सप्तमस्तरङ्गः ।
ततो गृहीतमौनोऽहं राजान्तिकमुपागमम् ।
तत्र च श्लोकमपठद्द्विजः कश्चित्स्वयं कृतम् ।। १
तं चाचष्ट स्वयं राजा सम्यक्संस्कृतया गिरा ।
तत्रालोक्य च तत्रस्थो जनः प्रमुदितोऽभवत् ।। २
ततः स शर्ववर्माणं राजा सविनयोऽब्रवीत् ।
स्वयं कथय देवेन कथं तेऽनुग्रहः कृतः ।। ३
तच्छ्रुत्वानुग्रहं राज्ञः शर्ववर्माभ्यभाषत ।
इतो राजन्निराहारो मौनस्थोऽहं तदा गतः ।। ४
ततोऽध्वनि मनाक्छेषे जाते तीव्रतपःकृशः ।
क्लान्तः पतितवानस्मि निःसंज्ञो धरणीतले ।। ५
उत्तिष्ठ पुत्र सर्वं ते संपत्स्यत इति स्फुटम् ।
शक्तिहस्तः पुमानेत्य जाने मामब्रवीत्तदा ।। ६
तेनाहममृतासारसंसिक्त इव तत्क्षणम् ।
प्रबुद्धः क्षुत्पिपासादिहीनः स्वस्थ इवाभवम् ।। ७
अथ देवस्य निकटं प्राप्य भक्तिभराकुलः ।
स्नात्वा गर्भगृहं तस्य प्रविष्टोऽभूवमुन्मनाः ।। ८
ततोऽन्तः प्रभुणा तेन स्कन्देन मम दर्शनम् ।
दत्तं ततः प्रविष्टा मे मुखे मूर्ता सरस्वती ।। ९
अथासौ भगवान्साक्षात्षड्भिराननपङ्कजैः ।
सिद्धो वर्णसमाम्नाय इति सूत्रमुदैरयत् ।। १०
तच्छ्रुत्वैव मनुष्यत्वसुलभाच्चापलाद्बत ।
उत्तरं सूत्रमभ्यूह्य स्वयमेव मयोदितम्।।११
अथाब्रवीत्स देवो मां नावदिष्यः स्वयं यदि ।
अभविष्यदिदं शास्त्रं पाणिनीयोपमर्दकम् ।। १२
अधुना स्वल्पतन्त्रत्वात्कातन्त्राख्यं भविष्यति ।
मद्वाहनकलापस्य नाम्ना कालापकं तथा ।। १३
इत्युक्त्वा शब्दशास्त्रं तत्प्रकाश्याभिनवं लघु ।
साक्षादेव स मां देवः पुनरेवमभाषत ।। १४
युष्मदीयः स राजापि पूर्वजन्मन्यभूदृषिः ।
भरद्वाजमुनेः शिष्यः कृष्णसंज्ञो महातपाः ।। १५
तुल्याभिलाषामालोक्य स चैकां मुनिकन्यकाम् ।
ययावकस्मात्पुष्पेषुशरघातरसज्ञताम् ।। १६
अतः स शप्तो मुनिभिरवतीर्ण इहाधुना ।
सा चावतीर्णा देवीत्वे तस्यैव मुनिकन्यका ।। १७
इत्थमृष्यवतारोऽयं नृपतिः सातवाहनः ।
दृष्टे त्वय्यखिला विद्या प्राप्स्यत्येव त्वदिच्छया ।। १८
अक्लेशलभ्या हि भवन्त्युत्तमार्था महात्मनाम् ।
जन्मान्तरार्जिताः स्फारसंस्काराक्षिप्तसिद्धयः ।। १९
इत्युक्त्वान्तर्हिते देवे निरगच्छमहं बहिः ।
तण्डुला मे प्रदत्ताश्च तत्र देवोपजीविभिः ।।२
ततोऽहमागतो राजंस्तण्डुलास्ते च मे पथि ।
चित्रं तावन्त एवासन्भुज्यमाना दिने दिने ।। २१
एवमुक्त्वा स्ववृत्तान्तं विरते शर्ववर्मणि ।
उदतिष्ठन्नृपः स्नातुं प्रहृष्टः सातवाहनः ।। २२
ततोऽहं कृतमौनत्वाद्व्यवहारबहिष्कृतः ।
अनिच्छन्तं तमामन्त्र्य प्रणामेनैव भूपतिम् ।। २३
निर्गत्य नगरात्तस्माच्छिष्यद्वयसमन्वितः ।
