अथ विन्ध्यान्तरे तत्र वत्सराजस्य तिष्ठतः ।
पार्श्वं चण्डमहासेनप्रतीहारः समाययौ ।। १
स चागत्य प्रणम्यैनं राजानमिदमब्रवीत् ।
राजा चण्डमहासेनस्तव संदिष्टवानिदम् ।। २
मुक्तं वासवदत्ता यत्स्वयमेव त्वया हृता ।
तदर्थमेव हि मया त्वमानीत इहाभवः ।। ३
संयतस्य च नैवेह दत्तैषा ते मया स्वयम् ।
नैवमस्मासु ते प्रीतिर्भवेदिति विशङ्किना ।। ४
तदिदानीमविधिना ममास्या दुहितुर्यथा ।
न विवाहो भवेद्राजन्प्रतीक्षेथास्तथा मनाक् ।। ५
गोपालको हि नचिरादत्रैवैष्यति मत्सुतः ।
स चास्याः स्वसुरुद्वाह यथाविधि विधास्यति ।। ६
इतीमं वत्सराजाय संदेशमवधार्य सः ।
तत्तद्वासवदत्तायै प्रतीहारो न्यवेदयत् ।। ७
ततः सानन्दया साकं तया वासवदत्तया ।
हृष्टो वत्सेश्वरश्चक्रे कौशाम्बीगमने मनः ।।
गोपालकस्यागमनं प्रतीक्षेथां युवामिह ।
तेनैव सह पश्चाच्च कौशाम्बीमागमिष्यथः ।। ९
इत्युक्त्वा स्थापयामास स तत्रैव महीपतिः ।
श्वाशुरं तं प्रतीहारं स्वमित्रं च पुलिन्दकम् ।। १०
ततोनुयातो नागेन्द्रैः स्रवद्भिर्मदनिर्झरान् ।
अनुरागागतैर्विन्ध्यप्राग्भारैरिव जङ्गमैः ।। ११
तुरंगसैन्यसंघातखुराघातसशब्दया ।
स्तूयमान इवोत्क्रान्तबन्दिसन्दर्भया भुवा ।। १२
नभोविलङ्घिभिः सेनारजोराशिभिरुद्धतैः ।
सपक्षभूभृदुल्लासशङ्कां कुर्वञ्शतक्रतोः ।। १३
स प्रतस्थे ततो देव्या सह वासवदत्तया ।
स्वपुरीं प्रति राजेन्द्रः प्रातरेवापरेऽहनि ।। १४
ततश्च दिवसैर्द्वित्रैर्विषयं तमवाप्य सः ।
विशश्राम निशामेकां रुमण्वन्मन्दिरे नृपः ।। १५
अन्येद्युस्तां च कौशाम्बीं चिरात्प्राप्तमहोत्सवः ।
मार्गोत्सुकोन्मुखजनां प्रविवेश प्रियासखः ।। १६
तदा च स्त्रीभिरारब्धमङ्गलस्नानमण्डना ।
चिरादुपागते पत्यौ बभौ नारीव सा पुरी ।। १७
ददृशुश्चात्र पौरास्तं वत्सराजं वधूसखम् ।
प्रशान्तशोकाः शिखिनः सविद्युतमिवाम्बुदम् ।। १८
हर्म्याप्रस्थाश्च पिदधुः पौरनार्यो मुखैर्नभः ।
व्योमगङ्गातटोत्फुल्लहेमाम्बुरुहविभ्रमैः ।। १९
ततः स्वं राजभवनं वत्सराजो विवेश सः ।
नृपश्रियेवापरया सह वासवदत्तया ।। २०
सेवागतनृपाकीर्णं मागधोद्गीतमङ्गलम् ।
सुप्तप्रबुद्धमिव तद्रेजे राजगृहं तदा ।। २१
अथ वासवदत्ताया भ्राता गोपालकोऽचिरात् ।
आययौ सह कृत्वा तौ प्रतीहारपुलिन्दकौ ।। २२
कृतप्रत्युद्गमं राज्ञा तमानन्दमिवापरम् ।
प्राप वासवदत्ता सा प्रहर्षोत्फुल्ललोचना ।। २३
अमुं भ्रातरमेतस्याः पश्यन्त्या मा स्म भूत्रपा ।
