषास्तिस्रः प्रतिज्ञया ।
त्यक्त्वा खिन्नमना द्रष्टुमाययौ विन्ध्यवासिनीम् ।। २
तदादेशेन गत्वा च काणभूतिं ददर्श सः ।
ततो जातिं निजां स्मृत्वा प्रबुद्धः सहसाभवत् ।। ३
आश्रित्य भाषां पैशाचीं भाषात्रयविलक्षणाम् ।
श्रावयित्वा निजं नाम काणभूतिं च सोऽब्रवीत् ।। ४
पुष्पदन्ताच्छ्रुतां दिव्यां शीघ्रं कथय मे कथाम् ।
येन शापं तरिष्यावस्त्वं चाहं च समं सखे ।। ५
तच्छ्रुत्वा प्रणतो हृष्टः काणभूतिरुवाच तम् ।
कथयामि कथां किं तु कौतुकं मे महत्प्रभो ।। ६
आजन्मचरितं तावच्छंस मे कुर्वनुग्रहम् ।
इति तेनार्थितो वक्तुं गुणाढ्योऽथ प्रचक्रमे ।। ७
प्रतिष्ठानेऽस्ति नगरं सुप्रतिष्ठितसंज्ञकम् ।
तत्राभूत्सोमशर्माख्यः कोऽपि ब्राह्मणसत्तमः ।। ८
वत्सश्च गुल्मकश्चैव तस्य द्वौ तनयौ सखे ।
जायेते स्म तृतीया च श्रुतार्था नाम कन्यका ।। ९
कालेन ब्राह्मणः सोऽथ सभार्यः पञ्चतां गतः ।
तत्पुत्रौ तौ स्वसारं तां पालयन्तावतिष्ठताम् ।। १०
सा चाकस्मात्सगर्भाभूत्तद्दृष्ट्वा वत्सगुल्मयोः ।
तत्रान्यपुरुषाभावाच्छङ्कान्योन्यमजायत ।। ११
ततः श्रुतार्था चित्तज्ञा भ्रातरौ तावभाषत ।
पापशङ्का न कर्तव्या शृणुतं कथयामि वाम् ।। १२
कुमारः कीर्तिसेनाख्यो नागराजस्य वासुकेः ।
भ्रातुः पुत्रोऽस्ति तेनाहं दृष्टा स्नातुं गता सती ।। १३
ततः स मदनाक्रान्तो निवेद्यान्वयनामनी ।
गान्धर्वेण विवाहेन मां भार्यामकरोत्तदा ।। १४
विप्रजातेरयं तस्मान्मम गर्भ इति स्वसुः ।
श्रुत्वा कः प्रत्ययोऽत्रेति वत्सगुल्माववोचताम् ।। १५
ततो रहसि सस्मार सा तं नागकुमारकम् ।
स्मृतमात्रागतः सोऽथ वत्सगुल्मावभाषत ।। १६
भार्या कृता मयैवेयं शापभ्रष्टा वराप्सराः ।
युष्मत्स्वसा युवां चैव शापेनैव च्युतौ भुवि ।। १७
पुत्रो जनिष्यते चात्र युष्मत्स्वसुरसंशयम् ।
ततोऽस्याः शापनिर्मुक्तिर्युवयोश्च भविष्यति ।। १८
इत्युक्त्वान्तर्हितः सोऽभूत्ततः स्तोकैश्च वासरैः ।
श्रुतार्थायाः सुतो जातस्तं हि जानीहि मां सखे ।। १९
गणावतारो जातोऽयं गुणाढ्यो नाम ब्राह्मणः ।
इति तत्कालमुदभूदन्तरिक्षात्सरस्वती ।। २०
क्षीणशापास्ततस्ते च जननीमातुला मम ।
कालेन पञ्चतां प्राप्ता गतश्चाहमधीरताम् ।। २१
अथ शोकं समुत्सृज्य बालोऽपि गतवानहम् ।
स्वावष्टम्भेन विद्यानां प्राप्तये दक्षिणापथम् ।। २२
कालेन तत्र संप्राप्य सर्वा विद्याः प्रसिद्धिमान् ।
