ततो लावाणकात्तस्मादन्येद्युः सचिवैः सह ।
वत्सराजः स कौशाम्बीं प्रतस्थे दयितान्वितः ।। १
प्रसस्रे च लसन्नादैस्तस्यापूरितभूतलैः ।
बलैरसमयोद्वेलजलराशिजलैरिव ।। २
उपमा नृपतेस्तस्य गजेन्द्रस्थस्य गच्छतः ।
भवेद्यदि रविर्यायाद्गगने सोदयाचलः ।। ३
स सितेनातपत्रेण कृतच्छायो बभौ नृपः ।
जितार्कतेजःप्रीतेन सेव्यमान इवेन्दुना ।। ४
तेजस्विनं स्वकक्षाभिस्तं सर्वोपरिवर्तिनम् ।
सामन्ताः परितो भ्रेमुर्ध्रुव ग्रहगणा इव ।। ७
पश्चात्करेणुकारूढे देव्यौ द्वे तस्य रेजतुः ।
श्रीभुवावनुरागेण साक्षादनुगते इव ।। ६
त्वङ्गत्तुरंगसंघातसुराग्राङ्कनखक्षता ।
पथि तस्याभवद्भूमिरुपभुक्तेव भूपतेः ।। ७
एवं वत्सेश्वरो गच्छन्स्तूयमानः स बन्दिभिः ।
दिनैः कतिपयैः प्राप कौशाम्बीं विततोत्सवाम् ।। ८
ध्वजरक्तांशुकच्छन्ना गवाक्षोत्फुल्ललोचना ।
प्रद्वारदर्शितोत्तुङ्गपूर्णकुम्भकुचद्वया ।। ९
जनकोलाहलानन्दसंलापा सौधहासिनी ।
सा प्रवासागते पत्यौ तत्कालं शुशुभे पुरी ।। १०
देवीद्वयानुयातश्च स राजा प्रविवेश ताम् ।
पौरस्त्रीणां च कोऽप्यासीत्तत्र तद्दर्शनोत्सवः ।। ११
अपूरि हारिहर्म्यस्थरामाननशतैर्नभः ।
देवीमुखजितस्येन्दोः सैन्यैः सेवागतैरिव ।। १२
वातायनगताश्चान्याः पश्यन्त्योऽनिमिषेक्षणाः ।
चक्रुः सकौतुकायातविमानस्थात्सरोभ्रमम् ।। १३
काश्चिद्गवाक्षजालाग्रलग्नपक्ष्मललोचनाः ।
असृजन्निव नाराचपञ्जराणि मनोभुवः ।। १४
एकस्याः सोत्सुका दृष्टिर्नृपालोकविकस्वरा ।
श्रुतेः पार्श्वमपश्यन्त्यास्तदाख्यातुमिवाययौ ।। १५
द्रुतागतायाः कस्याश्चिन्मुहुरुच्छ्वसितौ स्तनौ ।
कञ्चुकादिव निर्गन्तुमीषतुस्तद्दिदृक्षया ।। १६
अन्यस्याः संभ्रमच्छिन्नहारमुक्ताकणा बभुः ।
गलन्तो हृदयस्येव हर्षबाष्पाम्बुसीकराः ।। १७
यद्यस्यामाचरेत्पापमग्निर्लावाणके ततः ।
प्रकाशकोऽप्यसावन्धं तमो जगति पातयेत् ।। १८
इति वासवदत्तां च दृष्ट्वा स्मृत्वा च तत्तथा ।
दाहप्रवादं सोत्कण्ठा इव काश्चिद्बभाषिरे ।। १९
दिष्ट्या न लज्जिता देवी सपत्न्या सखितुल्यया ।
इति पद्मावतीं वीक्ष्य वयस्या जगदेऽन्यया ।। २०
नूनं हरमुरारिभ्यां न दृष्टं रूपमेतयोः ।
किमन्यथा भजेतां तौ बहुमानमुमाश्रियौ ।। २१
इत्यूचुरपरास्ते द्वे दृष्ट्वा देव्यौ परस्परम् ।
क्षिपन्त्यः प्रमदोत्फुल्ललोचनेन्दीवरस्रजः ।। २२
एवं वत्सेश्वरः कुर्वञ्जनतानयनोत्सवम् ।
स्वमन्दिरं सदेवीकः प्राविशत्कृतमङ्गलः ।। २३
प्रभाते याब्जसरसो याब्धेरिन्दूदये तथा ।
तत्कालं तस्य सा कापि शोभाभूद्राजवेश्मनः ।। २४
क्षणादपूरि सामन्तमङ्गलोपायनैश्च तत् ।
सूचयद्भिरिवाशेषभूपालोपायनागमम् ।। २५
संमान्य राजलोकं च वत्सराजः कृतोत्सवः ।
चित्तं सर्वजनस्येव विवेशान्तःपुरं ततः ।। २६
देव्योर्मध्यस्थितस्तत्र रतिप्रीत्योरिव स्मरः ।
पानादिलीलया राजा दिनशेषं निनाय सः ।। २७
अपरेद्युश्च तस्यैको नृपस्यास्थानवर्तिनः ।
मन्त्रिणां संनिधौ विप्रो द्वारि चक्रन्द कश्चन ।। २८
अब्रह्मण्यमटव्यां मे पापैर्गोपालकैः प्रभो ।
पुत्रस्य चरणोच्छेदो विहितः कारणं विना ।। २९
तच्छ्रुत्वा तत्क्षणं द्वित्रान्वष्टभ्यानाय्य भूपतिः ।
गोपालकान्स पप्रच्छ ततस्तेऽप्येवमब्रुवन् ।। ३०
देव गोपालका भूत्वा क्रीडामो विजने वयम् ।
तत्रैको देवसेनाख्यो मध्ये गोपालकोऽस्ति नः ।। ३१
एकदेशे च सोऽटव्यामुपविष्टः शिलासने ।
राजा युष्माकमस्मीति वक्त्यस्माननुशास्ति च ।। ३२
अस्मन्मध्ये च केनापि तस्याज्ञा न विलङ्घ्यते ।
एवं गोपालकोऽरण्ये राज्यं स कुरुते प्रभो ।। ३३
अद्य चैतस्य विप्रस्य तनयस्तेन वर्त्मना ।
गच्छन्गोपालराजस्य प्रणामं तस्य नाकरोत् ।। ३४
मा गास्त्वमप्रणम्येति राजादेशेन जल्पतः ।
अस्मान्विधूय सोऽयासीच्छासितोऽपि हसन्बटुः ।। ३५
ततस्तस्याविनीतस्य पादच्छेदेन निग्रहम् ।
कर्तुं गोपालराजेन वयमाज्ञापिता बटोः ।। ३६
धावित्वा च ततोऽस्माभिश्छिन्नोऽस्य चरणः प्रभो ।
अस्मादृशः प्रभोराज्ञां कोऽतिलङ्घयितुं क्षमः ।। ३७
एवं गोपालकै राज्ञि विज्ञप्ते संप्रधार्य तत् ।
यौगन्धरायणो धीमान्राजानं विजनेऽब्रवीत् ।। ३८
नूनं निधानादियुतं तत्स्थानं यत्प्रभावतः ।
गोपालकोऽपि प्रभवत्येवं तत्तत्र गम्यताम् ।। ३९
इत्युक्तो मन्त्रिणा राजा कृत्वा गोपालकान्पुरः ।
ययौ तदटवीस्थानं ससैन्यः सपरिच्छदः ।। ४०
परीक्ष्य भूमिं यावच्च खन्यते तत्र कर्मिभिः ।
अधस्तात्तावदुत्तस्थौ यक्षः शैलमयाकृतिः ।। ४१
सोऽब्रवीच्च मया राजन्निदं यद्रक्षितं चिरम् ।
पितामहनिखातं ते निधानं स्वीकुरुष्व तत् ।। ४२
इति वत्सेशमुक्त्वा च तत्पूजां प्रतिगृह्य च ।
यक्षस्तिरोऽभूत्खाते च महानाविरभून्निधिः ।। ४३
अलभ्यत महार्हं च रत्नसिंहासनं ततः ।
भवन्त्युदयकाले हि सत्कल्याणपरम्पराः ।। ४४
ततः कृत्स्नं समादाय निधानं स कृतोत्सवः ।
तान्प्रशास्य च गोपालान्वत्सेशः स्वपुरीं ययौ ।। ४५
तत्रारुणमणिग्रावकिरणप्रसरैः प्रभोः ।
प्रतापाक्रमणं दिक्षु भविष्यदिव दर्शयत् ।। ४६
रौप्याङ्कुरमुखप्रोतमुक्तासंततिदन्तुरम् ।
मुहुर्हासमिवालोच्य तन्मन्त्रिमतिविस्मयम् ।। ४७
ददृशुस्तन्नृपानीतं हेमसिंहासनं जनाः ।
ननन्दुश्च हतानन्ददुन्दुभिध्वानसुन्दरम् ।। ४८
मन्त्रिणोऽप्युत्सवं चक्रुर्जयं निश्चित्य भूपतेः ।
आमुखापातिकल्याणं कार्यसिद्धिं हि शंसति ।। ४९
ततः पताकाविद्युद्भिराकीर्णे गगनान्तरे ।
ववर्ष राजजलदः कनकं सोऽनुजीविषु ।। ५०
उत्सवेन च नीतेऽस्मिन्दिने यौगन्धरायणः ।
चित्तं जिज्ञासुरन्येद्युर्वत्सेश्वरमभाषत ।। ५१
एतत्कुलक्रमायातं महासिंहासनं त्वया ।
यत्प्राप्तं तत्समारुह्य देवालंक्रियतामिति ।। ५२
विजित्य पृथ्वीमारूढा यत्र मे प्रपितामहाः ।