तपसे निश्चितो द्रष्टुमागतो विन्ध्यवासिनीम् ।। २४
स्वप्नादेशेन देव्या च तयैव प्रेषितस्ततः ।
विन्ध्याटवीं प्रविष्टोऽहं त्वां द्रष्टुं भीषणामिमाम् ।। २५
पुलिन्दवाक्यादासाद्य सार्थं दैवात्कथंचन ।
इह प्राप्तोऽहमद्राक्षं पिशाचान्सुबहूनमून् ।। २६
अन्योन्यालापमेतेषां दूरादाकर्ण्य शिक्षिता ।
मया पिशाचभाषेयं मौनमोक्षस्य कारणम् ।। २७
उपगम्य ततश्चैतां त्वां श्रुत्वोज्जयिनीगतम् ।
प्रतिपालितवानस्मि यावदभ्यागतो भवान् ।। २८
दृष्ट्वा त्वां स्वागतं कृत्वा चतुर्थ्या भूतभाषया ।
मया जातिः स्मृतेत्येष वृत्तान्तो मेऽत्र जन्मनि ।। २९
एवमुक्ते गुणाढ्येन काणभूतिरुवाच तम् ।
त्वदागमो मया ज्ञातो यथाद्य निशि तच्छृणु ।। ३०
राक्षसो भूतिवर्माख्यो दिव्यदृष्टिः सखास्ति मे ।
गतवानस्मि चोद्यानमुज्जयिन्यां तदास्पदम् ।। ३१
तत्रासौ निजशापान्तं प्रति पृष्टो मयाब्रवीत् ।
दिवा नास्ति प्रभावो नस्तिष्ठ रात्रौ वदाम्यतः ।। ३२
तथेति चाहं तत्रस्थः प्राप्तायां निशि वल्गताम् ।
तमपृच्छं प्रसङ्गेन भूतानां हर्षकारणम् ।। ३३
पुरा विरिञ्चसंवादे यदुक्तं शंकरेण तत् ।
शृणु वच्मीति मामुक्त्वा भूतिवर्माथ सोऽब्रवीत् ।। ३४
दिवा नैषां प्रभावोऽस्ति ध्वस्तानामर्कतेजसा ।
यक्षरक्षःपिशाचानां तेन हृष्यन्त्यमी निशि ।। ३५
न पूज्यन्ते सुरा यत्र न च विप्रा यथोचितम् ।
भुज्यतेऽविधिना वापि तत्रैते प्रभवन्ति च ।। ३६
अमांसभक्षः साध्वी वा यत्र तत्र न यान्त्यमी ।
शुचीञ्शूरान्प्रबुद्धांश्च नाक्रामन्ति कदाचन ।। ३७
इत्युक्त्वा मे स तत्कालं भूतिवर्माब्रवीत्पुनः ।
गच्छागतो गुणाढ्यस्ते शापमोक्षस्य कारणम् ।। ३८
श्रुत्वैतदागतश्चास्मि त्वं च दृष्टो मया प्रभो ।
कथयाम्यधुना तां ते पुष्पदन्तोदितां कथाम् ।। ३९
किं त्वेकं कौतुकं मेऽस्ति कथ्यतां केन हेतुना ।
स पुष्पदन्तस्त्वं चापि माल्यवानिति विश्रुतः ।। ४०
काणभूतेरिति श्रुत्वा गुणाढ्यस्तमभाषत ।
गङ्गातीरेऽग्रहारोऽस्ति नाम्ना बहुसुवर्णकः ।। ४१
तत्र गोविन्ददत्ताख्यो ब्राह्मणोऽभूद्बहुश्रुतः ।
तस्य भार्याग्निदत्ता च बभूव पतिदेवता ।। ४२
स कालेन द्विजस्तस्यां पञ्च पुत्रानजीजनत् ।
ते च मूर्खाः सुरूपाश्च बभूवुरभिमानिनः ।। ४३
अथ गोविन्ददत्तस्य गृहानतिथिराययौ ।
विप्रो वैश्वानरो नाम वैश्वानर इवापरः ।। ४४
गोविन्ददत्ते तत्कालं गृहादपि बहिः स्थिते ।
तत्पुत्राणामुपागत्य कृतं तेनाभिवादनम् ।। ४५
हासमात्रं च तैस्तस्य कृतं प्रत्यभिवादनम् ।
ततः स कोपान्निर्गन्तुं प्रारेभे तद्गृहाद्द्विजः ।। ४६