इत्येव तस्यास्तत्कालं रुरोधाश्रु विलोचने ।। २४
पितृसंदेशवाक्यैश्च तेन प्रोत्साहिताथ सा ।
मेने कृतार्थमात्मानं स्वजनेन समागतम् ।। २५
ततो यथावद्ववृते तस्या वत्सेश्वरस्य च ।
व्यग्रो गोपालकोऽन्येद्युस्तत्रोद्वाहमहोत्सवे ।। २६
रतिवल्लीनवोद्भिन्नमिव पल्लवमुज्ज्वलम् ।
पाणिं वासवदत्तायाः सोऽथ वत्सेश्वरोऽग्रहीत् ।। २७
सापि प्रियकरस्पर्शसान्द्रानन्दनिमीलिता ।
सकम्पस्वेददिग्धाङ्गी गाढरोमाञ्चचर्चिता ।। २८
सुसंमोहनवायव्यवारुणास्त्रैर्निरन्तरैः ।
विद्धेव पुष्पचापेन तत्क्षणं समलक्ष्यत ।। २९
दृशि धूमाभिताम्रायां तस्या वह्निप्रदक्षिणे ।
मदिरा मदमाधुर्यसूत्रपातमिवाकरोत् ।। ३०
गोपालकार्पितै रत्नै राज्ञां चोपायनैस्तदा ।
पूर्णकोषो दधौ सत्यां वत्सेशो राजराजताम् ।। ३१
निर्वर्तितविवाहौ तावादौ लोकस्य चक्षुषि ।
वधूवरौ विविशतुः पश्चात्स्वे वासवेश्मनि ।। ३२
अथ संमानयामास पट्टबन्धादिना स्वयम ।
निजोत्सवे वत्सराजो गोपालकपुलिन्दकौ ।। ३३
राज्ञां संमाननार्थं च पौराणां च यथोचितम् ।
यौगन्धरायणस्तेन रुमण्वांश्च न्ययुज्यत ।। ३४
ततोऽब्रवीद्रुमण्वन्तमेवं यौगन्धरायणः ।
राज्ञा कष्टे नियुक्तौ स्वो लोकचित्तं हि दुर्ग्रहम् ।। ३५
अरञ्जितश्च बालोऽपि रोषमुत्पादयेद्ध्रुवम् ।
तथा च शृण्विमां बाल विनष्टककथां सखे ।। ३६
बभूव रुद्रशर्माख्यः कश्चन ब्राह्मणः पुरा ।
बभूवतुश्च तस्य द्वे गृहिण्यौ गृहमेधिनः ।। ३७
एका सुतं प्रसूयैव तस्य पञ्चत्वमाययौ ।
तत्सुतोऽपरमातुश्च हस्ते तेनार्पितोऽथ सः ।। ३८
सा च किंचिद्विवृद्धस्य रूक्षं तस्याशनं ददौ ।
सोऽपि तेनाभवद्बालो धूसराङ्गः पृथूदरः ।। ३९
मातृहीनस्त्वयायं मे कथं शिशुरुपेक्षितः ।
इति तामपरां पत्नीं रुद्रशर्माथ सोऽभ्यधात् ।। ४०
सेव्यमानोऽपि हि स्नेहैरीदृगेव किमप्यसौ ।
किं करोम्यहमस्येति साप्येवं पतिमब्रवीत् ।। ४१
नूनमेवंस्वभावोऽयमिति मेने च स द्विजः ।
स्त्रीणामलीकमुग्धं हि वचः को मन्यते मृषा ।। ४२
बाल एव विनष्टोऽयमिति बालविनष्टकः ।
नाम्ना स बालकस्तत्र संवृत्तोऽभूत्पितुर्गृहे ।। ४३
असावपरमाता मां कदर्थयति सर्वदा ।
वरं प्रतिक्रियां कांचित्तदेतस्याः करोम्यहम् ।। ४४
इति संचिन्तयामास सोऽथ बालविनष्टकः ।
व्यतीतपञ्चवर्षोऽपि वयसा बत बुद्धिमान् ।। ४५
अथागतं राजकुलाज्जगाद पितरं रहः ।
तात द्वौ मम तातौ स्त इत्यविस्पष्टया गिरा ।। ४६
एवं प्रत्यहमाह स्म स बालः सोऽपि तत्पिता ।
तां सोपपतिमाशङ्क्य भार्यां स्पर्शेऽप्यवर्जयत् ।। ४७
