प्रमुखा विकल्पसूचिः उद्घाट्यताम्

गत्वाथ दूरमध्वानं राजा वसतिमग्रहीत् ।
दिने तस्मिन्स कस्मिंश्चिदरण्यसरसस्तटे ।। १
शयनीयगतः श्रान्तस्तत्र सेवारसागतम् ।
सायं संगतकं नाम जगाद कथकं नृपः ।। १
कथामाख्याहि मे कांचिद्धृदयस्य विनोदिनीम् ।
मृगावतीमुखाम्भोजदर्शनोत्सवकाङ्क्षिणः ।। ३
अथ संगतकोऽवादीद्देव किं तप्यसे वृथा ।
आसन्न एव देव्यास्ते क्षीणशापः समागमः ।। ४
संयोगा विप्रयोगाश्च भवन्ति बहवो नृणाम् ।
तथा चात्र कथामेकां कथयामि शृणु प्रभो ।। ५
मालवे यज्ञसोमाख्यो द्विजः कश्चिदभूत्पुरा ।
तस्य च द्वौ सुतौ साधोर्जायेते स्म जनप्रियौ ।। ६
एकस्तयोरभून्नाम्ना कालनेमिरिति श्रुतः ।
द्वितीयश्चापि विगतभय इत्याख्ययाभवत् ।। ७
पितरि स्वर्गते तौ च भ्रातरौ तीर्णशैशवौ ।
विद्याप्राप्त्यै प्रययतुः पुरं पाटलिपुत्रकम् ।। ८
तत्रैवोपात्तविद्याभ्यामुपाध्यायो निजे सुते ।
देवशर्मा ददौ ताभ्यां मूर्ते विद्ये इवापरे ।। ९
अथान्यान्वीक्ष्य तानाढ्यन्गृहस्थानीर्ष्यया श्रियम् ।
होमैः स साधयामास कालनेमिः कृतव्रतः ।। १०
सा च तुष्टा सती साक्षादेवं श्रीस्तमभाषत ।
भूरि प्राप्स्यसि वित्तं च पुत्रं च पृथिवीपतिम् ।। ११
किं त्वन्ते चौरसदृशो वधस्तव भविष्यति ।
हुतमग्नौ त्वया यस्मादमर्षकलुषात्मना ।। १२
इत्युक्त्वान्तर्दधे लक्ष्मीः कालनेमिरपि क्रमात् ।
महाधनोऽभूत्किं चास्य दिनैः पुत्रोऽप्यजायत ।। १३
श्रीवरादेष संप्राप्त इति नाम्ना तमात्मजम् ।
श्रीदत्तमकरोत्सोऽपि पिता पूर्णमनोरथः ।। १४
क्रमात्स वृद्धिं संप्राप्तः श्रीदत्तो ब्राह्मणोऽपि सन् ।
अस्त्रेषु बाहुयुद्धेषु बभूवाप्रतिमो भुवि ।। १५
कालनेमेरथ भ्राता तीर्थार्थी सर्पभक्षिताम् ।
भार्यामुद्दिश्य विगतभयो देशान्तरं ययौ ।। १६
श्रीदत्तोऽपि गुणज्ञेन राज्ञा वल्लभशक्तिना ।
तत्र विक्रमशक्तेः स स्वपुत्रस्य कृतः सखा ।। १७
राजपुत्रेण तेनास्य सहवासोऽभिमानिना ।
बाल्ये दुर्योधनेनेव भीमस्यासीत्तरस्विना ।। १८
द्वावेतस्याथ मित्रत्वं विप्रस्यावन्तिदेशजौ ।
क्षत्रियौ बाहुशाली च वज्रमुष्टिश्च जग्मतुः ।। १९
बाहुयुद्धजिताश्चान्ये दाक्षिणात्या गुणप्रियाः ।
स्वयंवरसुहृत्त्वेन मन्त्रिपुत्रास्तमाश्रयन् ।। २०
महाबलव्याघ्रभटावुपेन्द्रबल इत्यपि ।
तथा निष्ठुरको नाम सौहार्दं तस्य चक्रिरे ।। २१
कदाचिदथ वर्षासु विहर्तुं जाह्नवीतटे ।
श्रीदत्तः सह तैर्मित्त्रै राजपुत्रसखो ययौ ।। २२
स्वभृत्यास्तत्र तं चक्रुर्निजं राजसुतं नृपम् ।
श्रीदत्तोऽपि स तत्कालं राजा मित्रैरकल्प्यत ।। २३
तावता जातरोषेण राजपुत्रेण तेन सः ।
विप्रवीरो रणायाशु समाहूतो मदस्पृशा ।। २४
स तेन बाहुयुद्धेन श्रीदत्तेनाथ निर्जितः ।
चकार हृदि वध्यं तु वर्द्धमानं कलङ्कितः ।। २५
ज्ञात्वा च तमभिप्रायं राजपुत्रस्य शङ्कितः ।
श्रीदत्तः सह तैर्मित्त्रैस्तत्समीपादपासरत् ।। २६
उपसर्पन्स चापश्यद्गङ्गामध्यगता स्त्रियम् ।
ह्रियमाणां जलौघेन सागरस्थामिव श्रियम् ।। २७
ततश्चावततारैतामुद्धर्तुं जलमध्यतः ।
षड्बाहुशालिप्रमुखान्स्थापयित्वा तटे सखीन् ।। २८
