कथासरित्सागरः/लम्बकः ३/तरङ्गः ३
ततो वत्सेश्वरोऽन्येद्युः सह वासवदत्तया ।
पद्मावत्या च संसक्तपानलीलो विविक्तगः ।। १
सगोपालकमानीय सरुमण्वद्वसन्तकम् ।
यौगन्धरायणं ताश्च चक्रे विस्रम्भिणीः कथाः ।। २
तत्र स्वविरहोद्धातप्रसङ्गे च महीपतिः ।
सर्वेषु तेषु शृण्वत्सु कथामेतामवर्णयत् ।। ३
आसीत्पुरूरवा नाम राजा परमवैष्णवः ।
अभूद्भुवीव नाकेऽपि यस्याप्रतिहता गतिः ।। ४
भ्रमन्तं नन्दने जातु तं ददर्श किलाप्सराः ।
उर्वशी नाम कामस्य मोहनास्त्रमिवापरम् ।। ५
दृष्टमात्रेण तेनाभूत्सा तथा हृतचेतना ।
यथा सभयरम्भादिसखीचेतांस्यकम्पयत् ।। ६
सोऽपि तां वीक्ष्य लावण्यरसनिर्झरिणी नृपः ।
यन्न प्राप परिष्वङ्गं तृषाक्रान्तो मुमूर्च्छ तत् ।। ७
अथादिदेश सर्वज्ञो हरिः क्षीराम्बुधिस्थितः ।
नारदाख्यं मुनिवरं दर्शनार्थमुपागतम् ।। ८
देवर्षे नन्दनोद्यानवर्ती राजा पुरूरवाः ।
उर्वशीहृतचित्तः सन्स्थितो विरहनिःसहः ।। ९
तद्गत्वा मम वाक्येन बोधयित्वा शतक्रतुम् ।
दापय त्वरितं तस्मै राज्ञे तामुर्वशीं मुने ।। १०
इत्यादिष्टः स हरिणा तथेत्यागत्य नारदः ।
प्रबोध्य तं तथाभूतं पुरूरवसमब्रवीत् ।। ११
उत्तिष्ठ त्वत्कृते राजन्प्रहितोऽस्मीह विष्णुना ।
स हि निर्व्याजभक्तानां नैवापदमुपेक्षते ।। १२
इत्युक्त्वाश्वासितेनाथ स पुरूरवसा सह ।
जगाम देवराजस्य निकटं नारदो मुनिः ।। १३
हरेर्निदेशमिन्द्राय निवेद्य प्रणतात्मने ।
उर्वशीं दापयामास स पुरूरवसे ततः ।। १४
तदभूदुर्वशीदानं निर्जीवकरणं दिवः ।
उर्वश्यास्तु तदेवासीन्मृतसंजीवनौषधम् ।। १५
अथाजगाम भूलोकं तामादाय पुरूरवाः ।
स्वर्वधूदर्शनाश्चर्यमर्पयन्मर्त्यचक्षुषाम् ।। १६
ततोऽनपायिनौ ता द्वावुर्वशी च नृपश्च सः ।
अन्योन्यदृष्टिपाशेन निबद्धाविव तस्थतुः ।। १७
एकदा दानवैः साकं प्राप्तयुद्धेन वज्रिणा ।
साहायकार्थमाहूतो ययौ नाकं पुरूरवाः ।। १८
तत्र तस्मिन्हते माया धरनाम्न्यसुराधिपे ।
प्रनृत्तस्वर्वधूसार्थः शक्रस्याभवदुत्सवः ।। १९
ततश्च रम्भां नृत्यन्तीमाचार्ये तुम्बुरौ स्थिते ।
चलिताभिनयां दृष्ट्वा जहास स पुरूरवाः ।। २०
जाने दिव्यमिदं नृत्तं किं त्वं जानासि मानुष ।
इति रम्भापि तत्कालं सासूयं तमभाषत ।। २१
जानेऽहमुर्वशी सङ्गात्तद्यद्वेत्ति न तुम्बुरुः ।
युष्मद्गुरुरपीत्येनामुवाचाथ पुरूरवाः ।। २२
तच्छ्रुत्वा तुम्बुरुः कोपात्तस्मै शापमथादिशत् ।