आगतेनाथ गोविन्ददत्तेन स तथाविधः ।
क्रुद्धः पृष्टोऽनुनीतोऽपि जगादैवं द्विजोत्तमः ।। ४७
पुत्रास्ते पतिता मूर्खास्तत्संपर्काद्भवानपि ।
तस्मान्न भोक्ष्ये त्वद्गेहे प्रायश्चित्तं नु मे भवेत् ।। ४८
अथ गोविन्ददत्तस्तमुवाच शपथोत्तरम् ।
न स्पृशाम्यपि जात्वेतानहं कुतनयानिति ।। ४९
तद्भार्यापि तथैवैत्य तमुवाचातिथिप्रिया ।
ततः कथंचिदातिथ्यं तत्र वैश्वानरोऽग्रहीत् ।।
तद्दृष्ट्वा देवदत्ताख्यस्तस्यैकस्तनयस्तदा ।
अभूद्गोविन्ददत्तस्य नैर्घृण्येनानुतापवान् ।। ५१
व्यर्थं जीवितमालोक्य पितृभ्यामथ दूषितम् ।
सनिर्वेदः स तपसे ययौ बदरिकाश्रमम् ।। ५२
ततः पर्णाशनः पूर्वं धूमपश्चाप्यनन्तरम् ।
तस्थौ चिराय तपसे तोषयिष्यन्नुमापतिम् ।। ५३
ददौ च दर्शनं तस्य शंभुस्तीव्रतपोर्जितः ।
तस्यैवानुचरत्वं च स वव्रे वरमीश्वरात् ।। ५४
विद्याः प्राप्नुहि भोगांश्च भुवि भुङ्क्ष्व ततस्तव ।
भविताभिमतं सर्वमिति शंभुस्तमादिशत् ।। ५५
ततः स गत्वा विद्यार्थी पुरं पाटलिपुत्रकम् ।
सिषेवे वेदकुम्भाख्यमुपाध्यायं यथाविधि ।। ५६
तत्रस्थं तमुपाध्यायपत्नी जातु स्मरातुरा ।
हठाद्वव्रे बत स्त्रीणां चञ्चलाश्चित्तवृत्तयः ।। ५७
तेन संत्यज्य तं देशमनङ्गकृतविप्लवः ।
स देवदत्तः प्रययौ प्रतिष्ठानमतन्द्रितः ।। ५८
तत्र वृद्धमुपाध्यायं वृद्धया भार्ययान्वितम् ।
मन्त्रस्वाम्याख्यमभ्यर्थ्य विद्याः सम्यगधीतवान् ।। ५९
कृतविद्यं च तं तत्र ददर्श नृपतेः सुता ।
सुशर्माख्यस्य सुभगं श्रीर्नाम श्रीरिवाच्युतम् ।। ६०
सोऽपि तां दृष्टवान्कन्यां स्थितां वातायनोपरि ।
विहरन्तीं विमानेन चन्द्रस्येवाधिदेवताम् ।। ६१
बद्धाविव तयान्योन्यं मारशृङ्खलया दृशा ।
नापसर्तुं समर्थौ तौ बभूवतुरुभावपि ।। ६२
साथ तस्यैकयाङ्गुल्या मूर्तयेव स्मराज्ञया ।
इतो निकटमेहीति संज्ञां चक्रे नृपात्मजा ।। ६३
ततः समीपं तस्याश्च ययावन्तःपुराच्च सः ।
सा च चिक्षेप दन्तेन पुष्पमादाय तं प्रति ।। ६४
संज्ञामेतामजानानो गूढां राजसुताकृताम् ।
स कर्तव्यविमूढः सन्नुपाध्यायगृहं ययौ ।। ६५
लुलोठ तत्र धरणौ न किंचिद्वक्तुमीश्वरः ।
तापेन दह्यमानोऽन्तर्मूकः प्रमुषितो यथा ।। ६६
वितर्क्य कामजैश्चिह्नैरुपाध्यायेन धीमता ।
युक्त्या पृष्टः कथंचिच्च यथावृत्तं शशंस सः ।। ६७
तद्बुद्ध्वा तमुपाध्यायो विदग्धो वाक्यमब्रवीत् ।
दन्तेन पुष्पं मुञ्चन्त्या तया संज्ञा कृता तव ।। ६८
यदेतत्पुष्पदन्ताख्यं पुष्पाढ्यं सुरमन्दिरम् ।
तत्रागत्य प्रतीक्षेथाः सांप्रतं गम्यतामिति ।। ६९
श्रुत्वेति ज्ञानसंज्ञार्थः स तत्याज शुचं युवा ।