तत्राजित्वा दिशः सर्वाः का ममारोहतः प्रथा ।। ५३
जित्वैवेमां समुद्रान्तां पृथ्वीं पृथुविभूषणाम् ।
अलंकरोमि पूर्वेषां रत्नसिंहासनं महत् ।। ५४
इत्यूचिवान्नरपतिर्नारुरोह स संप्रति ।
संभवत्यभिजातानामभिमानो ह्यकृत्रिमः ।। ५५५५
ततः प्रीतस्तमाह स्म नृपं यौगन्धरायणः ।
साधु देव कुरु प्राच्यां तर्हि पूर्वं जयोद्यमम् ।। ५६
तच्छ्रुत्वैव प्रसङ्गात्तं राजा पप्रच्छ मन्त्रिणम् ।
स्थितास्वप्युत्तराद्यासु प्राक्प्राचीं यान्ति किं नृपाः ।। ५७
एतच्छ्रुत्वा जगादैनं पुनर्यौगन्धरायणः ।
स्फीतापि राजन्कौवेरी म्लेच्छसंसर्गगर्हिता ।। ५८
अर्काद्यस्तमये हेतुः पश्चिमापि न पूज्यते ।
आसन्नराक्षसा दुष्टा दक्षिणाप्यन्तकाश्रिता ।। ५९
प्राच्यामुदेति सूर्यस्तु प्राचीमिन्द्रोऽधितिष्ठति ।
जाह्नवीं याति च प्राचीं तेन प्राची प्रशस्यते ।। ६०
देशेष्वपि च विन्ध्याद्रिहिमवन्मध्यवर्तिषु ।
जाह्नवीजलपूतो यः स प्रशस्यतमो मतः ।। ६१
तस्मात्प्राचीं प्रयान्त्यादौ राजानो मङ्गलैषिणः ।
निवसन्ति च देशेऽपि सुरसिन्धुसमाश्रिते ।। ६२
पूर्वजैरपि हि प्राचीप्रक्रमेण जिता दिशः ।
गङ्गोपकण्ठे वासश्च विहितो हस्तिनापुरे ।। ६३
शतानीकस्तु कौशाम्बीं रम्यभावेन शिश्रिये ।
साम्राज्ये पौरुषाधीने पश्यन्देशमकारणम् ।। ६४
इत्युक्त्वा विरते तत्र तस्मिन्यौगन्धरायणे ।
राजा पुरुषकारैकबहुमानादभाषत ।। ६५५
सत्यं न देशनियमः साम्राज्यस्येह कारणम् ।
संपत्सु हि सुसत्त्वानामेकहेतुः स्वपौरुषम् ।। ६६
एकोऽप्याश्रयहीनोऽपि लक्ष्मीं प्राप्नोति सत्त्ववान् ।
श्रुता किं नात्र युष्माभिः पुंसः सत्त्ववतः कथा ।। ६७
एवमुक्त्वा स वत्सेशः सचिवाभ्यर्थितः शुभाम् ।
विचित्रां संनिधौ देव्योरिमामकथयत्कथाम् ।। ६८
अस्ति भूतलविख्याता येयमुज्जयिनी पुरी ।
तस्यामादित्यसेनाख्यः पूर्वमासीन्महीपतिः ।। ६९
आदित्यस्येव यस्येह न चस्खाल किल क्वचित् ।
प्रतापनिलयस्यैकचक्रवर्तितया रथः ।। ७०
भासयत्युच्छ्रिते व्योम यच्छत्त्रे तुहिनत्विषि ।
न्यवर्तन्तातपत्राणि राज्ञामपगतोष्मणाम् ।। ७१
समस्तभूतलाभोगसंभवानां बभूव सः ।
भाजनं सर्वरत्नानामम्बुराशिरिवाम्भसाम् ।। ७२
स कदाचन कस्यापि हेतोर्यात्रागतो नृपः ।
ससैन्यो जाहवीकूलमासाद्यावस्थितोऽभवत् ।। ७३
तत्र तं गुणवर्माख्यः कोऽप्याढ्यस्तत्प्रदेशजः ।
अभ्यगान्नृपमादाय कन्यारत्नमुपायनम् ।। ७४
रत्नं त्रिभुवनेऽप्येषा कन्योत्पन्ना गृहे मम ।
नान्यत्र दातुं शक्या च देवो हि प्रभुरीदृशः ।। ७५
इत्यावेद्य प्रतीहारमुखेनाथ प्रविश्य सः ।
गुणवर्मा निजां तस्मै राज्ञे कन्यामदर्शयत् ।। ६
स तां तेजस्वतीं नाम दीप्तिद्योतितदिङ्मुखाम् ।
अनङ्गमङ्गलावासरत्नदीपशिखामिव ।। ७७
पश्यन्स्नेहमयो राजा श्लिष्टस्तत्कान्तितेजसा ।
कामाग्निनेव संतप्तः स्विन्नो विगलति स्म सः ।। ७८
स्वीकृत्यैतां च तत्कालं महादेवीपदोचिताम् ।
चकार गुणवर्माणं परितुष्यात्मनः समम् ।। ७९
ततस्तां परिणीयैव प्रियां तेजस्वतीं नृपः ।
कृतार्थमानी स तया साकमुज्जयिनीं ययौ ।। ८०
तत्र तन्मुखसक्तैकदृष्टी राजा ह्यभूत्तथा ।
ददर्श राजकार्याणि न यथा सुमहान्त्यपि ।। ८१
तेजस्वतीकलालापकीलितेव किल श्रुतिः ।
नावसन्नप्रजाक्रन्दैस्तस्याक्रष्टुमशक्यत ।। ८२
चिरप्रविष्टो निरगान्नैव सोऽन्तःपुरान्नृपः ।
निरगादरिवर्गस्य हृदयात्तु रुजाज्वरः ।। ८३
कालेन तस्य जज्ञे च राज्ञः सर्वाभिनन्दिता ।
कन्या तेजस्वती देव्यां बुद्धौ च विजिगीषुता ।। ८४
परमाद्भुतरूपा सा तृणीकृत्य जगत्त्रयम् ।
हर्षं तस्याकरोत्कन्या प्रतापं च जिगीषुता ।। ८५५
अथाभियोक्तुमुत्सिक्तं सामन्तं कंचिदेकदा ।
आदित्यसेनः प्रययावुज्जयिन्याः स भूपतिः ।। ८६
तां च तेजस्वतीं राज्ञीं समारूढकरेणुकाम् ।
सहप्रयायिनीं चक्रे सैन्यस्येवाधिदेवताम् ।। ८७
आरुरोह वराश्वं च दर्पोद्यद्धर्मनिर्झरम् ।
जङ्गमाद्रिनिभं तुङ्गं स श्रीवृक्षं समेखलम् ।। ८८
आसृक्कोत्थितपादाभ्यामभ्यस्यन्तमिवाम्बरे ।
गतिं गरुत्मतो दृष्टां वेगसब्रह्मचारिणः ।। ८९
जवस्य मम पर्याप्ता किं नु स्यादिति मेदिनीम् ।
कलयन्तमिवोन्नम्य कंधरां धीरया दृशा ।। ९०
किंचिद्गत्वा च संप्राप्य समां भूमिं स भूपतिः ।
अश्वमुत्तेजयामास तेजस्वत्याः प्रदर्शयन् ।। ९१
सोऽश्वस्तत्पार्ष्णिघातेन यन्त्रेणेवेरितः शरः ।
जगाम क्वाप्यतिजवादलक्ष्यो लोकलोचनैः ।। ९२
तद्दृष्ट्वा विह्वले सैन्ये हयारोहाः सहस्रधा ।
अन्वधावन्न च प्रापुस्तमश्वापहृतं नृपम् ।। ९३
ततश्चानिष्टमाशङ्क्य ससैन्या मन्त्रिणो भयात् ।
आदाय देवीं क्रदन्तीं निवृत्त्योज्जयिनीं ययुः ।। ९४
तत्र ते पिहितद्वारकृतप्राकारगुप्तयः ।
राज्ञः प्रवृत्तिं चिन्वन्तस्तस्थुराश्वासितप्रजाः ।। ९५
अत्रान्तरे स राजापि नीतोऽभूत्तेन वाजिना ।
सरौद्रसिंहसंचारां दुर्गां विन्ध्याटवीं क्षणात् ।। ९६
तत्र दैवात्स्थिते तस्मिन्नश्वे स सहसा नृपः ।
आसीन्महाटवीदत्तदिङ्मोहो विह्वलाकुलः ।। ९७
गतिमन्यामपश्यंश्च सोऽवतीर्य प्रणम्य च ।
तं जगादाश्वजातिज्ञो राजा वरतुरंगमम् ।। ९८
देवस्त्वं न प्रभुद्रोहं त्वादृशः कर्तुमर्हति ।
तन्मे त्वमेव शरणं शिवेन नय मां पथा ।। ९३
तच्छ्रुत्वा सानुतापः सन्सोऽश्वो जातिस्मरस्तदा ।
तत्तथेत्यग्रहीद्बुद्धौ दैवतं हि हयोत्तमः ।। १००
ततो राज्ञि समारूढे स प्रतस्थे तुरंगमः ।
स्वच्छशीताम्बुसरसा मार्गेणाध्वक्लमच्छिदा ।। १०१
सायं च प्रापयामास स योजनशतान्तरम् ।
उज्जयिन्याः समीपं तं राजानं वाजिसत्तमः ।। १०२
तद्वेगविजितान्वीक्ष्य सप्तापि निजवाजिनः ।
अस्ताद्रिकंदरालीने लज्जयेवांशुमालिनि ।। १०३
तमसि प्रसृते द्वाराण्युज्जयिन्या विलोक्य सः ।
पिहितानि श्मशानं च बहिस्तत्कालभीषणम् ।। १०४