स्वदेशमागतोऽभूवं दर्शयिष्यन्निजान्गुणान् ।। २३
प्रविशंश्च चिरात्तत्र नगरे सुप्रतिष्ठिते ।
अपश्यं शिष्यसहितः शोभां कामप्यहं तदा ।। २४
क्वचित्सामानि छन्दोगा गायन्ति च यथाविधि ।
क्वचिद्विवादो विप्राणामभूद्वेदविनिर्णये ।। २५
योऽत्र द्यूतकलां वेत्ति तस्य हस्तगतो निधिः ।
इत्यादिकैतवैर्द्यूतमस्तुवन्कितवाः क्वचित् ।। २६
अन्योन्यं निजवाणिज्यकलाकौशलवादिनाम् ।
क्वचिच्च वणिजां मध्ये वणिगेकोऽब्रवीदिदम् ।। २७
अर्थैः संयमवानर्थान्प्राप्नोति कियदद्भुतम् ।
मया पुनर्विनैवार्थं लक्ष्मीरासादिता पुरा ।। २८
गर्भस्थस्य च मे पूर्वं पिता पञ्चत्वमागतः ।
मन्मातुश्च तदा पापैर्गोत्रजैः सकलं हृतम् ।। २९
ततः सा तद्भयाद्गत्वा रक्षन्ती गर्भमात्मनः ।
तस्थौ कुमारदत्तस्य पितृमित्रस्य वेश्मनि ।। ३०
तत्र तस्याश्च जातोऽहं साध्व्या वृत्तिनिबन्धनम् ।
ततश्चावर्धयत्सा मां कृच्छ्रकर्माणि कुर्वती ।। ३१
उपाध्यायमथाभ्यर्थ्य तयाकिंचन्यदीनया ।
क्रमेण शिक्षितश्चाहं लिपिं गणितमेव च ।। ३२
वणिक्पुत्रोऽसि तत्पुत्र वाणिज्यं कुरु सांप्रतम् ।
विशाखिलाख्यो देशेऽस्मिन्वणिक्चास्ति महाधनः ।। ३३
दरिद्राणां कुलीनानां भाण्डमूल्यं ददाति सः ।
गच्छ याचस्व तं मूल्यमिति माताब्रवीच्च माम् ।। ३४
ततोऽहमगमं तस्य सकाशं सोऽपि तत्क्षणम् ।
इत्यवोचत्क्रुधा कंचिद्वणिक्पुत्रं विशाखिलः ।। ३५
मूषको दृश्यते योऽयं गतप्राणोऽत्र भूतले ।
एतेनापि हि पण्येन कुशलो धनमर्जयेत् ।। ३६
दत्तास्तव पुनः पाप दीनारा बहवो मया ।
दूरे तिष्ठतु तद्वृद्धिस्त्वया तेऽपि न रक्षिताः ।। ३७
तच्छ्रुत्वा सहसैवाहं तमवोचं विशाखिलम् ।
गृहीतोऽयं मया त्वत्तो भाण्डमूल्याय मूषकः ।। ३८
इत्युक्त्वा मूषकं हस्ते गृहीत्वा संपुटे च तम् ।
लिखित्वास्य गतोऽभूवमहं सोऽप्यहसद्वणिक् ।। ३९
चणकाञ्जलियुग्मेन मूल्येन स च मूषकः ।
मार्जारस्य कृते दत्तः कस्यचिद्वणिजो मया ।। ४०
कृत्वा तांश्चणकान्भृष्टान्गृहीत्वा जलकुम्भिकाम् ।
अतिष्ठं चत्वरे गत्वा छायायां नगराद्बहिः ।। ४१
तत्र श्रान्तागतायाम्भः शीतलं चणकांश्च तान् ।
काष्ठभारिकसंघाय सप्रश्रयमदामहम् ।। ४२
एकैकः काष्ठिकः प्रीत्या काष्ठे द्वे द्वे ददौ मम ।
विक्रीतवानहं तानि नीत्वा काष्ठानि चापणे ।। ४३
ततः स्तोकेन मूल्येन क्रीत्वा तांश्चणकांस्ततः ।
