प्रमुखा विकल्पसूचिः उद्घाट्यताम्

ततो वत्सेश्वरं प्राह तत्र यौगन्धरायणः ।
राजन्दैवानुकूल्यं च विद्यते पौरुषं च ते ।। १
नीतिमार्गे च वयमप्यत्र किंचित्कृतश्रमाः ।
तद्यथाचिन्तितं शीघ्रं कुरुष्व विजयं दिशाम् ।। २
इत्युक्ते मन्त्रिमुख्येन राजा वत्सेश्वरोऽब्रवीत् ।
अस्त्वेतद्बहुविघ्नास्तु सदा कल्याणसिद्धयः ।। ३
अतस्तदर्थं तपसा शंभुमाराधयाम्यहम् ।
विना हि तत्प्रसादेन कुतो वाञ्छितसिद्धयः ।। ४
तच्छ्रुत्वा च तपस्तस्य मन्त्रिणोऽप्यनुमेनिरे ।
सेतुबन्धोद्यतस्याब्धौ रामस्येव कपीश्वराः ।। ५
ततस्तं सह देवीभ्यां सचिवैश्च तपःस्थितम् ।
त्रिरात्रोपोषितं भूपं शिवः स्वप्नं समादिशत् ।।
तुष्टोऽस्मि ते तदुत्तिष्ठ निर्विघ्नं जयमाप्स्यसि ।
सर्वविद्याधराधीशं पुत्रं चैवाचिरादिति ।। ७
ततः स बुबुधे राजा तत्प्रसादहृतक्लमः ।
अर्कांशुरचिताप्यायः प्रतिपच्चन्द्रमा इव ।। ८
आनन्दयच्च सचिवान्प्रातः स्वप्नेन तेन सः ।
व्रतोपवासक्लान्ते च देव्यौ द्वे पुष्पकोमले ।। ९
तत्स्वप्नवर्णनेनैव श्रोत्रपेयेन तृप्तयोः ।
तयोश्च विभवायैव जातः स्वाद्वौषधक्रमः ।। १०
लेभे स राजा तपसा प्रभावं पूर्वजैः समम् ।
पुण्यां पतिव्रतानां च तत्पत्न्यौ कीर्तिमापतुः ।। ११
उत्सवव्यग्रपौरे च विहिते व्रतपारणे ।
यौगन्धरायणोऽन्येद्युरिति राजानमब्रवीत् ।। १२
धन्यस्त्वं यस्य चैवेत्थं प्रसन्नो भगवान्हरः ।
तदिदानीं रिपूञ्जित्वा भज लक्ष्मीं भुजार्जिताम् ।। १३
सा हि स्वधर्मसंभूता भूभृतामन्वये स्थिरा ।
निजधर्मार्जितानां हि विनाशो नास्ति संपदाम् ।। १४
तथा च चिरभूमिष्ठो निधिः पूर्वजसंभृतः ।
प्रणष्टो भवता प्राप्तः किं चात्रैतां कथां शृणु ।। १५
बभूव देवदासाख्यः पुरे पाटलिपुत्रके ।
पुरा कोऽपि वणिक्पुत्रो महाधनकुलोद्गतः ।। १६
अभवत्तस्य भार्या च नगरात्पौण्ड्रवर्धनात् ।
परिणीता समृद्धस्य कस्यापि वणिजः सुता ।। १७
गते पितरि पञ्चत्वं क्रमेण व्यसनान्वितः ।
स देवदासो द्यूतेन सर्वं धनमहारयत् ।। १८
ततश्च तस्य सा भार्या दुःखदारिद्र्यदुःखिता ।
एत्य नीता निजं गेहं स्वपित्रा पौण्ड्रवर्धनम् ।। १९
शनैः सोऽपि विपत्खिन्नः स्थातुमिच्छन्स्वकर्मणि ।
मूल्यार्थी देवदासस्तं श्वशुरं याचितुं ययौ ।। २०
प्रातश्च संध्यासमये तत्पुरं पौण्ड्रवर्धनम् ।
रजोरूक्षं विवस्त्रं च वीक्ष्यात्मानमचिन्तयत् ।। २१
ईदृशः प्रविशामीह कथं श्वशुरवेश्मनि ।
वरं हि मानिनो मृत्युर्न दैन्यं स्वजनाग्रतः ।। २२
इत्यालोच्यापणे गत्वा स क्वापि विपणेर्बहिः ।
नक्तं संकुचितस्तस्थौ तत्कालं कमलोपमः ।। २३
क्षणाच्च तस्यां विपणौ प्रविशन्तं व्यलोकयत् ।