निनायैनं निवासाय भूपतिं बुद्धिमान्हयः ।
बाह्यैकान्तस्थितं तत्र गुप्तं विप्रमठं निशि ।। १०५
निशातिवाहयोग्यं च तं स दृष्ट्वा मठं नृपः ।
आदित्यसेनः प्रारेभे प्रवेष्टुं श्रान्तवाहनः ।। १०६
रुरुधुस्तस्य विप्राश्च प्रवेशं तन्निवासिनः ।
श्मशानपालश्चौरो वा कोऽप्यसाविति वादिनः ।। १०७
निर्ययुस्ते च संसक्तकलहा लोलनिष्ठुराः ।
भयकार्कश्यकोपानां गृहं हि च्छान्दसा द्विजाः ।। १०८
रटत्सु तेषु तत्रैको निर्जगाम ततौ मठात् ।
विदूषकाख्यो गुणवान्धुर्यः सत्त्ववतां द्विजः ।। १०९
यो युवा बाहुशाली च तपसाराध्य पावकम् ।
प्राप खड्गोत्तमं तस्माद्ध्यातमात्रोपगामिनम् ।। ११०
स दृष्ट्वा तं निशि प्राप्तं धीरो भव्याकृतिं नृपम् ।
प्रच्छन्नः कोऽपि देवोऽयमिति दध्यौ विदूषकः ।। १११
विधूय विप्रांश्चान्यांस्तान्स सर्वानुचिताशयः ।
नृपं प्रवेशयामास मठान्तः प्रश्रयानतः ।। ११२
विश्रान्तस्य च दासीभिर्धूताध्वरजसः क्षणात् ।
आहारं कल्पयामास राज्ञस्तस्य निजोचितम् ।। ११३
तं चापनीतपर्याणं तदीयं तुरगोत्तमम् ।
यवसादिप्रदानेन चकार विगतश्रमम् ।। ११४
रक्षाम्यहं शरीरं ते तत्सुखं स्वपिहि प्रभो ।
इत्युवाच च तं श्रान्तमास्तीर्णशयनं नृपम् ।। ११५
सुप्ते च तस्मिन्द्वारस्थो जागरामास स द्विजः ।
चिन्तितोपस्थिताग्नेयखड्गहस्तोऽखिलां निशाम् ।। ११६
प्रातश्च तस्य नृपतेः प्रबुद्धस्यैव स स्वयम् ।
अनुक्त एव तुरगं सज्जीचक्रे विदूषकः ।। ११७
राजापि स तमामन्त्र्य समारुह्य च वाजिनम् ।
विवेशोज्जयिनीं दूराद्दृष्टो हर्षाकुलैर्जनैः ।। ११८
प्रविष्टमभिजग्मुस्तं सर्वाः प्रकृतयः क्षणात् ।
तदागमनजानन्दलसत्कलकलारवाः ।। ११९
आययौ राजभवनं स राजा सचिवान्वितः ।
ययौ तेजस्वतीदेव्या हृदयाच्च महाज्वरः ।। १२०
वाताहतोत्सवाक्षिप्तपताकांशुकपङ्क्तिभिः ।
उत्सारिता इवाभूवन्नगर्यास्तत्क्षणं शुचः ।। १२१
अकरोदा दिनान्तं च देवीं तावन्महोत्सवम् ।
यावन्नगरलोकोऽभूत्सार्कः सिन्दूरपिङ्गलः ।। १२२
अन्येद्युः स तमादित्यसेनो राजा विदूषकम् ।
मठादानाययामास तस्मात्सर्वैर्द्विजैः सह ।। १२३
प्रख्याप्य रात्रिवृत्तान्तं ददौ तस्मै च तत्क्षणम् ।
विदूषकाय ग्रामाणां सहस्रमुपकारिणे ।। १२४
पौरोहित्ये च चक्रे तं प्रदत्तच्छत्त्रवाहनम् ।
विप्रं कृतज्ञो नृपतिः कौतुकालोकितं जनैः ।। १२५
एवं तदैव सामन्ततुल्यः सोऽभूऽद्विदूषकः ।
मोघा हि नाम जायेत महत्सूपकृतिः कुतः ।। १२६
यांश्च प्राप नृपाद्ग्रामांस्तान्सर्वान्स महाशयः ।
तन्मठाश्रयिभिर्विप्रैः समं साधारणान्व्यधात् ।। १२७
तस्थौ च सेवमानस्तं राजानं स तदाश्रितः ।
भुञ्जानश्च सहान्यैस्तैर्ब्राह्मणैर्ग्रामसंचयम् ।। १२८
काले गच्छति चान्ये ते सर्वे प्राधान्यमिच्छवः ।
नैव तं गणयामासुर्द्विजा धनमदोद्धताः ।। १२९
विमिन्नैः सप्तसंख्याकैरेकस्थानाश्रयैर्मिथः ।
संघर्षात्तैरबाध्यन्त ग्रामा दुष्टैर्ग्रहैरिव ।। १३०
उच्छृङ्खलेषु तेष्वासीदुदासीनो विदूषकः ।
अल्पभावेषु धीराणामवज्ञैव हि शोभते ।। १५१
एकदा कलहासक्तान्दृष्ट्वा तानभ्युपाययौ ।
कश्चिच्चक्रधरो नाम विप्रः प्रकृतिनिष्ठुरः ।। १३२
परार्तन्यायवादेषु काणोऽप्यम्लानदर्शनः ।
कुब्जोऽपि वाचि सुस्पष्टो विप्रस्तानित्यभाषत ।। १३३
प्राप्ता भिक्षाचरैर्भूत्वा भवद्भिः श्रीरियं शठाः ।
तन्नाशयथ किं ग्रामानन्योन्यमसहिष्णवः ।। १३४
विदूषकस्य दोषोऽयं येन यूयमुपेक्षिताः ।
तदसंदिग्धमचिरात्पुनर्भिक्षां भ्रमिष्यथ ।। १३५
वरं हि दैवायत्तैकवृद्धिस्थानमनायकम् ।
न तु विप्लुतसर्वार्थं विभिन्नबहुनायकम् ।। १३६
तदेकं नायकं धीरं कुरुध्वं वचसा मम ।
स्थिरया यदि कृत्यं वो धुर्यरक्षितया श्रिया ।। १३७
तच्छ्रुत्वा नायकत्वं ते सर्वेऽप्यैच्छन्यदात्मनः ।
तदा विचिन्त्य मूढांस्तान्पुनश्चक्रधरोऽब्रवीत् ।। १३८
संघर्षशालिनां तर्हि समयं वो ददाम्यहम् ।
इतः श्मशाने शूलायां त्रयश्चौरा निषूदिताः ।। १३९
नासास्तेषां निशि च्छित्त्वा यः सुसत्त्व इहानयेत् ।
स युष्माकं प्रधानः स्याद्वीरो हि स्वाम्यमर्हति ।। १४०
इति चक्रधरेणोक्तान्विप्रांस्तानन्तिकस्थितः ।
कुरुध्वमेतत्को दोष इत्युवाच विदूषकः ।। १४१
ततस्तेऽस्यावदन्विप्रा नैतत्कर्तुं क्षमा वयम् ।
यो वा शक्तः स कुरुतां समये च वयं स्थिताः ।। १४२
ततो विदूषकोऽवादीदहमेतत्करोमि भोः ।
आनयामि निशि च्छित्त्वा नासास्तेषां श्मशानतः ।। १४३
ततस्तद्दुष्करं मत्वा तेऽपि मूढास्तमब्रुवन् ।
एवं कृते त्वमस्माकं स्वामी नियम एष नः ।। १४४
इत्येवाख्याप्य समयं प्राप्तायां रजनौ च तान् ।
आमन्त्र्य विप्रान्प्रययौ श्मशानं स विदूषकः ।। १४५
प्रविवेश च तद्वीरो निजं कर्मेव भीषणम् ।
चिन्तितोपस्थिताग्नेयकृपाणैकपरिग्रहः ।। १४६
डाकिनीनादसंवृद्धगृध्रवायसवाशिते ।
उल्कामुखमुखोल्काग्निविस्फारितचितानले ।। १४७
ददर्श तत्र मध्ये च स ताञ्शूलाधिरोपितान् ।
पुरुषान्नासिकाछेदभियेवोर्ध्वीकृताननान् ।। १४८
यावच्च निकटं तेषां प्राप तावत्त्रयोऽपि ते ।
वेतालाधिष्ठितास्तस्मिन्प्रहरन्ति स्म मुष्टिभिः ।। १४९
निष्कम्प एव खड्गेन सोऽपि प्रतिजघान तान् ।
न शिक्षितः प्रयत्नो हि धीराणां हृदये भिया ।। १५०
तेनापगतवेतालविकाराणां स नासिकाः ।
तेषां चकर्त बद्ध्वा च कृती जग्राह वाससि ।। १५१
आगच्छंश्च ददर्शैकं शवस्योपरि संस्थितम् ।
प्रव्राजकं श्मशानेऽत्र जपन्तं स विदूषकः ।। १५२
तच्चेष्टालोकनक्रीडाकौतुकादुपगम्य तम् ।
प्रच्छन्नः पृष्ठतस्तस्य तस्थौ प्रव्राजकस्य सः ।। १५३
क्षणात्प्रव्राजकस्याधः फूत्कारं मुक्तवाञ्शवः ।
निरगाच्च मुखात्तस्य ज्वाला नाभेश्च सर्षपाः ।। १५४
गृहीत्वा सर्षपांस्तांश्च स परिव्राजकस्ततः ।