तथैव काष्ठिकेभ्योऽहमन्येद्युः काष्ठमाहरम् ।। ४४
एवं प्रतिदिनं कृत्वा प्राप्य मूल्यं क्रमान्मया ।
काष्ठिकेभ्योऽखिलं दारु क्रीतं तेभ्यो दिनत्रयम् ।। ४५
अकस्मादथ संजाते काष्ठच्छेदेऽतिवृष्टिभिः ।
मया तद्दारु विक्रीतं पणानां बहुभिः शतैः ।। ४६
तेनैव विपणिं कृत्वा धनेन निजकौशलात् ।
कुर्वन्वणिज्यां क्रमशः संपन्नोऽस्मि महाधनः ।। ४७
सौवर्णो मूषकः कृत्वा मया तस्मै समर्पितः ।
विशाखिलाय सोऽपि स्वां कन्यां मह्यमदात्ततः ।। ४८
अत एव च लोकेऽस्मिन्प्रसिद्धो मूषकाख्यया ।
एवं लक्ष्मीरियं प्राप्ता निर्धनेन सता मया ।। ४९
तच्छ्रुत्वा तत्र तेऽभूवन्वणिजोऽन्ये सविस्मयाः ।
धीर्न चित्रीयते कस्मादभित्तौ चित्रकर्मणा ।। ५०
क्वचित्प्रतिग्रहप्राप्तहेममाषाष्टको द्विजः ।
छन्दोगः कश्चिदित्युक्तो विटप्रायेण केनचित् ।। ५१
ब्राह्मण्याद्भोजनं तावदस्ति ते तत्त्वयामुना ।
लोकयात्रा सुवर्णेन वैदग्ध्यायेह शिक्ष्यताम् ।। ५२
को मां शिक्षयतीत्युक्ते तेन मुग्धेन सोऽब्रवीत् ।
यैषा चतुरिका नाम वेश्या तस्या गृहं व्रज ।। ५३
तत्र किं करवाणीति द्विजेनोक्तो विटोऽब्रवीत् ।
स्वर्णं दत्त्वा प्रयुञ्जीथा रञ्जयन्साम किंचन ।। ५४
श्रुत्वेत्यगच्छच्छन्दोगो द्रुतं चतुरिकागृहम् ।
उपाविशत्प्रविश्यात्र कृतप्रत्युद्गतिस्तया ।। ५५
मामद्य लोकयात्रां त्वं शिक्षयैतेन सांप्रतम् ।
इति जल्पन्स तत्तस्य स्वर्णमर्पितवान्द्विजः ।। ५६
प्रहसत्यथ तत्रस्थे जने किंचिद्विचिन्त्य सः ।
गोकर्णसदृशौ कृत्वा करावाबद्धसारणौ ।। ५७
तारस्वरं तथा साम गायति स्म जडाशयः ।
यथा तत्र मिलन्ति स्म विटा हास्यदिदृक्षवः ।। ५८
ते चावोचञ्शृगालोऽयं प्रविष्टोऽत्र कुतोऽन्यथा ।
तच्छीघ्रमर्धचन्द्रोऽस्य गलेऽस्मिन्दीयतामिति ।। ५९
अर्धचन्द्रं शरं मत्वा शिरश्छेदभयाद्द्रुतम् ।
शिक्षिता लोकयात्रेति गर्जन्स निरगात्ततः ।। ६०
तत्सकाशं ततोऽगच्छद्येनासौ प्रेषितोऽभवत् ।
वृत्तान्तं चावदत्तस्मै सोऽपि चैनमभाषत ।। ६१
साम सान्त्वं मयोक्तं ते वेदस्यावसरोऽत्र कः ।
किं वा धाराधिरूढं हि जाड्यं वेदजडे जने ।। ६२
एवं विहस्य गत्वा च तेनोक्ता सा विलासिनी ।
द्विपदस्य पशोरस्य तत्सुवर्णतृणं त्यज ।। ६३
हसन्त्या च तया त्यक्तं सुवर्णं प्राप्य स द्विजः ।
पुनर्जातमिवात्मानं मन्वानो गृहमागतः ।। ६४