युवानं वणिजं कंचिदुद्धाटितकवाटकम् ।। २४
क्षणान्तरे च तत्रैव निःशब्दपदमागताम् ।
द्रुतमन्तः प्रविष्टां च स्त्रियमेकां ददर्श सः ।। २५
ज्वलत्प्रदीपे यावच्च ददौ दृष्टिं तदन्तरे ।
प्रत्यभिज्ञातवांस्तावत्तां निजामेव गेहिनीम् ।। २६
ततः सोऽर्गलितद्वारां भार्यां तामन्यगामिनीम् ।
दृष्ट्वा दुःखाशनिहतो देवदासो व्यचिन्तयत् ।। २७
धनहीनेन देहोऽपि हार्यते स्त्रीषु का कथा ।
निसर्गनियतं वासां विद्युतामिव चापलम् ।। २८
तदियं सा विपत्पुंसां व्यसनार्णवपातिनाम् ।
गतिः सेयं स्वतन्त्रायाः स्त्रियाः पितृगृहस्थितेः ।। २९
इति संचिन्तयंस्तस्या भार्यायाः स बहिः स्थितः ।
रतान्तविस्रम्भजुषः कथालापमिवाशृणोत् ।। ३०
उपेत्य च ददौ द्वारि स कर्णं सापि तत्क्षणम् ।
इत्यब्रवीदुपपतिं पापा तं वणिजं रहः ।। ३१
शृण्विदं कथयाम्यद्य रहस्यं तेऽनुरागिणी ।
मद्भर्तुर्वीरवर्माख्यः पुराभूत्प्रपितामहः ।। ३२
स्वगृहस्याङ्गणे तेन चत्वारः स्वर्णपूरिताः ।
कुम्भाश्चतुर्षु कोणेषु निगूढाः स्थापिता भुवि ।। ३३
तदेकस्याः स्वभार्यायाः स चक्रे विदितं तदा ।
तद्भार्या चान्तकाले सा स्नुषायै तदवोचत ।। ३४
सापि स्नुषायै मच्छ्वश्र्वे मच्छ्वश्रूरब्रवीच्च मे ।
इत्ययं मत्पतिकुले श्वश्रूक्रममुखागमः ।। ३५
स्वभर्तुस्तच्च न मया दरिद्रस्यापि वर्णितम् ।
स हि द्यूतरतो द्वेष्यस्त्वं तु मे परमः प्रियः ।। ३६
तत्तत्र गत्वा मद्भर्तुः सकाशात्तद्गृहं धनैः ।
क्रीत्वा तत्प्राप्य च स्वर्णमिहैत्य भज मां सुखम् ।। ३७
एवमुक्तः कुटिलया स तयोपपतिर्वणिक् ।
तुतोष तस्यै मन्वानो निधिं लब्धमयत्नतः ।। ३८
देवदासोऽपि कुवधूवाक्शल्यैस्तैर्बहिर्गतः ।
कीलितामिव तत्कालं धनाशा हृदये दधौ ।। ३९
जगाम च ततः सद्यः पुरं पाटलिपुत्रकम् ।
प्राप्य च स्वगृहं लब्ध्वा निधानं स्वीचकार तत् ।। ४०
अथाजगाम स वणिक्तद्भार्याच्छन्नकामुकः ।
तमेव देशं वाणिज्यव्याजेन निधिलोलुपः ।। ४१
देवदाससकाशाच्च क्रीणाति स्म स तद्गृहम् ।
देवदासोऽपि मूल्येन भूयसा तस्य तद्ददौ ।। ४२
ततो गृहस्थितिं कृत्वा युक्त्या श्वशुरवेश्मनः ।
स देवदासः शीघ्रं तामानिनाय स्वगेहिनीम् ।। ४३
एवं कृते च तद्भार्याकामुकः स वणिक्शठः ।
अलब्धनिधिरभ्येत्य देवदासमुवाच तम् ।। ४४
एतद्भवद्गृहं जीर्णं मह्यं न खलु रोचते ।
तद्देहि मे निजं मूल्यं स्वगृहं स्वीकुरुष्व च ।। ४५
इति जल्पंश्च स वणिक् देवदासश्च विब्रुवन् ।
उभौ विवादसक्तौ तौ राजाग्रमुपजग्मतुः ।। ४६
तत्र स्वभार्यावृत्तान्तं वक्षःस्थविषदुःसहम् ।
देवदासो नरेन्द्राग्रे कृत्स्नमुद्गिरति स्म तम् ।। ४७