उर्वश्या ते वियोगः स्यादा कृष्णाराधनादिति ।। २३
श्रुतशापश्च गत्वैव तमुर्वश्यै पुरूरवाः ।
अकालाशनिपातोग्रं स्ववृत्तान्तं न्यवेदयत् ।। २४
ततोऽकस्मान्निपत्यैव निन्ये क्वाप्यपहृत्य सा ।
अदृष्टैस्तेन भूपेन गन्धर्वैरुर्वशी किल ।। २५
अवेत्य शापदोषं तं सोऽथ गत्वा पुरूरवाः ।
हरेराराधनं चक्रे ततो बदरिकाश्रमे ।। २६
उर्वशी तु वियोगार्ता गन्धर्वविषयस्थिता ।
आसीन्मृतेव सुप्तेव लिखितेव विचेतना ।। २७
आश्चर्यं यन्न सा प्राणैः शापान्ताशावलम्बिनी ।
मुक्ता विरहदीर्घासु चक्रवाकीव रात्रिषु ।। २८
पुरूरवाश्च तपसा तेनाच्युतमतोषयत् ।
तत्प्रसादेन गन्धर्वा मुमुचुस्तस्य चोर्वशीम् ।। २९
शापान्तलब्धया युक्तः पुनरप्सरसा तया ।
दिव्यान्स राजा बुभुजे भोगान्भूतलवर्त्यपि ।। ३०
इत्युक्त्वा विरते राज्ञि श्रुतोर्वश्यनुरागया ।
प्रापि सोढवियोगत्वाद्व्रीडा वासवदत्तया ।। ३१
तां दृष्ट्वा युक्त्युपालब्धा राज्ञा देवीं विलक्षिताम् ।
अथाप्याययितुं भूपमाह यौगन्धरायणः ।। ३२
न श्रुता यदि तद्राजन्कथेयं श्रूयतां त्वया ।
अस्तीह तिमिरानाम नगरी मन्दिरं श्रियः ।। ३३
तस्यां विहितसेनाख्यः ख्यातिमानभवन्नृपः ।
तस्य तेजोवतीत्यासीद्भार्या क्षितितलाप्सराः ।। ३४
तस्याः कण्ठग्रहैकाग्रः स राजा स्पर्शलोलुभः ।
न सेहे कञ्चुकेनापि क्षिप्रमाच्छुरितं वपुः ।। ३५
कदाचित्तस्य राज्ञश्च जज्ञे जीर्णज्वरामयः ।
वैद्या निवारयामासुस्तया देव्यास्य संगमम् ।। ३६
देवीसंपर्कहीनस्य हृदये तस्य भूभृतः ।
औषधोपक्रमासाध्यो व्याधिः समुदपद्यत ।। ३७
भयाच्छोकाभिघाताद्वा राज्ञो रोगः कदाचन ।
स्फुटेदयमिति स्माहुर्भिषजो मन्त्रिणं रहः ।। ३८
यः पुरा पृष्ठपतिते न तत्रास महोरगे ।
नान्तःपुरप्रविष्टेऽपि परानीके च चुक्षुभे ।। ३९
तस्यास्य राज्ञो जायेत भयं सत्त्ववतः कथम् ।
नास्त्यत्रोपायबुद्धिर्नः किं कुर्मस्तेन मन्त्रिणः ।। ४०
इति संचिन्त्य संमन्त्र्य ते देव्या सह मन्त्रिणः ।
तां प्रच्छाद्य तमूचुश्च मृता देवीति भूपतिम् ।। ४१
तेन शोकातिभारेण मथ्यमानस्य तस्य सः ।
पुस्फोट हृदयव्याधिर्विह्वलस्य महीभृतः ।। ४१
उत्तीर्णरोगविपदे तस्मै राज्ञेऽथ मन्त्रिभिः ।
अर्पिता सा महादेवी सुखसंपदिवापरा ।। ४३
बहु मेने च सोऽप्येनां राजा प्राणप्रदायिनीम् ।
न पुनर्मतिमानस्यै चुक्रोधाच्छादितात्मने ।। ४४
हितैषिता हि या पत्युः सा देवीत्वस्य कारणम् ।