एवंप्रायाण्यहं पश्यन्कौतुकानि पदे पदे ।
प्राप्तवान्राजभवनं महेन्द्रसदनोपमम् ।। ६५
ततश्चान्तः प्रविष्टोऽहं शिष्यैरग्रे निवेदितः ।
आस्थानस्थितमद्राक्षं राजानं सातवाहनम् ।। ६६
शर्ववर्मप्रभृतिभिर्मन्त्रिभिः परिवारितम् ।
रत्नसिंहासनासीनममरैरिव वासवम् ।। ६७
विहितस्वस्तिकारं मामुपविष्टमथासने ।
राज्ञा कृतादरं चैव शर्ववर्मादयोऽस्तुवन् ।। ६८
अयं देव भुवि ख्यातः सर्वविद्याविशारदः ।
गुणाढ्य इति नामास्य यथार्थमत एव हि ।। ६९
इत्यादि तत्स्तुतिं श्रुत्वा मन्त्रिभिः सातवाहनः ।
प्रीतः सपदि सत्कृत्य मन्त्रित्वे मां न्ययोजयत् ।। ७०
अथाह राजकार्याणि चिन्तयन्नवसं सुखम् ।
शिष्यानध्यापयंस्तत्र कृतदारपरिग्रहः ।। ७१
कदाचित्कौतुकाद्भ्राम्यन्स्वैरं गोदावरीतटे ।
देवीकृतिरिति ख्यातमुद्यानं दृष्टवानहम् ।। ७२
तच्चातिरम्यमालोक्य क्षितिस्थमिव नन्दनम् ।
उद्यानपालः पृष्टोऽभून्मया तत्र तदागमम् ।। ७३
स च मामब्रवीत्स्वामिन्वृद्धेभ्यः श्रूयते यथा ।
पूर्वं मौनी निराहारो द्विजः कश्चित्समाययौ ।। ७४
स दिव्यमिदमुद्यानं सदेवभवनं व्यधात् ।
ततोऽत्र ब्राह्मणाः सर्वे मिलन्ति स्म सकौतुकाः ।। ७५
निर्बन्धात्तैः स पृष्टः स्वं वृत्तान्तमवदीद्द्विजः ।
अस्तीह भरुकच्छाख्यो विषयो नर्मदातटे ।। ७६
तस्मिन्नहं समुत्पन्नो विप्रस्तस्य च मे पुरा ।
न भिक्षामप्यदात्कश्चिद्दरिद्रस्यालसस्य च ।। ७७
अथ खेदाद्गृहं त्यक्त्वा विरक्तो जीवितं प्रति ।
भ्रान्त्वा तीर्थान्यहं द्रष्टुमगच्छं विन्ध्यवासिनीम् ।। ७८
दृष्ट्वा ततश्च तां देवीमिति संचिन्तितं मया ।
लोकः पशूपहारेण प्रीणाति वरदामिमाम् ।। ७९
अहं त्वात्मानमेवेह हन्मि मूर्खमिमं पशुम् ।
निश्चित्येति शिरश्छेत्तुं मया शस्त्रमगृह्यत ।। ८०
तत्क्षणं सा प्रसन्ना मां देवी स्वयमभाषत ।
पुत्र सिद्धोऽसि मात्मानं वधीस्तिष्ठ ममान्तिके ।। ८१
इति दैवीवरं लब्ध्वा संप्राप्ता दिव्यता मया ।
ततः प्रभृति नष्टा मे बुभुक्षा च तृषा सह ।। ८२
कदाचिदथ देवी मां तत्रस्थं स्वयमादिशत् ।
गत्वा पुत्र प्रतिष्ठाने रचयोद्यानमुत्तमम् ।। ८३
इत्युक्त्वा सैव मे बीजं दिव्यं प्रादात्ततो मया ।
इहागत्य कृतं कान्तमुद्यानं तत्प्रभावतः ।। ८४
पाल्यमेतच्च युष्माकमित्युक्त्वा स तिरोदधे ।
इति निर्मितमुद्यानमिदं देव्या पुरा प्रभो ।। ८५