ततश्चानाय्य तद्भार्यां तत्त्वं चान्विष्य भूपतिः ।
अदण्डयत्तं सर्वस्वं वणिजं पारदारिकम् ।। ४८
देवदासोऽपि कुवधूं कृत्वा तां छिन्ननासिकाम् ।
अन्यां च परिणीयात्र तस्थौ लब्धनिधिः सुखम् ।। ४९
इत्थं धर्मार्जिता लक्ष्मीरा संतत्यनपायिनी ।
इतरा तु जलापाततुषारकणनश्वरी ।। ५०
अतो यतेत धर्मेण धनमर्जयितुं पुमान् ।
राजा तु सुतरां येन मूलं राज्यतरोर्धनम् ।। ५१
तस्माद्यथावत्संमान्य सिद्धये मन्त्रिमण्डलम् ।
कुरु दिग्विजयं देव लब्धुं धर्मोत्तरां श्रियम् ।। ५२
श्वशुरद्वयबन्धूनां प्रसक्तानुप्रसक्तितः ।
विकुर्वते न बहवो राजानस्ते मिलन्ति च ।। ५३
यस्त्वेष ब्रह्मदत्ताख्यो वाराणस्यां महीपतिः ।
नित्यं वैरी स ते तस्माद्विजयस्व तमग्रतः ।। ५४
तस्मिञ्जिते जय प्राचीप्रक्रमेणाखिला दिशः ।
उच्चैः कुरुष्व वै पाण्डोर्यशश्च कुमुदोज्ज्वलम् ।। ५५
इत्युक्तो मन्त्रिमुख्येन तथेति विजयोद्यतः ।
वत्सराजः प्रकृतिषु प्रयाणारम्भमादिशत् ।। ५६
ददौ वैदेहदेशे च राज्यं गोपालकाय सः ।
सत्कारहेतोर्नृपतिः श्वशुर्यायानुगच्छते ।। ५७
किं च पद्मावतीभ्रात्रे प्रायच्छत्सिंहवर्मणे ।
संमान्य चेदिविषयं सैन्यैः सममुपेयुषे ।। ५८
आनाययच्च स विभुर्भिल्लराजं पुलिन्दकम् ।
मित्त्रं बलैर्व्याप्तदिशं प्रावृट्कालमिवाम्बुदैः ।। ५९
अभूच्च यात्रासंरम्भो राष्ट्रे तस्य महाप्रभोः ।
आकुलत्वं तु शत्रूणां हृदि चित्रमजायत ।। ६०
यौगन्धरायणश्चाग्रे चारान्वाराणसीं प्रति ।
प्राहिणोद्ब्रह्मदत्तस्य राज्ञो ज्ञातुं विचेष्टितम् ।। ६१
ततः शुभेऽहनि प्रीतो निमित्तैर्जयशंसिभिः ।
ब्रह्मदत्तं प्रति प्राच्यां पूर्वं वत्सेश्वरो ययौ ।। ६२
आरूढः प्रोच्छ्रितच्छत्त्रं प्रोतुङ्गं जयकुञ्जरम् ।
गिरिं प्रफुल्लैकतरुं मृगेन्द्र इव दुर्मदः ।। ६३
प्राप्तया सिद्धिदूत्येव शरदा दत्तसंमदः ।
दर्शयन्त्यातिसुगमं मार्गं स्वल्पाम्बुनिम्नगम् ।। ६४
पूरयन्बहुनादाभिर्वाहिनीभिर्भुवस्तलम् ।
कुर्वन्नकाण्डनिर्मेघवर्षासमयसंभ्रमम् ।। ६५
तदा च सैन्यनिर्घोषप्रतिशब्दाकुलीकृताः ।
परस्परमिवाचख्युस्तदागमभयं दिशः ।। ६६
चेलुश्च हेमसंनाहसंभृतार्कप्रभा हयाः ।
तस्य नीराजनप्रीतपावकानुगता इव ।। ६७
विरेजुर्वारणाश्चास्य सितश्रवणचामराः ।
विगलद्गण्डसिन्दूरशोणदानजलाः पथि ।। ६८
शरत्पाण्डुपयोदाङ्काः सधातुरसनिर्झराः ।
यात्रानुप्रेषिता भीतैरात्मजा इव भूधरैः ।। ६९
नैवैष राजा सहते परेषां प्रसृतं महः ।
इतीव तच्चमूरेणुरर्कतेजस्तिरोदधे ।। ७०
पदात्पदं च द्वे देव्यौ मार्गे तमनुजग्मतुः ।
नृपं नयगुणाकृष्टे इव कीर्तिजयश्रियौ ।। ७१