तां च केशेष्वपि प्राप्तां निमग्नां दूरमम्भसि ।
अनुसर्तुं स्त्रियं सोऽपि वीरस्तत्रैव मग्नवान् ।। २९
निमज्ज्य चं ददर्शात्र स श्रीदत्तः क्षणादिति ।
शैवं देवकुलं दिव्यं न पुनर्वारि न स्त्रियम् ।। ३०
तद्दृष्ट्वा महदाश्चर्यं श्रान्तो नत्वा वृषध्वजम् ।
उद्याने सुन्दरे तत्र तां निनाय विभावरीम् ।। ३१
प्रातश्च देवमीशानं सा पूजयितुमागता ।
ददृशे तेन मूर्तेव रूपश्रीः स्त्रीगुणान्विता ।। ३२
ईश्वरं पूजयित्वा च सा ततो निजमन्दिरम् ।
ययाविन्दुमुखी सोऽपि श्रीद्त्तोऽनुजगाम ताम् ।। ३३
ददर्श मन्दिरं तच्च तस्याः सुरपुरोपमम् ।
प्रविवेश च संभ्रान्ता सावमानेव मानिनी ।। ३४
साप्यसंभाषमाणैव तमन्तर्वासवेश्मनि ।
तन्वी न्यषीदत्पर्यङ्के स्त्रीसहस्रोपसेविता ।। ३५
श्रीदत्तोऽपि स तत्रैव निषसाद तदन्तिके ।
अथाकस्मात्प्रववृते तया साध्व्या प्ररोदितुम् ।। ३६
निपेतुः स्तनयोस्तस्याः संतप्ता बाष्पबिन्दवः ।
श्रीदत्तस्य च तत्कालं कारुण्यं हृदये गतम् ।। ३७
ततः स चैनां पप्रच्छ का त्वं दुःखं च किं तव ।
वद सुन्दरि शक्तोऽहं तन्निवारयितुं यतः ।। ३८
ततः कथंचित्सावादीद्वयं दैत्यपतेर्बले ।
पौत्र्यो दशशतं तासां ज्येष्ठा विद्युऽत्प्रभेत्यहम् ।। ३९
स नः पितामहो नीतो विष्णुना दीर्घबन्धनम् ।
पिता च बाहुयुद्धेन हतस्तेनैव शौरिणा ।। ४०
तं हत्वा तेन च निजात्पुरान्निर्वासिता वयम् ।
प्रवेशरोधकृत्तत्र सिंहश्च स्थापितोऽन्तरे ।। ९४१
आवृतं तत्पदं तेन दुःखेन हृदयं च नः ।
स च यक्षः कुबेरस्य शापात्सिंहत्वमागतः ।। ४२
मर्त्यैश्चाभिभवस्तस्य शापान्तः कथितः पुरा ।
पुरप्रवेशोपायार्थे विज्ञप्तो विष्णुरादिशत् ।। ४३
अतः स शत्रुरस्माकं केसरी जीयतां त्वया ।
तदर्थमेव चानीतो मया वीर भवानिह ।। ४४
मृगाङ्ककाख्यं खड्गं च जितात्तस्मादवाप्स्यसि ।
पृथिवीं यत्प्रभावेण जित्वा राजा भविष्यसि ।। ४५
तच्छ्रुत्वा स तथेत्यत्र श्रीदत्तोऽतीततद्दिनः ।
अन्येद्युर्दैत्यकन्यास्ताः कृत्वाग्रे तत्पुरं ययौ ।। ४६
जिगाय बाहुयुद्धेन तत्र तं सिंहमुद्धतम् ।
सोऽपि शापविमुक्तः सन्बभूव पुरुषाकृतिः ।। ४७
दत्त्वा चास्मै स खड्गं स्वं तुष्टः शापान्तकारिणे ।
सहासुराङ्गनादुःखभारेणादर्शनं ययौ ।। ४८
सोऽथ सानुजया साकं श्रीदत्तो दैत्यकन्यया ।
बहिर्गतमिवानन्तं तद्विवेश पुरोत्तमम् ।। ४९
अङ्गुलीयं विषघ्नं च सास्मै दैत्यसुता ददौ ।
ततः सोऽत्र स्थितस्तस्यां साभिलाषोऽभवद्युवा ।। ५०
साथ युक्त्या जगादैनं वाप्यां स्नानमितः कुरु ।
आदायैनं च मज्जेस्त्वं खड्गं ग्राहभयापहम् ।। ५१
तथेति वाप्यां मग्नः सञ्श्रीदत्तो जाह्नवीतटात् ।
तस्मादेव समुत्तस्थौ यस्मात्पूर्वमवातरत् ।। ५२
खड्गाङ्गुलीयके पश्यन्पातालादुत्थितोऽथ सः ।
विषण्णो विस्मितश्चासीद्वञ्चितोऽसुरकन्यया ।। ५३
ततस्तान्सुहृदोऽन्वेष्टुं स्वगृहाभिमुखं ययौ ।
गच्छन्निष्ठुरकाख्यं च मित्त्रं मार्गे ददर्श सः ।। ५४
स चोपेत्य प्रणम्याथ नीत्वैकान्ते च सत्वरम् ।
तं पृष्टस्वजनोदन्तमेवं निष्ठुरकोऽब्रवीत् ।। ५५
गङ्गान्तस्त्वां तदा मग्नमन्विष्य दिवसान्बहून् ।