उद्यानपालादित्येवं तद्देशे देव्यनुग्रहम् ।
आकर्ण्य विस्मयाविष्टो गृहाय गतवानहम् ।। ८६
एवमुक्ते गुणाढ्येन काणभूतिरभाषत ।
सातवाहन इत्यस्य कस्मान्नामाभवत्प्रभो ।। ८७
ततोऽब्रवीद्गुणाढ्योऽपि शृण्वेतत्कथयामि ते ।
दीपकर्णिरिति ख्यातो राजाभूत्प्राज्यविक्रमः ।। ८८
तस्य शक्तिमती नाम भार्या प्राणाधिकाभवत् ।
रतान्तसुप्तामुद्याने सर्पस्तां जातु दष्टवान् ।। ८९
गतायामथ पञ्चत्वं तस्यां तद्गतमानसः ।
अपुत्रोऽपि स जग्राह ब्रह्मचर्यव्रतं नृपः ।। ९०
ततः कदाचिद्राज्यार्हपुत्रासद्भावदुःखितम् ।
इत्यादिदेश तं स्वप्ने भगवानिन्दुशेखरः ।। ९१
अटव्यां द्रक्ष्यसि भ्राम्यन्सिहारूढं कुमारकम् ।
तं गृहीत्वा गृहं गच्छेः स ते पुत्रो भविष्यति ।। ९२
अथ प्रबुद्धस्तं स्वप्नं स्मरन्राजा जहर्ष सः ।
कदाचिच्च ययौ दूरामटवीं मृगयारसात् ।। ९३
ददर्श तत्र मध्याह्ने सिंहारूढं स भूपतिः ।
बालकं पद्मसरसस्तीरे तपनतेजसम् ।। ९४
अथ राजा स्मरन्स्वप्नमवतारितबालकम् ।
जलाभिलाषिणं सिंहं जघानैकशरेण तम् ।। ९५
स सिंहस्तद्वपुस्त्यक्त्वा सद्योऽभूत्पुरुषाकृतिः ।
कष्टं किमेतद्ब्रूहीति राज्ञा पृष्टो जगाद च ।। ९६
धनदस्य सखा यक्षः सातो नामास्मि भूपते ।
सोऽहं स्नान्तीमपश्यं प्राग्गङ्गायामृषिकन्यकाम् ।। ९७
सापि मां वीक्ष्य संजातमन्मथाभूदहं तथा ।
गान्धर्वेण विवाहेन ततो भार्या कृता मया ।। ९८
तच्च तद्बान्धवा बुद्ध्वा तां च मां चाशपन्क्रुधा ।
सिंहौ भविष्यतः पापौ स्वेच्छाचारौ युवामिति ।। ९९
पुत्रजन्मावधिं तस्याः शापान्तं मुनयो व्यधुः ।
मम तु त्वच्छराघातपर्यन्तं तदनन्तरम् ।। १००
अथावां सिंहमिथुनं संजातौ सापि कालतः ।
गर्भिण्यभूत्ततो जाते दारकेऽस्मिन्व्यपद्यत ।। १०१
अयं च वर्धितोऽन्यासां सिंहीनां पयसा मया ।
अद्य चाहं विमुक्तोऽस्मि शापाद्बाणाहतस्त्वया ।। १०२
तद्गृहाण महासत्त्वं मया दत्तममुं सुतम् ।
अयं ह्यर्थः समादिष्टस्तैरेव मुनिभिः पुरा ।। १०३
इत्युक्त्वान्तर्हिते तस्मिन्सातनामनि गुह्यके ।
स राजा तं समादाय बालं प्रत्याययौ गृहम् ।। १०४
सातेन यस्मादूढोऽभूत्तस्मात्तं सातवाहनम् ।
नाम्ना चकार कालेन राज्ये चैनं न्यवेशयत् ।। १०५
ततस्तस्मिन्गतेऽरण्यं दीपकर्णौ क्षितीश्वरे ।
संवृत्तः सार्वभौमोऽसौ भूपतिः सातवाहनः ।। १०६
एवमुक्त्वा कथां मध्ये काणभूत्यनुयोगतः ।