नमताथ पलायध्वमित्यूचे विद्विषामिव ।
पवनाक्षिप्तविक्षिप्तैस्तस्य सेनाध्वजाशुंकैः ।। ७२
एवं ययौ स दिग्भागान्पश्यन्फुल्लसिताम्बुजान् ।
महीमर्दभयोद्भ्रान्तशेषोत्क्षिप्तफणानिव ।। ७३
अत्रान्तरे च ते चारा धृतकापालिकव्रताः ।
यौगन्धरायणादिष्टाः प्रापुर्वाराणसीं पुरीम् ।। ७४
तेषां च कुहकाभिज्ञो ज्ञानित्वमुपदर्शयन् ।
शिश्रिये गुरुतामेकः शेषास्तच्छिष्यतां ययुः ।। ७५
आचार्योऽयं त्रिकालज्ञ इति व्याजगुरुं च तम् ।
शिष्यास्ते ख्यापयामासुर्भिक्षाशिनमितस्ततः ।। ७६
यदुवाचाग्निदाहादि स ज्ञानी भावि पृच्छताम् ।
तच्छिष्यास्तत्तथा गुप्तं चक्रुस्तेन स पप्रथे ।। ७७
रञ्जितं क्षुद्रसिद्ध्या च तत्रत्यं नृपवल्लभम् ।
स्वीचक्रे स कमप्येकं राजपुत्रमुपासकम् ।। ७८
तन्मुखेनैव राज्ञश्च ब्रह्मदत्तस्य पृच्छतः ।
सोऽभूत्तत्र रहस्यज्ञः प्राप्ते वत्सेशविग्रहे ।। ७९
अथास्य ब्रह्मदत्तस्य मन्त्री योगकरण्डकः ।
चकार वत्सराजस्य व्याजानागच्छतः पथि ।। ८०
अदूषयत्प्रतिपथं विषादिद्रव्ययुक्तिभिः ।
वृक्षान्कुसुमवल्लीश्च तोयानि च तृणानि च ।। ८१
विदधे विषकन्याश्च सैन्ये पण्यविलासिनीः ।
प्राहिणोत्पुरुषांश्चैव निशासु च्छद्मघातिनः ।। ८२
तच् विज्ञाय स ज्ञानिलिङ्गी चारो न्यवेदयन् ।
यौगन्धरायणायाशु स्वसहायमुखैस्तदा ।। ८३
यौगन्धरायणोऽप्येतद्बुद्ध्वा प्रतिपदं पथि ।
दूषितं तृणतोयादि प्रतियोगैरशोधयत् ।। ८४
अपूर्वस्त्रीसमायोगं कटके निषिषेध च ।
अवधीद्वधकांस्तांश्च लब्ध्वा सह रुमण्वता ।। ५
तद्बुद्ध्वा ध्वस्तमायः सन्सैन्यपूरितदिङ्मुखम् ।
वत्सेश्वरं ब्रह्मदत्तो मेने दुर्जयमेव तम् ।। ८६
संमन्त्र्य दत्त्वा दूतं च शिरोविरचिताञ्जलिः ।
ततः स निकटीभूतं वत्सेशं स्वयमभ्यगात् ।। ८७
वत्सराजोऽपि तं प्राप्तं प्रदत्तोपायनं नृपम् ।
प्रीत्या संमानयामास शूरा हि प्रणतिप्रियाः ।। ८८
इत्थं तस्मिञ्जिते प्राचीं शमयन्नमयन्मृदून् ।
उन्मूलयंश्च कठिनान्नृपान्वायुरिव द्रुमान् ।। ८९
प्राप च प्रबलः प्राच्यं चलद्वीचिविघूर्णितम् ।
वङ्गावजयवित्रासवेपमानमिवाम्बुधिम् ।। ९०
तस्य वेलातटान्ते च जयस्तम्भं चकार सः ।
पातालाभययाञ्चार्थं नागराजमिवोद्गतम् ।। ९१
अवनम्य करे दत्ते कलिङ्गैरग्रगैस्ततः ।
आरुरोह महेन्द्राद्रिं यशस्तस्य यशस्विनः ।। ९२
महेन्द्राभिभवाद्भीतैर्विन्ध्यकूटैरिवागतैः ।
गजैर्जित्वाटवीं राज्ञां स ययौ दक्षिणां दिशम् ।। ९३
तत्र चक्रे स निःसारपाण्डुरानपगर्जितान् ।
पर्वताश्रयिणः शत्रूञ्शरत्काल इवाम्बुदान् ।। ९४
उल्लङ्घ्यमाना कावेरी तेन संमर्दकारिणा ।
चोलकेश्वरकीर्तिश्च कालुष्यं ययतुः समम् ।। ९५