उत्थाय ताडयामास शवं पाणितलेन तम् ।। १५५
उदतिष्ठत्स चोत्तालवेतालाधिष्ठितः शवः ।
आरुरोह च तस्यैव स्कन्धे प्रव्राजकोऽथ सः ।। १५६
तदारूढश्च सहसा गन्तुं प्रववृते ततः ।
विदूषकोऽपि तं तूष्णीमन्वगच्छदलक्षितः ।। १५७
नातिदूरमतिक्रम्य स ददर्श विदूषकः ।
शून्यं कात्यायनीमूर्तिसनाथं देवतागृहम् ।। १५८
तत्रावतीर्य वेतालस्कन्धात्प्रव्राजकस्ततः ।
विवेश गर्भभवनं वेतालोऽप्यपद्भुवि ।। १५९
विदूषकश्च तत्रासीद्युक्त्या पश्यन्नलक्षितः ।
प्रव्राजकोऽपि संपूज्य तत्र देवीं व्यजिज्ञपत् ।। १६०
तुष्टासि यदि तद्देवि देहि मे वरमीप्सितम् ।
अन्यथात्मोपहारेण प्रीणामि भवतीमहम् ।। १६१
इत्युक्तवन्तं तं तीव्रमन्त्रसाधनगर्वितम् ।
प्रव्राजकं जगादैवं वाणी गर्भगृहोद्गता ।। १६२
आदित्यसेननृपतेः सुतामानीय कन्यकाम् ।
उपहारीकुरुष्वेह ततः प्राप्स्यसि वाञ्छितम् ।। १६३
एतच्छ्रुत्वा स निर्गत्य करेणाहत्य तं पुनः ।
प्रव्राडुत्थापयामास वेतालं मुक्तफूत्कृतिम् ।। १६४
तस्य च स्कन्धमारुह्य निर्यद्वक्त्रानलार्चिषः ।
आनेतुं राजपुत्रीं तामुत्पत्य नभसा ययौ ।। १६५
विदूषकोऽपि तत्सर्वं दृष्ट्वा तत्र व्यचिन्तयत् ।
कथं राजसुतानेन हन्यते मयि जीवति ।। १६६
इहैव तावत्तिष्ठामि यावदायात्यसौ शठः ।
इत्यालोच्य स तत्रैव तस्थौ छन्नो विदूषकः ।। १६७
प्रव्राजकश्च गत्वैव वातायनपथेन सः ।
प्रविश्यान्तःपुरं प्राप सुप्तां निशि नृपात्मजाम् ।। १६८
आययौ च गृहीत्वा तां गगनेन तमोमयः ।
कान्तिप्रकाशितदिशं राहुः शशिकलामिव ।। १६९
हा तात हाम्बेति च तां क्रन्दन्तीं कन्यकां वहन् ।
तत्रैव देवीभवने सोऽन्तरिक्षादवातरत् ।। १७०
प्रविवेश च तत्कालं वेतालं प्रविमुच्य स ।
कन्यारत्नं तदादाय देवीगर्भगृहान्तरम् ।। १७१
तत्र यावन्निहन्तुं तां राजपुत्रीमियेष सः ।
तावदाकृष्टखड्गोऽत्र प्रविवेश विदूषकः ।। १५२
आः पाप मालतीपुष्पमश्मना हन्तुमीहसे ।
यदस्यामाकृतौ शस्त्रं व्यापारयितुमिच्छसि ।। १७३
इत्युक्त्वाकृष्य केशेषु शिरस्तस्य विवेल्लतः ।
प्रव्राजकस्य चिच्छेद खड्गेन स विदूषकः ।। १७४
आश्वासयामास च तां राजपुत्रीं भयाकुलाम् ।
प्रविशन्तीमिवाङ्गानि किंचित्प्रत्यभिजानतीम् ।। १७५
कथमन्तःपुरं राज्ञो राजपुत्रीमिमामितः ।
नयेयमिति तत्कालमसौ धीरो व्यचिन्तयत् ।। १७६
भो विदूषक शृण्वेतद्योऽयं प्रव्राट् त्वया हतः ।
महानेतस्य वेतालः सिद्धोऽभूत्सर्षपास्तथा ।। १७७
ततोऽस्य पृथ्वीराज्ये च वाञ्छा राजात्मजासु च ।
उदपद्यत तेनायमेवं मूढोऽद्य वञ्चितः ।। १७८
तद्गृहाणैतदीयांस्त्वं सर्षपान्वीर येन ते ।
इमामेकां निशामद्य भविष्यत्यम्बरे गतिः ।। १७९
इत्याकाशगता वाणी जातहर्षं जगाद तम् ।
अनुगृह्णन्ति हि प्रायो देवता अपि तादृशम् ।। १८०
ततो वस्त्राञ्चलात्तस्य स परिव्राजकस्य तान् ।
जग्राह सर्षपान्हस्ते तामङ्के च नृपात्मजाम् ।। १८१
यावच्च देवीभवनात्स तस्मान्निर्ययौ बहिः ।
उच्चचार पुनस्तावदन्या नभसि भारती ।। १८२
इहैव देवीभवने मासस्यान्ते पुनस्त्वया ।
आगन्तव्यं महावीर विस्मर्तव्यमिदं न ते ।। १८३
तच्छ्रुत्वा स तथेत्युक्त्वा सद्यो देवीप्रसादतः ।
उत्पपात नभो बिभ्रद्राजपुत्रीं विदूषकः ।। १८४
गत्वा च गगनेनाशु स तामन्तःपुरान्तरम् ।
प्रावेशयद्राजसुतां समाश्वस्तामुवाच च ।। १८५
न मे भविष्यति प्रातर्गतिर्व्योम्नि ततश्च माम् ।
सर्वे द्रक्ष्यन्ति निर्यान्तं तत्संप्रत्येव याम्यहम् ।। १८६
इति तेनोदिता बाला बिभ्यती सा जगाद तम् ।
गते त्वयि मम प्राणास्त्रासाक्रान्ताः प्रयान्त्यमी ।। १८७
तन्महाभाग मा गास्त्वं देहि मे जीवितं पुनः ।
प्रतिपन्नार्थनिर्वाहः सहजं हि सतां व्रतम् ।। १८८
तच्छ्रुत्वा चिन्तयामास स सुसत्त्वो विदूषकः ।
यदस्तु मे न गच्छामि मुञ्चेत्प्राणान्भयादियम् ।। १८९
ततश्च नृपतेर्भक्तिः का मया विहिता भवेत् ।
इत्यालोच्य स तत्रैव तस्थावन्तःपुरे निशि ।। १९०
व्यायामजागरश्रान्तो ययौ निद्रां शनैश्च सः ।
राजपुत्री त्वनिद्रैव भीता तामनयन्निशाम् ।। १९१
विश्राम्यतु क्षणं तावदिति प्रेमार्द्रमानसा ।
सुप्तं प्रबोधयामास सा प्रभातेऽपि नैव तम् ।। १९२
ततः प्रविष्टा ददृशुस्तमन्तःपुरचारिकाः ।
ससंभ्रमाश्च गत्वैव राजानं तं व्यजिज्ञपन् ।। १९३
राजाप्यवेक्षितुं तत्त्वं प्रतीहारं व्यसर्जयत् ।
प्रतीहारश्च गत्वान्तस्तत्रापश्यद्विदूषकम् ।। १९४
शुश्राव च यथावृत्तं स तद्राजसुतामुखात् ।
तथैव गत्वा राज्ञे च स समग्रं न्यवेदयत् ।। १९५
विदूषकस्य सत्त्वज्ञस्तच्छ्रुत्वा स महीपतिः ।
किमेतत्स्यादिति क्षिप्रं समुद्भ्रान्त इवाभवत् ।। १९६
आनाययच्च दुहितुर्मन्दिरात्तं विदूषकम् ।
दत्तानुयात्रं मनसा तस्याः स्नेहानुपातिना ।। १९७
पप्रच्छ च यथावृत्तं स राजा तमुपागतम् ।
आ मूलतश्च सोऽप्यस्मै विप्रो वृत्तान्तमब्रवीत् ।। १९८
अदर्शयच्च वस्त्रान्ते निबद्धाश्चौरनासिकाः ।
प्रव्राटसंबन्धिनस्तांश्च सर्षपान्भूमिभेदिनः ।। १९९
ततः संभाव्य सत्यं तत्तांश्चानाय्य मठद्विजान् ।
सर्वांश्चक्रधरोपेतान्पृष्ट्वा तन्मूलकारणम् ।। २००
स्वयं श्मशाने गत्वा च दृष्ट्वा तांश्छिन्ननासिकान् ।
पुरुषांस्तं च निर्लूनकण्ठं प्रव्राजकाधमम् ।। २०१
उत्पन्नप्रत्ययो राजा स तुतोष महाशयः ।
विदूषकाय कृतिने सुताप्राणप्रदायिने ।। २०२
ददौ तस्मै च तामेव तदैव तनयां निजाम् ।
किमदेयमुदाराणामुपकारिषु तुष्यताम् ।। २१7३
श्रीरुवासाम्बुजप्रीत्या नूनं राजसुताकरे ।
गृहीतपाणिर्येनास्या लेभे लक्ष्मीं विदूषकः ।। २०४
ततो राजोपचारेण स तया कान्तया सह ।
आदित्यसेननृपतेस्तस्थौ श्लाघ्ययशा गृहे ।। २०५
अथ यातेषु दिवसेष्वेकदा दैवचोदिता ।
