अष्टमस्तरङ्गः ।
एवं गुणाढ्यवचसा साथ सप्तकथामयी ।
स्वभाषया कथा दिव्या कथिता काणभूतिना ।। १
तथैव च गुणाढ्येन पैशाच्या भाषया तया ।
निबद्धा सप्तभिर्वर्षैर्ग्रन्थलक्षाणि सप्त सा ।। २
मैतां विद्याधरा हार्षुरिति तामात्मशोणितैः ।
अटव्यां मष्यभावाच्च लिलेख स महाकविः ।। ३
तथा च श्रोतुमायातैः सिद्धविद्याधरादिभिः ।
निरन्तरमभूत्तत्र सवितानमिवाम्बरम् ।। ४
गुणाढ्येन निबद्धां च तां दृष्ट्वैव महाकथाम् ।
जगाम मुक्तशापः सन्काणभूतिर्निजां गतिम् ।। ५
पिशाचा येऽपि तत्रासन्नन्ये तत्सहचारिणः ।
तेऽपि प्रापुर्दिवं सर्वे दिव्यामाकर्ण्य तां कथाम् ।। ६
प्रतिष्ठां प्रापणीयैषा पृथिव्यां मे बृहत्कथा ।
अयमर्थोऽपि मे देव्या शापान्तोक्तावुदीरितः ।। ७
तत्कथं प्रापयाम्येनां कस्मै तावत्समर्पये ।
इति चाचिन्तयत्तत्र स गुणाढ्यो महाकविः ।। ८
23
अथैको गुणदेवाख्यो नन्दिदेवाभिधः परः ।
तमूचतुरुपाध्यायं शिष्यावनुगतावुभौ ।।९
तत्काव्यस्यार्पणस्थानमेकः श्रीसातवाहतः ।
रसिको हि वहेत्काव्यं पुष्पामोदमिवानिलः ।।१०
एवमस्त्विति तौ शिष्यावन्तिकं तस्य भूपतेः ।
प्राहिणोत्पुस्तकं दत्त्वा गुणाढ्यो गुणशालिनौ ।।११
स्वयं च गत्वा तत्रैव प्रतिष्ठानपुराद्बहिः ।
कृतसंकेत उद्याने तस्थौ देवीविनिर्मिते ।।१२
तच्छिष्याभ्यां च गत्वा तत्सातवाहनभूपतेः ।
गुणाढ्यकृतिरेषेति दर्शितं काव्यपुस्तकम् ।।१३
पिशाचभाषां तां श्रुत्वा तौ च दृष्ट्वा तदाकृती ।
विद्यामदेन सासूयं स राजैवमभाषत ।।१४
प्रमाणं सप्तलक्षाणि पैशाचं नीरसं वचः ।
शोणितेनाक्षरन्यासो धिक्पिशाचकथामिमाम् ।।१५
ततः पुस्तकमादाय गत्वा ताभ्यां यथागतम् ।
शिष्याभ्यां तद्गुणाढ्याय यथावृत्तमकथ्यत ।।१६
गुणाढ्योऽपि तदाकर्ण्य सद्यः खेदवशोऽभवत् ।
तत्त्वज्ञेन कृतावज्ञः क नामान्तर्न तप्यते ।। १७
सशिष्यश्च ततो गत्वा नातिदूरं शिलोच्चयम् ।
विविक्तरम्यभूभागमग्निकुण्डं व्यधात्पुरः ।। १८
तत्राग्नौ पत्त्रमेकैकं शिष्याभ्यां साश्रु वीक्षितः ।
वाचयित्वा स चिक्षेप श्रावयन्मृगपक्षिणः ।। १९
नरवाहनदत्तस्य चरितं शिष्ययोः कृते ।
ग्रन्थलक्षं कथामेकां वर्जयित्वा तदीप्सिताम् ।। २०
तस्मिंश्च तां कथां दिव्यां पठत्यपि दहत्यपि ।
परित्यक्ततृणाहाराः शृण्वन्तः साश्रुलोचनाः ।। २१
आसन्नभ्येत्य तत्रैव निश्चला बद्धमण्डलाः ।
निखिलाः खलु सारङ्गवराहमहिषादयः ।। २२
अत्रान्तरे च राजाभूदस्वस्थः सातवाहनः ।
दोषं चास्यावदन्वैद्याः शुष्कमांसोपभोगजम् ।। २३
आक्षिप्तास्तन्निमित्तं च सूपकारा बभाषिरे ।
अस्माकमीदृशं मांसं ददते लुब्धका इति ।। २४
पृष्टाश्च लुब्धका ऊचुर्नातिदूरे गिरावितः ।
पठित्वा पत्त्रमेकैकं कोऽप्यग्नौ क्षिपति द्विजः ।। २५
तत्समेत्य निराहाराः शृण्वन्ति प्राणिनोऽखिलाः ।
नान्यतो यान्ति तेनैषां शुष्कं मांसमिदं क्षुधा ।। २६
इति व्याधवचः श्रुत्वा कृत्वा तानेव चाग्रतः ।
स्वयं स कौतुकाद्राजा गुणाढ्यस्यान्तिकं ययौ ।। २७
ददर्श तं समाकीर्णं जटाभिर्वनवासतः ।
प्रशान्तशेषशापाग्निधूमिकाभिरिवाभितः ।। २८
अथैनं प्रत्यभिज्ञाय सबाष्पमृगमध्यगम् ।
नमस्कृत्य च पप्रच्छ तं वृत्तान्तं महीपतिः ।। २९
सोऽपि स्वं पुष्पदन्तस्य राज्ञे शापादिचेष्टितम् ।
ज्ञानी कथावतारं तमाचख्यौ भूतभाषया ।। ३०
ततो गणावतारं तं मत्वा पादानतो नृपः ।
ययाचे तां कथां तस्माद्दिव्यां हरमुखोद्गताम् ।। ३१
अथोवाच स तं भूपं गुणाढ्यः सातवाहनम् ।
राजन्षड्ग्रन्थलक्षाणि मया दग्धानि षट् कथाः ।। ३२
लक्षमेकमिदं त्वस्ति कथैका सैव गृह्यताम् ।
मच्छिष्यौ तव चात्रैतौ व्याख्यातारौ भविष्यतः ।। ३३
इत्युक्त्वा नृपमामन्त्र्य त्यक्त्वा योगेन तां तनुम् ।
गुणाढ्यः शापनिर्मुक्तः प्राप दिव्यं निजं पदम् ।। ३४
अथ तां गुणाढ्यदत्तामादाय कथां बृहत्कथां नाम्ना ।
नृपतिरगान्निजनगरं नरवाहनदत्तचरितमयीम् ।। ३५
गुणदेवनन्दिदेवौ तत्र च तौ तत्कथाकवेः शिष्यौ ।
क्षितिकनकवस्त्रवाहनभवनधनैः संविभेजे सः ।। ३६
ताभ्यां सह च कथां तामाश्वास्य स सातवाहनस्तस्याः ।
तद्भाषयावतारं वक्तुं चक्रे कथापीठम् ।। ३७
सा च चित्ररसनिर्भरा कथा विस्मृतामरकथा कुतूहलात् ।
तद्विधाय नगरे निरन्तरां ख्यातिमत्र भुवनत्रये गता ।। ३८
इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे कथापीठलम्बकेऽष्टमस्तरङ्गः ।
समाप्तश्चायं कथापीठलम्बकः प्रथमः ।