स्वशिरांसि शुचा छेत्तुमभूम वयमुद्यताः ।। ५६
न पुत्राः साहसं कार्यं जीवन्नेष्यति वः सखा ।
इत्यन्तरिक्षाद्वाणी नस्तमुद्योगं न्यवारयत् ।। ५७
ततश्च त्वत्पितुः पार्श्वमस्माकं प्रतिगच्छताम् ।
मार्गे सत्वरमभ्येत्य पुमानेकोऽब्रवीदिदम् ।। ५८
नगरं न प्रवेष्टव्यं युष्माभिरिह सांप्रतम् ।
यतो वल्लभशक्तिः स विपन्नोऽत्र महीपतिः ।। ५९
दत्तो विक्रमशक्तिश्च राज्ये संभूय मन्त्रिभिः ।
प्राप्तराज्यः स चान्येद्युः कालनेमेरगाद्गृहम् ।। ६०
श्रीदत्तः क्व स ते पुत्र इति चामर्षनिर्भरः ।
तमपृच्छत्स चाप्येनं नाहं वेद्मीत्यभाषत ।। ६१
प्रच्छादितोऽमुना पुत्र इति तेन निषूदितः ।
कालनेमिः स शूलायां राज्ञा चौर इति क्रुधा ।। ६२
तद्दृष्ट्वा तस्य भार्यायाः स्वयं हृदयमस्फुटत् ।
पापं पापान्तराक्षेपक्रूरं हि क्रूरकर्मणाम् ।। ६३
तेन चान्विष्यते हन्तुं सोऽपि विक्रमशक्तिना ।
श्रीदत्तस्तद्वयस्याश्च यूयं तद्गम्यतामितः ।। ६४
इति तेनोदिताः पुंसा शोकार्तास्ते निजां भुवम् ।
बाहुशाल्यादयः पञ्च संमन्त्र्योज्जयिनीं गताः ६५
प्रच्छन्नः स्थापितश्चाहं त्वदर्थमिह तैः सखे ।
तदेहि तावद्गच्छावस्तत्रैव सुहृदन्तिकम् ।। ६६
एवं निष्ठुरकाच्छ्रुत्वा पितरावनुशोच्य सः ।
निदधे प्रतिकारास्थामिव खड्गे दृशं मुहुः ।। ६७
कालं प्रतीक्षमाणोऽथ वीरो निष्ठुरकान्वितः ।
प्रतस्थे तान्सखीन्प्राप्तुं स तामुज्जयिनीं पुरीम् ।। ६८
आमज्जनान्तं वृत्तान्तं सख्युस्तस्य च वर्णयन् ।
श्रीदत्तः स ददर्शैकां क्रोशन्तीमबलां पथि ।। ६९
अबला भ्रष्टमार्गाहं मालवं प्रस्थितेति ताम् ।
ब्रुवन्तीं दयया सोऽथ सहप्रस्थायिनीं व्यधात् ।। ७०
तया दयानुरोधाच्च स्त्रिया निष्ठुरकान्वितः ।
कस्मिंश्चिच्छून्यनगरे दिने तस्मिन्नुवास सः ।। ७१
तत्र रात्रावकस्माच्च मुक्तनिद्रो ददर्श ताम् ।
स्त्रियं निष्ठुरकं हत्वा हर्षात्तन्मांसमश्नतीम् ।। ७२
उदतिष्ठत्समाकृष्य सोऽथ खड्गं मृगाङ्ककम् ।
सापि स्त्री राक्षसीरूपं घोरं स्वं प्रत्यपद्यत ।। ७३
स च केशेषु जग्राह निहन्तुं तां निशाचरीम् ।
तत्क्षणं दिव्यरूपत्वं संप्राप्ता तमुवाच सा ।। ७४
मा मां वधीर्महाभाग मुञ्च नैवास्मि राक्षसी ।
अयमेवंविधः शापो ममाभूत्कौशिकान्मुनेः ।।
तपस्यतो हि तस्याहं धनाधिपतिनामुना ।
विघ्नाय प्रेषिता पूर्वं तत्पदप्राप्तिकाङ्क्षिणः ।। ७६
ततः कान्तेन रूपेण तं क्षोभयितुमक्षमा ।
लज्जिता त्रासयन्त्येनमकार्षं भैरवं वपुः ।। ७७
तद्दृष्ट्वा स मुनिः शापं सदृशं मय्यथो दधे ।
राक्षसी भव पापे त्वं निघ्नन्ती मानुषानिति ।। ७८
त्वत्तः केशग्रहे प्राप्ते शापान्तं मे स चाकरोत् ।
इत्यहं राक्षसीभावमिमं कष्टमुपागमम् ।। ७९
मयैव नगरं चैतद्ग्रस्तमद्य च मे चिरात् ।
त्वया कृतः स शापान्तस्तगृहाणाधुना वरम् ।। ८०
इति तस्या वचः श्रुत्वा श्रीदत्तः सादरोऽभ्यधात् ।
किमन्येन वरेणाद्य जीवत्वेष सखा मम ।। ८१
एवमस्त्विति सा चास्मै वरं दत्त्वा तिरोदधे ।
अक्षताङ्गः स चोत्तस्थौ जीवन्निष्ठुरकः पुनः ।। ८२
तेनैव सह च प्रातः प्रहृष्टो विस्मितश्च सः ।