ततो देवगृहस्यान्तस्तस्य गत्वा स्थितोऽभवत् ।। ७०
साप्यष्टमीं समुद्दिश्य तत्र राजसुता ययौ ।
एकैव देवं द्रष्टुं च गर्भागारमथाविशत् ।। ७१
दृष्टोऽत्र द्वारपट्टस्य पश्चात्सोऽथ प्रियस्तया ।
गृहीतानेन चोत्थाय सा कण्ठे सहसा ततः ।। ७२
चित्रं त्वया कथं ज्ञाता सा संज्ञेत्युदिते तया ।
उपाध्यायेन सा ज्ञाता न मयेति जगाद सः ।। ७३
मुञ्च मामविदग्धस्त्वमित्युक्त्वा तत्क्षणात्क्रुधा ।
मन्त्रभेदभयात्साथ राजकन्या ततो ययौ ।। ७४
सोऽपि गत्वा विविक्ते तां दृष्टनष्टां स्मरन्प्रियाम् ।
देवदत्तो वियोगाग्निविगलज्जीवितोऽभवत् ।। ७५
दृष्ट्वा तं तादृशं शंभुः प्राक्प्रसन्नः किलादिशत् ।
गणं पञ्चशिखं नाम तस्याभीप्सितसिद्धये ।। ७६
स चागत्य समाश्वास्य स्त्रीवेषं तं गणोत्तमः ।
अकारयत्स्वयं चाभूद्वृद्धब्राह्मणरूपधृत् ।। ७७
ततस्तेन समं गत्वा तं सुशर्ममहीपतिम् ।
जनकं सुदृशस्तस्याः स जगाद गणाग्रणीः ।। ७८
पुत्रो मे प्रोषितः क्वापि तमन्वेष्टुं व्रजाम्यहम् ।
तन्मे स्नुषेयं निक्षेपो राजन्संप्रति रक्ष्यताम् ।। ७९
तच्छ्रुत्वा शापभीतेन तेनादाय सुशर्मणा ।
स्वकन्यान्तःपुरे गुप्ते स्त्रीति संस्थापितो युवा ।।८०
ततः पञ्चशिखे याते स्वप्रियान्तःपुरे वसन् ।
स्त्रीवेषः स द्विजस्तस्या विस्रम्भास्पदतां ययौ ।। ८१
एकदा चोत्सुका रात्रौ तेनात्मानं प्रकाश्य सा ।
गुप्तं गान्धर्वविधिना परिणीता नृपात्मजा ।। ८२
तस्यां च धृतगर्भायां तं द्विजं स गणोत्तमः ।
स्मृतमात्रागतो रात्रौ ततोऽनैषीदलक्षितम् ।। ८३
ततस्तस्य समुत्सार्य यूनः स्त्रीवेषमाशु तम् ।
प्रातः पञ्चशिखः सोऽभूत्पूर्ववद्ब्राह्मणाकृतिः ।। ८४
तेनैव सह गत्वा च सुशर्मनृपमभ्यधात् ।
अद्य प्राप्तो मया राजन्पुत्रस्तद्देहि मे स्नुषाम् ।। ८५
ततः स राजा तां बुद्ध्वा रात्रौ क्वापि पलायिताम् ।
तच्छापभयसंभ्रान्तो मन्त्रिभ्य इदमब्रवीत् ।। ८६
न विप्रोऽयमयं कोऽपि देवो मद्वञ्चनागतः ।
एवंप्राया भवन्तीह वृत्तान्ताः सततं यतः ।। ८७
तथा च पूर्वं राजाभूत्तपस्वी करुणापरः ।
दाता धीरः शिबिर्नाम सर्वसत्त्वाभयप्रदः ।। ८८
तं वञ्चयितुमिन्द्रोऽथ कृत्वा श्येनवपुः स्वयम् ।
मायाकपोतवपुषं धर्ममन्वपतद्द्रुतम् ।। ८९
कपोतश्च भयाद्गत्वा शिबेरङ्कमशिश्रियत् ।
मनुष्यवाचा श्येनोऽथ स तं राजानमब्रवीत् ।। ९०
राजन्भक्ष्यमिदं मुञ्च कपोतं क्षुधितस्य मे ।
अन्यथा मां मृतं विद्धि कस्ते धर्मस्ततो भवेत् ।। ९१
ततः शिबिरुवाचैनमेष मे शरणागतः ।
अत्याज्यस्तद्ददाम्यन्यन्मांसमेतत्समं तव ।। ९२