प्रियकारित्वमात्रेण देवीशब्दो न लभ्यते ।। ४५
सा मन्त्रिता च यद्राज्यकार्यभारैकचिन्तनम् ।
चित्तानुवर्तनं यत्तदुपजीवकलक्षणम् ।। ४६
अतो मगधराजेन संधातुं परिपन्थिना ।
पृथ्वीविजयहेतोस्ते यत्नोऽस्माभिरयं कृतः ।। ४७
तेन देव भवद्भक्तिसोढासह्यवियोगया ।
देव्या नैवापराद्धं ते पूर्णा तूपकृतिः कृता ।। ४८
एतच्छ्रुत्या वचस्तस्य यथार्थं मुख्यमन्त्रिणः ।
मेनेऽपराद्धमात्मानं वत्सराजस्तुतोष च ।। ४९
उवाच चैतज्जानेऽहं देव्या युष्मत्प्रयुक्तया ।
आकारवत्या नीत्येव मम दत्तैव मेदिनी ।। ५०
किं त्वतिप्रणयादेतन्मयोक्तमसमञ्जसम् ।
अनुरागान्धमनसां विचारसहता कुतः ।। ५१
इत्यादिभिः समालापैर्वत्सराजः स तद्दिनम् ।
लज्जोपरागं देव्याश्च सममेवापनीतवान् ।। ५२
अन्येद्युर्मगधेशेन प्रेषितो ज्ञानवस्तुना ।
दूतो वत्सेशमभ्येत्य तद्वाक्येन व्यजिज्ञपत् ।। ५३
मन्त्रिभिस्ते वयं तावद्वञ्चिता तत्तथाधुना ।
कुर्याः शोकमयो येन जीवलोको भवेन्न नः ।। ५४
एतच्छ्रुत्वाथ संमान्य वत्सेशः प्रजिघाय तम् ।
दूतं पद्मावतीपार्श्वं प्रतिसंदेशलब्धये ।। ५५
सापि वासवदत्तैकनम्रा तत्संनिधौ ददौ ।
दूतस्य दर्शनं तस्य विनयो हि सतीव्रतम् ।। ५६
व्याजेन पुत्रि नीता त्वमन्यासक्तश्च ते पतिः ।
इति शोकान्मया लब्धं कन्याजनकताफलम् ।। ५७
इत्युक्तपितृसंदेशं दूतं पद्मावती तदा ।
जगाद भद्र विज्ञाप्यस्तातोऽम्बा च गिरा मम ।। ५८
किं शोकेनार्यपुत्रो हि परमं सदयो मयि ।
देवी वासवदत्ता च सस्नेहा भगिनीव मे ।। ५९
तत्तातेनार्यपुत्रस्य भाव्यं नैव विकारिणा ।
निजसत्यमिवात्याज्यं मदीयं जीवितं यदि ।। ६०
इत्युक्ते प्रतिसंदेशे पद्मावत्या यथोचिते ।
दूतं वासवदत्ता तं सत्कृत्य प्राहिणोत्ततः ।। ६१
दूते प्रतिगते तस्मिन्स्मरन्ती पितृवेश्मनः ।
किंचित्पद्मावती तत्स्थावुत्कण्ठाविमना इव ।। ६२
ततस्तस्य विनोदार्थमुक्तो वासवदत्तया ।
वसन्तकोऽन्तिकप्राप्तः कथामित्थमवर्णयत् ।। ६३
अस्ति पाटलिपुत्राख्यं पुरं पृथ्वीविभूषणम् ।
तस्मिंश्च धर्मगुप्ताख्यो बभूवैको महावणिक् ।। ६४
तस्य चन्द्रप्रभेत्यासीद्भार्या सा च कदाचन ।
सगर्भाभूत्प्रसूताथ कन्यां सर्वाङ्गसुन्दरीम् ।। ६५
सा कन्या जातमात्रैव कान्तिद्योतितवासका ।
चक्रे सव्यक्तमालापमुत्थायोपविवेश च ।। ६६
ततो विस्मितवित्रस्तं स्त्रीजनं जातवेश्मनि ।