सापि दध्यौ विना दोषं कस्मान्मे कुपितः पतिः ।
किंचिद्बालविनष्टेन कृतं किंचिद्भवेदिति ।। ४८
सादरं स्नपयित्वा च दत्त्वा स्निग्धं च भोजनम् ।
कृत्वोत्सङ्गे च पप्रच्छ सा तं बालविनष्टकम् ।। ४९
पुत्र किं रोषितस्तातो रुद्रशर्मा त्वया मयि ।
तच्छ्रुत्वैव स तां बालो जगादापरमातरम् ।। ५०
अतोऽधिकं ते कर्तास्मि न चेदद्यापि शाम्यसि ।
स्वपुत्रपोषिणी कस्मात्त्वं मां क्लिश्नासि सर्वदा ।। ५१
तच्छ्रुत्वा प्रणता सा तं बभाषे शपथोत्तरम् ।
पुनर्नैवं करिष्यामि तत्प्रसादाय मे पतिम् ।। ५२
ततः स बालोऽवादीत्तां तर्ह्यायातस्य मत्पितुः ।
आदर्शं दर्शयत्वेका त्वच्चेटी वेद्म्यहं परम् ।। ५३
तथेत्युक्त्वा तया चेटी नियुक्ता रुद्रशर्मणः ।
आगतस्य क्षणात्तस्य दर्शयामास दर्पणम् ।। ५४
तत्र तस्यैव तत्कालं प्रतिबिम्बं स दर्शयन् ।
सोऽयं द्वितीयस्तातो मे तातेत्याह स्म बालकः ।। ५५
तच्छ्रुत्वा विगताशङ्कस्तामकारणदूषिताम् ।
पत्नीं प्रति प्रसन्नोऽभूद्रुद्रशर्मा तदैव सः ।। ५६
एवमुत्पादयेद्दोषं बालोऽपि विकृतिं गतः ।
तदयं रञ्जनीयो नः सम्यक्परिकरोऽखिलः ।। ५७
इत्युक्त्वा सरुमण्वत्कः सोऽथ यौगन्धरायणः ।
सर्वं संमानयामास वत्सराजोत्सवे जनम् ।। ५८
तथा च राजलोकं तौ रञ्जयामासतुर्यथा ।
मदेकप्रवणावेताविति सर्वोऽप्यमन्यत ।। ५९
तौ चाप्यपूजयद्राजा सचिवौ स्वकरार्पितैः ।
वस्त्राङ्गरागाभरणैर्ग्रामैश्च सवसन्तकौ ।। ६०
कृतोद्वाहोत्सवः सोऽथ युक्तो वत्सेश्वरस्तया ।
मनोरथफलान्येव मेने वासवदत्तया ।। ६१
चिरादुन्मुद्रितः स्नेहात्कोऽप्यभूत्सततं तयोः ।
निशान्तक्लिष्टचक्राह्वरीतिहृद्यो रसक्रमः ।। ६२
यथा यथा च दंपत्योः प्रौढिं परिचयो ययौ ।
तयोस्तथा तथा प्रेम नवीभावमिवाययौ ।। ६३
गोपालकोऽथ वीवाहकर्तुः संदेशतः पितुः ।
प्रययौ शीघ्रमावृत्तिं वत्सराजेन याचितः ।। ६४
सोऽपि वत्सेश्वरो जातु चपलः पूर्वसंगताम् ।
गुप्तं विरचितां नाम भेजेऽन्तःपुरचारिकाम् ।। ६५
तद्गोत्रस्खलितो देवीं पादलग्नः प्रसादयन् ।
लेभे सुभगसाम्राज्यमभिषिक्तस्तदश्रुभिः ।। ६६
किं च बन्धुमतीं नाम राजपुत्रीं भुजार्जिताम् ।
गोपालकेन प्रहितां कन्यां देव्या उपायनम् ।। ६७
तया मञ्जुलिकेत्येव नाम्नान्येनैव गोपिताम् ।
अपरामिव लावण्यजलधेरुद्गतां श्रियम् ।। ६८
वसन्तकसहायः सन्दृष्ट्वोद्यानलतागृहे ।
गान्धर्वविधिना गुप्तमुपयेमे स भूपतिः ।। ६९
तच्च वासवदत्तास्य ददर्श निभृतस्थिता ।