गुणाढ्यः प्रकृतं धीमाननुस्मृत्याब्रवीत्पुनः ।। १०७
ततः कदाचिदध्यास्त वसन्तसमयोत्सवे ।
देवीकृतं तदुद्यानं स राजा सातवाहनः ।। १०८
विहरन्सुचिरं तत्र महेन्द्र इव नन्दने ।
वापीजलेऽवतीर्णोऽभूत्क्रीडितुं कामिनीसखः ।। १०९
असिञ्चत्तत्र दयिताः सहेलं करवारिभिः ।
असिच्यत स ताभिश्च वशाभिरिव वारणः ।। ११०
मुखैर्धौताञ्जनाताम्रनेत्रैर्जह्नुजलाप्लुतैः ।
अङ्गैः सक्ताम्बरव्यक्तविभागैश्च तमङ्गनाः ।। १११
विदलत्पत्रतिलकाः स चक्रे वनमध्यगाः ।
च्युताभरणपुष्पास्ता लता वायुरिव प्रियाः ।। ११२
अथैका तस्य महिषी राज्ञः स्तनभरालसा ।
शिरीषसुकुमाराङ्गी क्रीडन्ती क्लममभ्यगात् ।। ११३
सा जलैरभिषिञ्चन्तं राजानमसहा सती ।
अब्रवीन्मोदकैर्देव परिताडय मामिति ।। ११४
तच्छ्रुत्वा मोदकान्राजा द्रुतमानाययद्बहून् ।
ततो विहस्य सा राज्ञी पुनरेवमभाषत ।। ११५
राजन्नवसरः कोऽत्र मोदकानां जलान्तरे ।
उदकैः सिञ्च मा त्वं मामित्युक्तं हि मया तव ।। ११६
संधिमात्रं न जानासि माशब्दोदकशब्दयोः ।
न च प्रकरणं वेत्सि मूर्खस्त्वं कथमीदृशः ।। ११७
इत्युक्तः स तया राजा शब्दशास्त्रविदा नृपः ।
परिवारे हसत्यन्तर्लज्जाक्रान्तो झगित्यभूत् ।। ११८
परित्यक्तजलक्रीडो वीतदर्पश्च तत्क्षणम् ।
जातावमानो निर्लक्षः प्राविशन्निजमन्दिरम् ।। ११९
ततश्चिन्तापरो मुह्यन्नाहारादिपराङ्मुखः ।
चित्रस्थ इव पृष्टोऽपि नैव किंचिदभाषत ।। १२०
पाण्डित्यं शरणं वा मे मृत्युर्वेति विचिन्तयन् ।
शयनीयपरित्यक्तगात्रः संतापवानभूत् ।। १२१
अकस्मादथ राज्ञस्तां दृष्ट्वावस्थां तथाविधाम् ।
किमेतदिति संभ्रान्तः सर्वः परिजनोऽभवत् ।। १२२
ततोऽहं शर्ववर्मा च ज्ञातवन्तौ क्रमेण ताम् ।
अत्रान्तरे स च प्रायः पर्यहीयत वासरः ।। १२३
अस्मिन्काले न च स्वस्थो राजेत्यालोच्य तत्क्षणम् ।
आवाभ्यां राजहंसाख्य आहूतो राजचेटकः ।। १२४
शरीरवार्तां भूपस्य स च पृष्टोऽब्रवीदिदम् ।
नेदृशो दुर्मनाः पूर्वं दृष्टो देवः कदाचन ।। १२५
विष्णुशक्तिदुहित्रा च मिथ्यापण्डितया तया ।
विलक्षीकृत इत्याहुर्देव्योऽन्याः कोपनिर्भरम् ।। १२६
एतत्तस्य मुखाच्छ्रुत्वा राजचेटस्य दुर्मनाः ।
शर्ववर्मद्वितीयोऽहं संशयादित्यचिन्तयम् ।। १२७
व्याधिर्यदि भवेद्राज्ञः प्रविशेयुश्चिकित्सकाः ।
आधिर्वा यदि तत्रास्य कारणं नोपलभ्यते ।। १२८
नास्त्येव हि विपक्षोऽस्य राज्ये निहतकण्टके ।