ततः प्रतस्थे श्रीदत्तः प्राप चोज्जयिनीं क्रमात् ।। ८३
तत्र संभावयामास सखीन्मार्गोन्मुखान्स तान् ।
दर्शनेन यथायातो नीलकण्ठानिवाम्बुदः । ८४
कृतातिथ्यविधिश्चासौ स्वगृहं बाहुशालिना ।
नीतोऽभूत्कथिताशेषनिजवृत्तान्तकौतुकः ।। ८५
तत्रोपचर्यमाणः सन्पितृभ्यां बाहुशालिनः ।
स उवास समं मित्रैः श्रीदत्तः स्वगृहे यथा ।। ८६
कदाचित्सोऽथ संप्राप्ते मधुमासमहोत्सवे ।
यात्रामुपवने द्रष्टुं जगाम सखिभिः सह ।। ८७
तत्र कन्यां ददर्शैकां राज्ञः श्रीबिम्बकेः सुताम् ।
आगतामाकृतिमतीं साक्षादिव मधुश्रियम् ।। ८८
सा मृगाङ्कवती नाम हृदयं तस्य तत्क्षणम् ।
विवेश दत्तमार्गेव दृष्ट्यास्य सविकासया ।। ८९
तस्या अपि मुहुः स्निग्धा प्रथमप्रेमशंसिनी ।
न्यस्ता तं प्रति दूतीव दृष्टिश्चक्रे गतागतम् ।। ९०
प्रविष्टां वृक्षगहनं तामपश्यन्नथ क्षणात् ।
श्रीदत्तः शून्यहृदयो दिशोऽपि न ददर्श सः ।। ९१
ज्ञातं मया ते हृदयं सखे मापह्नवं कृथाः ।
तदेहि तत्र गच्छावो यत्र राजसुता गता ।। ९२
इत्युक्तश्चेङ्गितज्ञेन सुहृदा बाहुशालिना ।
तथेति स ययौ तस्याः संनिकर्षं सुहृत्सखः ।। ९३
हा कष्टमहिना दष्टा राजपुत्रीति तत्क्षणम् ।
आक्रन्द उदभूत्तत्र श्रीदत्तहृदयज्वरः ।। ९४
विषघ्नमङ्गुलीयं च विद्या च सुहृदोऽस्य मे ।
अस्तीति गत्वा जगदे कञ्चुकी बाहुशालिना ।। ९५
स च तत्क्षणमभ्येत्य कञ्चुकी चरणानतः ।
निकटं राजदुहितुः श्रीदत्तमनयद्द्रुतम् ।। ९६
सोऽपि तस्यास्तदङ्गुल्यां निचिक्षेपाङ्गुलीयकम् ।
ततो जजाप विद्यां च तेन प्रत्युज्जिजीव सा ।। ९७
अथ सर्वजने हृष्टे श्रीदत्तस्तुतितत्परे ।
तत्रैव ज्ञातवृत्तान्तो राजा बिम्बकिराययौ ।। ९८
तेनासौ सखिभिः सार्धमगृहीताङ्गुलीयकः ।
प्रत्याजगाम श्रीदत्तो भवनं बाहुशालिनः ।। ९९
तत्र तस्मै सुवर्णादि यत्प्रीतः प्राहिणोन्नृपः ।
तद्बाहुशालिनः पित्रे समग्रं स समर्पयत् ।। १००
अथ तां चिन्तयन्कान्तां स तथा पर्यतप्यत ।
यथा किंकार्यतामूढा वयस्यस्तस्य जज्ञिरे ।। १०१
ततो भावनिका नाम राजपुत्र्याः प्रिया सखी ।
अङ्गुलीयार्पणव्याजात्तस्यान्तिकमुपाययौ ।। १०२
उवाच चैनं मत्सख्यास्तस्याः सुभग सांप्रतम् ।
त्वं वा प्राणप्रदो भर्ता मृत्युर्वाप्येष निश्चयः ।। १०३
इत्युक्ते भावनिकया श्रीदत्तः स च सापि च ।
बाहुशाली च तेऽन्ये च मन्त्रं संभूय चक्रिरे ।। १०४
हरामो निभृतं युक्त्या राजपुत्रीमिमां वयम् ।
निवासहेतोर्गुप्तं च गच्छामो मथुरामितः ।। १०५
इति संमन्त्रिते सम्यक्कार्यसिद्ध्यै च संविदि ।
अन्योन्यं स्थापितायां सा ययौ भावनिका ततः ।। १०६
अन्येद्युर्बाहुशाली च वयस्यत्रितयान्वितः ।
वणिज्याव्यपदेशेन जगाम मथुरां प्रति ।। १०७
स गच्छन्स्थापयामास वाहनानि पदे पदे ।
राजपुत्र्यभिसाराय गूढानि चतुराणि च ।। १०८
श्रीदत्तोऽपि ततः काचिद्दुहित्रा सहितां स्त्रियम् ।
सायं राजसुतावासे पाययित्वा मधु न्यधात् ।। १०९
ततोऽत्र दीपोद्देशेन दत्त्वाग्निं वासवेश्मनि ।
प्रच्छन्नं भावनिकया निन्ये राजसुता बहिः ।। ११०
तत्क्षणं तां च संप्राप्य श्रीदत्तः स बहिः स्थितः ।