दृष्ट्वा स धर्मगुप्तोऽत्र सभयः स्वयमाययौ ।। ६७
पप्रच्छ कन्यकां तां च प्रणतस्तत्क्षणं रहः ।
भगवत्यवतीर्णासि का त्वं मम गृहेष्विति ।। ६८
साप्यवादीत्त्वया नैव देया कस्मैचिदप्यहम् ।
गृहस्थिता शुभाहं ते पृष्टेनान्येन तात किम् ।। ६९
इत्युक्तः स तया भीतो धर्मगुप्तः स्वमन्दिरे ।
गुप्तं तां स्थापयामास मृतेति ख्यापितां बहिः ।। ७०
ततः सोमप्रभा नाम्ना सा कन्या ववृधे क्रमात् ।
मानुषेण शरीरेण रूपकान्त्या तु दिव्यया ।। ७१
एकदा तु प्रमोदेन मधूत्सवविलोकिनीम् ।
हर्म्यस्थां गुहचन्द्राख्यो वणिक्पुत्रो ददर्श ताम् ।। ७२
स मनोभवभल्ल्येव सद्यो हृदयलग्नया ।
तया मुमूर्च्छेव तदा कृच्छ्राच्च गृहमाययौ ।। ७३
स्मरार्तिविधुरस्तत्र पित्रोरस्वास्थ्यकारणम् ।
निर्बन्धपृष्टो वक्ति स्म स्ववयस्यमुखेन सः ।। ७४
ततोऽस्य गुहसेनाख्यः पिता स्नेहेन याचितुम् ।
तां कन्यां धर्मगुप्तस्य वणिजो भवनं ययौ ।। ७५
तत्र तं कृतयाञ्चं स गुहसेनं स्नुषार्थिनम् ।
कन्या कुतो मे मूढेति धर्मगुप्तो निराकरोत् ।। ७६
निह्नुतां तेन कन्यां तां मत्वा गत्वा गृहे सुतम् ।
दृष्ट्वा स्मरज्वराक्रान्तं गुहसेनो व्यचिन्तयत् ।। ७७
राजानं प्रेरयाम्यत्र स हि मे पूर्वसेवितः ।
दापयत्यपि पुत्राय स कन्यां तां मुमूर्षवे ।। ७८
इति निश्चित्य गत्वा च दत्त्वास्मै रत्नमुत्तमम् ।
नृपं विज्ञापयामास स वणिक्स्वाभिकाङ्क्षितम् ।। ७९
नृपोऽपि प्रीतिमानस्य साहाय्ये नगराधिपम् ।
ददौ तेन समं चासौ धर्मगुप्तगृहं ययौ ।। ८०
रुरोध च गृहं तस्य धर्मगुप्तस्य तद्बलैः ।
असुभिः कण्ठदेशं च सर्वनाशविशङ्किनः ।। ८१
ततः सोमप्रभा सा तं धर्मगुप्तमभाषत ।
देहि मां तात मा भूत्ते मन्निमित्तमुपद्रवः ।। ८२
आरोपणीया शय्यायां नाहं भर्त्रा कदाचन ।
ईदृक्तु वाचा नियमो ग्राह्यः संबन्धिनां त्वया ।। ८३
इत्युक्तः स तया पुत्र्या दातुं तां प्रत्यपद्यत ।
धर्मगुप्तस्तदाभाष्य शय्यारोपणवर्जनम् ।। ८४
गुहसेनोऽनुमेने च सान्तर्हासस्तथैव तत् ।
विवाहो मम पुत्रस्य तावदस्त्विति चिन्तयन् ।। ८५
अथादाय कृतोद्वाहा तां स सोमप्रभां वधूम् ।
गुहसेनसुतः प्रायाद्गुहचन्द्रो निजं गृहम् ।। ८६
सायं चैनं पितावादीत्पुत्र शय्यामिमां वधूम् ।
आरोपय स्वभार्यां हि कस्याशय्या भविष्यति ।। ८७
तच्छ्रुत्वा श्वशुरं तं सा वधूः सोमप्रभा क्रुधा ।
विलोक्य भ्रामयामास यमाज्ञामिव तर्जनीम् ।। ८८