श्येनो जगाद यद्येवमात्ममांसं प्रयच्छ मे ।
तथेति तत्प्रहृष्टः सन्स राजा प्रत्यपद्यत ।। ९३
यथा यथा च मांसं स्वमुत्कृत्यारोपयन्नृपः ।
तथा तथा तुलायां स कपोतोऽभ्यधिकोऽभवत् ।। ९४
ततः शरीरं सकलं तुलां राजाध्यरोपयत् ।
साधु साधु शमं त्वेतद्दिव्या वागुदभूत्ततः ।। ९५
इन्द्रधर्मौ ततस्त्यक्त्वा रूपं श्येनकपोतयोः ।
तुष्टाव क्षतदेहं तं राजानं चक्रतुः शिबिम् ।। ९६
दत्त्वा चास्मै वरानन्यांस्तावन्तर्धानमीयतुः ।
एवं मामपि कोऽप्येष देवो जिज्ञासुरागतः ।। ९७
इत्युक्त्वा सचिवान्स्वैरं स सुशर्मा महीपतिः ।
तमुवाच भयप्रह्वो विप्ररूपं गणोत्तमम् ।। ९८
अभयं देहि साद्यैव स्नुषा ते हारिता निशि ।
माययैव गता क्वापि रक्ष्यमाणाप्यहर्निशम् ।। ९९
कृच्छ्रात्स दययेवाथ विप्ररूपी गणोऽब्रवीत् ।
तर्हि पुत्राय राजन्मे देहि स्वां तनयामिति ।। १००
तच्छ्रुत्वा शापभीतेन राज्ञा तस्मै निजा सुता ।
सा दत्ता देवदत्ताय ततः पञ्चशिखो ययौ ।। १०१
देवदत्तोऽपि तां भूयः प्रकाशं प्राप्य वल्लभाम् ।
जजृम्भेऽनन्यपुत्रस्य श्वशुरस्य विभूतिषु ।। १०२
कालेन तस्य पुत्रं च दौहित्रमभिषिच्य सः ।
राज्ये महीधरं नाम सुशर्मा शिश्रिये वनम् ।। १०३
ततो दृष्ट्वा सुतैश्वर्यं कृतार्थः स तपोवनम् ।
राजपुत्र्या तया साकं देवदत्तोऽप्यशिश्रियत् ।। १०४
तत्राराध्य पुनः शंभुं त्यक्त्वा मर्त्यकलेवरम् ।
तत्प्रसादेन तस्यैव गणभावमुपागतः ।। १०५
प्रियादन्तोज्झितात्पुष्पात्संज्ञां न ज्ञातवान्यतः ।
अतः स पुष्पदन्ताख्यः संपन्नो गणसंसदि ।। १०६
तद्भार्या च प्रतीहारी देव्या जाता जयाभिधा ।
इत्थं स पुष्पदन्ताख्यो मदाख्यामधुना शृणु ।। १०७
यः स गोविन्ददत्ताख्यो देवदत्तपिता द्विजः ।
तस्यैव सोमदत्ताख्यः पुत्रोऽहमभवं पुरा ।। १०८
तेनैव मन्युना गत्वा तपश्चाहं हिमाचले ।
अकार्षं बहुभिर्माल्यैः शंकरं नन्दयन्सदा ।। १०९
तथैव प्रकटीभूतात्प्रसन्नादिन्दुशेखरात् ।
त्यक्तान्यभोगलिप्सेन तद्गणत्वं मया वृतम् ।। ११०
यः पूजितोऽस्मि भवता स्वयमाहृतेन माल्येन दुर्गवनभूमिसमुद्भवेन ।
तन्माल्यवानिति भविष्यसि मे गणस्त्वमित्यादिशच्च स विभुर्गिरिजापतिर्माम् ।। १११
अथ मर्त्यवपुर्विमुच्य पुण्यां सहसा तद्गणतामहं प्रपन्नः ।
इति धूर्जटिना कृतं प्रसादादभिधानं मम माल्यवानितीदम् ।। ११२
सोऽहं गतः पुनरिहाद्य मनुष्यभावं शापेन शैलदुहितुर्बत काणभूते ।
तन्मे कथां हरकृतां कथयाधुना त्वं येनावयोर्भवति शापदशोपशान्तिः ।। ११३
इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे कथापीठलम्बके सप्तमस्तरङ्गः ।