न परं मुरलानां स सेहे मूर्धसु नोन्नतिम् ।
करैराहन्यमानेषु यावत्कान्ताकुचेष्वपि ।। १६
यत्तस्य सप्तधा भिन्नं पपुर्गोदावरीपयः ।
मातङ्गास्तन्मदव्याजात्सप्तधैवामुचन्निव ।। ९७
अथोत्तीर्य स वत्सेशो रेवामुज्जयिनीमगात् ।
प्रविवेश च तां चण्डमहासेनपुरस्कृतः ।। ९८
स माल्यश्लथधम्मिल्लशोभाद्वैगुण्यशालिनाम् ।
मालवस्त्रीकटाक्षाणां ययौ चात्रैव लक्ष्यताम् ।। ९९
तस्थौ च निर्वृतस्तत्र तथा श्वशुरसत्कृतः ।
विसस्मार यथाभीष्टानपि भोगान्स्वदेशजान् ।। १००
आसीद्वासवदत्ता च पितुः पार्श्वविवर्तिनी ।
स्मरन्ती बालभावस्य सौख्येऽपि विमना इव ।। १०१
राजा चण्डमहासेनस्तया तनयया यथा ।
तथैव पद्मावत्यापि नन्दति स्म समागतः ।। १०२
विश्रम्य च निशाः काश्चित्प्रीतो वत्सेश्वरस्ततः ।
अन्वितः श्वशुरैः सैन्यैः प्रययौ पश्चिमां दिशम् ।। १०३
तस्य खड्गलता नूनं प्रतापानलधूमिका ।
यच्चक्रे लाटनारीणामुदश्रुकलुषा दृशः ।। १०४
असौ मथितुमम्भोधिं मा मामुन्मूलयिष्यति ।
इतीव तद्गजाधूतवनोऽवेपत मन्दरः ।। १०५
सत्यं स कोऽपि तेजस्वी भास्वदादिविलक्षणः ।
प्रतीच्यामुदयं प्राप प्रकृष्टमपि यज्जयी ।। १०६
ततः कुबेरतिलकामलकासङ्गशंसिनीम् ।
कैलासहाससुभगामाशामभिससार सः ।। १०७
सिन्धुराजं वशीकृत्य हरिसैन्यैरनुद्रुतः ।
क्षपयामास च म्लेच्छान्राघवो राक्षसानिव ।। १०८
तुरुष्कतुरगव्राताः क्षुब्धस्याब्धेरिवोर्मयः ।
गद्गजेन्द्रघटा वेलावनेषु दलशो ययुः ।। १०९
गृहीतारिकरः श्रीमान्पापस्य पुरुषोत्तमः ।
राहोरिव स चिच्छेद पारसीकपतेः शिरः ।। ११०
हूणहानिकृतस्तस्य मुखरीकृतदिङ्मुखा ।
कीर्तिर्द्वितीया गङ्गेव विचचार हिमाचले ।। १११
नदन्तीष्वस्य सेनासु भयस्तिमितविद्विषः ।
प्रतीपः शुश्रुवे नादः शैलरन्ध्रेषु केवलम् ।। ११२
अपच्छत्त्रेण शिरसा कामरूपेश्वरोऽपि तम् ।
नमन्विच्छायतां भेजे यत्तदा न तदद्भुतम् ।। ११३
तद्दत्तैरन्वितो नागैः सम्राड् विववृतेऽथ सः ।
अद्रिभिर्जङ्गमैः शैलैः करीकृत्यार्पितैरिव ।। ११४
एवं विजित्य वत्सेशो वसुधां सपरिच्छदः ।
पद्मावतीपितुः प्राप पुरं मगधभूभृतः ।। ११५
मगधेशश्च देवीभ्यां सहितेऽस्मिन्नुपस्थिते ।
सोत्सवोऽभून्निशाज्योत्स्नावति चन्द्र इव स्मरः ।। ११६
अविज्ञातस्थितामादौ पुनश्च व्यक्तिमागताम् ।
मेने वासवदत्तां च सोऽधिकप्रश्रयास्पदम् ।। ११७
ततो मगधभूभृता सनगरेण तेनार्चितः समग्रजनमानसरनुगतोऽनुरागागतैः ।
निगीर्णवसुधातलो बलभरेण लावाणकं जगाम विषयं निजं स किल वत्सराजो जयी ।। ११८
इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे लावाणकलम्बके पञ्चमस्तरङ्गः ।