तां दृष्ट्वैवाङ्गुलिं तस्याः स्नुषायास्तस्य तत्क्षणम् ।
वणिजः प्रययुः प्राणा अन्येषामाययौ भयम् ।। ८९
गुहचन्द्रोऽपि संप्राप्ते तस्मिन्पितरि पञ्चताम् ।
मारी मम गृहे भार्या प्रविष्टेति व्यचिन्तयत् ।। ९०
ततश्चानुपभुञ्जानो भार्यां तां गृहवर्तिनीम् ।
सिषेवे गुहचन्द्रोऽसावासिधारमिव व्रतम् ।। ९१
तद्दुःखदह्यमानोऽन्तर्विरक्तो भोगसंपदि ।
ब्राह्मणान्भोजयामास प्रत्यहं स कृतव्रतः ।। ९२
तद्भार्यापि च सा तेभ्यो द्विजेभ्यो मौनधारिणी ।
भुक्तवद्भ्यो ददौ नित्यं दक्षिणां दिव्यरूपधृत् ।। ९३
एकदा ब्राह्मणो वृद्धस्तामेको भोजनागतः ।
ददर्श जगदाश्चर्यजननीं रूपसंपदा ।। ९४
सकौतुको द्विजोऽप्राक्षीद्गुहचन्द्रं रहस्तदा ।
का ते भवति बालेयं त्वया मे कथ्यतामिति ।। ९५
निर्बन्धपृष्टः सोऽप्यस्मै गुहचन्द्रो द्विजन्मने ।
शशंस तद्गतं सर्वं वृत्तान्तं खिन्नमानसः ।। ९६
तद्बुद्ध्वा स ततस्तस्मै सानुकम्पो द्विजोत्तमः ।
अग्नेराराधनं मन्त्रं ददावीप्सितसिद्धये ।। ९७
तेन मन्त्रेण तस्याथ जपं रहसि कुर्वतः ।
उदभूद्गुहचन्द्रस्य पुरुषो वह्निमध्यतः ।। ९८
स चाग्निर्द्विजरूपी तं जगाद चरणानतम् ।
अद्याहं त्वद्गृहे भोक्ष्ये रात्रौ स्थास्यामि तत्र च ।। ९९
दर्शयित्वा च तत्त्वं ते साधयिष्यामि वाञ्छितम् ।
इत्युक्त्वा गुहचन्द्रं स ब्राह्मणस्तद्गृहं ययौ ।। १००
तत्रान्यविप्रवद्भुक्त्वा गुहचन्द्रान्तिके च सः ।
सिषेवे शयनं रात्रौ याममात्रमतन्द्रितः ।। १०१
तावच्च संसुप्तजनात्सा तस्मात्तस्य मन्दिरात् ।
निर्ययौ गुहचन्द्रस्य भार्या सोमप्रभा निशि ।। १०२
तत्कालं ब्राह्मणः सोऽत्र गुहचन्द्रमबोधयत् ।
एहि स्वभार्यावृत्तान्तं पश्येत्येनमुवाच च ।। १०३
योगेन भृङ्गरूपं च कृत्वा तस्यात्मनस्तथा ।
निर्गत्यादर्शयत्तस्य भार्यां तां गृहनिर्गताम् ।। १०४
सा जगाम सुदूरं च सुन्दरी नगराद्बहिः ।
गुहचन्द्रेण साकं च द्विजोऽप्यनुजगाम ताम् ।। १०५
ततस्तत्र महाभोगं सच्छायस्कन्धसुन्दरम् ।
गुहचन्द्रो ददर्शासावेकं न्यग्रोधपादपम् ।। १०६
तस्याधस्ताच्च शुश्राव वीणावेणुरवान्वितम् ।
उल्लसद्गीतमधुरं दिव्यं संगीतकध्वनिम् ।। १०७
स्कन्धदेशे च तस्यैकां स्वभार्यासदृशाकृतिम् ।
अपश्यत्कन्यकां दिव्यामुपविष्टां महासने ।। १०८
निजकान्तिजितज्योत्स्नां शुक्लचामरवीजिताम् ।
इन्दोर्लावण्यसर्वस्वकोषस्येवाधिदेवताम् ।। १०९