तमुवाच निशायां सा राजपुत्री विदूषकम् ।। २०६
नाथ स्मरसि यत्तत्र तव देवीगृहे निशि ।
मासान्ते त्वमिहागच्छेरित्युक्तं दिव्यया गिरा ।। २०७
तत्र चाद्य गतो मासो भवतस्तच्च विस्मृतम् ।
इत्युक्तः प्रियया स्मृत्वा स जहर्ष विदूषकः ।। २०८
साधु स्मृतं त्वया तन्वि विस्मृतं तन्मया पुनः ।
 इत्युक्त्वालिङ्गनं चास्यै स ददौ पारितोषकम् ।।२० ९
सुप्तायां च ततस्तस्यां निर्गत्यान्तःपुरान्निशि ।
आदाय खड्गं स्वस्य संस्तद्देवीभवनं ययौ ।। २१०
प्राप्तो विदूषकोऽहं भोरिति तत्र वदन्बहिः ।
प्रविशेत्यशृणोद्वाचमन्तः केनाप्युदीरिताम् ।। २११
प्रविश्य चान्तरे सोऽत्र दिव्यमावासमैक्षत ।
तदन्तर्दिव्यरूपां च कन्यां दिव्यपरिच्छदाम् ।। २१२
स्वप्रभाभिन्नतिमिरां रजनिज्वलितामिव ।
हरकोपामिनिर्दग्धस्मरसंजीवनौषधिम् ।। २१३
किमेतदिति साश्चर्यः स तया हृष्टया स्वयम् ।
सस्नेहबहुमानेन स्वागतेनाभ्यनन्द्यत ।। २१४
उपविष्टं च संजातविस्रम्भं प्रेमदर्शनात् ।
तत्स्वरूपपरिज्ञानसोत्सुकं सा तमब्रवीत् ।। २१५
अहं विद्याधरी कन्या भद्रानाम महान्वया ।
इह कामचरत्वाच्च त्वामपश्यमहं तदा ।। २१६
त्वद्गुणाकृष्टचित्ता च तत्कालमहमेव ताम् ।
अदृश्यवाणीमसृजं पुनरागमनाय ते ।। २१७
अद्य विद्याप्रयोगाश्च संमोह्य प्रेरिता मया ।
सा ते राजसुतैवास्मिन्कार्ये स्मृतिमजीजनत् ।। २१८
त्वदर्थं च स्थितास्मीह तत्तुभ्यमिदमर्पितम् ।
शरीरं सुन्दर मया कुरु पाणिग्रहं मम ।। २१९
इत्युक्तो भद्रया भव्यो विद्याधर्या विदूषकः ।
तथेति परिणिन्ये तां गान्धर्वविधिना तदा ।। २२०
अतिष्ठदथ तत्रैव दिव्यं भोगमवाप्य सः ।
स्वपौरुषफलर्द्ध्येव प्रियया संगतस्तया ।। २२१
अत्रान्तरे प्रबुद्धा सा राजपुत्री निशाक्षये ।
भर्तारं तमपश्यन्ती विषादं सहसागमत् ।। २२२
उत्थाय चान्तिकं मातुः प्रस्खलद्भिः पदैर्ययौ ।
विकला संगलद्वाष्पतरङ्गितविलोपना ।। २२३
स पतिर्मे गतः क्वापि रात्राविति च मातरम् ।
आत्मापराधसभया सानुतापा च साभ्यधात् ।। २२४
ततस्तन्मातरि स्नेहात्संभ्रान्तायां क्रमेण तत् ।
बुद्ध्वा राजापि तत्रैत्य परमाकुलतामगात् ।। २२५
जाने श्मशानबाह्यं तं गतोऽसौ देवतागृहम् ।
इत्युक्ते राजसुतया राजा तत्र स्वयं ययौ ।। २२६
तत्र विद्याधरीविद्याप्रभावेण तिरोहितम् ।
विचिन्त्यापि न लेभे तं स क्षितीशो विदूषकम् ।। २२७
ततो राज्ञि परावृत्ते निराशां तां नृपात्मजाम् ।
देहत्यागोन्मुखीमेत्य ज्ञानी कोऽप्यब्रवीदिदम् ।। २२८
नारिष्टशङ्का कर्तव्या स हि ते वर्तते पतिः ।
युक्तो दिव्येन भोगेन त्वामुपैष्यति चाचिरात् ।। २२९
तच्छ्रुत्वा राजपुत्री सा धारयामास जीवितम् ।
हृदि प्रविष्टया रुद्धं तत्प्रत्यागमवाञ्छया ।। २३०
विदूषकस्यापि ततस्तिष्ठतस्तत्र तां प्रियाम् ।
भद्रां योगेश्वरी नाम सखी काचिदुपाययौ ।। २३१
उपेत्य सा रहस्येनामिदं भद्रामथाब्रवीत् ।
सखि मानुषसंसर्गात्क्रुद्धा विद्याधरास्त्वयि ।। २३२
पापं च ते चिकीर्षन्ति तदितो गम्यतां त्वया ।
अस्ति पूर्वाम्बुधेः पारे पुरं कार्कोटकाभिधम् ।। २३३
तदतिक्रम्य च नदी शीतोदा नाम पावनी ।
तीर्त्वा तामुदयाख्यश्च सिद्धक्षेत्रं महागिरिः ।। २३४
विद्याधरैरनाक्रम्यस्तत्र त्वं गच्छ सांप्रतम् ।
प्रियस्य मानुषस्यास्य कृते चिन्तां च मा कृथाः ।। २३ '६
एतद्धि सर्वमेतस्य कथयित्वा गमिष्यसि ।
येनैष पश्चात्तत्रैव सत्त्ववानागमिष्यति । । २३६
इत्युक्ता सा तया सख्या भद्रा भयवशीकृता ।
विदूषकानुरक्तापि प्रतिपेदे तथेति तत् ।। २३७
उक्त्वा च तस्य तद्युक्त्या दत्त्वा च स्वाङ्गुलीयकम् ।
विदूषकस्य रात्र्यन्तसमये सा तिरोदधे ।। २३८
विदूषकस्य पूर्वस्मिञ्शून्ये देवगृहे स्थितम् ।
क्षणादपश्यदात्मानं न भद्रा न च मन्दिरम् ।। २३९
स्मरन्विद्याप्रपञ्चं तं पश्यंश्चैवाङ्गुलीयकम् ।
विषादविस्मयावेशवशः सोऽभूद्विदूषकः ।। २४०
अचिन्तयच्च तस्याः स वचः स्वप्नमिव स्मरन् ।
गता तावन्निवेद्यैव सा ममोदयपर्वतम् ।। २४१
तन्मयाप्याशु तत्रैव गन्तव्यं तदवाप्तये ।
न चैवं लोकदृष्टं मां लब्ध्वा राजा परित्यजेत् ।। २४२
तस्माद्युक्तिं करोमीह कार्यं सिद्ध्यति मे यथा ।
इति संचिन्त्य मतिमान्रूपमन्यत्स शिश्रिये ।। २४५
जीर्णवासा रजोलिप्तो भूत्वा देवीगृहात्ततः ।
निरगादथ हा भद्रे हा भद्रे इति स ब्रुवन् ।। २४४
तत्क्षणं च विलोक्यैन जनास्तद्देशवर्तिनः ।
सोऽयं विदूषकः प्राप्त इति कोलाहलं व्यधुः ।। २४५
बुद्ध्वा च राज्ञा निर्गत्य स्वयं दृष्ट्वा तथाविधः ।
उन्मत्तचेष्टोऽवष्टभ्य स नीतोऽभूत्स्वमन्दिरम् ।। २४६
तत्र स्नेहाकुलैर्यद्यदुक्तोऽभूद्भृत्यबान्धवैः ।
तत्र तत्र स हा भद्रे इति प्रत्युत्तरं ददौ ।। २४७
वैद्योपदिष्टैरभ्यङ्गैरभ्यक्तोऽपि स तत्क्षणम् ।
अङ्गमुद्धूलयामास भूरिणा भस्मरेणुना ।। २४८
स्नेहेन राजपुत्र्या च स्वहस्ताभ्यामुपाहृतः ।
आहारस्तेन सहसा पादेनाहत्य चिक्षिपे ।। २४९
एवं स तस्थौ कतिचिद्दिवसांस्तत्र निःस्पृहः ।
पाटयन्निजवस्त्राणि कृतोन्मादो विदूषकः ।। २५०
अशक्यप्रतिकारोऽयं तत्किमर्थं कदर्थ्यते ।
त्यजेत्कदाचन प्राणान्ब्रह्महत्या भवेत्ततः ।। २५१
स्वच्छन्दचारिणस्त्वस्य कालेन कुशलं भवेत् ।
इत्यालोच्य स चादित्यसेनो राजा मुमोच तम् ।। २५२
ततः स्वच्छन्दचारी सन्नन्येद्युः साङ्गुलीयकः ।
वीरो भद्रां प्रति स्वैरं स प्रतस्थे विदूषकः ।। २५३
गच्छन्नहरहः प्राच्यां दिशि प्राप स च क्रमात् ।
मध्ये मार्गवशायातं नगरं पौण्ड्रवर्धनम् ।। २५४
मातरत्र वसाम्येकां रात्रिमित्यभिधाय सः ।
ब्राह्मण्यास्तत्र कस्याश्चिद्वृद्धायाः प्राविशद्गृहम् ।। २५५
प्रतिपन्नाश्रया सा च कृतातिथ्या क्षणान्तरे ।
ब्राह्मणी समुपेत्यैवं सान्तर्दुःखा जगाद तम् ।। २५६