प्राक्प्रस्थितस्य निकटं प्राहिणोद्बाहुशालिनः ।। १११
ददौ मित्रद्वयं चास्याः पश्चाद्भावनिकां तथा ।
तन्मन्दिरे च दग्धा सा क्षीबा स्त्री सुतया सह ।। ११२
लोकस्तु तां सखीयुक्तां मेने दग्धां नृपात्मजाम् ।
प्रातश्च पूर्ववत्तत्र श्रीदत्तो ददृशे जनैः ।। ११३
ततो रात्रौ द्वितीयस्यां स गृद्दीतमृगाङ्ककः ।
श्रीदत्तः प्रययौ पूर्वप्रस्थितां तां प्रियां प्रति ।। ११४
तया च रात्र्यातिक्रम्य दूरमध्वानमुत्सुकः ।
विन्ध्याटवीमथ प्राप स प्रातः प्रहरे गते ।। ११५
तत्रादावनिमित्तानि पश्चात्पथि ददर्श तान् ।
सर्वान्प्रहाराभिहतान्सहभावनिकान्सखीन् ।। ११६
ते च दृष्ट्वा निजगदुस्तं संभ्रान्तमुपागतम् ।
मुषिताः स्मो निपत्याद्य बह्वश्वारोहसेनया ।। ११७
एकेन चाश्वारोहेण राजपुत्री भयाकुला ।
अस्मास्वेतदवस्थेषु नीताश्वमधिरोप्य सा ।। ११८
दूरं न यावन्नीता च तावद्गच्छानया दिशा ।
अस्माकमन्तिके मा स्थाः सर्वथाभ्यधिका च सा ।। ११९
इति तैः प्रेषितो मित्त्रैर्मुहुः पश्यन्विवृत्य सः ।
जवेन राजतनयां श्रीदत्तोऽनुससार ताम् ।। १२०
गत्वा सुदूरं लेभे च तामश्वारोहवाहिनीम् ।
युवानमेकं तन्मध्ये क्षत्रियं स ददर्श च ।। १२१
तेनोपरि तुरंगस्य गृहीतां तां नृपात्मजाम् ।
अपश्यच्च ययौ चास्य क्षत्रयूनोऽन्तिकं क्रमात् ।। १२२
सान्त्वेन राजपुत्रीं ताममुञ्चन्तं च पादतः ।
अश्वादाक्षिप्य दृषदि श्रीदत्तस्तमचूर्णयत् ।। १२३
तं हत्वा च तमेवाश्वमारुह्य निजघान तान् ।
अन्यानपि बहून्क्रुद्धानश्वारोहान्प्रधावितान् ।। १२४
हतशेषास्ततस्ते च तद्दृष्ट्वा तस्य तादृशम् ।
वीरस्यामानुषं वीर्यं पलाय्य सभयं ययुः ।। १२५
स चापि तुरगारूढो राजपुत्र्या तया सह ।
मृगाङ्कवत्या श्रीदत्तः प्रययौ तान्सखीन्प्रति ।। १२६
स्तोकं गत्वा च तस्याश्वः संग्रामे व्रणितो भृशम् ।
सभार्यस्यावतीर्णस्य पपात प्राप पञ्चताम् ।। १२७
तत्कालं चास्य तत्रैव सा मृगाङ्कवती प्रिया ।
त्रासायासपरिश्रान्ता तृषार्ता समपद्यत ।। १२८
स्थापयित्वा च तां तत्र गत्वा दूरमितस्ततः ।
जलमन्विष्यतश्चास्य सवितास्तमुपाययौ ।। १२९
ततः स लब्धेऽपि जले मार्गनाशवशाद्भ्रमन् ।
चक्रवाकवदुत्कूजंस्तां निनाय निशां वने ।। १३०
प्रातः प्राप च तत्स्थानं पतिताश्वोपलक्षितम् ।
न च तत्र क्वचित्कान्तां राजपुत्रीं ददर्श ताम् ।। १३१
ततः स मोहाद्विन्यस्य भुवि खड्गं मृगाङ्ककम् ।
वृक्षाग्रमारुरोहैनामवेक्षितुमितस्ततः ।। १३२
तत्क्षणं तेन मार्गेण कोऽप्यगाच्छबराधिपः ।
स चागत्यैव जग्राह वृक्षमूलान्मृगाङ्ककम् ।। १३३
तं दृष्ट्वापि स वृक्षाग्रादवतीर्यैव पृष्टवान् ।
प्रियाप्रवृत्तिमत्यार्तः श्रीदत्तः शबराधिपम् ।। १३४
इतस्त्वं गच्छ मत्पल्लीं जाने सा तत्र ते गता ।
अहं तत्रैव चैष्यामि दास्याम्यसिमिमं च ते ।। १३५
इत्युक्त्वा प्रेषितस्तेन शबरेण स चोत्सुकः ।
श्रीदत्तस्तां ययौ पल्लीं तदीयैः पुरुषैः सह ।। १३६
श्रमं तावद्विमुञ्चेति तत्रोक्तः पुरुषैश्च तैः ।
प्राप्य पल्लीपतेर्गेहं श्रान्तो निद्रां क्षणाद्ययौ ।। १३७