अत्रैवारुह्य वृक्षे च तस्या अर्धासने तदा ।
उपविष्टां स्वभार्यां तां गुहचन्द्रो ददर्श सः ।। ११०
तत्कालं तुल्यकान्ती ते संगते दिव्यकन्यके ।
पश्यतस्तस्य भाति स्म सा त्रिचन्द्रेव यामिनी ।। १११
ततः स कौतुकाविष्टः क्षणमेवमचिन्तयत् ।
किं स्वप्नोऽयमुत भ्रान्तिर्धिगेतदथवा द्वयम् ।। ११२
या सन्मार्गतरोरेषा विद्वत्संगतिमञ्जरी ।
असौ पुष्पोद्गतिस्तस्या ममोचितफलोन्मुखी ।। ११३
इति चिन्तयति स्वैरं तस्मिंस्ते दिव्यकन्यके ।
भुक्त्वा निजोचितं भोज्यं दिव्यं पपतुरासवम् ।। ११४
अद्यागतो महातेजा द्विजः कोऽपि गृहेषु नः ।
तस्माद्भगिनि चेतो मे शङ्कितं तद्व्रजाम्यहम् ।। ११५
इत्युक्त्वा तामथामन्त्र्य द्वितीयां दिव्यकन्यकाम् ।
गुहचन्द्रस्य गृहिणी तरोरवरुरोह सा ।। ५१६
तद्दृष्ट्वा भृङ्गरूपौ तौ गुहचन्द्रो द्विजश्च सः ।
प्रत्यागत्याग्रतो गेहे पूर्ववत्तस्थतुर्निशि ।। ११७
ततः सा दिव्यकन्यापि गुहचन्द्रस्य गेहिनी ।
आगत्यालक्षितात्रैव प्रविवेश स्वमन्दिरम् ।। ११८
ततः स ब्राह्मणः स्वैरं गुहचन्द्रमभाषत ।
दृष्टं त्वया यदेषा ते भार्या दिव्या न मानुषी ।। ११९
द्वितीया सापि चैतस्या दृष्टाद्य भगिनी त्वया ।
दिव्या स्त्री तु मनुष्येण कथमिच्छति संगमम् ।। १२०
तदेतत्सिद्धये मन्त्रं द्वारोल्लेख्यं ददामि ते ।
तस्योपबृंहणीं बाह्यां युक्तिं चोपदिशाम्यहम् ।। १२१
विशुद्धोऽपि ज्वलत्यग्निर्वात्यायोगे तु का कथा ।
एवं मन्त्रोऽर्थदोऽप्येकः किं पुनर्युक्तिसंयुतः ।। १२२
इत्युक्त्वा गुहचन्द्राय दत्त्वा मन्त्रं द्विजोत्तमः ।
उपदिश्य च तां युक्तिं प्रभाते स तिरोदधे ।। १२३
गुहचन्द्रोऽपि भार्याया गृहद्वारेऽभिलिख्य तम् ।
मन्त्रं पुनश्चकारैवं सायं युक्तिं प्ररोचनीम् ।। १२४
गत्वा स तस्याः पश्यन्त्या कयापि वरयोषिता ।
सह चक्रे समालापं रचितोदारमण्डनः ।। १२५
तद्दृष्ट्वैव तमाहूय मन्त्रोन्मुद्रितया गिरा ।
एषा कास्तीति पप्रच्छ सा सेर्ष्या दिव्यकन्यका ।। १२६
असौ वराङ्गना बद्धभावा मय्यहमद्य च ।
एतद्गृहं व्रजामीति प्रत्यवोचत्स तां मृषा ।। १२७
ततः साचीकृतदृशा मुखेन वलितभ्रुणा ।
दृष्ट्वा निवार्य वामेन करेण तमुवाच सा ।। १२८
हुं ज्ञातमेतदर्थोऽयं वेषस्तत्र च मा स्म गाः ।
किं तया मामुपेहि त्वमहं हि तव गेहिनी ।। १२९
इत्युक्तः पुलकोत्कम्पसंक्षोभाकुलया तया ।
आविष्टयेव तन्मन्त्रदूतदुर्ग्रहयापि सः ।। १३०