प्रचुकोप च बद्ध्वा च सा निनाय वसन्तकम् ।। ७०
ततः प्रव्राजिकां तस्याः सखीं पितृकुलागताम् ।
स सांकृत्यायनीं नाम शरणं शिश्रिये नृपः ।। ७१
सा तां प्रसाद्य महिषीं तया सैव कृताज्ञया ।
ददौ बन्धुमतीं राज्ञे पेशलं हि सतीमनः ।। ७२
ततस्तं बन्धनाद्देवी सा मुमोच वसन्तकम् ।
स चागत्याग्रतो राज्ञीं हसन्निति जगाद ताम् ।। ७३
बन्धुमत्यापराद्धं च किं मया देवि ते कृतम् ।
डुण्डुभेषु प्रहरथ क्रुद्धा यूयमहीन्प्रति ।। ७४
एतत्त्वमुपमानं मे व्याचक्ष्वेति कुतूहलात् ।
देव्या पृष्टस्तया सोऽथ पुनराह वसन्तकः ।। ७५
पुरा कोऽपि रुरुर्नाम मुनिपुत्रो यदृच्छया ।
परिभ्रमन्ददर्शैकां कन्यामद्भुतदर्शनाम् ।। ७६
विद्याधरात्समुत्पन्नां मेनकायां द्युयोषिति ।
स्थूलकेशेन मुनिना वर्धितामाश्रमे निजे ।। ७७
सा च प्रमद्वरानाम दृष्टा तस्य रुरोर्मनः ।
जहार सोऽथ गत्वा तां स्थूलकेशादयाचत ।। ७८
स्थूलकेशोऽपि तां तस्मै प्रतिशुश्राव कन्यकाम् ।
आसन्ने च विवाहे तामकस्माद्दष्टवानहिः ।। ७९
ततो विषण्णहृदयः शुश्रावेमां गिरं दिवि ।
एतां क्षीणायुषं ब्रह्मन्स्वायुषोऽर्धेन जीवय ।। ८०
तच्छ्रुत्वा स ददौ तस्यै तदैवार्धं निजायुषः ।
प्रत्युज्जिजीव सा तेन सोऽपि तां परिणीतवान् ।। ८१
अथ क्रुद्धो रुरुर्नित्यं यं यं सर्पं ददर्श सः ।
तं तं जघान भार्या मे दष्टामीभिर्भवेदिति ।। ८२
अथैकस्तं जिघांसन्तं मर्त्यवाचाह डुण्डुभः ।
अहिभ्यः कुपितो ब्रह्मन्हंसि त्वं डुण्डुभान्कथम् ।। ८३
अहिना ते प्रिया दष्टा विभिन्नौ चाहिडुण्डुभौ ।
अहयः सविषाः सर्वे निर्विषा डुण्डुभा इति ।। ८४
तच्छ्रुत्वा प्रत्यवादीत्तं सखे को नु भवानिति ।
डुण्डुभोऽप्यवदद्ब्रह्मन्नहं शापच्युतो मुनिः ।। ८५
भवत्संवादपर्यन्तः शापोऽयमभवच्च मे ।
इत्युक्त्वान्तर्हिते तस्मिन्भूयस्तान्नावधीद्गुरुः ।। ८६
तदेतदुपमानाय तव देवि मयोदितम् ।
डुण्डुभेषु प्रहरथ क्रुद्धा यूयमहिष्विति ।। ८७
एवमभिधाय वचनं सनर्महासं वसन्तके विरते ।
वासवदत्ता तं प्रति तुतोष पार्श्वे स्थिता पत्युः ।। ८८
इति मधुमधुराणि वत्सराजश्चरणगतः कुपितानुनाथनानि ।
सततमुदयनश्चकार देव्या विविधवसन्तककौशलानि कामी ।। ८९
रसना मदिरारसैकसक्ता कलवीणारवरागिणी श्रुतिश्च ।
दयितामुखनिश्चला च दृष्टिः सुखिनस्तस्य सदा बभूव राज्ञः ।। ९०
इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे कथामुखलम्बके षष्ठस्तरङ्गः ।
समाप्तश्चायं कथामुखलम्बको द्वितीयः ।