प्रबुद्धश्च ददर्श स्वौ पादौ निगडसंयुतौ ।
अलब्धतद्गती कान्ताप्राप्त्युपायोद्यमाविव ।। १३८
अथ क्षणं दत्तसुखां क्षणान्तरविमाथिनीम् ।
देवस्येव गतिं तत्र तस्थौ शोचन्स तां प्रियाम् ।। १३९
एकदा तमुवाचैत्य चेटी मोचनिकाभिधा ।
आगतोऽसि महाभाग कुत्रेह बत मृत्यवे ।। १४०
कार्यसिद्ध्यै स हि क्वापि प्रयातः शबराधिपः ।
आगत्य चण्डिकायास्त्वामुपहारी करिष्यति ।। १४१
एतदर्थं हि तेन त्वमितो विन्ध्याटवीतटात् ।
प्राप्य युक्त्या विसृज्येह नीतः संप्रति बन्धनम् ।। १४२
भगवत्युपहारत्वे यत एवासि कल्पितः ।
अत एव सदा वस्त्रैर्भोजनैश्चोपचर्यसे ।। १४३
एकस्तु मुक्त्युपायस्ते विद्यते यदि मन्यसे ।
अस्त्यस्य सुन्दरी नाम शबराधिपतेः सुता ।। १४४
अत्यर्थं सा च दृष्ट्वा त्वां जायते मदनातुरा ।
तां भजस्व वयस्यां मे ततः क्षेममवाप्स्यसि ।। १४५
तथेत्युक्तो विमुक्त्यर्थी स श्रीदत्तस्तथेति ताम् ।
गान्धर्वविधिना गुप्तं भार्यां व्यधित सुन्दरीम् ।। १४६
रात्रौ रात्रौ च सा तस्य बन्धनानि न्यवारयत् ।
अचिराच्च सगर्भा सा सुन्दरी समपद्यत ।। १४७
तत्सर्वमथ तन्माता बुद्ध्वा मोचनिकामुखात् ।
जामातृस्नेहतो गत्वा स्वैरं श्रीदत्तमब्रवीत् ।। १४८
पुत्र श्रीचण्डनामासौ कोपनः सुन्दरीपिता ।
न त्वां क्षमेत तद्गच्छ विस्मर्तव्या न सुन्दरी ।। १४९
इत्युक्त्वा मोचितः श्वश्र्वा खड्गं श्रीचण्डहस्तगम् ।
सुन्दर्यै निजमावेद्य श्रीदत्तः प्रययौ ततः ।। १५०
विवेश चाद्यां तामेव चिन्ताक्रान्तो निजाटवीम् ।
मृगाङ्कवत्याः पदवीं तस्या जिज्ञासितुं पुनः ।। १५१
निमित्तं च शुभं दृष्ट्वा तमेवोद्देशमाययौ ।
यत्रास्याश्वो मृतः सोऽथ यत्र सा हारिता वधूः ।। १५२
तत्र चैकं ददर्शाराल्लुब्धकं संमुखागतम् ।
दृष्ट्वा च पृष्टवांस्तस्याः प्रवृत्तिं हरिणीदृशः ।। १५३
किं श्रीद्त्तस्त्वमित्युक्तो लुब्धकेन च तत्र सः ।
स एव मन्दभाग्योऽहमित्युवाच विनिःश्वसन् ।। १५४
ततः स लुब्धकोऽवादीत्तर्हि वच्मि सखे शृणु ।
दृष्टा सा ते मया भार्या क्रन्दन्ती त्वामितस्ततः ।। १५५
पृष्ट्वा ततश्च वृत्तान्तमाश्वास्य च कृपाकुलः ।
निजां पल्लीमितोऽरण्याद्दीनां तां नीतवानहम् ।। १५६
तत्र चालोक्य तरुणान्पुलिन्दान्सभयेन सा ।
मथुरानिकटं ग्रामं नीता नागस्थलं मया ।। १५७
तत्र च स्थापिता गेहे स्थविरस्य द्विजन्मनः ।
विश्वदत्ताभिधानस्य न्यासीकृत्य सगौरवम् ।। १५८
ततश्चाहमिहायातो बुद्ध्वा त्वन्नाम तन्मुखात् ।
तामन्वेष्टुं ततो गच्छ शीघ्रं नागस्थलं प्रति ।। १५९
इत्युक्तो लुब्धकेनाशु स श्रीदत्तस्ततो ययौ ।
तं च नागस्थलं प्रापदपरेद्युर्दिनात्यये ।। १६०
भवनं विश्वदत्तस्य प्रविश्याथ विलोक्य तम् ।
ययाचे देहि मे भार्यां लुब्धकस्थापितामिति ।। १६१
तच्छ्रुत्वा विश्वदत्तस्तं श्रीदत्तं निजगाद सः ।
मथुरायां सुहृन्मेऽस्ति ब्राह्मणो गुणिनां प्रियः ।। १६२
उपाध्यायश्च मन्त्री च शूरसेनस्य भूपतेः ।
तस्य हस्ते त्वदीया सा गृहिणी स्थापिता मया ।। १६३
भयं हि विजनो ग्रामो न तद्रक्षाक्षमो भवेत् ।
तत्प्रातस्तत्र गच्छ त्वमद्य विश्रम्यतामिह ।। १६४