प्रविश्य वासके सद्यस्तयैव सममन्वभूत् ।
मर्त्योऽपि दिव्यसंभोगमसंस्पृष्टं मनोरथैः ।। १३१
इत्थं तां प्राप्य सप्रेमां मन्त्रसिद्धिप्रसाधिताम् ।
त्यक्तदिव्यस्थितिं तस्थौ गुहचन्द्रो यथासुखम् ।। १३२
एवं यागप्रदानादिसुकृतैः शुभकर्मणाम् ।
दिव्याः शापच्युता नार्यस्तिष्ठन्ति गृहिणीपदे ।। १३३
देवद्विजसपर्या हि कामधेनुर्मता सताम् ।
किं हि न प्राप्यते तस्याः शैषाः सामादिवर्णनाः ।। १३४
दुष्कृतं त्वयि दिव्यानामत्युच्चपदजन्मनाम् ।
प्रवातमिव पुष्पाणामधःपातैककारणम् ।। १३५
इत्युक्त्वा राजपुत्र्याः स पुनराह वसन्तकः ।
किं चात्र यदहल्याया वृत्तं तच्छ्रूयतामिदम् ।। १३६
पुराभूद्गौतमो नाम त्रिकालज्ञो महामुनिः ।
अहल्येति च तस्यासीद्भार्या रूपजिताप्सराः ।। १३७
एकदा रूपलुब्धस्तामिन्द्रः प्रार्थितवान्रहः ।
प्रभूणां हि विभूत्यन्धा धावत्यविषये मतिः ।। १३८
सानुमेने च तं मूढा वृषस्यन्ती शचीपतिम् ।
तच्च प्रभावतो बुद्ध्वा तत्रागाद्गौतमो मुनिः ।। १३९
मार्जाररूपं चक्रे च भयादिन्द्रोऽपि तत्क्षणम् ।
कः स्थितोऽत्रेति सोऽपृच्छदहल्यामथ गौतमः ।। १४०
एसो ठिओ सु मज्जारो इत्यपभ्रष्टवक्रया ।
गिरा सत्यानुरोधिन्या सा तं प्रत्यब्रवीत्पतिम् ।। १४१
सत्यं त्वज्जार इत्युक्त्वा विहसन्स ततो मुनिः ।
सत्यानुरोधक्लृप्तान्तं शापं तस्यामपातयत् ।। १४२
पापशीले शिलाभावं भूरिकालमवाप्नुहि ।
आ वनान्तरसंचारिराघवालोकनादिति ।। १४३
वराङ्गलुब्धस्याङ्गे ते तत्सहस्रं भविष्यति ।
दिव्यस्त्रीं विश्वकर्मा यां निर्मास्यति तिलोत्तमाम् ।। १४४
तां विलोक्य तदैवाक्ष्णां सहस्रं भविता च ते ।
इतीन्द्रमपि तत्कालं शपति स्म स गौतमः ।। १४५
दत्तशापो यथाकामं तपसे स मुनिर्ययौ ।
अहल्यापि शिलाभावं दारुणं प्रत्यपद्यत ।। १४६
इन्द्रोऽप्यावृतसर्वाङ्गो वराङ्गैरभवत्ततः ।
अशीलं तस्य नाम स्यान्न खलीकारकारणम् ।। १४७
एवं कुकर्म सर्वस्य फलत्यात्मनि सर्वदा ।
यो यद्वपति बीजं हि लभते सोऽपि तत्फलम् ।। १४८
तस्मात्परविरुद्धेषु नोत्सहन्ते महाशयाः ।
एतदुत्तमसत्त्वानां विधिसिद्धं हि सद्व्रतम् ।। १४९
युवां पूर्वभगिन्यौ च देव्यौ शापच्युते उभे ।
तद्वदन्योन्यहितकृन्निर्द्वन्द्वं हृदयं हि वाम् ।। १५०
एतद्वसन्तकाच्छ्रुत्वा मिथो वासवदत्तया ।
पद्मावत्या च सुतरामीर्ष्यालेशोप्यमुच्यत ।। १५१
देवी वासवदत्ता च कृत्वा साधारणं पतिम् ।