अनुरक्ताः प्रजाश्चैता न हानिः परिदृश्यते ।। १२९
तत्कस्मादेष खेदः स्यादीदृशः सहसा प्रभोः ।
एवं विचिन्तिते धीमाञ्शर्ववर्मेदमब्रवीत् ।। १३०
अहं जानामि राज्ञोऽस्य मन्युर्मौर्ख्यानुतापतः ।
मूर्खोऽहमिति पाण्डित्यं सदैवायं हि वाञ्छति ।। १३९
उपलब्धो मया चैष पूर्वमेव तदाशयः ।
राज्ञ्यावमानितश्चाद्य तन्निमित्तमिति श्रुतम् ।। १३२
एवमन्योन्यमालोच्य तां रात्रिमतिवाह्य च ।
प्रातरावामगच्छाव वासवेश्म महीपतेः ।। १३३
तत्र सर्वस्य रुद्धेऽपि प्रवेशे कथमप्यहम् ।
प्राविशं मम पश्चाच्च शर्ववर्मा लघुक्रमम् ।। १३४
उपविश्याथ निकटे विज्ञप्तः स मया नृपः ।
अकारणं कथं देव वर्तसे विमना इति ।। १३५
तच्छ्रुत्वापि तथैवासीत्स तूष्णीं सातवाहनः ।
शर्ववर्मा ततश्चेदमद्भुतं वाक्यमब्रवीत् ।। १३६
श्रुतं मम स्यात्क्वापीति प्रागुक्तं देव मे त्वया ।
तेनाहं कृतवानद्य स्वप्नमाणवकं निशि ।। १३७
स्वप्ने ततो मया दृष्टं नभसश्च्युतमम्बुजम् ।
तच्च दिव्येन केनापि कुमारेण विकासितम् ।। १३८
ततश्च निर्गता तस्माद्दिव्या स्त्री धवलाम्बरा ।
तव देव मुखं सा च प्रविष्टा समनन्तरम् ।। १३९
इयद्दृष्ट्वा प्रबुद्धोऽस्मि मन्ये सा च सरस्वती ।
देवस्य वदने साक्षात्संप्रविष्टा न संशयः ।। १४०
एवं निवेदितस्वप्ने शर्ववर्मणि तत्क्षणम् ।
मामस्तमौनः साकूतमवदत्सातवाहनः ।। १४१
शिक्षमाणः प्रयत्नेन कालेन कियता पुमान् ।
अधिगच्छति पाण्डित्यमेतन्मे कथ्यतां त्वया ।। १४२
मम तेन विना ह्येषा लक्ष्मीर्न प्रतिभासते ।
विभवैः किं नु मूर्खस्य काष्ठस्याभरणैरिव ।। १४३
ततोऽहमवदं राजन्वर्षैर्द्वादशभिः सदा ।
ज्ञायते सर्वविद्यानां मुखं व्याकरणं नरैः ।। १४४
अहं तु शिक्षयामि त्वां वर्षषट्केन तद्विभो ।
श्रुत्वैतत्सहसा सेर्ष्यं शर्ववर्मा किलावदत् ।। १४५
सुखोचितो जनः क्लेशं कथं कुर्यादियच्चिरम् ।
तदहं मासषट्केन देव त्वां शिक्षयाभि तत् ।। १४६
श्रुत्वैतदसंभाव्यं तमवोचमहं रुषा ।
षड्भिर्मासैस्त्वया देवः शिक्षितश्चेत्ततो मया ।। १४७
संस्कृतं प्राकृतं तद्वद्देशभाषा च सर्वदा ।
भाषात्रयमिदं त्यक्तं यन्मनुष्येषु संभवेत् ।। १४८
शर्ववर्मा ततोऽवादीन्न चेदेवं करोम्यहम् ।
द्वादशाब्दान्वहाम्येष शिरसा तव पादुके ।। १४९
इत्युक्त्वा निर्गते तस्मिन्नहमप्यगमं गृहम् ।