तुभ्यमेव मया दत्तं पुत्र सर्वमिदं गृहम ।
तद्गृहाण यतो नास्ति जीवितं मम सांप्रतम् ।। २५७
कस्मादेवं ब्रवीषीति तेनोक्ता विस्मितेन सा ।
श्रूयतां कथयाम्येतदित्युक्त्वा पुनरब्रवीत् ।। २५८
अस्तीह देवसेनाख्यो नगरे पुत्र भूपतिः ।
तस्य चैका समुत्पन्ना कन्या भूतलभूषणम् ।। २५९
मया दुःखेन लब्धेयमिति तां दुःखलब्धिकाम् ।
नाम्ना चकारैष नृपस्तनयामतिवत्सलः ।। २६०
कालेन यौवनारूढामानीताय स्ववेश्मनि ।
राज्ञे कच्छपनाथाय तां प्रादाच्चैष भूपतिः ।। २६१
स कच्छपेश्वरस्तस्या वध्वा वासगृहं निशि ।
प्रविष्ट एव प्रथमं तत्कालं पञ्चतां ययौ ।। २६२
ततो विमनसा राज्ञा भूयोप्येतेन सा सुता ।
दत्तान्यस्मै नृपायाभूत्सोऽपि तद्वद्व्यपद्यत ।। २६३
तद्भयाच्च यदान्येऽपि नृपाऽवाञ्छन्ति नैव ताम् ।
तदा सेनापतिं राजा निजमेव समादिशत् ।। २६४
इतो देशात्त्वयैकैकः क्रमादेकैकतो गृहात् ।
पुत्रान्प्रत्यहमानेयो ब्राह्मणः क्षत्रियोऽथवा ।। २६५
आनीय च प्रवेश्योऽत्र रात्रौ मत्पुत्रिकागृहे ।
पश्यामोऽत्र विपद्यन्ते कियन्तोऽत्र कियच्चिरम् ।। २६६
उत्तरिष्यति यश्चात्र सोऽस्या भर्ता भविष्यति ।
गतिः शक्या परिच्छेत्तुं नह्यद्भुतविधेर्विधेः ।। २६७
इति सेनापती राज्ञा समाविष्टो दिने दिने ।
वारक्रमेण गेहेभ्यो नयत्येव नरानिह ।। २६८
एवं च तत्र यातानि क्षयं नरशतान्यपि ।
मम चाकृतपुण्याया एकः पुत्रोऽत्र वर्तते ।। २६९
तस्य वारोऽद्य संप्राप्तस्तत्र गन्तुं विपत्तये ।
तदभावे मया कार्यं प्रातरग्निप्रवेशनम् ।। २७०
तज्जीवन्ती स्वहस्तेन तुभ्यं गुणवते गृहम् ।
ददामि सर्वं येन स्यां न पुनर्दुःखभागिनी ।। २७१
एवमुक्तवतीं धीरस्तामवोचद्विदूषकः ।
यद्येवमम्ब तर्हि त्वं मा स्म विक्लवतां कृथाः ।। २७२
अहं तत्राद्य गच्छामि जीवत्वेकसुतस्तव ।
किमेतं घातयामीति कृपा ते मयि मा च भूत् ।। २७३
सिद्धियोगाद्धि नास्त्येव भयं तत्र गतस्य मे ।
एवं विदूषकेणोक्ता ब्राह्मणी सा जगाद तम् ।। २७४
तर्हि पुण्यैर्मयायातः कोऽपि देवो भवानिह ।
तत्प्राणान्देहि नः पुत्र कुशलं च तथात्मनि ।। २७५
एवं तया सोऽनुगतः सायं राजसुतागृहम् ।
सेनापतिनियुक्तेन किंकरेण समं ययौ ।। २७६
तत्रापश्यन्नृपसुतां तां यौवनमदोद्धताम् ।
लतामनुच्चितस्फीतपुष्पभारानतामिव ।। २७७
ततो निशायां शयने राजपुत्र्या तयाश्रिते ।
ध्यातोपनतमाग्नेयं खड्गं बिभ्रत्करेण सः ।। २७८
वासवेश्मनि तत्रासीज्जाग्रदेव विदूषकः ।
पश्यामि तावत्को हन्ति नरानत्रेति चिन्तयन् ।। २७९
प्रसुप्ते च जने क्षिप्रादपावृतकपाटकम् ।
स द्वारदेशादायान्तं घोरं राक्षसमैक्षत ।। २८०
स च द्वारि स्थितस्तत्र राक्षसो वासकान्तरे ।
भुजं नरशताकाण्डयमदण्डं न्यवेशयत् ।। २८१
विदूषकश्च चिच्छेद धावित्वा तस्य तं क्रुधा ।
एकखड्गप्रहारेण बाहुं सपदि रक्षसः ।। २८२
छिन्नबाहुः पलाय्याशु जगाम स निशाचरः ।
भूयोऽनागमनायैव तत्सत्त्वोत्कर्षभीतितः ।। २८३
प्रबुद्धा वीक्ष्य पतितं रक्षोबाहुं नृपात्मजा ।
भीता च जातहर्षा च विस्मिता च बभूव सा ।। २८४
प्रातश्च ददृशे राज्ञा देवसेनेन तत्र सः ।
स्वसुतान्तःपुरद्वारि स्थितश्छिन्नच्युतो भुजः ।। २८५
इतःप्रभृति नेहान्यैः प्रवेष्टव्यं नरैरिति ।
दत्तो विदूषकेणेव सुदीर्घः परिघार्गलः ।। २८६
ततो दिव्यप्रभावाय तस्मै प्रीतः स पार्थिवः ।
विदूषकाय तनयां तां ददौ विभवोत्तरम् ।। २८७
ततस्तया समं तत्र कान्तया स विदूषकः ।
तस्थौ दिनानि कतिचिद्रूपवत्येव संपदा ।। २८८
एकस्मिंश्च दिने सुप्तां राजपुत्रीं विहाय ताम् ।
स ततः प्रययौ रात्रौ तां भद्रां प्रति सत्वरः ।। २८९
राजपुत्री च सा प्रातस्तददर्शनदुःखिता ।
आसीदाश्वासिता पित्रा तत्प्रत्यावर्तनाशया ।। २९०
सोऽपि गच्छन्नहरहः क्रमात्प्राप विदूषकः ।
पूर्वाम्बुधेरदूरस्थां नगरीं ताम्रलिप्तिकाम् ।। २९१
तत्र चक्रे स केनापि वणिजा सह संगतिम् ।
स्कन्ददासाभिधानेन पारमब्धेर्यियासता ।। २९२
तेनैव सह सोऽनल्पतदीयधनसंभृतम् ।
यानपात्रं समारुह्य प्रतस्थेऽम्बुधिवर्त्मना ।। २९३
ततः समुद्रमध्ये तद्यानपात्रमुपागतम् ।
अकस्मादभवद्रुद्धं व्यासक्तमिव केनचित् ।। २९४
अर्चितेऽप्यर्णवे रत्नैर्यदा न विचचाल तत् ।
तदा स वणिगार्तः सन्स्कन्ददासोऽब्रवीदिदम् ।। २९५
यो मोचयति संरुद्धमिदं प्रवहणं मम ।
तस्मै निजधनार्धं च स्वसुतां च ददाम्यहम् ।। २९६
तच्छ्रुत्वैव जगादैवं धीरचेता विदूषकः ।
अहमत्रावतीर्यान्तर्विचिनोम्यम्बुधेर्जलम् ।। २९७
क्षणाच्च मोचयाम्येतद्बद्धं प्रवहणं तव ।
यूयं चाप्यवलम्बध्वं बद्ध्वा मां पाशुरज्जुभिः ।। २९८
विमुक्ते च प्रवहणे तत्क्षणं वारिमध्यतः ।
उद्धर्तव्योऽस्मि युष्माभिरवलम्बनरज्जुभिः ।। २९९
तथेति तेन वणिजा तद्वचस्यभिनन्दिते ।
बबन्धुः कर्णधारास्तं रज्जुबन्धेन कक्षयोः ।। ३००
तद्बद्धोऽवततारैव वारिधौ स विदूषकः ।
न जात्ववसरे प्राप्ते सत्त्ववानवसीदति ।। ३०१
ध्यातोपस्थितमाग्नेयं खड्गं कृत्वा च तं करे ।
वीरः प्रवहणस्याधो मध्येवारि विवेश सः ।। ३०२
तत्र चैकं महाकायं सुप्तं पुरुषमैक्षत ।
जङ्घायां तस्य रुद्धं च यानपात्रं व्यलोकयत् ।। ३०३
चिच्छेद तां स जङ्घां च तस्य खड्गेन तत्क्षणम् ।
चचाल च प्रवहणं रोधमुक्तं तदैव तत् ।। ३०४
तद्दृष्ट्वैव वणिक्पापश्छेदयामास तस्य तत् ।
विदूषकस्य रज्जूस्ताः प्रतिपन्नार्थलोभतः ।। ३०५
वृत्तेनैव च मुक्तेन हृतं प्रवहणेन सः ।
स्वलोभस्येव महतः पारमम्बुनिधेर्ययौ ।। ३०६
विदूषकोऽपि स च्छिन्नरज्ज्वालम्बोऽम्बुमध्यगः ।
उन्मज्ज्य तत्तथा दृष्ट्वा धीरः क्षणमचिन्तयत् ।। ३०७
किमिदं वणिजा तेन कृतं किमथवोच्यते ।
कृतघ्ना धनलोभान्धा नोपकारेक्षणक्षमाः ।। ३०८