इत्युक्तो विश्वदत्तेन स नीत्वात्रैव तां निशाम् ।
प्रातः प्रतस्थे प्रापच्च मथुरामपरे दिने ।। १६९
दीर्घाध्वमलिनस्तस्मिन्नगरे बहिरेव सः ।
स्नानं चक्रे परिश्रान्तो निर्मले दीर्घिकाजले ।। १६६
तत एवाम्बुमध्याच्च वस्त्रं चौरनिवेशितम् ।
प्राप्तवानञ्चलग्रन्थिबद्धहारमशङ्कितम् ।। १६७
अथ तद्वस्त्रमादाय स तं हारमलक्षयन् ।
प्रियां दिदृक्षुः श्रीदत्तो विवेश मथुरां पुरीम् ।। १६८
तत्र तत्प्रत्यभिज्ञाय वस्त्रं हारमवाप्य च ।
स चौर इत्यवष्टभ्य निन्ये नगररक्षिभिः ।। १६९
दर्शितश्च तथाभूतो नगराधिपतेश्च तैः ।
तेनाप्यावेदितो राज्ञे राजाप्यस्यादिशद्वधम् ।। १७०
ततो वध्यभुवं हन्तुं नीयमानं ददर्श तम् ।
सा मृगाङ्कवती दूरात्पश्चात्प्रहतडिण्डिमम् ।। १७१
सोऽयं मे नीयते भर्ता वधायेति ससंभ्रमम् ।
सा गत्वा मन्त्रिमुख्यं तमब्रवीद्यद्गृहे स्थिता ।। १७२
निवार्य वधकान्सोऽथ मन्त्री विज्ञप्य भूपतिम् ।
श्रीदत्तं मोचयित्वा तं वधादानाययद्गृहम् ।। १७३
कथं सोऽयं पितृव्यो मे गत्वा देशान्तरं पुरा ।
इहैव दैवाद्विगतभयः प्राप्तोऽद्य मन्त्रिताम् ।। १७४
इति तं मन्त्रिणं सोऽथ श्रीदत्तस्तद्गृहागतः ।
प्रत्यभिज्ञातवान्पृष्ट्वा पपातास्य च पादयोः ।। १७५
सोऽपि तं प्रत्यभिज्ञाय भ्रातुः पुत्रं सविस्मयः ।
कण्ठे जग्राह सर्वं च वृत्तान्तं परिपृष्टवान् ।। १७६
ततस्तस्मै स निखिलं श्रीदत्तः स्वपितुर्वधात् ।
आरभ्य निजवृत्तान्तं पितृव्याय न्यवेदयत् ।। १७७
सोऽपि मुक्त्वाश्रु विजने भ्रातुः पुत्रं तमभ्यधात् ।
अधृतिं मा कृथाः पुत्र मम सिद्धा हि यक्षिणी ।। १७८
पञ्च वाजिसहस्राणि हेमकोटीश्च सप्त सा ।
प्रादान्मह्यमपुत्राय तत्तवैवाखिलं धनम् ।। १७९
इत्युक्त्वा स पितृव्यस्तां श्रीदत्तायार्पयत्प्रियाम् ।
श्रीदत्तोऽप्यात्तविभवस्तत्र तां परिणीतवान् ।। १८०
ततश्च तस्थौ तत्रैव संगतः कान्तया तया ।
मृगाङ्कवत्या सानन्दो रात्र्येव कुमुदाकरः ।। १८१
बाहुशाल्यादिचिन्ता तु तस्याभूत्पूर्णसंपदः ।
इन्दोः कलङ्कलेखेव हृदि मालिन्यदायिनी ।। १८२
एकदा स पितृव्यस्तं रहः श्रीदत्तमभ्यधात् ।
पुत्र राज्ञः सुतास्त्यस्य शूरसेनस्य कन्यका ।। १८३
मया चावन्तिदेशे सा नेया दातुं तदाज्ञया ।
तत्तेनैवापदेशेन हृत्वा तुभ्यं ददामि ताम् ।। १८४
ततस्तदनुगे प्राप्ते बले सति च मामके ।
यद्राज्यं ते श्रियादिष्टं तत्प्राप्स्यस्यचिरादिति ।। १८५
निश्चित्यैतच्च तां कन्यां गृहीत्वा ययतुस्ततः ।
श्रीदत्तस्तत्पितृव्यश्च ससैन्यौ सपरिग्रहौ ।। १८६
ततो विन्ध्याटवीमेतौ प्राप्तमात्रावतर्कितौ ।
चौरसेनातिमहती रुरोध शरवर्षिणी ।। १८७
प्रहारमूर्च्छितं बद्ध्वा श्रीदत्तं भग्नसैनिकम् ।
निन्युश्चौराः स्वपल्लीं ते स्वीकृत्य सकलं धनम् ।। १८८
ते च तं प्रापयामासुश्चण्डिकासद्म भीषणम् ।
उपहाराय घण्टानां नादैर्मृत्युरिवाह्वयत् ।। १०९
तत्रापश्यच्च तं पत्नी सा पल्लीपतिपुत्रिका ।
सुन्दरी द्रष्टुमायाता देवी बालसुतान्विता ।। १९०
निषिद्धवत्या मध्यस्थान्दस्यूनानन्दपूर्णया ।
स श्रीदत्तस्तया साकं तन्मन्दिरमथाविशत् ।। १९१