राजाप्युभयतः सिद्धिं मत्वाश्वस्तो बभूव स ।। १५०
विहस्तः शर्ववर्मा च प्रतिज्ञां तां सुदुस्तराम् ।
पश्यन्सानुशयः सर्वं स्वभार्यायै शशंस तत् ।। १५१
सापि तं दुःखितावोचत्संकटेऽस्मिंस्तव प्रभो ।
विना स्वामिकुमारेण गतिरन्या न दृश्यते ।। १५२
तथेति निश्चयं कृत्वा पश्चिमे प्रहरे निशि ।
शर्ववर्मा निराहारस्तत्रैव प्रस्थितोऽभवत् ।। १५३
तच्च चारमुखाद्बुद्ध्वा मया प्रातर्निवेदितम् ।
राज्ञे सोऽपि तदाकर्ण्य किं भवेदित्यचिन्तयत् ।। १५४
ततस्तं सिंहगुप्ताख्यो राजपुत्रो हितोऽब्रवीत् ।
त्वयि खिन्ने तदा देव निर्वेदो मे महानभूत् ।। १५५
ततः श्रेयोनिमित्तं ते चण्डिकाग्रे निजं शिरः ।
छेत्तुं प्रारब्धवानस्मि गत्वास्मान्नगराद्बहिः ।। १५६
मैवं कृथा नृपस्येच्छा सेत्स्यत्येवेत्यवारयत् ।
वागन्तरिक्षादथ मां तन्मन्ये सिद्धिरस्ति ते ।। १५७
इत्युक्त्वा नृपमामन्त्र्य सत्वरं शर्ववर्मणः ।
पश्चाच्चारद्वयं सोऽथ सिंहगुप्तो व्यसर्जयत् ।। १५८
सोऽपि वातैकभक्षः सन्कृतमौनः सुनिश्चयः ।
प्राप स्वामिकुमारस्य शर्ववर्मान्तिकं क्रमात् ।। १५९
शरीरनिरपेक्षेण तपसा तत्र तोषितः ।
प्रसादमकरोत्तस्य कार्तिकेयो यथेप्सितम् ।। १६०
आगत्याग्रे ततो राज्ञे चाराभ्यां स निवेदितः ।
सिंहगुप्तविसृष्टाभ्यामुदयः शर्ववर्मणः ।। १६१
तच्छ्रुत्वा मम राज्ञश्च विषादप्रमदौ द्वयोः ।
अभूतां मेघमालोक्य हंसचातकयोरिव ।। १६२
आगत्य शर्ववर्माथ कुमारवरसिद्धिमान् ।
चिन्तितोपस्थिता राज्ञे सर्वा विद्याः प्रदत्तवान् ।। १६३
प्रादुरासंश्च तास्तस्य सातवाहनभूपतेः ।
तत्क्षणं किं न कुर्याद्धि प्रसादः पारमेश्वरः ।। १६४
अथ तमखिलविद्यालाभमाकर्ण्य राज्ञः प्रमुदितवति राष्ट्रे तत्र कोऽप्युत्सवोऽभूत् ।
अपि पवनविधूतास्तत्क्षणोल्लास्यमानाः प्रतिवसति पताका बद्धनृत्ता इवासन् ।। १६५
राजार्हरत्ननिचयैरथ शर्ववर्मा तेनार्चितो गुरुरिति प्रणतेन राज्ञा ।
स्वामीकृतश्च विषये मरुकच्छनाम्नि कूलोपकण्ठविनिवेशिनि नर्मदायाः ।। १६६
योऽग्रे चारमुखेन षण्मुखवरप्राप्तिं समाकर्णय-
त्संतुष्यात्मसमं श्रिया नरपतिस्तं सिंहगुप्तं व्यधात् ।
राज्ञीं तामपि विष्णुशक्तितनयां विद्यागमे कारणं
देवीनामुपरि प्रसह्य कृतवान्प्रीत्याभिषिच्य स्वयम् ।। १६७
इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे कथापीठलम्बके षष्ठस्तरङ्गः ।