तदेष कालः सुतरामवैक्लव्यस्य सांप्रतम् ।
नहि सत्त्वावसादेन स्वल्पा व्यापद्विलङ्घ्यते ।। ३०९
इति संचिन्त्य तत्कालं जङ्घां तामारुरोह सः ।
या सान्तर्जलसुप्तस्य पुंसस्तस्य न्यकृत्यत ।। ३१०
तया ततार नावेव हस्तव्यस्ताम्बुरम्बुधिम् ।
दैवमेव हि साहाय्यं कुरुते सत्त्वशालिनाम् ।। ३११
तं मारुतिमिवाम्भोधिपारं रामार्थमागतम् ।
बलवन्तमुवाचैवमन्तरिक्षात्सरस्वती ।। ३१२
साधु साधु सुसत्त्वोऽस्ति कोऽन्यस्त्वत्तो विदूषक ।
अनेन तव धैर्येण तुष्टोऽस्मि तदिदं शृणु ।। ३१३
प्राप्तोऽसि नग्नविषयमिमं संप्रत्यतोऽपि च ।
कार्कोटकाख्यं नगरं दिनैः प्राप्स्यसि सप्तभिः ।। ३१४
ततो लब्धधृतिर्गत्वा शीघ्रं प्राप्स्यसि चेप्सितम् ।
अहं चाराधिपः पूर्वं भवता हव्यकव्यभुक् ।। ३१५
मद्वराच्च तवेदानीं क्षुत्तृष्णा च न वर्त्सति ।
तद्गच्छ सिद्ध्यै विस्रब्धमित्युक्त्वा विरराम वाक् ।। ३१६
विदूषकश्च तच्छ्रुत्वा प्रणयाग्निं प्रहर्षितः ।
प्रतस्थे सप्तमे चाह्नि प्राप कार्कोटकं पुरम् ।। ३१७
तत्र च प्रविवेशैकं मठमार्यैरधिष्ठितम् ।
नानादेशोद्भवैस्तैस्तैर्द्विजैरभ्यागतप्रियैः ।। ३१८
श्रीमता निर्मितं राज्ञा तत्रत्येनार्यवर्मणा ।
ऋद्धं समग्रसौवर्णहृद्यदेवकुलान्वितम् ।। ३१९
तत्र सर्वैः कृतातिथ्यमेकस्तं ब्राह्मणोऽतिथिम् ।
स्नानेन भोजनैर्वस्त्रैर्नीत्वा गृहमुपाचरत् ।। ३२०
सायं च तन्मठस्थः सन्पुरे शुश्राव तत्र सः ।
विदूषकः सपटहं घोष्यमाणमिदं वचः ।। ३२१
ब्राह्मणः क्षत्रियो वापि परिणेतुं नृपात्मजाम् ।
प्रातरिच्छति यः सोऽद्य रात्रौ वसतु तद्गृहे ।। ३२२
तच्छ्रुत्वा सनिमित्तं स तदाशङ्क्य च तत्क्षणम् ।
गन्तुं राजसुतावासमियेष प्रियसाहसः ।। ३२३
ऊचुस्तं मठविप्रास्ते ब्रह्मन्मा साहसं कृथाः ।
तन्न राजसुतासद्म तन्मृत्योर्विवृतं मुखम् ।। ३२४
यो हि तत्र प्रविशति क्षपायां न स जीवति ।
गताः सुबहवश्चैवमत्र साहसिकाः क्षयम् ।। ३२५
इत्युक्तोऽपि स तैर्विप्रैरनङ्गीकृततद्वचाः ।
विदूषको राजगृहं ययौ तत्किंकरैः सह ।। ३२६
तत्रार्यवर्मणा राज्ञा स्वयं दृष्ट्वाभिनन्दितः ।
विवेश तत्सुतावासं नक्तमर्क इवानलम् ।। ३२७
ददर्श राजकन्यां च तामाकृत्यानुरागिणीम् ।
नैराश्यदुःखविधुरं पश्यन्तीं सास्रया दृशा ।। ३२८
आसीच्च जाग्रदेवात्र स रात्राववलोकयन् ।
करे कृपाणमाग्नेयं चिन्तितोपनतं दधत् ।। ३२९
अकस्माच्च महाघोरं ददर्श द्वारि राक्षसम् ।
छिन्नदक्षिणबाहुत्वात्प्रसारितभुजान्तरम् ।। ३३०
दृष्ट्वा व्यचिन्तयच्चासौ हन्त सोऽयं निशाचरः ।
यस्य बाहुर्मया छिन्नो नगरे पौण्ड्रवर्धने ।। ३३१
तदद्य न पुनर्बाहौ प्रहरिष्याम्यसौ हि मे ।
पलाय्य पूर्ववद्गच्छेत्तस्मात्साधु निहन्म्यमुम् ।। ३३२
इत्यालोच्य प्रधाव्यैव केशेष्वाकृष्य तस्य सः ।
राक्षसस्य शिरश्छेत्तुं समारेभे विदूषकः ।। ३३३
तत्क्षणं भीतभीतश्च तमुवाच स राक्षसः ।
मा मां वधीः सुसत्त्वस्त्वं तत्कुरुष्व कृपामिति ।। ३३४
किंनामा त्वं च केयं च तव चेष्टेति तेन सः ।
मुक्त्वा पृष्टश्च वीरेण पुनराह स राक्षसः ।। ३३५
यमदंष्ट्राभिधानस्य मभाभूतां सुते इमे ।
इयमेका तथान्या च पौण्ड्रवर्धनवर्तिनी ।। ३३६
अवीरपुरुषासङ्गाद्रक्षणीये नृपात्मजे ।
शंकराज्ञाप्रसादो हि ममाभूदयमीदृशः ।। ३३७
तत्रादौ बाहुरेकेन छिन्नो मे पौण्ड्रवर्धने ।
त्वया चाद्य जितोऽस्मीह तत्समाप्तमिदं मम ।। ३३८
तच्छ्रुत्वा स विहस्वैनं प्रत्युवाच विदूषकः ।
मयैव स भुजस्तत्र लूनस्ते पौण्ड्रवर्धने ।। ३३९
राक्षसोऽप्यवदत्तर्हि देवांशस्त्वं न मानुषः ।
मन्ये त्वदर्थमेवाभूच्छर्वाज्ञानुग्रहः स मे ।। ३४०
तदिदानीं सुहृन्मे त्वं यदा मां च स्मरिष्यसि ।
तदाहं संनिधास्ये ते सिद्धये संकटेष्वपि ।। ३४१
एवं स राक्षसो मैत्र्या वरयित्वा विदूषकम् ।
तेनाभिनन्दितवचा यमदंष्ट्रस्तिरोदधे ।। ३४२
विदूषकोऽपि सानन्दमभिनन्दितविक्रमः ।
राजपुत्र्या तया तत्र हृष्टस्तामनयन्निशाम् ।। ३४३
प्रातश्च ज्ञातवृत्तान्तस्तुष्टस्तस्मै ददौ नृपः ।
विभवैः सह शौर्यैकपताकामिव तां सुताम् ।। ३४४
स तया सह तत्रासीद्रात्रीः काश्चिद्विदूषकः ।
पदारपदममुञ्चन्त्या लक्ष्म्येव गुणबद्धया ।। ३४५
एकदा च निशि स्वैरं ततः प्रायात्प्रियोत्सुकः ।
लब्धदिव्यरसास्वादः को हि रज्येद्रसान्तरे ।। ३४६
नगराच्च विनिर्गत्य स तं सस्मार राक्षसम् ।
स्मृतमात्रागतं तं च जगाद रचितानतिम् ।। ३४७
सिद्धक्षेत्रे प्रयातव्यमुदयाद्रौ मया सखे ।
भद्राविद्याधरीहेतोरतस्त्वं तत्र मां नय ।। ३४८
तथेत्युक्तवतस्तस्य स्कन्धमारुह्य रक्षसः ।
ययौ च स तया रात्र्या दुर्गमां षष्टियोजनीम् ।। ३४९
प्रातश्च तीर्त्वा शीतोदामलङ्घ्यां मानुषैर्नदीम् ।
उदयाद्रेरथ प्रापत्संनिकर्षमयत्नतः ।। ३५०
अयं स पर्वतः श्रीमानुदयाख्यः पुरस्तव ।
अत्रोपरि च नास्त्येव सिद्धधाम्नि गतिर्मम ।। ३५१
इत्युक्त्वा राक्षसे तस्मिन्प्राप्तानुज्ञे तिरोहिते ।
दीर्घिकां स ददर्शैकां रम्यां तत्र विदूषकः ।। ३५२
वदन्त्याः स्वागतमिव भ्रमद्भ्रमरगुञ्जितैः ।
तस्यास्तीरे न्यषीदच्च फुल्लपद्माननश्रियः ।। ३५३
स्रीणामिवात्र चापश्यत्पदपङ्क्तिं सुविस्तराम् ।
अयं प्रियागमे मार्गस्तवेति ब्रुवतीमिव ।। ३५४
अलङ्घ्योऽयं गिरिर्मर्त्यैस्तदिहैव वरं क्षणम् ।
स्थितो भवामि पश्यामि कस्येयं पदपद्धतिः ।। ३५५
इति चिन्तयतस्तस्य तत्र तोयार्थमाययुः ।
गृहीतकाञ्चनघटा भव्याः सुबहवः स्त्रियः ।। ३५६
वारिपूरितकुम्भाश्च ताः स पप्रच्छ योषितः ।
कस्येदं नीयते तोयमिति प्रणयपेशलम् ।। ३५७
आस्ते विद्याधरी भद्र भद्रानामात्र पर्वते ।
इदं स्नानोदकं तस्या इति ताश्च तमब्रुवन् ।। ३५८
चित्रं धातैव धीराणामारब्धोद्दामकर्मणाम् ।