तदैव पल्लीराज्यं तत्प्राप पित्रा यदर्पितम् ।
प्रागेवानन्यपुत्रेण सुन्दर्यै गच्छता दिवम् ।। १९२
तं च चौरसमाक्रान्तं सपितृव्यपरिच्छदम् ।
सकलत्रं च लेभेऽसौ तं खड्गं च मृगाङ्ककम् ।। १९३
तत्रैव शूरसेनस्य सुतां तां परिणीय च ।
श्रीदत्तोऽपि महान्राजा नगरे समपद्यत ।। १९४
प्रजिघाय स दूतांश्च ततः श्वशुरयोस्तयोः ।
बिम्बकेस्तस्य तस्यापि शूरसेनस्य भूपतेः ।। १९५
तमुपाजग्मतुस्तौ च सेनासमुदयान्वितौ ।
तं विज्ञायैव संबन्धं मुदा दुहितृवत्सलौ ।। १९६
तेऽपि रूढव्रणाः स्वस्थास्तद्वियुक्ता वयस्यकाः ।
बाहुशालिप्रभृतयस्तद्बुद्वा तमुपाययुः ।। १९७
अथ श्वशुरसंयुक्तो गत्वा तं पितृघातिनम् ।
चक्रे विक्रमशक्तिं स वीरः क्रोधानलाहुतिम् ।। १९८
ततश्च साब्धिवलयां श्रीदत्तः प्राप्य मेदिनीम् ।
ननन्द विरहोत्तीर्णः स मृगाङ्कवतीसखः ।। १९९
इत्थं नरपते दीर्घवियोगव्यसनार्णवम् ।
तरन्ति च लभन्ते च कल्याणं धीरचेतसः ।। २००
इति संगतकाच्छ्रुत्वा कथां स दयितोत्सुकः ।
तां निनाय निशां मार्गे सहस्रानीकभूपतिः ।। २०१
ततो मनोरथारूढः पुरः प्रहितमानसः ।
प्रातः सहस्रानीकोऽसौ प्रतस्थे स्वां प्रियां प्रति ।। २०२
दिनैः कतिपयैस्तं च जमदग्नेरवाप सः ।
मृगैरपि परित्यक्तचापलं शान्तमाश्रमम् ।। २०३
ददर्श कल्पितातिथ्यं जमदग्निं च तत्र तम् ।
प्रणतः पावनालोकमाकारं तपसामिव ।। २०४
स च तस्मै मुनी राज्ञे सपुत्रां तां समर्पयत् ।
चिरान्मृगावतीं राज्ञीं सानन्दामिव निर्वृतिम् ।। २०५
शापान्ते तच्च दंपत्योस्तयोरन्योन्यदर्शनम् ।
आनन्दबाष्पपूर्णायां ववर्षेवामृतं दृशि ।। २०६
तत्पूर्वदर्शनं पुत्रमालिङ्ग्योदयनं स तम् ।
मुमोच नृपतिः कृच्छ्राद्रोमाञ्चेनेव कीलितम् ।। २०७
ततः सोदयनां राज्ञीं तामादाय मृगावतीम् ।
आ तपोवनमुद्वाष्पैरनुयातो मृगैरपि ।। २०८
आमन्त्र्य जमदग्निं च प्रतस्थे स्वां पुरीं प्रति ।
प्रशान्तादाश्रमात्तस्मात्सहस्रानीकभूपतिः ।। २०९
शृण्वन्विरहवृत्तानि प्रियाया वर्णयंश्च सः ।
उत्तोरणपताकां तां कौशाम्बीं प्राप्तवान्क्रमात् ।। २१०
समं च पत्नीपुत्राभ्यां प्रविवेश स तां पुरीम् ।
पीयमान इवोत्पक्ष्मराजिभिः पौरलोचनैः ।। २११
अभ्यषिञ्चच्च तं तत्र झगित्युदयनं सुतम् ।
यौवराज्ये महाराजः प्रेर्यमाणः स तद्गुणैः ।। २१२
स्वमन्त्रिपुत्रांस्तस्मै स मन्त्रहेतोः समर्पयत् ।
वसन्तकरुमण्वन्तौ तथा यौगन्धरायणम् ।। २१३
एभिर्मन्त्रिवरैरेष कृत्स्नां प्राप्स्यति मेदिनीम् ।
इति वागुदभूद्दिव्या पुष्पवृक्षा समं तदा ।। २१४
ततः सुते न्यस्तभरः स राजा चिरकाङ्क्षितम् ।
जीवलोकसुखं भेजे मृगावत्या तया सह ।। २१५
अथ तस्य जरां प्रशान्तिदूतीमुपयातां क्षितिपस्य कर्णमूलम् ।
सहसैव विलोक्य जातकोपा बत दूरे विषयस्पृहा बभूव ।। २१६
ततस्तं कल्याणं तनयमनुरक्तप्रकृतिकं निवेश्य स्वे राज्ये जगदुदयहेतोरुदयनम् ।
सहस्रानीकोऽसौ सचिवसहितः सप्रियतमो महाप्रस्थानाय क्षितिपतिरगच्छद्धिमगिरिम् ।। २१७
इति महाकविश्रीसोभदेवभट्टविरचिते कथासरित्सागरे कथामुखलम्बके द्वितीयस्तरङ्गः ।