आत्मनीव प्रियं चक्रे पद्मावत्यां हितोन्मुखी ।। १५२
तस्या महानुभावत्वं तत्तादृङ्मगधेश्वरः ।
बुद्ध्वा पद्मावतीसृष्टदूतेभ्योऽपि तुतोष सः ।। १५३
अन्येद्युरथ वत्सेशं मन्त्री यौगन्धरायणः ।
उपेत्य संनिधौ देव्याः स्थितेष्वन्येष्वभाषत ।। १५४
उद्योगायाधुना देव कौशाम्बी किं न गम्यते ।
नाशङ्का मगधेशाच्च विद्यते वञ्चितादपि ।। १५५
कन्यासंबन्धनाम्ना हि साम्ना सम्यक्स बाधितः ।
विगृह्य च कथं जह्याज्जीवितादधिकां सुताम् ।। १५६
सत्यं तस्यानुपाल्यं च त्वया च स न वञ्चितः ।
मया स्वयं कृतं ह्येतन्न च तस्यासुखावहम् ।। १५७
चारेभ्यश्च मया ज्ञातं यथा विकुरुते न सः ।
तदर्थमेव चास्माभिः स्थितं च दिवसानमून् ।। १५८
एवं वदति निर्व्यूढकार्ये यौगन्धरायणे ।
मगधेश्वरसंबन्धी दूतोऽत्र समुपाययौ ।। १५९
तत्क्षणं स प्रविष्टोऽत्र प्रतिहारनिवेदितः ।
प्रणामान्तरमासीनो वत्सराज व्यजिज्ञपत् ।। १६०
देवीपद्मावतीदत्तसंदेशपरितोषिणा ।
मगधेशेन निर्दिष्टमिदं देवस्य सांप्रतम् ।। १६१
बहुना किं मया सर्वं ज्ञातुं प्रीतोऽस्मि च त्वयि ।
तद्यदर्थोऽयमारम्भस्तत्कुरु प्रणता वयम् ।। १६२
एतद्दूतवचः स्वेच्छं वत्सेशोऽभिननन्द सः ।
यौगन्धरायणीयस्य पुष्पं नयतरोरिव ।। १६३
ततः पद्मावतीं गत्या समानाय्य समं तया ।
तं दत्तप्राभृतं दूतं स संमान्य व्यसर्जयत् ।। १६४
अथ चण्डमहासेनदूतोऽप्यत्र समाययौ ।
प्रविश्य स यथावच्च राजानं प्रणतोऽब्रवीत् ।। १६५
देव चण्डमहासेनभूपतिः कार्यतत्त्ववित् ।
तव विज्ञातवृत्तान्तो हृष्टः संदिष्टवानिदम् ।। १६६
प्राशस्त्यं भवतस्तावदियतैवोपवर्णितम् ।
यौगन्धरायणो यत्ते मन्त्री किमधिकोक्तिभिः ।। १६७
धन्या वासवदत्ता तु त्वद्भक्त्या तत्कृतं तया ।
येनास्माभिः सतां मध्ये चिरमुन्नमितं शिरः ।। १६८
न च वासवदत्तातो भिन्ना पद्मावती मम ।
तयोरेकं हि हृदयं तच्छीघ्रं कुरुतोद्यमम् ।। १६९
एतन्निजश्वशुरदूतवचो निशम्य वत्सेश्वरस्य हृदये सपदि प्रमोदः ।
देव्यां च कोऽपि ववृधे प्रणयप्रकर्षो भूयांश्च मन्त्रिवृषभे प्रणयानुबन्धः ।। १७०
ततस्तं देवीभ्यां सममुचितसत्कारविधिना
कृतातिथ्यं दूतं सरभसमनाः प्रेष्य मुदितम् ।
विधास्यन्नुद्योगं त्वरितमथ संमन्त्र्य सचिवैः
स चक्रे कौशाम्बीं प्रति गमनबुद्धिं नरपतिः ।। १७१
इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे लावाणकलम्बके तृतीयस्तरङ्गः ।