परितुष्येव सामग्रीं घटयत्युपयोगिनीम् ।। ३५९
यदेका सहसैव स्त्री तासां मध्यादुवाच तम् ।
महाभाग मम स्कन्धे कुम्भ उत्क्षिप्यतामिति ।। ३६०
तथेति च घटे तस्याः स्कन्धोत्क्षिप्ते स बुद्धिमान् ।
निदधे भद्रया पूर्वं दत्तं रत्नाङ्गुलीयकम् ।। ३६१
उपाविशच्च तत्रैव स पुनर्दीर्घिकातटे ।
ताश्च तज्जलमादाय ययुर्भद्रागृहं स्त्रियः ।। ३६२
तत्र ताभिश्च भद्राया यावत्स्नानाम्बु दीयते ।
तावत्तस्यास्तदुत्सङ्गे निपपाताङ्गुलीयकम् ।। ३६३
तद्दृष्ट्वा प्रत्यभिज्ञाय भद्रा पप्रच्छ ताः सखीः ।
दृष्टः किं कोऽपि युष्माभिरिहापूर्वः पुमानिति ।। ३६४
दृष्ट एको युवास्माभिर्मानुषो वापिकातटे ।
तेनोत्क्षिप्तो घटश्चायमिति प्रत्यब्रुवंश्च ताः ।। ३६५
ततो भद्राब्रवीच्छीघ्रं प्रक्लृप्तस्नानमण्डनम् ।
इहानयत गत्या तं स हि भर्ता ममागतः ।। ३६६
इत्युक्ते भद्रया गत्वा यथावस्तु निवेद्य च ।
स्नातश्च तद्वयस्याभिस्तत्रानिन्ये विदूषकः ।। ३६७
प्राप्तश्च स ददर्शात्र भद्रां मार्गोन्मुखीं चिरात् ।
निजसत्त्वतरोः साक्षात्पक्वामिव फलश्रियम् ।। ३६८
सापि दृष्ट्वा तमुत्थाय हर्षवाष्पाम्बुसीकरैः ।
दत्तार्घेव बबन्धास्य कण्ठे भुजलतास्रजम् ।। ३६९
परस्परालिङ्गितयोस्तयोः स्वेदच्छलादिव ।
अतिपीडनतः स्नेहः सस्यन्दे चिरसंभृतः ।। ३७०
अथोपविष्टावन्योन्यमवितृप्तौ विलोकने ।
उभौ शतगुणीभूतामिवोत्कण्ठामुदूहतुः ।। ३७१
आगतोऽसि कथं भूमिमिमामिति च भद्रया ।
परिपृष्टः स तत्कालमुवाचेदं विदूषकः ।। ३७२
समालम्ब्य भवत्स्नेहमारुह्य प्राणसंशयान् ।
सुबहूनागतोऽस्मीह किमन्यद्वच्मि सुन्दरि ।। ३७३
तच्छ्रुत्वा तस्य दृष्ट्वा तामनपेक्षितजीविताम् ।
प्रीतिं काष्ठागतस्नेहा सा भद्रा तमभाषत ।। ३७४
आर्यपुत्र न मे कार्यं सखीभिर्न च सिद्धिभिः ।
त्वं मे प्राणा गुणक्रीता दासी चाहं तव प्रभो ।। ३७५
विदूषकस्ततोऽवादीत्तर्ह्यागच्छ मया सह ।
मुक्त्वा दिव्यमिमं भोगं वस्तुमुज्जयिनीं प्रिये ।। ३७६
तथेति प्रतिपेदे सा भद्रा सपदि तद्वचः ।
तत्संकल्पपरिभ्रष्टा विद्याश्च तृणवज्जहौ ।। ३७७
ततस्तया समं तत्र स विशश्राम तां निशाम् ।
क्लृप्तोपचारस्तत्सख्या योगेश्वर्या विदूषकः ।। ३७८
प्रातश्च भद्रया साकमवतीर्योदयाद्रितः ।
सस्मार यमदंष्ट्रं तं राक्षसं स पुनः कृती ।। ३७९
स्मृतमात्रागतस्योक्त्वा गन्तव्याध्वक्रमं निजम् ।
तस्यारुरोह स स्कन्धे भद्रामारोप्य तां पुरः ।। ३८०
सापि सेहे तदत्युग्रराक्षसांसाधिरोहणम् ।
अनुरागपरायत्ताः कुर्वते किं न योषितः ।। ३८१
रक्षोधिरूढश्च ततः स प्रतस्थे प्रियासखः ।
विदूषकः पुनः प्राप तच्च कार्कोटकं पुरम् ।। ३८२
रक्षोदर्शनसत्रासं तत्र चालोकितो जनैः ।
दृष्ट्वार्यवर्मनृपतिं स्वां भार्यां मार्गति स्म सः ।। ३८३
दत्तां तेन गृहीत्वा च तत्सुता तां भुजार्जिताम् ।
तथैव राक्षसारूढः स प्रतस्थे पुरात्ततः ।। ३८४
गत्वाम्बुधेस्तटे प्राप पापं तं वणिजं च सः ।
येनास्य वारिधौ पूर्वं छिन्नाः क्षिप्तस्य रज्जवः ।। ३८५
जहार तस्य च सुतां वणिजः स धनैः सह ।
प्रागम्बुधौ प्रवहणप्रमोचनपणार्जिताम् ।। ३८६
धनापहारमेवास्य वधं मेने च पाप्मनः ।
कदर्याणां पुरे प्राणाः प्रायेण ह्यर्थसंचयाः ।। ३८७
ततो रक्षोरथारूढस्तामानीय वणिक्सुताम् ।
स भद्राराजपुत्रीभ्यां सहैवोदपतन्नभः ।। ३८८
दर्शयन्निजकान्तानां द्युमार्गेण ततार च ।
विलसत्सत्त्वसंरम्भं स्वपौरुषमिवाम्बुधिम् ।। ३८९
प्राप तच्च स भूयोऽपि नगरं पौण्ड्रवर्धनम् ।
दृष्टः सविस्मयं सर्वैर्वाहनीकृतराक्षसः ।। ३९०
तत्र तां देवसेनस्य सुतां राज्ञश्चिरोत्सुकाम् ।
भार्यां संभावयामास राक्षसावजयार्जिताम् ।। ३९१
रुध्यमानोऽपि तत्पित्रा स स्वदेशसमुत्सुकः ।
गृहीत्वा तामपि ततः प्रायादुज्जयिनीं प्रति ।। ३९२
अचिरेण च तां प्राप पुरीं राक्षसयोगतः ।
बहिर्गतामिवात्मीयदेशदर्शननिर्वृतिम् ।। ३९३
अथोपरि स्थितस्तस्य महाकायस्य रक्षसः ।
अंसस्थतद्वधूचक्रकान्तिप्रकटितात्मनः ।। ३९४
स जनैर्ददृशे तत्र शिखरे ज्वलितौषधौ ।
शशाङ्क इव पूर्वाद्रेरुदयस्थो विदूषकः ।। ३९५
ततो विस्मितवित्रस्ते जने बुद्ध्वात्र भूपतिः ।
आदित्यसेनो निरगाच्छ्वशुरोऽस्य तदा पुरः ।। ३९६
विदूषकस्तु दृष्ट्वा तमवतीर्याशु राक्षसात् ।
प्रणम्य नृपमभ्यागान्नृपोऽप्यभिननन्द तम् ।। ३९७
अवतार्यैव तत्स्कन्धात्ताः स्वभार्यास्ततोऽखिलाः ।
मुमोच कामचाराय राक्षसं स विदूषकः ।। ३९८
गते च राक्षसे तस्मिन्स तेन सह भूभुजा ।
श्वशुरेण सभार्यः सन्प्राविशद्राजमन्दिरम् ।। ३९९
तत्र तां प्रथमां भार्यां तनयां तस्य भूपतेः ।
आनन्दयदुपागत्य चिरोत्कण्ठावशीकृताम् ।। ४००
कथमेतास्त्वया भार्याः प्राप्ताः कश्चैष राक्षसः ।
इति पृष्टः स राज्ञात्र सर्वमस्मै शशंस तत् ।। ४०१
ततः प्रभावतुष्टेन तेन तस्य महीभृता ।
जामातुर्निजराज्यार्धं प्रदत्तं कार्यवेदिना ।। ४०२
तत्क्षणाच्च स राजाभूद्विप्रो भूत्वा विदूषकः ।
समुच्छ्रितसितच्छत्त्रो विधूतोभयचामरः ।। ४०३
तदा च मङ्गलातोद्यवाद्यनिर्हादनिर्भरा ।
प्रहर्षमुक्तनादेव रराजोज्जयिनी पुरी ।। ४०४
इत्याप्तराज्यविभवः क्रमशः स कृत्स्नां जित्वा महीमखिलराजकपूजिताङ्घ्रिः ।
ताभिः समं विगतमत्सरनिर्वृताभिर्भद्रासखश्चिरमरंस्त निजप्रियाभिः ।। ४०५
इत्यनुकूले दैवे भजति निजं सत्त्वमेव धीराणाम् ।
लक्ष्मीरभसाकर्षणसिद्धमहामोदमन्त्रत्वम् ।। ४०६
इत्थं श्रुत्वा वत्सराजस्य वक्त्राच्चित्रामेतामद्भुतार्थां कथां ते ।
पार्श्वासीना मन्त्रिणश्चास्य सर्वे देव्यौ चापि प्रीतिमग्र्यामवापुः ।। ४०७
इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे लावाणकलम्बके चतुर्थस्तरङ्गः ।